SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ तफेनपिण्डनिकरम्, वासुकिनिर्मोकमिव मन्थनश्रमोज्झितम्, हासमिव श्रियः कुलगृहवियोगगलितम्, मन्दरमथनविखण्डिताशेषशशिकलाखण्डसंचयमिव संहृतम्, प्रतिमागततारागणमिव जलनिधिजलादुद्धृतम्, दिग्गजकरसीकरासारमिव पुँजीभूतम्, नक्षत्रमालाभरणमिव मदनद्विपस्य, शेरच्छकलैरिव कल्पितम्, कादम्बरीरूपवशीकृतमुनिजनहृदयैरिव निर्मितम्, गुरुमिव सर्वरनानाम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, प्रतिपक्षमिव चन्द्रमसः, जीवितमिव ज्योत्स्निकायाः, लक्ष्मीहृदयमिव नलिनीदलगलज्जलबिन्दुविलासतरलम्, उत्कण्ठितमिव मृणालवलयधवलकरम्, शरच्छशिनमिव घनमुक्तांशुनिवहधवलितदिङ्मुखम्, मन्दाकिनीमिव सुरयुवतिकुचपरिमलवाहिनम्, प्रभावर्षिणमतितारं हारम् । दृष्ट्वा चायमस्य चन्द्रापीड - *********** डिण्डीरपिण्डस्तस्य निकरमिव । मन्थनेति । मन्थनस्य श्रमः खेदस्तेनोज्झितं त्यक्तं वासुकिर्नागराजस्तस्य निर्मोकमिव कञ्चुकमिव । कुलेति । कुलगृहं पितृगृहं तस्य यो वियोगो भर्तृगृह आगमनं तस्मिन्नवसरे गलितं सस्तं हासमिव । दृश्यते हि पितृगृहाद्भर्तृगृहे व्रजन्त्याः पितृवात्सल्यवशाद्धासो गलितो भवति किं पुनरुद्धग एव भवतीति । मन्दरमथनेन विखण्डिता या अशेषाः समग्राः शशिकलास्तासां संहृतं खण्डसंचयमिव । जलनिधिजलादुद्धृतं प्रतिमागतं प्रतिरूपागतं तारागणमिव नक्षत्रसमूहमिव पुजीभूतम् । दिगिति । दिग्गजादिग्दन्तिनस्तेषां कराः शुण्डादण्डास्तेषां सीकराणां सारमिव रहस्यमिव । मदनेति । मदनद्विपस्य कंदर्पहस्तिनो नक्षत्रमालासंज्ञितमाभरणमिव विभूषणमिव । शरदिति । शरद्धनात्ययस्तस्य शकलैरिव खण्डैरिव कल्पितं निर्मितं हृदयनिर्मलत्वात् । तदभिप्रायेणाह - कादमिति । कादम्बरी राजसुता तस्या रूपं सौन्दर्यं तेन वशीकृतानि यानि मुनिजनहृदयानि तैर्निर्मितमिव । सर्वरत्नानां समग्रमणीनां गुरुमिव श्रेष्ठमिव । सर्वसागराणां समग्रसमुद्राणामेकत्र घटितं यशोराशिमिव । चन्द्रमसः शशिनः प्रतिपक्षमिव । ज्योत्स्निकायाश्चन्द्रिकाया जीवितमिव । नलिनीति । नलिनी पद्मिनी तस्या दलानि पत्राणि तेभ्यो गलन्तः क्षरन्तो ये जलबिन्दवस्तेषां विलासस्तद्वत्तरलं चञ्चलम्, उत्कण्ठितं लक्ष्मीहृदयमिव । मृणालेति । मृणालानि बिसानि तेषां वलयं तद्वद्धवलाः करा यस्य स तम् । घनमुक्तो योऽशुनिवहः किरणसमूहस्तेन धवलितं दिङ्मुखं येनैवंभूतं शरच्छशिनमिव । सुरयुवतिकुचानां यः परिमल आमोदस्तद्वाहिनं मन्दाकिनीमिवैतादृशं प्रभावर्षिणमतितारमतिमनोहरं हारम् । दृष्ट्वा चेति । दृष्ट्वा विलोक्य चन्द्रापीडः । चन्द्रेति । चन्द्रातपद्युतिवद् द्युतिर्यस्यै - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'हासमिव श्रियः कुलगृह०' इत्यपि पाठः । लक्ष्मीहासत्वेनैवोत्प्रेक्षणेऽतिशयात् । 2 सप्तविंशतिमौक्तिकैः कृता माला । 3 लक्ष्मीहृदयमिवेत्यादयश्चतसः श्लेषोत्थापिता उपमाः, अत एवार्थद्वयम् । अतः सर्वासामप्युपमानामनुक्तोऽर्थो निम्ने सूच्यते । लक्ष्मीहृद० - नलिनीदलगलज्जलबिन्दुविलास इव विलासः (दीप्तिः) यस्य ईदृशः तरलः (मध्यमणिः) यस्य तम् (हारम्) । पक्षे टीकायां स्पष्टम् । उत्कण्ठितमिव मृणाल० - उत्सुकम् (विरहिणम्) इव मृणालवलयेन धवलौ करौ (संतापशान्त्यर्थम्) यस्य तम् । पक्षे टीकायाम् । शशिनमिव० - घनो निबिडो यो मुक्तानां (मौक्तिकानाम्) अंशुनिवहस्तेन धवलितदिङ्मुखम् (हारम्) । पक्षे टीकायाम् । 'मन्दाकिनीप्रवाहमिव' इति पाठः । धारणात्परिमलवाहिनम् (हारम्) । अवगाहनाच्च मन्दाकिनीप्रवाहम् । पाठा० - १ हासमिव श्रियः. २ प्रतिमातारा. ३ दिग्गजशीकरासरपुञ्जीभूतम्. ४ पुजीकृतम्. ५ शरन्मेषशकलैः. ६ ज्योत्स्नायाः. ७ मन्दाकिनीप्रवाहम्. (कादम्बरीप्रहितहारदर्शनम् ।। पूर्वभागः । (415)
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy