________________
ऽसि । हा तपः, निराश्रयमसि । हा सरस्वति, विधवासि । हा सैत्य, अनाथमसि हा सुरलोक, शून्योऽसि । सखे, प्रतिपालय माम् । अहमपि भवन्तमनुयास्यामि । न शक्नोमि भवन्तं विना क्षणमप्यवस्थातुमेकाकी । कथमपरिचित इवादृष्टपूर्व इवाद्य मामेकपदे उत्सृज्य प्रयासि । कुतस्तवेयमतिनिष्ठुरता । कथय त्वदृते क्व गच्छामि । कं याचे | कंशरणमुपैमि । अन्धोऽस्मि संवृत्तः । शून्या मे दिशो जाताः निरर्थकं जीवितम्, अप्रयोजनं तपः, निःसुखाश्च लोकाः । केन सह परिभ्रमामि । कैमालपामि । केन वार्तां करोमि । उत्तिष्ठ त्वम् । देहि मे प्रतिवचनम् । क्व तन्ममोपरि सुहृत्प्रेम । क्व सा स्मितपूर्वाभिभाषिता च' इत्येतानि चान्यानि य विलपन्तं कपिञ्जलमश्रौषम् ।
1
तच्च श्रुत्वा पतितैरिव प्राणैर्दूरादेव मुक्तैकताराक्रन्दा, संरस्तीरलतासक्तित्रुट्यमानांशुकोत्तरीया, यथाशक्ति त्वरितैरज्ञातसमविषमभूमिभागविन्यस्तैः पादप्रक्षेपैः प्रस्खलन्ती पदे पदे,
**
निर्गतः परिग्रहः स्वीकारो यस्यैवंभूतोऽसि । अस्य कामविह्वलत्वे तव स्वीकारो नास्तीत्यर्थः । यद्वायमेव तव स्थानपरिग्रहस्तस्य कार्मव्याकुलत्वे तव स्थानं नास्तीत्यर्थः । हा तपः, त्वं निराश्रयं निर्गतस्थानमसि । हा सरस्वति हा भारति, त्वं विधवा मृतभर्तृकासि | हा तथ्य, त्वमनाथं स्वामिरहितमसि । हा सुरलोक हा सुरालय, त्वं शून्य उद्वसोऽसि । तेन विनेत्यर्थः । हे सखे पुण्डरीक, मां कपिञ्जलं प्रतिपालय प्रतिपालनां कुरु । अहमिति । अहमपि भवन्तं त्वामनुयास्याम्यनुगमिष्यामि । न शक्नोमि न समर्थो भवामि भवन्तं त्वां विनैकाक्यसहायः क्षणमपि क्षणमात्रमप्यवस्थातुम् । अपरिचित इवासंजातसंस्तव इव, अदृष्टपूर्व इवानवलोकितपूर्व इव, अद्य मां कपिञ्जलमेकपदे सहसोत्सृज्य त्यक्त्वा कथं प्रयासि गच्छसि । तवेयमतिनिष्ठुरतातिकठिनता कुतः । त्वं कथय प्रतिपादय । त्वदृते त्वद्व्यतिरेकेण क्व गच्छामि क्व व्रजामि । कं याचे कं प्रार्थये । कं शरणं त्राणमुपैमि गच्छामि । अहमन्धः संवृत्तोऽस्मि चक्षुर्विकलो जातोऽस्मि । मे मम दिशः ककुभः शून्या उद्धसिता जाताः । त्वां विनेति शेषः । निरिति । निरर्थकं निष्फलं जीवितं प्राणधारणम् । तपोऽप्रयोजनं कृत्यरहितम् । लोका इति । लोका भुवनानि निःसुखाः सातवर्जिताः । केनेति । केन सह परिभ्रमामि परिभ्रमणं करोमि । कमिति । कं पुमांसमनिर्दिष्टनामकमालपाम्यालापं करोमि । केनेति । केन सह वार्तां प्रवृत्तिं करोमि । त्वमिति । त्वं भवानुत्तिष्ठोत्थानं कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि । हे सुहृत् हे मित्र, ममोपरि तत्पूर्वसंबन्धि प्रेम स्नेहः क्व । स्मितपूर्वा हास्यपूर्विकाभिभाषितार्भिवादिता सा क्व । अन्वयस्तु प्रागेवोक्तः ।
1
-
तच्चेति । तत्पूर्वोक्तं विलपितं श्रुत्वाकर्ण्य तं प्रदेशं गत्वाहं पापकारिणी मन्दभाग्या तं पुण्डरीकं महाभागमद्राक्षमपश्यमिति दूरेणान्वयः। अथ तां विशेषयन्नाह - दूरेति । दूरादेव दविष्ठादेव मुक्त एकतारोऽत्युच्च आक्रन्दः पूत्कारो यया सा । सर इति । सरसोऽच्छोदनाम्नो यास्तीरलताः प्रतीरवल्लयस्तासु सक्तिः संबन्धस्तया त्रुट्यमानमंशुकेषूत्तरीयं निवसनं यस्याः सा तथा । पुनः किं कुर्वन्ती । पदे पदे पादप्रक्षेपैरङिघ्रन्यासैः करणभूतैः प्रस्खलन्ती स्खलनां प्राप्नुवन्ती । कैरिव । पतितैः प्राणैरिव । कीदृशैः । शक्तिमनतिक्रम्य यथाशक्ति । तेन त्वरितैस्त्वरायुक्तैः । अज्ञेति । अज्ञातोऽविदितो यः समविषमभूमिभागो भूप्रदेशस्तत्र विन्यस्तैः स्थापितैः ।
टिप्पo - 1 तस्य प्राणशून्यत्वे इति व्याख्यातव्यम् । 2 स्मितपूर्वम् अभिभाषते तच्छीलः स्मितपूर्वाभिभाषी तद्भावः स्मितपूर्वाभिभाषिता, इति व्याख्यानमुचितम् । 3 त्रुट्यमानम् अंशुकं परिधानवस्त्रम्, उत्तरीयम् उपर्यावरणवस्त्रं च यस्याः सा ।
पाठा० - १ सत्यत्वम्. २ भवता. ३ कमालपामि । उत्तिष्ठ देहि . ४ मे विलपतः ५ पूर्वाभिभाषिता. ६ तं च ७ सरस्तीरलतानुषज्यमान. ८ विषमभागः
348
कादम्बरी |
कथायाम्