________________
सुभाषितं हारि विशत्यधो गलान दुर्जनस्यार्करिपोरिवामृतम् ।
तदेव धत्ते हृदयेन सज्जनो हरिर्महारतमिवातिनिर्मलम् ॥७॥ स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् । रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ॥८॥ हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थेरूपपादिताः कथाः । निरन्तरश्लेषघनाः सुजातयो महासजश्चम्पककुड्मलैरिव ॥९॥ बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणीः सताम् । अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयंभुवः ॥१०॥
*********** - सुभाषितमिति । सुभाषितं सुकाव्यादि हारि मनोहार्यपि दुर्जनस्य खलस्य गलात् कण्ठानिगरणादधो न विशति न गच्छति । हृदयशून्यत्वादिति भावः । कस्येव । अर्करिपोः पीयमानममृतं यथा न हृदयं विशति पूर्वोक्तहेतोरेव । तदेव सुभाषितं सज्जनो गुणग्राहको हृदयेन स्वान्तेन धत्ते धारयति । स हृदयगतत्वान कदाचिद्विस्मरतीति भावः । यथा हरिः विष्णुारायणो हृदयेन वक्षःस्थलेनातिनिर्मल स्वच्छ महारत्नं कौस्तुभं दधाति ॥७॥
स्फुरदिति । अभिनवा कथा गद्यपद्यमयी रसेन श्रृङ्गारादिना कृत्वा जनस्य सहृदयजनस्य हृद्यन्तःकरणे कौतुकं कुतूहलमधिकं यस्मिस्तत्कौतुकाधिकाम् । कौतुकपूर्णमित्यर्थः । तादृशं रागं प्रीतिं करोति जनयति । किंभूता । स्फुरदिति । स्फुरच्चञ्चत्कलो मधुरो य आलापः शब्दरचना तस्य विलासो माधुर्यं तेन कोमला मृद्वी । अन्यत्रापि कथायामालापादिकं भवत्येवेति ध्वनिः । पुनः किंविशिष्टा । शय्यामभ्युपागता प्राप्ता । ‘शय्या तल्पे शब्दगुम्फे' इत्यनेकार्थः । यथाभिनवा नवोढा वधूः रसेन प्रेम्णा स्वयमेव अर्थाद्भर्तृजनस्य शय्या पल्यङ्कमागता कौतुकमनुरागं च करोति । किंभूता वधूः । स्फुरन् प्रसर्पन्यः कलो मन्द्र आलापविलासो वचनव्यापारस्तेन कोमला सुन्दरा । 'कोमलं मृदु सुन्दरे' इति विश्वः ॥८॥
हरन्तीति । नवैः स्वबुद्ध्यैव रचितैः पदार्थैः पदानां शब्दानामर्थैरभिधेयैः उपपादिता निर्मिता रचिताः कथा गद्यपद्यादिप्रवन्धः के सहृदयं जनं न हरन्ति न वशीकुर्वन्ति । सर्वस्यापि मनोहारिण्यो भवन्तीति भावः । कीदृशैः पदार्थैः । उज्ज्वलदीपकोपमैरुज्ज्वलः प्रकटो दीपकोऽलंकारविशेष उपमा च येषु ते तथा तैः । 'श्रृङ्गार शुचिरुज्ज्वलः' इत्यमरः । कीदृश्यः कथाः । निरन्तरेति । निरन्तरमव्यवधानां प्रतिपदं वा । उपमानोपमेययोरर्थसाम्यरूपः शब्दसाम्यरूपो वा यः श्लेषस्तेन घना बहुलतराः । पुनः किंभूताः । सुजातय इति । सुष्टु जातिश्छन्दोविशेषो यासु । यद्वा । सुष्टु जातिःस्वरूपं यासां ता इव । यथा नवैरम्लानैश्चम्पककुड्मलैहेमपुष्पकमुकुलैरुपपादिता महासजो महामाला मनो हरन्ति । अत्र यद्यपि कुड्मलैर्मालानिर्माणे नातीव रम्यत्वं तथाप्यग्रिमक्षणे विकासोन्मुखकुड्मलैर्मालानिर्माणे त्वौचित्यमेव । कीदृशैश्चम्पककुड्मलैः । उज्जवलो यो दीपकः प्रदीपस्तदुपमस्तत्तुल्यैः । किंभूता सजः । निरन्तरं यः श्लेषो ग्रथना तेन घना निबिडाः पुनः किंभूताः । सुष्टु जातयो जातिपुष्पाणि यासु ताः ॥९॥
कीर्त्यनुवृत्त्यर्थं स्ववंश्यानाह-बभूवेति । कुबेरनामा द्विजो ब्राहाणो बभूवासीत् । कथम्भूतः । यात्यायन इति । वात्स्यायननामा ऋषिस्तस्यायं वातस्यायनो वंशोऽन्वयस्तस्मिन्संभवः समुत्पन्नः । वत्सगोत्रीय इत्यर्थः । द्विज इति च द्विजोत्कृष्टत्वसूचनार्थम् । यथा गजमात्रस्य दन्तवत्त्वेऽप्युत्कृष्टदन्ते दन्तीति प्रयोगः । पुनः कीदृशः । जगदिति । जगति विश्वस्मित्रुद्गीता उत्प्राबल्येन गानविषयीकृता गुणाः शौर्यादयो यस्य स -
कादम्बरी ।