SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ केनाप्युत्क्षिप्य नीयमानेव तं प्रदेशं गत्वा सरस्तीरसमीपवर्तिनि शिशिरशीकरांसारसाविणि शशिमणिशिलातले विरचितं कुमुदर्कुवलयकमलविविधवनकुसुमसुकुमारमालामयमिव मृणालमयम्, कुसुमशरसायकमयमिव शयनमधिशयानम्, अतिनिष्पन्दतया मत्पदशब्दमिवाकर्णयन्तम्, अन्तः क्रोधशमितमदनसंतापतया तत्क्षणलब्धसुखप्रसुप्तमिव, निक्षोभप्रायश्चित्तप्राणायामावस्थितमिव, अतिप्रस्फुरितप्रभेण त्वत्कृते ममेयमवस्थेति कथयन्तमिवाधरेण, इन्दुद्वेषपरिवर्तितदेहतया पृष्ठभागनिपतितैर्मदनदहनविह्वलहृदयन्यस्तहस्तनखमयूखच्छलेन छिद्रितमिव शशिकिरणैः, उच्छुष्कपाण्डुरया स्वविनाशोत्पातोत्पन्नया मदनचन्द्रकलयेव - *********** तानेव विशेषयन्नाह - केनेति । केनाप्यनिर्दिष्टनाम्नोत्क्षिप्योत्पाट्य नीयमानेव प्राप्यमाणेव सरसोऽच्छोदनाम्नस्तीरं प्रतीरं तस्य समीपवर्तिनि निकटस्थायिनि । शिशिरेति । शिशिराः शीतला ये शीकरास्तेषामासारो वेगवान्वृष्टिस्तस्य साविणी प्रक्षारिणी । एवंविधे शशिमणिशिलातले चन्द्रकान्तप्रस्तरे विरचितं निर्मितम् । कुमुदेति । कुमुदानि श्वेतकमलानि, कुवलयान्युत्पलानि, कमलानि नलिनानि, विविधान्यनेकप्रकाराणिं वनकुसुमान्यरण्यपुष्पाणि तेषां या सुकुमारा माला सक्तन्मयमिव मृणालमयं बिसनिष्पन्नम् । उद्दीपकत्वादाह - कुसुमेति । कुसुमशरः कंदर्पस्तस्य सायका बाणा स्तन्मयमिव । एवंविधं शयनं शयनीयमधिशयानं शयनं कुर्वाणम् । मम पदे मत्पदे तयोः शब्दमा - कर्णयन्तमिव श्रृण्वन्तमिव । यतः स मद्विषय उत्कण्ठितस्तत्र हेतुमाह - अतीति । अतिनिष्पन्दतयातिनिश्चलतया । इयं नागि ममोपर्यन्तःक्रोधस्तेन शमितो मदनसंतापो यस्य तस्य भावस्तत्ता तया तत्क्षणं लब्धं यत्सुखं तेन प्रसुप्तमिव । ममोपरि क्रोधकरणात् · मदनेन संतापो दूरीकृत इति भावः । मुनेर्ममै क्षोभस्त्वनुचित इत्यतस्तव्प्रायश्चित्तरूपो यः प्राणायामः प्राणयमस्तत्रावस्थितमिव कृतावस्थानमिव । स चातिनिःस्पन्दतया क्रियत इति भावः । अतीति । अतिप्रस्फुरिता दीप्ता प्रभा कान्तिर्यस्यैवंविधेनाधरेण रदनच्छदेन त्वत्कृते त्वन्निमित्तं ममेयं प्रत्यक्षोपलभ्यमानावस्था दशा जाता इति कथयन्तमिव प्रतिपादयन्तमिव । इन्द्विति । इन्दुद्वेषेण चन्द्रद्विषा परिवर्तितः प्रत्यङ्मुखीकृतो यो देहस्तस्य भावस्तत्तां तया पृष्ठभागे पश्चाद्भागे निपतितैः शशिकिरणैश्चन्द्रालोकैः पृष्ठं भित्त्वा हृदयभागे गमनाभावेऽपि मदनलक्षणो यो दहनो वह्निस्तेन विह्वलं यद्धृदयं स्वान्तं तत्र न्यस्तः स्थापितो यो हस्तः पाणिस्तस्य नखमयूखाः पुनर्भवकिरणास्तेषां छलेन मिषेण छिद्रितमिव संजातविवरमिव । अनेन देहस्य स्वच्छत्वं नखकिरणानामुदितारुणचन्द्रकिरणसादृश्यं व्यज्यते । मुनिकुमारं विशेषयन्नाह - उच्छुष्केति । चन्दनलेखिकया मलयजलेखया रचिता निर्मिता ललाटिका यस्य स तम् । कीदृशया । उच्छुष्का चासौ पाण्डुरा चोच्छुष्कपाण्डुरा तया । अतएव शुष्कत्ववक्रत्वसाम्यादाह - मदनेति । मदनो मन्मथः स एव चन्द्रस्तस्य कलयेव । कीदृश्या । स्वस्य यो - टिप्पo - 1 मनसि यदा क्रोधोदयस्तदा मदनकृत उत्तापः शिथिलीभूतः, कामो हि मनोभूः । अत एव मनसि स्वस्थ एव तस्योदयः । 2 'मनःक्षोभ' इत्युचितः पाठः । मनःक्षोभस्य मदनवेगोत्पन्नचित्तोद्वेलनस्य (तठप्रयुक्तपापस्येत्याशयः) प्रायश्चित्तरूपो यः प्राणायाम इति तदर्थः । 3 वक्षसि स्थापितस्य करस्य नखकिरणास्तथा प्रसरन्ति यथा चन्द्रं प्रति पृष्ठं कृत्वा शयानस्यास्य पृष्ठं भित्त्वा चन्द्रकिरणा एव वक्षस्थलाद्बहिर्निःसृताः स्युरित्युव्प्रेक्षाशयः । 4 चन्द्रकलाकारा चन्दनरेखा तथा प्रतीयते यथा स्वस्य (पुण्डरीकस्य ) विनाशकारकोत्पाताय मदनसम्बन्धिनी चन्द्रकलैव उदिता भवेत् । असमये ग्रहादीनामुदय उत्पाताय भवतीत्याशयः । पदानामर्थबोधष्टीकातो निर्वाह्यः । पाटा० - १ शीकरसाविणि. २ कुवलयविविध. ३ सुकुमारम्; मालामयम्. ४ अन्तः कृतान्तोपशमित; अन्तःकोपशमित; अन्तः क्षोभशमित. ५ क्षण. ६ मनः क्षोभ. ७ पाण्डुतया. ८ स्वविनाशोत्पन्नया; स्वदेहविनाशोत्पन्नया. उपरतः पुण्डरीकः पूर्वभागः । 349
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy