Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
Catalog link: https://jainqq.org/explore/002351/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE SISUPALAVADHA OF MĀGHA WITH The Commentary (Sarvankashā) of Mallinātha. EDITED BY PANDIT DURGĀPRASĀDA AND PANDIT S'IVADATTA, OF JAYPORE. Tenth Edition. REVISED BY WĀSUDEV LAXMAN SĀSTRĪ PAŅSĪKAR. PUBLISHED BY PANDURANG JĀWAJĪ, PROPRIETOR OF THE “NIRNAYA SAGAR” Press, BOMBAY 1933. Price 21 Rupees. Page #2 -------------------------------------------------------------------------- ________________ [ All rights reserved by the publisher. ] PUBLISHER:- Pandurang Jawaji, :. at the Nirnaya-sagar Press, PRINTER:-Ramchandra Yesu Shedge, S 26-28, Kolbhat Lane, Bombay. Page #3 -------------------------------------------------------------------------- ________________ श्रीः । श्रीदत्तकसूनुमहाकविश्रीमाघप्रणीतं शिशुपालवधम् । महामहोपाध्यायकोलाचलमल्लिनाथसूरिकृतया सर्वंकषाख्यया व्याख्यया समुल्लसितम् । जयपुरमहाराजाश्रितेन पण्डितत्रजलालसूनुना पण्डित दुर्गाप्रसादेन लवपुरीयराजकीयपाठशालाप्रधानाध्यापकेन महामहोपाध्यायदाधीचपण्डितशिवदत्तेन च संशोधितम् । तस्येदं दशमं संस्करणं पणशीकरोपाह्रविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशास्त्रिणा संस्कृतम् । Nomen तच्च शाके १८५४, सन १९३३ वत्सरे मुम्बय्यां पाण्डुरङ्ग जावजी श्रेष्ठिना स्वीये निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वा प्रकाशितम् । मूल्यं २ || सार्धरूप्यकद्वयम् । Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ उपोद्घातः । इह खलु निखिलेऽपि भारते वर्षे महाकविपदवीमा रुरुक्षुभिरछात्रैः सत्स्वपि हरविजयादिषु परःशतेषु काव्यरत्नेषु लघुत्रयीति नाम्ना प्रसिद्ध कालिदासप्रणीतं काव्यत्रय, बृहत्रयीति नाम्ना प्रथितं किरातार्जुनीयं शिशुपालवधं नैषधीयचरितं चेति काव्यत्रयमेवाहरहः क्रमेणाभ्यस्यते सर्वत्र । तत्र बृहत्रय्यां निखिलमहाकाव्य लक्षणाक्रान्ततयातिप्रसन्नगम्भीरतयात्युपयुक्त व्याकरणप्रयोग प्राचुर्येणातिव्युत्पादकतया च कविमूधन्य - माघप्रणीतं शिशुपालवधकाव्यमेव नायकायतें । - तस्य च प्रणेता दत्तकसूनुर्माघकविः कस्मिन्समये कतमं जनपदं जन्मना भूषयांचकारेति विचारः प्रस्तूयते - तत्र तावद्बलालपण्डितसंकलिते भोजप्रबन्धे" ततोऽन्यदा राजनि सिंहासनासीने श्रीभोजे द्वाःस्थः प्रणम्य राजानं प्राह - 'राजन्, गुर्जर देशादागत्य माघनामा पण्डितवरो दुर्भिक्षेणातिविडम्बितो देवस्य नगराद्वहिस्तिष्ठति । तेन च दारिद्र्य विडम्बितेन पण्डितेन स्वपत्नी प्रेषिता । सा च भवनद्वारि वर्ततें' । राजा - ' प्रवेशय' । ततो माघपण्डितस्य पत्नी प्रविश्य राज्ञे पत्रं प्रयच्छति । राजा तदादाय वाचयति — ' कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलुकः प्रीतिमांश्चक्रवाकः । उदयमहिम रश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥' ( शिशुपालवधे ११।६४ ) राजा तदद्भुतगुणं प्रभातवर्णनमाकर्ण्य लक्षत्रयं दत्त्वा माघपत्नीं प्रति प्राह - ' मातः, इदं मया भोजनाय दीयते । प्रातरहं माघपण्डितं नमस्कर्तुमागमिष्यामि' । ततः सा माघपत्नी तदादाय स्वस्थानमा गच्छन्ती याचकत्रातात्स्वभर्तुः शारदचन्द्रकिरण गौरान्गुणाञ्श्रुत्वा तेभ्यो याचकेभ्यो निखिलमपि धारेन्द्रदत्तं वित्तं दत्तवती । दत्त्वा च माघपण्डितं प्राह - 'नाथ, राज्ञा भोंजेनाहं बहु• मानिता, धनं चातिभूरि दत्तम् । मया च मार्गे आयान्त्या याचकमुखेभ्यो लोकोत्तरांस्तांस्तांस्तव गुणानाकर्ण्य तन्निखिलमपि वित्तं याचकेभ्यो दत्तम्' । माघः प्राह'देवि, साधु कृतम् । परमन्ये याचका आयान्ति तेभ्यः किं दातव्यम् । ततो माघपण्डितं वस्त्रावशेषं विदित्वा कोऽप्यर्थी प्राह - 'आश्वास्य पर्वतकुलं तपनोष्मतप्तमुद्दामदावविधुराणि च काननानि । नानानदीन दशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमा श्रीः ॥' ततो माघः पत्नीं प्राह - 'अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न संकुचति दुर्ललितं मनो मे । यात्रा च लाघवकरी स्ववधे च पा प्राणाः स्वयं व्रत किं नु विलम्बितेन ॥ दारिद्यानलसंतापः शान्तः संतोषवारिणा । याचकाशा विघातान्तर्दाहः केनोपशाम्यति ॥ देवि, किं बहुना । चित्ते कष्टं किमपि नास्ति । परं तथाप्युच्यते - 'न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि द्विपरिवृढान्कारयति कः । अदस्त्वैव ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवन विधिः ॥' ततस्तथाविधामवस्थां माघस्य विलोक्य सर्वे १ सुभाषितावलौ भट्टप्रद्युम्ननाम्ना समुद्धृतोऽयं श्लोकः. Page #6 -------------------------------------------------------------------------- ________________ शिशुपालवधे । --- याचका यथास्थानमगुः । याचकेषु यथास्थानं गच्छत्सु माघः प्राह - ' व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क्व सार्थः पुनरीदृशः ॥ ततो माघपत्नी स्वामिनि परलोकं प्राप्ते प्राह - 'सेवन्ते स्म गृहं यस्य दासवद्भूभुजः पुरा । हा भार्यासहायोऽयं मृतो वै माघपण्डितः ॥' ततो राजा माघपण्डितं विपन्नं विदित्वा निजनगराद्ब्राह्मणशतावृतो मौनी पद्भ्यामेव तत्रागात् । ततो माघपत्नी राजानं वीक्ष्य प्राह - 'राजन्, यदि पण्डितस्तव देशं प्राप्तस्तर्हि गृहमेव प्राप्तः । ततो देवेन कार्यशेषं सम्यक्संपादनीयम् ।' राजा तं विपन्नं माघपण्डितं नर्मदातीरं प्रापयामास । सा च माघपत्नी तेन सह वह्निप्रवेशं कृतवती । ततो राजा माघस्योत्तर क्रियां पुत्र इव चक्रे । ततो दिवं गते माघे राजा शोकाकुलो विशेषेण कालिदास विरहेण तथा सकलविद्वत्प्रवसनेन च दिने दिने कार्येन प्रतिपञ्चन्द्राकृतिरासीत् ।" अयं प्रबन्धः समुपलभ्यते । जैन मेरुतुङ्गाचार्येण १३६१ संवत्सरे प्रणीते प्रबन्धचिन्तामणौ च –“अथ श्रीभोजः श्रीमाघपण्डितविद्वत्तां पुण्यवत्तां च सततमाकर्ण्य तद्दर्शनोत्सुकतया राजा देशैः सततं प्रेष्यमाणैः श्रीमालनगराद्धिमसमये समानीय सबहुमानं भोजनादिभिः सत्कृत्य तदनु राजोचितान्विनोदान्दर्शयन् रात्रावारात्रिकावसरानन्तरं संनिहिते खसंनिभे पल्यङ्के माघपण्डितं नियोज्य तस्मै खशीतरक्षामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं सुष्वाप । प्रातर्माङ्गल्यतुर्यघोषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् । विस्मयापन्नहृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्नसदन्नवार्ताभिरलं शीतभारेण श्रान्तं विज्ञपयन्खिद्यमानेन राज्ञा कथंकथंचिदनुज्ञातः पुरोपवनं यावद्भूभुजानुगम्यमानो माघपण्डितेन स्वागमनप्रसादेन संभावनीयोऽहमिति विज्ञप्तो नृपानुज्ञातः खं पदं भेजे । तदनु कतिपयदिनैः श्रीभोजस्तद्विभवभोग सामग्रीदिदृक्षया श्रीमालनगरं प्राप्तः । माघपण्डितेन प्रत्युद्गमा दियथोचितभक्त्यावर्जितः ससैन्यस्तन्म• दुरायां ममौ । स्वयं तु माघपण्डितस्य सौधमध्यास्य संचारकभुवं काञ्चनबद्धामवलोक्य स्नानादनु देवतावसथो मणिमरकत कुट्टिमशैवलवहरी युग्जलभ्रान्त्या धौता - म्बरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देवताचनन्तरं निवृत्ते मन्त्रावसरे अशनसमयमागतां रसवतीमाखादयन्नाका लिकैर देशजैर्व्यञ्जनैः फलादिभिश्चित्रीयमाणमानसः संस्कृतपयःशालिशालिनीं रसवती माकण्ठमुपभुज्य भोजनान्ते चन्द्रशालामघिरुह्याश्रुतादृष्टापूर्वकाव्यकथा प्रबन्धप्रेक्ष्यादीनि प्रेक्षमाणः शिशिरसमयेऽपि संजाताकस्मिकग्रीष्मभ्रान्त्या संवीतसित स्वच्छवसन स्तालवृन्त करैरनुचरैर्वीज्यमानोऽमन्दचन्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शङ्खनिःखनाद्विगतनिद्रो हिमसमये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापित इति प्रतिसमयं सविस्मयः कति दिनान्यवस्थाय स्वदेशगमनायापृच्छत् । स्वयं करिष्यमाणनव्यभोजखामिप्रसादप्रदत्तपुण्यो मालवमण्डलं प्रति प्रतस्थे । तथा निजजन्मदिने जनकेन नैमित्तिकाज्जातके कार्यमाणे ‘पूर्वमुदितोदितसमृद्धिर्भूत्वा प्रान्ते गलितविभवः किंचिच्चरणयो Page #7 -------------------------------------------------------------------------- ________________ उपोद्धातः। राविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यति' इति निमित्तविदा निवेदितां विभवसंभारेण तां ग्रहगतिं निराचिकीर्षुणा माघपित्रा संवत्सरशतप्रमाणे मनुजायुषि षटुत्रिंशत्सहस्राणि दिनानि भविष्यन्तीति विमृश्य नाणकपरिपूर्णांस्तावत्संख्याकान्हारकान्कारितनव्यकोषेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनान्ने सुताय कुलोचितां शिक्षा वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राज्यसाम्राज्यो विद्वजनेभ्यः श्रियं तदिच्छया यच्छन्नमानेर्दानैरर्थिसार्थ कृतार्थयस्तैर्भोगविधिभिः स्वममानुषावतारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्यचमत्कृतविद्वज्जनः स प्रान्ते पुण्यक्षयात्क्षीणवित्तो विपत्तिपात खविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां कृतावासः पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कियदपि द्रव्यमानेयमिति तत्र पत्नी प्रस्थाप्य यावत्तदाशया माघपण्डितश्चिरं तस्थौ तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससंभ्रमः शलाकान्यासेन तत्पुस्तकमुन्मुद्य काव्यमद्राक्षीत् । 'कुमुदवनमपश्रि-(भोजप्रबन्धस्थ एव श्लोकः ) । अथ काव्यार्थमवगम्य का कथा गन्धस्य, केवलमस्येव काव्यस्य विश्वंभरा मूल्यमल्पम् । समयोचितस्यानुच्छिष्टस्य हीशब्दस्य पारितोषिके क्षितिपतिलक्षद्रव्यं वितीर्य तां विससर्ज । सापि ततः संचरन्ती विदितमाघपण्डितपत्नी कैश्चिद्भिरर्थिभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्तमपि वितीर्य यथावस्थिता गृहमुपेयुषी । तद्वृत्तान्तं विज्ञापनापूर्व किंचिच्चरणस्फुरितशोफाय पत्ये निवेदयामास । अथ त्वमेव मे शरीरिणी कीर्तिरिति श्लाघमानस्तदा स्वगृहमागतं कमपि भिझुं वीक्ष्य भवने तदुचितं किमपि देयमपश्यन् संजातनिर्वेद इदमवादीत्-'अर्था न सन्ति न च-॥१॥ दारियानल-॥२॥ व्रजत व्रजत-॥ ३ ॥ न भिक्षा दुर्भिक्षे-॥४॥ (श्लोकचतुष्टयं भोजप्रबन्धवत् )- क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतोऽप्यागतस्तत्किं गेहिनि किंचिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः । वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनवाक्षरैः स्थूलस्थूलविलोललोचनजलैर्बाष्पाम्भसा बिन्दुभिः ॥ ५ ॥ इति तद्वाक्यान्त एव स माघपण्डितः पञ्चत्वमवाप । प्रातस्तं वृत्तान्तमगवम्य श्रीभोजेन श्रीमालेषु तज्ज्ञातिषु धनवत्सु सत्सु तस्मिन्पुरुषरत्ने विनष्टे क्षुधाबाधिते सति भिल्लमाल इति तज्ज्ञाते म निर्ममे ॥" अयं प्रबन्धो वर्तते ॥ श्रीप्रभाचन्द्रेण १३३४ मिते विक्रमाब्दे प्रणीते प्रद्युम्नसूरिसंशोधिते प्रभावकचरिते चतुर्दशे शृङ्गे "श्रीसिद्धर्षिः श्रियो देयाद्वियाध्यामयधामभूः (१) । निर्ग्रन्थग्रन्थतामापुर्यग्रन्थाः सांप्रतं भुवि ॥ १ ॥ १सुरतगनरात शेठ भगवानदास केवलदासजीनाम्ना मन्मित्रेण प्रहिते १८२७ मिते विक्रमाब्दे लिखिते शिशुपालवधपुस्तके समाप्ती 'इति श्रीभिन्नमालववास्तव्यदत्तकसूनोमहावैयाकरणस्य माघस्य कृतौ शिशुपालवधे-' इत्याद्यस्ति. स च भिन्नमालवनामा ग्रामोऽधुना 'मिनमाला' इति नाम्ना ख्यातो गुजरात-मारवाडदेशयोः सीमायां वर्तत इति केचिद्वदन्ति. Page #8 -------------------------------------------------------------------------- ________________ ॐॐ इत्यादि, शिशुपालवधे श्री सिद्धर्षिप्रभोः पान्तु वाचः परिपचेलिमाः । अनाद्यविद्यासंस्कारा यदुपास्तेर्भिदेलिमाः ॥ २ ॥ सुप्रभः पूर्वजो यस्य सुप्रभः प्रतिभावताम् । -बन्धुबन्धुरभाग्यस्य यस्य माघः कवीश्वरः ॥ ३ ॥ चरितं कीर्तयिष्यामि तस्य त्रस्यज्जडाशयम् । -भूभृच्च चमत्कारि वारिताखिलकल्मषम् ॥ ४॥ अजर्जरश्रियां धाम वेषालक्ष्यजरज्जरः (?) । अस्ति गुर्जरदेशोऽन्यसज्जराजन्यदुर्जरः ॥ ५ ॥ तत्र श्रीमालमित्यस्ति पुरं मुखमिव क्षितेः । चैत्योपरिस्थकुम्भालिर्यत्र चूडामणीयते ॥ ६ ॥ प्रासादा यत्र दृश्यन्ते मत्तवारणराजिताः । 'राजमार्गाश्च शोभन्ते मत्तवारणराजिताः ॥ ७॥ जैनालयाश्च सन्त्यत्र नवं धूपगमं श्रिताः । महर्षयश्च निःसङ्गा न बन्धूपगमं (?) श्रिताः ॥ ८ ॥ तत्रास्ति हास्तिकाश्वीयापहस्तित रिपुव्रजः । नृपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः ॥ ९ ॥ तस्य सुप्रभदेवोऽस्ति मन्त्री मिततपाः किल । तस्य पुत्रावुभावंसाविव विश्वंभरक्षमौ ॥ १० ॥ आद्यो दत्तः स्फुरद्वृत्तो द्वितीयश्च शुभंकरः । दत्त वित्तीविभ्यो दत्त [:] चित्तसुधर्मधीः (१) ॥ ११ ॥ तेस्य श्रीभोजभूपालबालमित्रं कवीश्वरः । श्रीमाघो नन्दनो ब्राह्मीस्यन्दनः शीलचन्दनः ॥ १२ ॥ ऐदंयुगीन लोकस्य सारसारखतायितम् । शिशुपालवधं काव्यं प्रशस्तिर्यस्य शाश्वती ॥ १३॥ श्री माघोऽस्ताघधीः श्लाघ्यः प्रशस्यः कस्य नाभवत् । चित्तजाड्यहरा यस्य काव्यगङ्गोर्मिविप्रुषः ॥ १४ ॥ तथा शुभंकरः श्रेष्टी विश्वविश्वप्रियंकरः । यस्य दानाद्भुतैगाँतैर्हर्यश्वो हर्ष भूरभूत् ॥ १५ ॥ तस्याभूद्गेहिनी लक्ष्मीर्लक्ष्मीर्लक्ष्मीपतेरिव । यया सत्यापिता सत्यासीताद्या विश्वविश्रुताः ॥ १६॥ नन्दनो नन्दनोत्तंसः कल्पद्रुम इवापरः । यथेच्छादानतोऽर्थिभ्यः प्रथितः सिद्धनामतः ॥ १७ ॥” १ दत्तकस्य.. Page #9 -------------------------------------------------------------------------- ________________ उपोद्घातः। "इत्यमुद्वेजितखान्तस्तेनासौ निर्ममे बुधः। अन्यदुर्बोधसंबद्धां प्रस्तावाष्टकसंभृताम् ॥९५ ॥ रम्यामुपमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकवितां विद्वदुत्तमाङ्गविधूननीम् ॥ ९६ ॥” युग्मम् ॥ इत्यादि च सिद्धर्षिचरितं वर्तते। चरितान्ते च"श्रीमत्सुप्रभदेवनिर्मलकुलालंकारचूडामणिः श्रीमन्माघकवीश्वरस्य सहजः प्रेक्षापरीक्षानिधिः । तद्वृत्तं परिचिन्त्य कुग्रहपरिष्वङ्गं कथंचित्कलि । प्रागल्भ्यादपि संगतं त्यजत भो लोकद्वये शुद्धये ॥ १५५ ॥" इति पद्यमस्ति । . एतत्प्रबन्धत्रयविलोकनेन शिशुपालवधकाव्यकर्ता माघकविः ख्रिस्ताब्दीयैकादशशतकोत्तरार्धे मालवदेशं शासतो धारानगराधिपतेः श्रीभोजदेवस्य समकालीन आसीदिति प्रतीयते । परमेतादृशे समयनिर्णयादिव्यतिकरे भोजप्रबन्धप्रबन्धचिन्तामणिप्रभावकचरितादयो न श्रद्धापथमध्यासते । यतस्तत्रातिप्रतीतेषु बहुमिनिणीतेषु विषयेष्वपि भूयान्विपर्ययः समुपलभ्यते ॥ . माघकविस्तु ख्रिस्ताब्दीयनवमशतकात्कथमपि नार्वाचीनः । यतः कश्मीरेषु नवमशतकोत्तरभागे वर्तमानः श्रीमदानन्दवर्धनाचार्यों ध्वन्यालोकस्य द्वितीयोद्दयोते . १ असौ सिद्धः. २ उपमितिभवप्रपञ्चकथासमाप्तौ (९६२) मितो ग्रन्थनिर्माणसंवत्सरो लिखितः. एतदेवावलम्ब्य शार्मण्यदेशवासी क्वाटपण्डितः ( Dr. F. Klatt ) माघकवेरपि सत्तां ख्रिस्ताब्दीयदशमशतकारम्भे स्थिरीकरोति । तद्देशीयो जेकोबीपण्डितस्तु ( Prof. Jacobi) We therefore cannot place Magha later than about the middle of the Sixth century' इति वदन्खिस्ताब्दीयषष्ठशतकमध्यभागान्नार्वाचीनो माघकविरिति निश्चिनोति. याकोबीमतमेव ममापि संमतम. यतः प्रभावकचरितमपहायान्यत्र माघस्य शुभंकरः पितृव्य आसीसिद्धश्च पितृव्यपुत्र इत्यादि नोपलब्धम्. केवलमियं किंवदन्त्येव. प्रभावकचरितं च जनश्रुत्याधारेण निर्मितभिति ग्रन्थारम्भे-'बहुश्रुतमुनीशेभ्यः प्राग्ग्रन्थेभ्यश्च कानिचित् । उपश्रुत्येतिवृत्तानि वर्णयिष्ये कियन्त्यपि ।। इति ग्रन्थ कृत्स्वयमेव वदति. अथ च तारानाथतर्कवाचस्पतिना वाचस्पये कोषे माघपदव्याख्याने 'तावद्भा भारवे. ति यावन्माघस्य नोदय इत्युद्भटः' इति लिखितमस्ति , तत्र लाटपण्डितः ‘अयं श्लोक: क्वचिदप्युद्भटग्रन्थे नोपलभ्यत' इति तारानाथमाक्षिपति. किंतूटपदेन कश्मीर देशप्रसिद्धो नयापीडसभापतिर्भट्टोद्भटस्तारानाथस्य न विवक्षितः, तेन तु ग्रन्थबहिर्भूतोऽज्ञात कर्तृनामकः लोक एवोद्भटपदेन व्यवहियते. तथा च तदीये वाचस्पत्य एव उद्भट पदव्याख्याने ग्रन्थबहिभूते लोकप्रसिद्धेऽज्ञातकर्तृके श्लोके' इति तदीयं व्याख्यानमस्ति. एतत्सर्व पर्यालोच्य शर्मवता शानण्यपण्डितेन संतोष्टव्यम्. Page #10 -------------------------------------------------------------------------- ________________ शिशुपालवधे 'त्रासाकुलः परिपतन्-' (५।२६) ( काव्यमालायां मुद्रितस्य ११४ पृष्ठे) इत्यादिपद्यम् ,'रम्या इति प्राप्तवती:-' (३५३) (काव्यमालायां मुद्रितस्य ११५पृष्ठे )इत्यादिपा च शिशुपालवधादुदाहृतवान् । अथ च शिशुपालवधे (२।११२) माघो न्यासग्रन्थं स्मरतीति न्यासप्रणेतुर्जिनेन्द्रबुद्धपादाचायोदधस्तनः। गुर्जरदेशोद्भवोऽयं कविरिति पूर्वोद्धृतप्रबन्धेभ्यो लोकप्रथातश्च प्रतीयते । ग्रन्थान्त च खवंशवर्णने माघकविना खपितामहस्य सुप्रभदेवस्याश्रयभूतः कश्चन तत्कालीनो महीपतिरपि वर्णितो यः प्रभावकचरितेऽपि स्मृतः तत्र शिशुपालवधपुस्तकेषु धर्मनाभ, धर्मनाथ, धर्मलाभ, चर्मलाथ, धर्मलाथ, धर्मदेव, वर्मलाख्य, वर्मलात, वर्मनाभ, निर्मालान्त, इति तन्नानि नानाविधः पाठो दृश्यते । अतस्तद्विषये जोषमेव स्थातुमीहे । शिशुपालवधादन्यः कोऽपि ग्रन्थोऽस्य कवेर्नोपलब्धः । किंतु सुभाषितावलौ 'शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना माश्रौषं जगति श्रुतस्य विफलक्लेशस्य नामाप्यहम् । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु मे सर्वदा येनकेन विना गुणास्तृणबुसप्रायाः समस्ता अमी ॥' 'नारीनितम्बफलके प्रतिबध्यमाना हंसीव हेमरशना मधुरं ररास । तन्मोचनार्थमिव नूपुरराजहंसाश्चक्रन्दुरातमुखरं चरणावलग्नाः ॥' एतच्छोकद्वयं शिशुपालवधेऽनुपलभ्यमानं वल्लभदेवेन. औचित्यविचारच र्चायां च 'बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः ॥' एतत्पद्यं तादृशमेव क्षेमेन्द्रेण माघनाम्ना समुद्धृतमस्तीत्यस्ति कश्चिदन्योऽपि ग्रन्थो माघकृत इत्यनुमीयते । काव्यस्यास्याद्यावधि ज्ञाताष्टीकाः,-(१) वल्लभदेवकृता संदेहविषौषधाख्या,(२) रङ्गराजकृता, (३) एकनाथकृता, (४) चरित्रवर्धनकृता, (५) मल्लिनाथकृता सर्वकषा, (६ ) भरतमल्लिककृता सुबोधा, (७) दिनकरमिश्रकृता सुबोधिनी, (८) गोपालकृता हसन्ती, एता अष्टौ सन्ति । एतासु मल्लिनाथकृता सर्वकषैव सर्वाङ्गपरिपूर्णा कश्मीरदेशमपहायान्यत्र सर्वत्र लब्धप्रचारा विद्वद्भिरादृता च वर्तते। मल्लिनाथपण्डितश्चान्ध्रदेशे ख्रिस्ताब्दीयचतुर्दशशतक आसीदिति नवीनविदुषां निर्णयः। सर्वकषासमेतमेतत्काव्यं कलिकाताकाश्यादिषु बहुशो मुद्रितमपि सर्वाङ्गपूर्णतां दर्शनीयतां च न गतमिति पुनर्मुद्रणे मुख्यो हेतुः । तत्र १७६९ मिते शकाब्दे कलिकातानगरे श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यादिविद्वद्वरैः संशोध्य मुद्रितं पुस्तकमादाय पुनरपि प्राचीनेन हस्तलिखितेन सर्वकषापुस्तकेन संवाद्य तदाधारेणैतन्मुद्रणमकारि । अत्र च विंशसर्गान्ते सर्वेषु मुद्रितपुस्तकेषु प्रायो हस्तलिखितेष्वपि दुर्लभा श्लोकद्वयस्य सर्वंकषा, तदने कविवंशवर्णनात्मकश्लोकपञ्चकस्य, पञ्चदशे सर्गे 'प्रक्षिप्ता एते' इति मन्यमानेन मल्लिनाथेनाव्याख्यातानां चतुस्त्रिंशच्छोकानां च वल्लभदेवकृता टीका भूयसा यत्नेन संपाद्य यथास्थानं निवेशिता। मन्मित्रराजगुरुपर्वणीकरोपाह्वनारायणभट्टानां संग्रहादुपलब्धात् १२९९ मिते शकाब्दे लिखितान्मूलशिशुपालवधपुस्तकादुपयुक्तानि १ अयं श्लोको भर्तृहरेनीतिशतकेऽप्युपलभ्यते. २ काश्मीरकैस्तु बल्लभदेवकृतटीकैवो. पयुज्यते. Page #11 -------------------------------------------------------------------------- ________________ उपोद्घातः 1 पाठान्तराणि च क्वचिद्दत्तानि । ग्रन्थान्ते चैकोनविंशसर्गस्थगोमूत्रिकामुरजचक्रबन्धादिश्लोकानां चित्राणि, टीकायां मल्लिनाथेनोद्धृतानां ग्रन्थग्रन्थकर्तॄणां तत्तत्स्थलोल्लेखपूर्वकं नाममालां, ग्रन्थस्थनिखिल श्लोकानामकारादिवर्णक्रमेणानुक्रमणीं च न्यस्तवानस्मि । शोधनसमये च जयपुरराजकीय पाठशालायां व्याकरणाध्यापकः पण्डितशिवदत्तशर्मा दाधीचः कतिपयस्थलेषु प्रायो व्याकरणविषयकं टिप्पणमुट्टङ्कितवान् कृतवश्च शोधनेऽपि यत्साहाय्यं तत्तदुपकारं मुहुः स्मरामि । एवमेतद्ग्रन्थमुद्रणे प्रयत्नमास्थितस्यापि मम मतिमान्द्यादृष्टिदोषात्प्रमादाद्वा समुत्पन्नाननल्पानप्यवद्यानुपेक्ष्य काव्यगुणगौरवेणैव गुणैकपक्षपातिनो निर्मत्सरा विद्वांसस्तोमेष्यन्ति, भविष्यन्ति च परमेश्वरानुग्रहात्स फलसमीहिता इति भृशमाशास्ते जयपुर राजधानी । प्रथम अधिक भाद्रशुक्ल ५ संवत् १९४७. विदुषामनुचरो दुर्गाप्रसादः । Page #12 -------------------------------------------------------------------------- ________________ विषयानुक्रमणी । सर्गाङ्कः । विषयः । १ द्वारकायां नारदागमनम्, श्रीकृष्णं प्रति शक्रसंदेशकथनं च । २ उद्धवबलदेव श्रीकृष्णानां मन्त्रवर्णनम् । ३ द्वारकातः श्रीकृष्णस्य प्रस्थानवर्णनम्, द्वारकासमुद्रयोर्वर्णनं च । ४ रैवतकपर्वतवर्णनम् । स्कन्धावारसंनिवेशादिवर्णनम् । ५ ६ षडृतुवर्णनम् । पुष्पावचयवर्णनम् । ७ ८ जलक्रीडावर्णनम् । ९ सायंकालचन्द्रोदयप्रसाधनादिवर्णनम् । १० पानगोष्टीवर्णनं रात्रिक्रीडावर्णनं च । प्रभातवर्णनम् । ११ १२ पुनः प्रयाणवर्णनं यमुनावर्णनं च । १३ श्रीकृष्णपाण्डवयोः समागमवर्णनम्, श्रीकृष्णस्येन्द्रप्रस्थनगरप्रवेशे पौरना रिचेष्टावर्णनं युधिष्ठिरसभागृहवर्णनं च । १४ राजसूयक्रतुप्रस्तावस्तद्वर्णनं च । श्रीकृष्णं प्रत्यर्घदानवर्णनम्, भीष्मकृता श्रीकृष्णस्तुतिश्च । १५ शिशुपाल क्षोभवर्णनम् । भीष्मवाक्यम् । शिशुपालपक्षमहीपतीनां क्षोभवर्णनम् । शिशुपालस्य सेनासंनाहवर्णनम् । युद्धायोपस्थितानां भटानां तत्पत्नीनां च चेष्टावर्णनम् । १६ शिशुपालदूतस्य श्रीकृष्णसद सिध्यर्थं वाक्यम्, दूतं प्रति सात्यकिवाक्यम्, पुनरपि दूतवाक्यम्, तन्मुखेन शिशुपालपराक्रमवर्णनं च । १७ श्रीकृष्णसभाक्षोभवर्णनम्, श्रीकृष्णस्य तत्सेनायाश्च संनाहवर्णनम्, सेनाप्रस्थानवर्णनं च । १८ सैन्यद्वयस्य समागमवर्णनम्, तुमुलयुद्धवर्णनं च । १९ चित्रयुद्धवर्णनम् । २० श्रीकृष्णशिशुपालयो र स्त्रयुद्धवर्णनम्, शिशुपालवधवर्णनं च । कविवंशवर्णनम् । ग्रन्थसमाप्तिः । Page #13 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ श्रीमन्माघकविप्रणीतं शिशुपालवधम्। मल्लिनाथकृतया सर्वंकषाव्याख्यया समेतम् । प्रथमः सर्गः। इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् । दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु वृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः ॥ शारदा शारदाम्भोजवदना वदनाम्बुजे। . सर्वदा सर्वदास्माकं संनिधिं संनिधिं क्रियात् ॥ वाणी काणभुजीमजीगणदवाशासीच वैयासिकी मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् । वाचामाचकलद्रहस्यमखिलं यश्चाक्षपादस्फुरां लोकेऽभूधदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥ मल्लिनाथः सुधीः सोऽयं महोपाध्यायशब्दभाक् । विधत्ते माघकाव्यस्य व्याख्या सर्वकषाभिधाम् ॥ ये शब्दार्थपरीक्षणप्रणयिनो ये वा गुणालंक्रिया शिक्षाकौतुकिनो विहर्तुमनसो ये च ध्वनेरध्वनि । क्षुभ्यद्भावतरङ्गिते रससुधापूरे मिमङ्क्षन्ति ये तेषामेव कृते करोमि विवृतिं माघस्य सर्वकषाम् ॥ नेतास्मिन्यदुनन्दनः स भगवान्वीरः प्रधानो रसः शृङ्गारादिभिरङ्गवान्विजयते पूर्णा पुनर्वर्णना। इन्द्रप्रस्थगमाधुपायविषयश्चैद्यावसादः फलं धन्यो माघकविर्वयं तु कृतिनस्तत्सूक्तिसंसेवनात् ॥ इहान्वयमुखेनैव सर्व व्याख्यायते मया । ... नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ .. अथ तत्रभवान्माघकविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्यालंकारिकवचनप्रामाण्यात्का Page #14 -------------------------------------------------------------------------- ________________ शिशुपालवधे व्यस्यानेकश्रेयःसाधनतां, 'काव्यालापांश्च वर्जयेत्' इति निषेधस्यासत्काव्यविषयतां च पश्यशिशुपालवधाख्यं काव्यं चिकीर्षुश्चिकीर्षितार्था विघ्नपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनत्वात् ' आशीर्न मस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च काव्यफलशिशुपालवधबीजभूतं भगवतः श्रीकृष्णस्य नारददर्शनरूपं वस्तु आदौ श्रीशब्दप्रयोगपूर्वकं निर्दिशन् कथामुपक्षिपति श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥ श्रिय इति ॥ तत्रादौ श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धेरभ्युच्चयः । तदुक्तम्‘देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥' इति । श्रियो लक्ष्म्याः पतिः । अनेन रुक्मिणीरूपया श्रिया समेत इति सूचितम् । 'राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि' इति विष्णुपुराणात् । जगन्निवासो जगतामाधारभूतः । कुक्षिस्थाखिलभुवन इति यावत् । तथापि जगत् लोकं शासितुं दुष्टनिग्रहशिष्टानुग्रहाभ्यां नियन्तुं श्रीमति लक्ष्मीयुक्ते वसुदेवसद्मनि वसुदेवरूपिणः कश्यपस्य वेश्मनि वसन्कृष्णरूपेण तिष्ठन् हरिर्विष्णुरम्बरादवतरन्तमायान्तम् । इन्द्रसंदेशकथनार्थमिति भावः । हिरण्यस्य गर्भो हिर गर्भो ब्रह्मा । ब्रह्माण्डप्रभवत्वात् । तस्याङ्गभुवं तनूजम् । अथवा तस्याङ्गादवयवादुत्सङ्गाख्याद्भवतीति हिरण्यगर्भाङ्गभूस्तं मुनिम् । नारदमित्यर्थः । 'उत्सङ्गानारदो जज्ञे दक्षोऽङ्गुष्टात्स्वयंभुवः' इति भागवतात् । ददर्श । कदाचिदिति शेषः । अत्राल्पीयसि वसुदेवसद्मनि सकलजगदाश्रयतया महीयसो हरेराधेयत्वकथनाद-धिकप्रभेदोऽर्थालंकारः । तदुक्तम् – 'आधाराधेययोरानुरूप्याभावोऽधिको मतः ' इति । जगन्निवासस्य जगदेकदेशनिवासित्वमिति विरोधश्च । तथा तकार सकारादेः केवलस्यासकृदावृत्त्या जगज्जगदिति सकृद्व्यञ्जनद्वयसादृश्याच्च वृत्त्यनुप्रासभेदौ शब्दालंकारौ । एषां चान्योन्यनैरपेक्ष्येणैकत्र समावेशात्तिलतण्डुलवत्संसृष्टिः । सर्गेऽस्मिन्वंशस्थं वृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ॥ इदानीं जनैर्विस्मयादीक्षितुं प्रवृत्तमित्याहगतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥२॥ गतमिति ॥ अविद्यमानावूरू यस्य सोऽनूः स सारथिर्यस्य तस्यानूरुसारथेः सूर्यस्य गतं गतिः । भावे क्तः । तिरश्चीनं तिर्यग्भूतम् । 'विभाषाञ्चैरदिक्'स्त्रियाम्' इति तिर्यक्शब्दादञ्चत्यन्तात्प्रातिपदिकात्स्वार्थे खप्रत्ययः । हविर्भुजोऽग्नेरूर्ध्वज्वलन मूर्ध्वस्फुरणं प्रसिद्धम् । इदं तु सर्वतो विसारि धामाधः पतति । किमेतदिति सूर्याग्निविलक्षणमदृष्टपूर्वमिदं धाम किमात्मकं स्यादित्याकुलं विस्मयात्संभ्रान्तं यथा तथा जनैरीक्षितमीक्षणं कृतम् । सकर्मकादप्यविवक्षिते कर्मणि Page #15 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। भावे क्तः । 'प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । केचित्कमणि क्तान्तं कृत्वा ईक्षितं मुनिं ददशैंति पूर्वेण योजयन्ति । अत्रोपमेयस्य मुनिधाम्नः सूर्याग्निभ्यामुपमानाभ्यामधःप्रसरणधर्मेणाधिक्यवर्णनाव्यतिरेकः । तदुक्तं काव्यप्रकाशे-'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः' इति । 'धाम रश्मा गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः, दिवाकरस्तु वृत्तरत्नाकरटीकायां प्रथमपठितेन 'द्विधाकृतात्मा किमयं दिवाकरो विधूमरोचिः किमयं हुताशनः' इति चरणद्वयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाह । तत्राद्यचरणद्वयेन संदेहालंकारो गतमिति तन्निरासश्च बोध्य इत्युपरिष्टात् ॥ अथ भगवान्निरणैषीदित्याहचयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥३॥ चय इति ॥ विभुर्वस्तुतत्त्वावधारणसमर्थः स हरिः पुरा प्रथमं त्विषां चय इत्यवधारितं तेजःपुञ्जमात्रत्वेन विनिश्चितम् । ततः प्रत्यासने विभाविता विमृष्टा आकृतिः संस्थानं यस्य तं तथोक्तम् । अतएव शरीरी चेतन इत्यवधारितम् । ततो विभक्ता विविच्य गृहीता अवयवा मुखादयो यस्य तं तथोक्तम् । अतएव पुमानित्यवधारितम् । अमुमागच्छन्तं व्यक्तिविशेषं नारदं वास्तवाभिप्रायेणेति पुंलिङ्गनिर्वाहः । क्रमात्पूर्वोक्तसामान्यविशेषज्ञानक्रमेण । लोकदृष्ट्येदमुतम् । हरिस्तु सर्व वेदैवेति तत्त्वम् । नारद इत्यबोधि । नारदं बुद्धवानित्यर्थः । नारदस्य कर्मत्वेऽपि निपातशब्देनाभिहितत्वान्न द्वितीया । तिङामुपसंख्यानस्योपलक्षणत्वात् । यथाह वामनः-'निपातेनाभिहिते कर्मणि न कर्मविभकि। परिगणनस्य प्रायिकत्वात्' इति बुध्यतेः कर्तरि लुङ् । 'दीपजन-' इत्यादिना चिण् । 'चिणो लुक्' इति तस्य लुक् । अत्र विभाविताकृति विभक्तावयवमित्यादिना आकृतिविभावनावयवविभावनयोः पदार्थयोर्विशेषणवृत्त्या शरीरित्वपुंस्त्वावधारणहेतुत्वेनोपन्यासात्पदार्थहेतुकं काव्यलिङ्गमलंकारः । 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥ अथ सप्तभिर्मुनिं विशिनष्टिनवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥४॥ नवानित्यादिभिः ॥ कीदृशममुम् । नवान्सद्यःसंभृतसलिलान् । अतिनीलानिति यावत् । बृहतो विपुलान्पयोधरान्मेघानधोऽधः । मेघानां समीपाधःप्रदेशे स्थितमिति शेषः । 'उपर्यध्यधसः सामीप्ये' इति द्विर्भावः । तद्योगे द्वितीया । 'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु' इत्यादिवचनात् । समूढः पुजीकृतः । १ अयं कुत्रचिन्नोपलभ्यते. Page #16 -------------------------------------------------------------------------- ________________ शिशुपालवधे 'समूढः पुञ्जिते भुग्ने' इति विश्वः । कर्पूरस्य परागश्चूर्णं तद्वत्पाण्डुरम् । अतएव क्षणं मेघसमीपावस्थानक्षणे । अत्यन्तसंयोगे द्वितीया । क्षणेषु ताण्डवोत्सवेषु । 'निर्व्यापारस्थितौ कालविशेपोत्सवयोः क्षणः' इत्युभयत्राप्यमरः । उत्क्षिप्ता उपरि धारिता गजेन्द्रस्य कृत्तिश्चर्म येन तेन । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । भूत्या भस्सना सितेन । 'भूतिर्भसनि संपदि' इत्यमरः । शंभुना स्फुटा उपमा सादृश्यं यस्य तं स्फुटोपमम् । स्फुटशंभूपममित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । सदृशपर्याययोस्तुलोपमाशब्दयोः 'अतुलोपमाभ्याम्-' इति निषेधात्सादृश्यवा. चित्वे तृतीयेत्याहुः । केचिदिमं श्लोकं चयस्त्विषामित्यतः प्राग्लिखित्वा व्याचक्षते। तेषां पुंस्त्वावधारणात्प्राक्तेजःपिण्डमात्रस्य शंभूपमौचित्यं चिन्त्यम् ॥ दधानमम्भोरुहकेसरद्युतीर्जटाः शरचन्द्रमरीचिरोचिषम् ।। विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥५॥ दधानमिति ॥ पुनः। अम्भोरुहकेसरद्युतीः पद्मकिंजल्कप्रभापिशङ्गीरित्यर्थः । जटा दधानम् , स्वयं तु शरच्चन्द्रमरीचिरिव रोचिर्यस्य तम् । धवलमित्यर्थः । अतएव विपाकेन परिणामेन पिङ्गाः पिङ्गलास्तुहिनस्थल्यां तुषारभूमौ रोहन्तीति तुहि. नस्थलीरुहः व्रततीततीलताव्यूहान् 'वल्ली तु व्रततिलता' इत्यमरः । दधानं धराधरेन्द्रो हिमवान् तुहिनस्थलीति लिङ्गान्नारदोपमानत्वाच्च तमिव स्थितम् ॥ पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ।।६।। पिशङ्गेति ॥ पुनः कीदृशम् । मुञ्जस्तृणविशेषः तन्मयी मेखला मौञ्जी पिशङ्गया मौल्या युज्यत इति पिशङ्गमौञ्जीयुक् तम् । 'सत्सूद्विष-' इत्यादिना क्विप् । 'स्त्रियाः पुंवत्-' इति पिशङ्गशब्दस्य पुंवद्भावः । अर्जुनच्छविं धवलकान्तिम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । अञ्जनात्यञ्जनवर्ण एणाजिनं कृष्णमृग. चर्म वसानमाच्छादयन्तम् । 'वस आच्छादने' इति धातोः शानच् । सुवर्णसूत्रेण कनकमेखलया आकलितं बद्धमधराम्बरमन्तरीयं यस्यास्तां शितिवाससो नीलाम्बरस्य रामस्य तनुं विडम्बयन्तम् । अनुकुर्वाणमित्यर्थः । आर्थीयमुपमा । विहंगराजागरूहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः । कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडितां गणैरिव ॥ ७ ॥ विहंगेति ॥ पुनः। विहंगराजाङ्गरुहैरिव गरुत्मल्लोमतुल्यैरायतैर्दीधैः । हिरण्यस्य विकारो हिरण्मयी । 'दाण्डिनायन-' इत्यादिना मयटि यलोपनिपातः । तस्यामुया॑ रुहा रूढाः । इगुपधलक्षणः कप्रत्ययः । तासां वल्लीनां तन्तुभिस्तत्तुल्यैः सूक्ष्मावयवैः । उपादानगुणात् । हिरण्मयैः कृतोपवीतं शोभार्थं कल्पितयज्ञसूत्रं स्वयं हिमशुभ्रम् । अतएव घनान्ते शरदि तडितां गणैरुपलक्षितम् । 'तडिसौदामनी विद्युत्' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं धनं मेघमिव स्थितम् ॥ Page #17 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा लसद्विसच्छेदसिताङ्गसङ्गिना । 'चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८ ॥ निसर्गेति ॥ पुनः निसर्गात्स्वभावादेव चित्राणि शबलान्युज्वलानि भास्वराणि सूक्ष्माणि पक्ष्माणि लोमानि यस्य तेन लसन्यो बिसच्छेदो मृणालखण्डः । 'छेदः खण्डोऽस्त्रियाम्' इति त्रिकाण्डशेषः । तद्वत्सितेऽङ्गे वपुषि सङ्गिना सक्तेन चारुणा मनोहरेण चमूरुचर्मणा मृगत्वचा कुथेन पृष्ठास्तरणेन । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । इन्द्रवाहनं नागेन्द्रमैरावतमिव चकासतं शोभमानम् । इन्द्रस्य वाहनमिति स्वस्वामिभावमात्रस्य विवक्षितत्वात् 'वाहन - माहितात्' इति न णत्वम् । यथाह वामनः - 'नेन्द्र वाहनशब्दे णत्वमाहितत्वस्याविवक्षितत्वात्' इति । चकासतेः शतरि 'नाभ्यस्ताच्छतुः' इति नुमभावः । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा ॥ अजस्रमीस्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया । पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥९॥ अजस्रमिति ॥ पुनरजस्रं प्राचुर्येणास्फालितास्ताडिताः । सौष्ठवपरीक्षार्थं न्युब्जाङ्गुष्ठेन तत्रीताडनं प्रसिद्धम् । तेषां वल्लकीगुणानां वीणातन्त्रीणां क्षतेन संघर्षणेनोज्ज्वलैरङ्गुष्ठनखांशुभिर्भिन्नया मिश्रया । तद्वागरक्तयेत्यर्थः । अतएव पुरः पुरोभागे प्रवालैर्विद्रुमैः । ' - अथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम्' इत्यमरः । पूरितार्धयेव स्थितया अच्छस्फटिकाक्षमालया स्वच्छस्फटिकानां मालया । जपमालयेत्यर्थः । ‘अच्छो भल्लूके स्फटिकेऽमलेच्छाभिमुखेऽव्ययम्' इति हेमचन्द्रः । तथा प्रसिद्धस्फटिकग्रहणाद्दषेर्मोक्षार्थित्वं व्यज्यते । 'स्फटिको मोक्षदः परम्' इति मोक्षार्थिनां स्फटिकाक्षमालाभिधानात् । विभान्तं भासमानम् । भातेः शतृप्रत्ययः । अत्र नखांशुभिन्नयेति स्वगुणत्यागेनान्यगुणस्वीकारलक्षणस्तद्गुणालंकार उक्तः । 'तद्गुणः स्वगुणत्यागात्' इति ॥ रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः खरैः । स्फुटीभवनाम विशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ १० ॥ रणद्भिरिति ॥ पुनः नभस्वतो वायोराघट्टनया आघातेन पृथगसंकीर्णं रणद्भिर्ध्वनद्भिः । अनुरणनोत्पद्यमानैरित्यर्थः । 'श्रुत्यारब्धमनुरणनं स्वरः' इति लक्षणात् । तदुक्तं रत्नाकरे - 'श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वतो रक्षयति श्रोतुश्चित्तं स स्वर उच्यते ॥' इति । श्रुतिर्नाम स्वरारम्भकावयवः शब्दवि - शेषः । तदुक्तम् – 'प्रथम श्रवणाच्छन्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥' इति । विभिन्नानि प्रतिनियतसंख्यया व्यवस्थितानि श्रुतीनां १ 'माश्रावित' इति पाठः Page #18 -------------------------------------------------------------------------- ________________ शिशुपालवधे मण्डलानि समूहा येषां तैर्विभिन्नश्रुतिमण्डलैः । श्रुतिसंख्यानियमश्च दर्शित:'चतुश्चतुश्चतुश्चैव षडमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रिविक्रषभधैवतौ ॥' षड्डादयः सप्तोक्तलक्षणाः । तदुक्तम्-'श्रुतिभ्यः स्युः स्वराः षडर्षभगान्धारमध्यमाः । पञ्चमो धैवतश्चाथ निषाद इति सप्त ते । तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ॥' इति । तैः स्वरैः स्फुटीभवन्त्यो ग्रामविशेषाणां पडाद्यपरनामकानां स्वरसंघातभेदानां त्रयाणां मूर्च्छनाः स्वरारोहावरोहक्रमभेदा यस्यां तां महती महतीनाम्नी निजवीणाम् । 'विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी ॥' इति वैजयन्ती। मुहुर्मुहुरवेक्षमाणम् । तन्त्रीयोजनाभेदलक्षणमहिम्ना पुरुषप्रयत्नमन्तरेणैवाविसंवादं ध्वनतीति कौतुकादनुसंदधानमित्यर्थः। अथ ग्रामलक्षणम्-'यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां संदोहो ग्राम इत्यभिधीयते॥ षडुग्रामो भवेदादौ मध्यमग्राम एव च। गान्धारग्राम इत्येतद्रामत्रयमुदाहृतम् ॥' इति । तथा—'नन्द्यावर्तोऽथ जीमूतः सुभद्रो ग्रामकास्त्रयः । षडमध्यमगान्धारास्त्रयाणां जन्महेतवः ॥' इति । मूर्च्छनालक्षणं च-'क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । सा मूर्च्छत्युच्यते ग्रामस्था एताः सप्त सप्त च ॥' ग्रामत्रयेऽपि प्रत्येकं सप्त सप्त मूर्च्छना इत्येकविंशतिमूर्च्छना भवन्ति । तत्रेह नामानि तु 'नानपेक्षितमुच्यते' इति प्रतिज्ञाभङ्गभयान्न लिख्यन्त इति सर्वमवदातम् । अत्र व्यापारमन्तरेण स्वराद्याविर्भावोक्त्या कोऽपि लोकातिक्रान्तोऽयं शिल्पसौष्ठवातिशयो वीणायाः प्रतीयते । तेन सह स्वतःप्रसिद्धातिशयस्याभेदेनाध्यवसितत्वात्तन्मूलातिशयोक्तिरलंकारः। सा च महत्याः पुंव्यापारं विना मूर्छाद्यसंबन्धेऽपि संबन्धाभिधानादसंबन्धे संबन्धरूपतया पुंव्यापाराख्यरूपकारणं विनापि मूर्च्छनादिकार्योत्पत्तिद्योतनाद्विभावना व्यज्यत इत्यलंकारध्वनिरिति संक्षेपः ॥ निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिनभासदः । समासदत्सादितदैत्यसंपदः पदं महेन्द्रालयचारु चक्रिणः॥११॥ निवत्येति ॥ अतीन्द्रिया इन्द्रियमतिक्रान्ता देशकालस्वरूपाद्विप्रकृष्टार्थाः । 'अत्यादयः कान्ताद्यर्थे द्वितीयया' इति समासः । 'द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परलिङ्गताप्रतिषेधो वक्तव्यः' इति विशेष्यलिङ्गत्वम् । तेषां ज्ञानं तस्य निधिः। सर्वार्थद्रष्टेत्यर्थः । कृतानतीन्कृतप्रणामाननुव्रजतोऽनुगच्छतः नभस्याकाशे सीदन्ति गच्छन्तीति नभःसदः सुरान् । 'सत्सूद्विष-' इत्यादिना क्विप् । निवर्त्य प्रतिषिध्य स मुनिः सादितदैत्यसंपदः सादिताः विध्वस्तीकृताः दैत्यानां संपदो येन तस्य चक्रिणः कृष्णस्य पदं स्थानं महेन्द्रालयचारु इन्द्रभवनमिव भासमानं समासदत् । समापर्वात्षद्धातोर्लुङ् । 'पुषादि-' इत्यङ् । अत्र नतीनती पदःपदमिति च द्वयोर्व्यञ्जनयुग्मयोरसकृदावृत्त्या छेकानुप्रासः । अन्यत्र वृत्त्यनुप्रास इत्यनयोः संसृष्टिः॥ Page #19 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत । गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥ पतदिति ॥ पतन्यः पतङ्गः सूर्यः स प्रतिमोपमानं यस्य सः । 'पतङ्गौ पक्षिसूयौं च' इत्यमरः । तपोनिधिर्मनिरस्य हरेः पुरो भुवि पुरःप्रदेशे यावन्न व्यलीयत नातिष्ठत् । 'लीङ् गतौ' इति धातोर्दैवादिकाकर्तरि लुङ्। तावदच्युतो हरिगिरेः शैलात् । तडितोऽस्य सन्तीति तडित्वान्मेघ इव। 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' इति मतुपो मकारस्य वकारः । 'तसौ मत्वर्थे' इति भसंज्ञायामेकसंज्ञाधिकारेणापदत्वान्न जश्त्वम् । उच्चकैरुन्नतात्पीठादासनाजवेनोदतिष्ठत् । मुनिचरणस्य भूस्पर्शात्प्रागेव स्वयमुत्थितवान् । 'ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ इति शास्त्रमनुस्मरनिति भावः । 'उदोऽनूर्ध्वकर्मणि' इति नियमादिहोर्ध्वकर्मणि नात्मनेपदम् । पतत्पतङ्ग इत्यत्र पतङ्गस्य पतनासंभवादियमभूतोपमेत्याचार्यदण्डिप्रभृतयो बभणुः । अतएवाप्रसिद्धस्योपमानत्वायोगादुत्प्रेक्षेत्याधुनिकालंकारिकाः सर्वे वर्णयन्ति ॥ अथ प्रयत्नोन्नमितानमत्फणैर्धते कथंचित्फणिनां गणैरधः । न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥ अथेति ॥ अथाच्युताभ्युत्थानानन्तरं धातुः सुतेन नारदेन प्रयत्नोन्नमितास्त. थापि मुनिपादन्यासभारादानमन्त्यः फणा येषां तैः फणिनां गणैरधोऽधःप्रदेशे कथंचिद्धृते स्थापिते भुवस्तले भूपृष्ठे । अभिदेवकीसुतं देवकीसुतमभि । लक्ष्यीकृत्येत्यर्थः। 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । चरणौ पादौ । 'पदशिश्चरणोऽस्त्रियाम्' इत्यमरः । न्यधायिषातां निहितौ । दधातेः कर्मणि लुछ । 'स्यसिच्सी-' इत्यादिना चिण्वदिटि युक् । अत्र फणानां नमनोन्नमनासंबन्धेऽपि मुनिगौरवाय तत्संबन्धाभिधानादतिशयोक्तिभेदः ॥ तमय॑मादिकयादिपूरुषः सपर्यया साधु स पर्यपूपुजत् । गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥१४॥ तमिति ॥ आदिपूरुषः पुराणपुरुषः । 'अन्येषामपि दृश्यते' इति वा दीर्घः । स कृष्णः । अर्घ पूजामर्हतीत्यर्घ्यः । 'दण्डादिभ्यो यः' । तं नारदम् । अर्घार्थ द्रव्यमय॑म् । 'पादार्घाभ्यां च' इति यत्प्रत्ययः । 'मूल्ये पूजाविधावर्षः', 'षट् तु विष्वर्यमर्घार्थे' इति चामरः । अर्घ्यमादिर्यस्यास्तयाादिकया । 'शेषाद्विभाषा' इति विकल्पेन कप्प्रत्ययः । सपर्यया पूजया । 'पूजा नमस्यापचितिः सपर्यार्चाहणाः समाः' इत्यमरः । साधु यथा तथा पर्यपूपुजत्परिपूजितवान् । णौ चङन्तं कर्तव्यम् । युक्तं चैतदित्यर्थान्तरं न्यस्यति-गृहानिति । मनस ईषिणो मनीषिणः सन्तः । पृषोदरादित्वात्साधुः । अपुण्यकृतां पुण्यमकृतवताम् । 'सुकर्मपापमत्रपुण्येषु कृषः' इति भूते विप् । गृहान्प्रणयादुपैतुमभीप्सवः प्राप्तुमिच्छवः । आमोतेः सन्नन्तादु Page #20 -------------------------------------------------------------------------- ________________ शिशुपालवधे प्रत्ययः । 'आपज्ञप्यधामीत्' इतीकारः । न भवन्ति किंतु पुण्यकृतामेव । अतः कृच्छ्रलभ्याः सन्तः पूज्या इत्यर्थः ॥ न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनिश्चिरंतनस्तावदभिन्यवीविशत् ॥ १५ ॥ . न यावदिति ॥ उत्थितावेतौ मुनिकृष्णौ जनस्तुपाराञ्जनयोः पर्वताविव यावनोदपश्यन्नोत्प्रेक्षितवान् । तावच्चिरंतनः पुराणो मुनिः कृष्णः 'पुरा किल भगवान्ब. दरिकारण्ये नारायणावतारेण तपसि स्थितवान्' इति पुराणात् । 'सायंचिरम्-' इत्यादिना ट्युप्रत्ययस्तुडागमश्च । स्वहस्तेन दत्ते आसने मुनिं नारदमभिन्यवीविशस्वाभिमुखेनोपवेशितवान् । अभिनिपूर्वाद्विशतेर्ण्यन्ताल्लुङि ‘णिश्रि-' इति चङ् ॥ महामहानीलशिलारुचः पुरो निषेदिवान्कंसकृषः स विष्टरे । श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम् ॥ १६ ॥ महामहेति ॥ महत्या महानीलशिलायाः सिंहलद्वीपसंभवेन्द्रनीलोत्पलस्य रुगिव रुग्यस्य तस्येत्युपमालंकारः । 'सिंहलस्थाकरोद्भूता महानीलास्तु ते स्मृताः' इति भगवानगस्त्यः । कंसकृषो हरेः पुरोऽग्र उच्चकैरुन्नते विष्टर आसने । 'वृक्षासनयोर्विष्टरः' इति षत्वम् । निषेदिवानुपविष्टवान् । 'भाषायां सदवसश्रुवः' इति वसुः। स मुनिरभिसायं सायंकालाभिमुखम् । अव्ययीभावसमासः । सायंकालस्य काात्कृष्णोपमानत्वम् । श्रित आश्रित उदयाविरुदयाचलो येन तस्य चन्द्रमसोऽभिरामतां शोभामचूचुरच्चोरितवान् । प्राप्तवानित्यर्थः । 'चुर स्तेये' 'णिश्रि-' इति चङ्। 'अन्यस्यान्यधर्मसंबन्धसंभवाच्चन्द्रमसोऽभिरामतामिवाभिरामतामि'त्यौपम्यपर्यवसानादसंभवद्वस्तुसंबन्धरूपो निदर्शनाभेदः स चोक्तोपमयाङ्गाङ्गिभावेन संकीर्यते ॥ विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः । ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः॥१७॥ विधायेति ॥ यज्वानो विधिनेष्टवन्तः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोः-' इति यजिधातोर्डनिप् । तेषां प्रियो हरिः प्रसेदुषः प्रसन्नस्य । 'सदेः क्वसुः' इत्युक्तम् । तस्य मुनेरपचितिं पूजाम् । 'पूजा नमस्यापचितिः' इत्यमरः । विधाय विशेषेण मनोवाक्कायकर्मभिस्तत्परतया कृत्वा प्रकाममत्यर्थमप्रीयत प्रीतोऽभूत् । प्रीयतेर्दैवादिकाकर्तरि लङ्। मुनिपूजायाः प्रीतिहेतुत्वेऽर्थान्तरं न्यस्यति-महानुभावा महात्मान आर्यान्पूज्यान्परिचर्यया मुहुर्ग्रहीतुं वशीकर्तुम् । 'ग्रहोऽलिटि दीर्घः' इतीटो दीर्घः । नितान्तमर्थिनोऽभिलाषवन्तो हि भवन्ति । अर्थनमर्थोऽभिलाषः स एषामस्तीति मत्वर्थ इनिर्न तु णिनिः । 'कृवृत्तेस्तद्धितवृत्तिर्बलीयसी' इति भाष्यात् ॥ Page #21 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। अशेषतीर्थोपहृताः कमण्डलोनिधाय पाणावृषिणाभ्युदीरिताः । अघौघविध्वंसविधौ पटीयसीनतेन मूर्धा हरिरग्रहीदपः॥१८॥ ___ अशेषेति ॥ अशेषेभ्यस्तीर्थेभ्य उपहृता आहृतास्तथा पाणौ निधाय । कमण्डलोरुदकपात्रादुद्धृत्य पाणौ निधायेत्यर्थः। क्रियान्तराक्षिप्तक्रियापेक्षया कमण्डलोरपादानत्वम् । 'अस्त्री कमण्डलुः कुण्डी' इत्यमरः । ऋषिणाभ्युदीरिता आक्षिप्ता अतएवाघौघानां पापसमूहानां विध्वंसविधौ विनाशकरणे पटीयसीः समर्थतराः । पटुशब्दादीयसुनि ‘उगितश्च' इति डीए । अपो जलानि हरिनतेन मूर्धाग्रहीत्स्वीकृतवान् । ग्रहेढुंङ्॥ स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुयविक्षत । जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् १९ स काञ्चनेति ॥ नवाम्बुदश्यामतनुः स हरिर्मुनेरनुज्ञया काचने काञ्चनविकारे। वैकारिकोऽण्प्रत्ययः । यत्रासने न्यविक्षतोपविष्टवान् । निपूर्वकविशो लुङि 'नेर्विशः' इत्यात्मनेपदे 'शल इगुपधादनिटः क्सः'। तदासनं तदा हर्युपवेशनसमये जम्बूर्नीलफलविशेषः । 'जम्बूः सुरभिपत्रा च राजजम्बूमहाफला' इत्यभिधानरत्नमालायाम् । तया जनिता श्रीर्यस्य तत्तथोक्तस्य । भाषितपुंस्कत्वात्पक्षे पुंवद्भावानुमभावः । सुमेरुशृङ्गस्य श्रियं जिगाय । अभिभावितवानित्यर्थः । 'सन्लिटोर्जेः' इति कुत्वम् । उपमानुप्रासयोः संसृष्टिः ॥ स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः । विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः२० स तप्तेति ॥ ततं पुटपाकशोधितं कार्तस्वरं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इत्यमरः । तद्वद्भास्वरं दीप्यमानमम्बरं यस्य सः। पीताम्बर इत्यर्थः । कठोरताराधिपस्य पूर्णेन्दोर्लान्छनस्य छविरिव छविर्यस्य स इत्युपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । स हरिर्वाडवजातवेदसो वाडवाग्नेः शिखा- . भिर्खालाभिराश्लिष्टो व्याप्तोऽम्भसां निधिरिव समुद्र इव विदिद्युते बभौ ॥ रथाङ्गपाणेः पटलेन रोचितामृषित्विषः संवलिता विरेजिरे। चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥२१॥ रथाङ्गपाणेरिति ॥ रथाङ्गं चक्रं पाणौ यस्य तस्य हरेः। 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । रोचिषां छवीनां पटलेन समूहेन संवलिता मिलिता ऋषित्विषो नक्तं रात्रौ । सप्तम्यर्थेऽव्ययम् । तरोश्चलतां पलाशानां पत्राणामन्तराणि विवराणि गोचर आश्रयो येषां ते, तुषारा मूर्तिर्यस्य तस्येन्दोरंशव इव विरेजिरे चकाशिरे ॥ प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः । परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥२२॥ Page #22 -------------------------------------------------------------------------- ________________ शिशुपालवधे प्रफुल्लेति ॥ प्रफुल्लतीति प्रफुलं विकसितम् । 'फुल्ल विकसने' इति धातोः पचाद्यजन्तम् । फलेर्निष्टायाम् 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निपातनात्प्रफुलमित्येवेति क्षीरस्वामी । तापिच्छस्य तमालस्य पुष्पं तापिच्छम् । 'फले लुक्' इति तद्धितलुक् । ‘द्विहीनं प्रसवे सर्वम्' इति नपुंसकत्वम् । 'कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि' इत्यमरः । तेन सदृशैः प्रफुल्लतापिच्छनिभैः । नित्यसमा - सत्वादस्वपद विग्रहः । अतएव ' स्युरुत्तरपदे त्वमी' इति, 'निभसंकाशनीकाशप्रतीकाशोपमादयः' इत्यमरः । सप्त छदाः पर्णानि पर्वसु यस्येति सप्तच्छदो वृक्षभेदः । ' सप्तपर्णो विशालत्वक्शारदो विषमच्छदः' इत्यमरः । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तं भाष्ये । शेषं तापिच्छवत् । तस्य पुष्पाणि सप्तच्छदानि तेषां पांसुवत्पाण्डुभिः शुभैरभीषुभिरन्योन्यरश्मिभिः 'अभीपुः प्रग्रहे रश्मौ' इति शाश्वतः । परस्परेण छुरिते रूषितेऽमले छवी अन्योन्यकान्ती ययोस्तौ । छन्योरभीषूणामवयवावयविभावाद्भेद निर्देशः । तौ हरिनारदौ तदैकवर्णाविव बभूवतुः । उभयप्रभामेलनादुभयोरपि सर्वाङ्गीणो गङ्गायमुनासंगम इव स्फटिकेन्द्रनीलमणिप्रभामेलनप्रायः कश्चिदेको वर्णः प्रादुर्बभूव तन्निमित्ता चेयमनयोरेवर्णत्वोत्प्रेक्षा ॥ 1 १० युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ मुस्तत्र न कैटभद्विपस्तपोधनाभ्यागमसंभवा मुदः ॥ २३ ॥ युगान्तेति ॥ युगान्तकाले प्रतिसंहृतात्मनः आत्मन्युपसंहृता आत्मानो जीवा येन तस्य कैटभद्विषो हरेर्यस्यां तनौ जगन्ति सविकास सविस्तरमासता'तिष्ठन् । 'आस उपवेशने' लङ् । तत्र तनौ देहे तपोधनाभ्यागमेन संभवन्तीति संभवाः संभूताः । पचाद्यच् । मुदः संतोषा न ममुः । अतिरिच्यन्ते स्मेत्यर्थः । चतुर्दशभुवनभरणपर्याप्ते वपुषि अन्तर्न मान्तीति कविप्रौढोक्तिसिद्धातिशयेन स्वतः सिद्धस्याभेदेनाध्यवसितातिशयोक्तिः, सा च मुद्रामन्तः संबन्धेऽप्यसंबन्धोक्त्या संबन्धासंबन्धरूपा ॥ निदाघधामानमिवाधिदीधितिं मुदां विकासं मुनिमभ्युपेयुषी । विलोचने विभ्रधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् ।। 1 निदाघेति ॥ निदाघमुष्णं धाम किरणा यस्य तथोक्तम् । 'निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि' इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनि - मभिलक्ष्य । 'अभिरभागे' इति लक्षणे कर्मप्रवचनीयसंज्ञा 'कर्मप्रवचनीययुक्ते द्वितीया' । मुदा विकास मुपेयुषी उपगते । वसुप्रत्ययान्तो निपातः । अतएवाधिश्रिता प्राप्ता श्रीर्याभ्यां ते तथोक्ते । 'इकोऽचि विभक्तौ' इति नुमागमः । विलो - चने बिभ्रत् । 'नाभ्यस्ताच्छतु:' इति नुमभावः । स हरिः पुण्डरीकाक्ष इत्येव स्फुटोऽभवत् । सूर्यसंनिधाने श्रीविकासभावादक्षणां पुण्डरीकसाधर्म्यात् । पुण्डरीके इवाक्षिणी यस्येत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यक्तम् । अन्वर्थसंज्ञो - Page #23 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। ऽभूदित्यर्थः । बिभ्रत्स्फुटोऽभवदिति पदार्थहेतुकस्य काव्यलिङ्गस्य निदाघधामानमिवेत्युपमासापेक्षत्वादनयोरङ्गाङ्गिभावेन संकरः ॥ सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावलिव्याजनिशाकरांशुभिःशुचिसितां वाचमवोचदच्युतः२५ सितमिति ॥ अथोभयोरुपवेशनानन्तरमच्युतो हेतुकर्ता । विसारिभिरभीक्ष्णं प्रसरद्भिः । 'बहुलमाभीक्ष्ण्ये' इति णिनिः। द्विजावलिर्दन्तपतिः । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । सैव व्याजः कपटं यस्य सः। तद्रूप इत्यर्थः । स चासौ निशाकरश्च तस्यांशुभिः किरणैः सितं स्वभावशुभ्रं मुनेर्वपुः सौधं प्रासादमिव सुतरामत्यन्तम् । अव्ययाद्धादाम्प्रत्ययः । सितिम्ना धावल्येन प्रयोज्यकर्त्ता लम्भयन्व्यापारयन् । अतिधवलयन्नित्यर्थः । लभेरत्र गत्युपसर्जनप्राप्त्यर्थत्वेनागत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना अणि कर्तुर्न कर्मत्वम् । तथाह वामनः-'लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे' इति । प्राप्त्युपसर्जनगत्यर्थत्वे तु कर्मत्वमेवेति रहस्यम् 'लमेश्च' इति नुमागमः। शुचिस्मितां वाचमवोचदुक्तवान् । ब्रुवो वच्यादेशः लुङ् 'वच उम्' इत्युमागमे गुणः । अत्र सौधमिवेत्युपमायाः सितिना लम्भयन्नित्यसंबन्धरूपातिशयोक्तेः द्विजावलिव्याजनिशाकरेति छलादिशब्दैरसत्यत्वप्रतिपादनरूपापह्नवस्य च मिथो नैरपेक्ष्यात्संसृष्टिः॥ हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् २६ हरतीति ॥ भवदीयदर्शनं शरीरभाजम् । द्रष्टृणामित्यर्थः । 'भजो ण्विः'। कालत्रितये भूतादिकालत्रितयेऽपि योग्यतां पवित्रतां व्यनक्ति गमयति । कुतःसंप्रति दर्शनकाले अघं पापं हरति । एष्यतो भाविनः शुभस्य श्रेयसो हेतुः । तथा पूर्वाचरितैः प्रागनुष्ठितैः शुभैः सुकृतैः कृतम् । एवं त्रैकाल्येऽपि कार्यत्वेन कारणत्वेन च पुंसि सुकृतसमवायमवगमयते । अत एतादृशं दर्शनं कस्य न प्रार्थ्यमिति भावः । अत्र हरतीत्यादिवाक्यत्रयस्यार्थस्य शरीरेत्यादिवाक्यत्रयोक्त्या वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ जगत्यपर्याप्तसहस्रभानुना न यनियन्तुं समभावि भानुना । प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः॥२७॥ जगतीति ॥ जगत्यपर्याप्ता अपरिच्छिन्नाः सहस्रं भानवोंऽशवो यस्य तेन भानुनार्केण । 'भानवोऽर्कहरांशवः' इति वैजयन्ती। यत्तमो नियन्तुं निवारयितुं न समभावि न शेके । भावे लुङ् । अविद्यमानमुत्तमं यस्मात्तदनुत्तमं सर्वाधिकमदस्तमो मोहात्मकमसंख्यतां गतैस्तेजोभिः प्रसह्य बलात्त्वया नुन्नं छिन्नम् । अतः श्लाघ्यदर्शनो भवानिति भावः । 'नुदविद-' इत्यादिना विकल्पानिष्ठानत्वाभावः । अत्रोपमानाझानोर्मुनेराधिक्यप्रतिपादनाध्यतिरेकालंकारः ॥ Page #24 -------------------------------------------------------------------------- ________________ १२ शिशुपालवधे कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना । सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव २८ कृतइति ॥ प्रजानां जनानामपत्यानां च क्षेमकृता कुशलकारिणा । 'प्रजा स्यात्संततौ जने' इत्यमरः । सुपात्रे योग्यपुरुषे कटाहादिदृढभाजने च निक्षेपेण निधानेन च निराकुलात्मना स्वस्थचित्तेन । 'योग्यभाजनयोः पात्रम्' इत्यमरः । प्रजासृजा ब्रह्मणा पुत्रिणा च त्वं धनसंपदामिव श्रुतीनां वेदानां सदोपयोगे दानभोगाभ्यां व्ययेऽप्यक्षयः । एकत्राम्नानादन्यत्रानन्त्याच्चेति भावः । गुरुरुपदेष्टा । संप्रदायप्रवर्तक इति यावत् । अन्यत्र महान् । निधीयत इति निधिः निक्षेपः कृतः । 'उपसर्गे घोः किः । श्रुतिसंप्रदायद्वारा धर्माधर्मव्यवस्थापकतया जगत्प्रतिष्ठाहेतूनां भवादृशां दर्शनं कस्य न श्लाध्यमिति भावः । अत्र शब्दमात्रसाध Dच्छ्लेषोऽयं प्रकृतविषय इत्याहुः ॥ विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽसि निबर्हितांहसा । तथापि शुश्रूषुरहं गरीयसीगिरोऽथवा श्रेयसि केन तृप्यते ॥२९॥ विलोकनेनेति ॥ हे मुने, निबर्हितांहसापहृतपाप्मना अतएवामुना तव विलोकनेनैव कृतार्थः कृतोऽस्मि । तथाप्यहं गरीयसीरर्थवत्तराः । 'द्विवचन-' इत्यादिना ईयसुन्प्रत्ययः । 'उगितश्च' इति डीप् । 'प्रियस्थिर-' इत्यादिना गुरोर्गरादेशः । गिरस्तव वाचोऽपि शुश्रूषुः श्रोतुमिच्छुरस्मि । शृणोतेः सन्नन्तादुप्रत्ययः । न चैतत्तथेत्याह-अथवा । तथाहीत्यर्थः । अथवेति पक्षान्तरप्रसिझ्योरिति गणव्याख्यानात् । श्रेयसि विषये केन तृप्यते । न केनापीत्यर्थः । कृतार्थताया इयत्ताभावादिति भावः । भावे लिद ॥ गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया । तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ॥३०॥ __गतस्पृहोऽपीति ॥ गतस्पृहो विरक्तोऽपि त्वमागमनप्रयोजनं वदेति वक्तुं यया धृष्टतया व्यवसीयत उद्यम्यते । स्यतेर्भावे लद । उदितमुत्पन्नमुक्तं वा आत्मनो मम गौरवं येन स गुरुः श्लाघ्य एष तवागम आगमनमेव नोऽस्माकं धृष्टतां तनोति विस्तारयति । 'तनु विस्तारे' लट् । भवतो निस्पृहत्वेऽपि प्रेक्षावत्प्रवृत्तेः प्रयोजनव्याह्या सावकाशः प्रश्न इति भावः ॥ इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया । त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य गुरु योगिनामपि ३१ इति ब्रुवन्तमिति ॥ इति ब्रुवन्तं तं हरिं स व्रती मुनिरुवाच । किमिति । हे पुरुषोत्तम पुरुषेषु श्रेष्ठ । 'न निर्धारणे' इति षष्टीसमासप्रतिषेधः । त्वया इत्थं 'गतस्पृहोऽपि' इति न वाच्यम् । निस्पृहस्याप्यत्र प्रयोजनसंभवादिति भावः । तदेवाह । योगिनामपि त्वमेव साक्षात्करणीयः प्रत्यक्षीकर्तव्य इत्यतोऽस्मादन्यद्गुरु कार्य किमस्ति । न किंचिदित्यर्थः । तस्मान्न प्रयोजनान्तरप्रश्नावकाश इति भावः॥ Page #25 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । यदुक्तं योगिनामपि त्वमेव साक्षात्करणीय इति तदेव द्रढयतिउदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् । उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया ॥ ३२ ॥ १३ उदीर्णरागेति ॥ उदीर्ण उद्विको रागो विषयाभिलाषः स एव प्रतिरोधकः प्रतिबन्धकः पाटच्चरश्च यस्मिन् । 'प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः' इत्यमरः । अभीक्ष्णमक्षुण्णतयानभ्यस्तत्वेनाप्रतिहतत्वेन च जनैरतिदुर्गमं मोक्षपथमपवर्गमार्ग, कान्तारं चोपेयुषः प्राप्तवतः । 'उपेयिवान् -' इत्यादिना वस्वन्तो निपातः । मनस्विनः सुमनसः, धीरस्य च । प्रशंसायां विनिः । त्वमेव निरपायः पुनरावृत्तिरहितः संश्रयः प्राप्तिर्यस्याः सा तथोक्ता । 'न स पुनरावर्तते' इति श्रुतेः । अग्रभूमिः प्राप्यस्थानम् । 'अग्रमालम्बने प्राप्ये' इति विश्वः । 'सोऽहम्' इत्यादिश्रुतेस्तत्प्राप्तेरेव मोक्षत्वादिति भावः । तस्मान्मुमुक्षूणामपि त्वमेव साक्षात्करणीय इति सिद्धम् । 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति श्रुतेः । यथा कस्यचित्कुतश्चित्संकटान्निर्गतस्य केनचित्कान्तारेण गतस्य किंचिन्निर्बाधस्थानप्राप्तिरभयाय कल्पते तथा त्वमपि मुमुक्षोरिति ध्वनिः ॥ प्रकृतिविविक्तपुरुषसाक्षात्कारान्मोक्षो नास्मत्साक्षात्कारादित्याशङ्कय ननु सोऽपि त्वमेवेत्याह उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथंचन । बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ||३३|| उदासितारमिति ॥ पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसैरन्तर्निबद्धचित्तैर्योगिभिः । आत्मनि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः । 'अनश्च' इति समासान्तष्टच् । अध्यात्मं या दृकू ज्ञानं तयाध्यात्मदृशा प्रत्यग्दृष्ट्या कथंचन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह- उदासितारमुदासीनम् । प्रकृतौ स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारेभ्यो बहिः बहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः । किंच प्रकृते स्त्रैगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । 'प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे' इति यादवः । पुरा भवं पुरातनमनादिम् | 'सायंचिरम् -' इत्यादिना ट्युप्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । 'विदो लटो वा' इति झेरुसादेशः । यथाहु: - 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिनं विकृतिः पुरुषः ॥' इति । ' अजामेकां लोहितशुक्लकृष्णाम्' इत्यादिश्रुतिश्च । सोऽपि त्वमेव 'तत्त्वमसि' इत्यादिवाक्यैरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्टृक्तमिति भावः ॥ शिशु० २ Page #26 -------------------------------------------------------------------------- ________________ शिशुपालवधे __एवं भगवतो निर्गुणस्वरूपमुक्त्वा संप्रति प्रस्तुतोपयोगितया सगुणमानित्य षद्भिः स्तौतिनिवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः। जगत्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥ ३४ ॥ - निवेशयामासिथेति ॥ जगत्रयस्यैकस्थपतिरेकाधिपतिरेकशिल्पी च । 'स्थपतिरधिपतौ तक्षिण बृहस्पतिसचिवयोः' इति वैजयन्ती । त्वं हेलयोद्धृतम् । वराहावतारे इति भावः । फणाभृतामोकस आश्रयस्य, सद्मनश्च । 'ओकः सद्मनि चाश्रये' इति विश्वः । एकं छादनमावरणं भूतलमुच्चकैरुन्नतेषु च अहीश्वरः शेष एव स्तम्भस्तस्य शिरःसु मूर्धसु, अग्रेषु च । फणासहस्रष्विति भावः । निवेशयामासिथ निवेशितवानसि । विशतेय॑न्ताल्लिटि थल । 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः । अत्र श्लिष्टाश्लिष्टरूपकयोर्हेतुहेतुमद्भावाच्छृिष्टं परम्परितरूपकम् ॥ अनन्यंगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते । मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरैः करोत्यधः॥३५॥ ___ अनन्येति ॥ न विद्यतेऽन्यो गुरुय॑स्यास्तस्या अनन्यगुर्वाः इत्यनीकारान्तः पाठः । समासाप्राङ्डीषि 'नधृतश्च' इति कप्प्रसङ्गः स्यात् । पश्चात्त्वनुपसर्जनाधिकारात् 'वोतो गुणवचनात्' इति प्राप्नोति । 'ङिति इस्वश्च' इति वा नदीसंज्ञात्वात् 'आपनद्याः' इत्याडागमः । केचित्तु समासान्तविधिरनित्य इति कपं वारयन्ति । तस्याः सर्वोत्तमायास्तव पुराणमूर्तेरमानुषस्वरूपस्य । केवलः कृत्स्नः । 'केवलः कृत्स्न एकः स्यात्केवलश्वावधारणे' इति विश्वः । महिमा केनावगम्यते । न केनापीत्यर्थः । कुतः । मनुष्याजन्म यस्य स मनुष्यजन्मा भवान् । 'अवयॊ हि बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः' इति वामनः। भवच्छेदकरैः संसारनिवर्तकैर्गुणैर्ज्ञानादिभिः सुरासुरान् । सुरासुरविरोधस्य कार्योपाधिकत्वेनाशाश्वतिकत्वात् 'येषां च विरोधः शाश्वतिकः' इति न द्वन्द्वैकवद्भाव इत्याहुः । अधः करोति । 'शेषे प्रथमः' इति प्रथमपुरुषः । भवच्छब्दस्य युष्मदस्मदन्यत्वेन शेषत्वादिति । मानुष एव ते महिमा दुरवगाहः । अमानुषस्तु किमिति तात्पर्यार्थः । द्वितीयार्थेऽसकृयञ्जनावृत्त्या छेकानुप्रासः ॥ लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः। उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥ लघूकरिष्यन्निति ॥ त्वमतिभारेणोजैन स्वरूपेण भङ्गुरां स्वयं भज्यमानाम् । 'भाभासभिदो घुरच्' । 'भङ्गुरः कर्मकर्तरि' इति वामनः । अमूम् । भुवमित्यर्थः । लघूकरिष्यन्निर्भारां करिष्यन् किल । 'कृस्वस्ति-' इत्यादिनाऽभूततद्भावे विः । 'च्ची च' इति दीर्घः । तृतीया द्यौस्त्रिदिवः स्वर्गस्तस्मात् । 'घजथै कविधानम्। १ 'अनन्यगुाः ' इति पाठः. २ 'भवोच्छेद' इति पाठ.. Page #27 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वं विभागादिवत् । अवातरः अवतीर्णोऽसि । सांप्रतं संप्रत्युदूढलोकत्रितयेन । कुक्षाविति शेषः । त्वया धरित्री गुरुः पूज्या, भारवती च क्रियतेतरामतिशयेन क्रियते । 'तिङश्च' इति तरप् । 'किमेत्तिङव्ययघात्-' इत्यादिना आमुप्रत्ययः । लघुकर्ता गुरुकर्तेति विरोधाभासोऽलंकारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥ निजौजसोज्जासयितुं जगद्हामुपाजिहीथा न महीतलं यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ३७ निजेति ॥ निजौजसा स्वतेजसा जगन्यो द्रुह्यन्तीति जगद्रुहः कंसादयः । 'सत्सूद्विष-' इत्यादिना विप् । तेषां उजासयितुम् । तान्हिसितुमित्यर्थः । 'जासिनिग्रहण-' इत्यादिना कर्मणि शेषे षष्ठी । 'जसु हिंसायाम्' इति चुरादिः। महीतलं नोपाजिहीथा यदि नावतरेश्चेत् । 'ओहाङ् गतौ' लङि थासि रूपम् । ततस्तर्हि समाहितैः समाधिनिष्ठैरपि। सकर्मकादप्याशितादिवदविवक्षिते कर्मणि कर्तरि क्तः । अथवा समाहितः । समाहितचित्तैरित्यर्थः। विभक्तधनेषु 'विभक्ता भ्रातरः' इतिवदुत्तरपदलोपो द्रष्टव्यः । गम्यमानार्थस्याप्रयोग एव लोप इति कैयटः । अनिरूपितोऽगृहीतस्त्वमीश, मादृशाम् । चर्मचक्षुषामिति भावः । विनयोक्तिरियम् । शो दृष्टेः पदं गोचरः कथं स्याः। न कथंचिदित्यर्थः । तस्मा. स्वत्साक्षात्कार एवागमनप्रयोजनमिति भावः ॥ __ननु कोऽयं नियमो यन्ममैवायं दुष्टनिग्रहाधिकार इत्याशङ्कयाऽनन्यसाध्यत्वमे. वाह- . उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे। .. ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नमः ३८ उपप्लुतमिति ॥ विश्वं बिभर्तीति विश्वंभरस्तत्संबुद्धौ हे विश्वंभर विश्वत्रातः । 'संज्ञायां भृतवृजि-' इत्यादिना खच्प्रत्यये मुमागमः । मदोद्धतैः कंसादिमिरुपप्लुतं पीडितं अदो विश्वं पातुं त्वमेव ईशिषे शक्तोऽसि । विश्वंभरत्वादिति भावः । 'ईश ऐश्वर्य' लिटि थासि रूपम् । अत्र वैधम्र्येण दृष्टान्तमाह-क्षपाया. स्तमस्काण्डैस्तमोवगैः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । 'कस्कादिषु च' इति विसर्जनीयस्य सत्वम् । मलीमसं मलिनम् । 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः । 'ज्योत्स्नातमिस्रा-' इत्यादिना मत्वर्थीयो निपातः । नभः क्षालयितुं रवेः ऋते रविं विना । 'अन्यारादितरर्ते-' इति पञ्चमी । कः क्षमेत शक्नुयात् । न कोऽपीत्यर्थः । अत्र वाक्यद्वये समानधर्मस्यैकस्पेशिषे क्षमतेति शब्दद्वयेन वस्तुभावेन निर्देशात्तत्रापि व्यतिरेकमुखत्वाद्वैधर्येण प्रतिवस्तूपमालंकारः । तदुक्तम् –'सर्वस्य वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रतिवस्तूपमा' इति ॥ Page #28 -------------------------------------------------------------------------- ________________ शिशुपालवधे करोति कंसादिमहीभृतां वधाजनो मृगाणामिव यत्तवं स्तवम् । हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥३९॥ करोतीति ॥ किंच जनो मृगाणामिव कंसादिमहीभृतां वधाहेतोः स्तवं स्तोत्रम् । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः। करोतीति यत् । हे हरे हे कृष्ण, हे सिंहेति च गम्यते । सा स्तुतिक्रिया हिरण्याक्षपुरःसरा हिरण्याक्षप्रभृतयो येऽसुरास्त एव द्विपास्तेषां द्विषः । हन्तुरित्यर्थः । तस्य तव प्रत्युत वैपरीत्येन । 'प्रत्युतेत्युक्तवैपरीत्ये' इति गणव्याख्यानात् । तिरस्क्रियावमानः । यदिति सामान्ये नपुंसकम् । सेति विधेयलिङ्गम् । गजघातिनः सिंहस्य मृगवधवर्णनमिव महासुरहन्तुस्तव कंसादिक्षुद्रनृपवधवर्णनं तिरस्कार एवेत्यर्थः। अत्रासुरद्विपानामिति हरिवद्धरिरिति श्लिष्टपरम्परितरूपकं मृगाणामिवेत्युपमयाङ्गाङ्गिभावेन संकीर्यते ॥ एवं स्तुत्या देवमभिमुखीकृत्यागमनप्रयोजनं वक्तुमुपोद्धातयतिप्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ४० .. प्रवृत्त इति ॥ त्वमुज्झितश्रमस्त्यक्तश्रमः सन् क्रमेण भुवनानि द्विषन्तीति भुवनद्विषो दुष्टास्तेषां पेष्टुम् । तान्हिसितुमित्यर्थः । 'जासिनिप्रहण-' इत्यादिना कर्मणि शेषे षष्ठी । स्वयमपरप्रेरित एव प्रवृत्तोऽसि । एवं तर्हि पिष्टपेषणं किमिति चेत्तत्राह-तथापि स्वतःप्रवृत्तेऽपि मिथो रहसि त्वदाभाषणे त्वया सह संलापे लोलुपं लुब्धम् । लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ' इत्यमरः । मनो मां वाचालतया सह युनक्ति । वाचालं करोतीत्यर्थः । वाचो बह्वयोऽस्य सन्तीति वाचालः । 'आलजाटचौ बहुभाषिणि' इत्यालच् । 'स्याजल्पाकस्तु वाचालो वाचाटो बहुगीवाक्' इत्यमरः ॥ अथ स्ववाक्यश्रवणं सहेतुकं प्रार्थयतेतदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते । समस्तकार्येषु गतेन धुर्यतामहिद्विपस्तद्भवता निशम्यताम् ॥४१॥ तदिति ॥ तत्तस्मादिन्द्रमुपगत उपेन्द्र इन्द्रावरजः । अत एवेन्द्रसंदिष्टम् । श्रोतव्यमिति भावः । किंच विश्वस्मै जनाय हितं विश्वजनीनम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' । यद्वचः क्षणं नतु चिरं मयोच्यते, तद्वचोऽहिद्विषो वृन्नः । 'सर्प वृत्रासुरेऽप्यहिः' इति वैजयन्ती । समस्तकार्येषु धुर्यतां धुरंधरत्वं गतेन । अतोऽपि भवता निशम्यताम् । प्रार्थनायां लोट् । धुरं वहतीति धुर्यः । 'धुरो यड्डकौ' इति यत्प्रत्ययः । स्फुटमन पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १ 'यस्तव' इति पाठः. २ 'हरोहि' इति पाठः. Page #29 -------------------------------------------------------------------------- ________________ 24 प्रथमः सर्गः । अथ शिशुपालो हन्तव्य इति वक्तुं तस्यावश्यवध्यत्वेऽनन्यवध्यत्वज्ञापनापयिकतया औद्धत्यप्रकटनार्थं जन्मान्तरवृत्तान्तं तावदुद्घाटयतिअभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः । यमिन्द्रशब्दार्थनिसूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥ अभूदिति ॥ प्रतिपक्षाच्छत्रोः जन्म यासां तासां भियामभूमिरविषयः । निर्भीक इत्यर्थः । तपनद्युतिः सूर्यतापो दितेस्तनूजो दैत्योऽभूत् । कोऽसावत आह— हरेरिन्द्रस्य इन्द्रशब्दार्थनिसूदनं इन्दतीति इन्द्रः । ' इदि परमैश्वर्ये' । 'ऋजेन्द्र - ' इत्यादिना रन्प्रत्ययान्त औणादिकनिपातः । तस्य इन्द्र इति शब्दस्येन्द्र इति संज्ञापदस्य योऽर्थः परमैश्वर्यलक्षणस्तस्य निसूदनं निवर्तकम् । कर्तरि ल्युट् । हरेरैश्वर्यनिहन्तारमित्यर्थः । यं दैत्यं हिरण्यशब्दपूर्वं कशिपुशब्दं प्रचक्षते । 'हिरण्यकशिपुमाहुरित्यर्थः । अत्र हिरण्यशब्दपूर्वकत्वं कशिपुशब्दस्यैव नतु संज्ञिनस्तदर्थस्येति शब्दपरस्य कशिपुशब्दस्यार्थगतत्वेनाप्रयोज्यस्य प्रयोगादवाच्यवचनाख्यार्थदोषमाहुः | 'यदेवावाच्यवचनमवाच्यवचनं हि तत्' इति समाधानम् । एवंविधविषये शब्दपरेणार्थलक्षणेति कथंचित्संपाद्यमित्युक्तमस्माभिः 'देवपूर्वं गिरिं ते' इति । 'धनुरुपपदमस्मै वेदमभ्यादिदेश' इत्येतद्व्याख्यानावसरे संजीविन्यां घण्टापथे चाविशेषश्चात्र-यं दैत्यमुद्दिश्य हिरण्यपूर्वं कशिपुं प्रचक्षते संज्ञात्वेन प्रयुङ्क्ते ॥ समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम् । भयस्य पूर्वावतरस्तरखिना मनस्तु येन सदां न्यवीयत ॥ ४३ ॥ समत्सरेणेति ॥ समत्सरेणान्यशुभद्वेषसहितेन । 'मत्सरोऽन्यशुभद्वेषे' इत्यमरः । अस्यतीत्यसुरः । असेरुरन् । असुर इति नाम्नः चिराय चिरकालेन "चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । प्रथमाभिधेयतामुपेयुषा अन्वर्थतया मुख्यार्थतां गतेन तरस्विना बलवता । ' तरसी बलरंहसी' इति विश्वः । येन हिरण्यकशिपुना दिवि सीदन्तीति सदां देवानां मनस्सु भयस्य पूर्वावतारः प्रथमप्रवेशः । 'ऋदोरप्' । न्यधीयत निहितः । धाञः कर्मणि लिङ् । अस्मादेव देवानां प्रथमं भयस्योत्पत्तिरभूदित्यर्थः ॥ दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे । अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥ दिशामिति ॥ श्रियः संपदो यतः । यदेत्यर्थः । दिशामधीशान्दिक्पतीनपि चतुरः सुरानिन्द्रवरुणयमकुबेरानपास्य त्यक्त्वा तं हिरण्यकशिपुं रागहृता रागकृष्टाः सत्यः । नतु बलादिति भावः । सिषेविरे । यतो वीरप्रियाः श्रिय इति भावः । तत आरभ्य तदाप्रभृति अयशः करोतीत्ययशस्करम् । दुष्कीर्तिहेतुमित्यर्थः । ‘कृञो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययः । ' अतः कृकमि - ' इत्यादिना विसर्जनीयस्य सत्वम् । उच्चैः प्रचुरं चला अस्थिरा इति प्रवादं जनापवादमवापुः । दिगीशानामपि सर्वस्वहारित्वात्तदौद्धत्यस्य प्राकट्यमिति भावः ॥ Page #30 -------------------------------------------------------------------------- ________________ ૮ ६) शिशुपालवधे पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः । स्वरूपशोभैकर्फलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥ पुराणीति ॥ किंच | नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्कय बाधकत्वेनोत्प्रेक्ष्य स काल आदिर्यस्मिंस्तदादि तत्तदाप्रभृति स्वरूपशोभैवैकफलं मुख्यं प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्तानि । प्रागीहगसाध्यशत्रोरभावादिति भावः । ‘नपुंसकमनपुंसकेन -' इत्यादिना नपुंसकशेषः । पुराणि दुर्गाणि प्राकारपरिखादिना अगम्यानि चक्रिरे । 'सुदुरोरधिकरणे' इति गमेर्ड: । आयुधं निशातं निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः । 'शो तनूकरणे' इति धातोः क्तः । 'शाच्छोरन्यतरस्याम्' इतीत्वविकल्पात्पक्षे आत्वम् । बलानि सैन्यानि शूराणि शौर्यवन्ति चक्रिरे संपादितानि । कञ्चुका वारबाणाः । लोहवर्माणीत्यर्थः । 'कञ्जुको वारबाणोऽस्त्री' इत्यमरः । घना दुर्भेदाश्चक्रिरे । इत्थं नित्यसंनद्धा जाग्रति स्मेत्यर्थः ॥ स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ॥४६॥ स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । 'सुप्सुपा' इति समासः । संचरिष्णुः संचरणशीलः । ‘अलंकृज् -' इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः यच्छया स्वैरवृत्त्या । 'यदृच्छा स्वैरवृत्तिः' इत्यमरः । यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् 'णिश्रि-' इत्यादिना चङि द्विर्भाव इयङादेशः । मुकुटोपलेषु मौलिरत्त्रेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः । ‘उपलः प्रस्तरे रत्ने' इति विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि, जन्मसत्तावृ यो वा येषां तैस्त्रिदशैर्देवैः । यद्वा त्रिदेश परिमाणमेषामिति 'बहुव्रीहौ संख्येये डजबहुगणात्' इति समासान्तः । तिस्रः संध्याः समाहृतास्त्रिसन्ध्यम् । 'तद्धितार्थोत्तरपद -' इत्यादिना समाहारे द्विगुः । 'द्विगुरेकवचनम् ' वा टाबन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करैर्हस्तैः । ' नमः स्वस्ति- ' इत्यादिना चतुर्थी | नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । 'चिण भावकर्मणोः' इति चिण् । संध्यावन्दनेऽपि दिङ्गियमं परित्यज्य तदागमनभयातस्यै दिशे नमस्कारः कृत इति भावः ॥ अथ सोऽपि त्वयैवहत इत्याह सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया । स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥ सटाच्छटेति ॥ हे नृसिंह, नरः सिंह इवेत्युपमितसमासः । ना चासौ सिंहश्चेति प्रस्तावात् । सिंहस्येमां सैंहीं तनुं कार्यं बिभ्रता । नृसिंहावतार भाजेत्यर्थः । किंभूतां । अतनुं विस्तीर्णाम् । अतएव सटाच्छटाभिः केशरसमूहैः भिन्ना घना मेघा १ 'गुणानि' इति पाठः. २ 'श्रियाम्' इति पाठः. Page #31 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। १९ येन । अभ्रंकषविग्रहत्वादिति भावः । 'सटा जटाकेशरयोः' इति 'तनुः काये कृशेऽल्पे च' इति विश्वः । त्वया स दैत्यः । मुग्धौ नवौ । 'मुग्धः सौम्ये नवे मूढे' इति वैजयन्ती । यौ कान्तास्तनौ तयोः सङ्गेनापि भङ्गुरैः कुटिलैनखैरुरोविदारमुरो विदार्य । 'परिक्लिश्यमाने च' इति णमुलप्रत्ययः। प्रतिचस्करे हतः । किरतेः कर्मणि लिट् । 'ऋच्छत्यताम्' इति गुणः । 'हिंसायां प्रतेश्च' इति सुडागमः । वज्रकठिनोऽपि नखैर्विदारित इति वाङ्मनसयोरगोचरमहिम्नस्ते किमसाध्यमिति भावः ॥ अथास्य जन्मान्तरचेष्टितान्याचष्टेविनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः । स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः॥४८॥ विनोदमिति ॥ अथ स हिरण्यकशिपुः पुनर्भूयोऽपि त्रिदशैः समं सह । 'साकं साधं समं सह' इत्यमरः । रणेन दर्पादन्तःसाराजन्म यस्यास्तस्याः कण्ड्वाः भुजकण्डूतेर्विनोदमपनोदमिच्छन् । प्राग्भवनखक्षतैस्तदपनोदाभावादित्यर्थः । दिवः स्वर्गस्य क्षतं नष्टं रक्षणं रक्षा येन तत् । क्षतधुरक्षणमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। अनेन देवसर्वस्वापहारित्वमुक्तम् । भीषयत इति भीषणः। नन्द्यादित्वाल्लयुः । 'भियो हेतुभये षुक्' इति षुक् । निकामं भीषणः। 'सुप्सुपा' इति समासः । रावणो नाम रावण इति प्रसिद्धं रक्षो बभूव । राक्षसयोनौ जात इत्यर्थः। विश्रवसोऽपत्यं पुमान्रावण इति विग्रहः। 'तस्यापत्यम्' इत्यणि कृते 'विश्रवसो विश्रवणरवणौ' इति प्रकृते रवणादेशः । पौराणिकास्तु रावयतीति व्युत्पादयन्ति । तदुक्तमुत्तरकाण्डे-'यस्माल्लोकत्रयं चैतद्भावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि ॥' इति । रौतेय॑न्तात्कर्तरि ल्युट् । रावणरक्षसोनियतलिङ्गत्वाद्विशेष्यभावेऽपि स्वलिङ्गता ॥ अथास्यौद्धत्यमष्टादशश्लोक्याचष्टेप्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागादशमं चिकर्तिपुः। अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः॥४९॥ प्रभुरिति ॥ यो रावणः भुवनत्रयस्य प्रभुः स्वामी बुभूषुर्भवितुमिच्छुः । भुवः सन्नन्तादुप्रत्ययः । अतिरागादुत्साहात्, नतु फलविलम्बननिर्वेदादिति भावः । दशमं शिरः चिकर्तिषुः कर्तितुं छेत्तुमिच्छुः । 'कृती छेदने' इति धातोः सन्नन्तादुप्रत्ययः । इष्टसाहसः प्रियसाहसः। अतएवेच्छासदृशमिच्छानुरूपं पिनाकिनः प्रसादं वरं विघ्नमिति वातर्कयदुत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः । इत आरभ्य श्लोकषट्केऽपि यच्छब्दस्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः। रङ्गराजस्तु 'न चक्रमस्याक्रमताधिकंधरम्' इति उपरिष्टादन्वय इत्याह । तदसत् । 'गुणानां च परार्थत्वात्' इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानान्वयिनां मिथः संबन्धायोगादित्यलं शाखाचकमणेन । पुरा किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय Page #32 -------------------------------------------------------------------------- ________________ २० शिशुपालवधे नव शिरांस्यग्नौ हुत्वा दशमारम्भे संतुष्टात्तस्मात्रैलोक्याधिपत्यं वने इति पौराणिकी कथानानुसंधेया ॥ अथ कैलासोतक्षेपणवृत्तान्तमाहसमुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः। वसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥ ५० ॥ समुत्क्षिपन्निति ॥ यो रावणः पृथिवीभृतां पर्वतानां वरं श्रेष्ठं कैलासं समुक्षिपन् । दर्पादिति शेषः । शूलिनो वरप्रदानस्य पूर्वोक्तस्य । सन्त्याः शैलचलनेन बिभ्यत्यास्तुषाराद्रिसुतायाः पार्वत्याः ससंभ्रमो यः स्वयंग्रहः प्रियप्रार्थनां विना कण्ठग्रहणम् । 'सुप्सुपा-' इति समासः । तेन आश्लेषः संमेलनं तेन यत्सुखं तेन । त्रैलोक्याधिपत्यसुखादुत्कृष्टेनेति भावः । निष्क्रयं प्रत्युपकारनिर्गतिं चकार । 'निष्कयो बुद्धियोगे स्यात्सामर्थ्य निर्गतावपि' इति वैजयन्ती । यद्वा निष्कयं चकार क्रयेण व्यवहारेण याजादोषदैन्यं ममार्जेत्यर्थः । अत्र सुखवरदानयोर्विनिमयात्परिवृत्तिरलंकारः ॥ पुरीमवस्कन्द लुनीहि नन्दनं मुपाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ५१ पुरीमिति ॥ यो बली बलवान्रावणो नमुचिद्विषा इन्द्रेण विगृह्य विरुध्य पुरीममरावतीमवस्कन्दावरुरोध । नन्दनमिन्द्रवनम् , 'नन्दनं वनम्' इत्यमरः । लुनीहि चिच्छेद । 'ई हल्यघोः' इतीकारः । रत्नानि श्रेष्टवस्तूनि मणीन्वा । 'रनं श्रेष्ठे मणावपि' इति विश्वः । मुषाण मुमोष । 'मुष स्तेये' । 'हलः नः शानज्झौ' इति श्नः शानजादेशः । अमराङ्गनाः हर जहार । सर्वत्र पौनःपुन्येनेत्यर्थः । इत्थमनेन प्रकारेण अहनि च दिवा चाहर्दिवम् । अहन्यहनीत्यर्थः । 'अचतुरइत्यादिना सप्तम्यर्थवृत्तौ द्वन्द्व समासान्तो निपातः । दिवः स्वर्गस्यास्वास्थ्यमुपद्रवं चक्रे । अत्रावस्कन्देत्यादी 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इत्यनुवृत्तौ ‘समुच्चयेऽन्यतरस्याम्' इति विकल्पेन कालसामान्ये लोद । सस्य यथोपग्रहं सर्वतिङादेशो हिस्खौ च । प्रकरणादिना त्वर्थविशेषावसानम् । 'अतो हेः' इति यथायोग्यं हिलुक् । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । अवस्कन्दनादिक्रियाविशेषाणां समुच्चयः क्रियासमभिहारः । तत्सामान्यस्य करोतेः 'समुच्चये सामान्यवचनस्य' इत्यनुप्रयोगः चक्रे इति । 'अत्र तिबैचिव्यात्सौशब्दाख्यो गुणः । 'सुपां तिङां परावृत्तिः सौशब्दम्' इति लक्षणात् । समुच्चयश्वालंकारः॥ सलीलयातानि न भर्तुरभ्रमोन चित्रमुच्चैःश्रवसः पदक्रमम् । अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५२॥ .. १ 'वशी' इति पाठः. २ 'महर्निशं' इति पाठः. Page #33 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । ' सलीलेति ॥ संयति युद्धे । 'समुदायः स्त्रियां संयत्समित्याजिसमिधुधः' इत्यमरः । येन रावणेन अनुदुतोऽनुधावितः बलस्य शत्रुरिन्द्रः अभ्रमोर्भतुरैरावतस्य सलीलयातानि सभङ्गीकगमनानि न प्रशशंस । तथा उच्चैःश्रवसः स्वाश्वस्य चित्रं नानाविधं पदक्रमं पादविक्षेपम् । अर्धपुलायितादिगतिविशेषमित्यर्थः । न प्रशशंस । किंतु केवलं शीघ्रतां शीघ्रगामित्वमेव प्रशशंस । अन्यथा शीघ्र मामास्कन्ध ग्रहीष्यतीति भावः ॥ अशक्नुवन् सोढमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यदिवसानि कौशिकः ५३ अशक्नुवन्निति ॥ अधीरलोचनोऽस्थिरदृष्टिः कौशिको महेन्द्रः, उलूकश्च । 'महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः' इत्यमरः । सहस्ररश्मेः सूर्यस्येव यस्य 'रावणस्य विक्रमकर्मणो दर्शनं सोढुमशक्नुवन् । हेमाद्रेर्गुहैव गृहं तस्यान्तरं प्रविश्य बिभ्यत्तत्रापि वेपमान एव । बिभेतेः शतरि 'नाभ्यस्ताच्छतुः' इति नुमभावः । दिवसानि वासराणि निनाय । 'वा तु क्लीबे दिवसवासरौ' इत्यमरः । यथा पेचकः 'सूर्योदये भीतः संतिष्ठति तथा सोऽपीति भावः । कौशिक इत्यभिधायाः प्रस्तुतैकगोचरत्वेनोभयश्लेषेऽपि विशेष्यश्लेषासंभवादुलूकविषयशब्दशक्तिमूलो ध्वनिः । सहस्ररश्मेरिवेत्युपमाननिर्वाहकत्वाद्वाच्यसिद्ध्यङ्गम् ॥ बृहच्छिलानिष्ठुरकण्ठघट्टनाद्विकीर्णलोलाग्निकणं सुरद्विषः। जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकंधरम् ॥ ५४॥ . बृहच्छिलेति ॥ बृहति शिलेव निष्ठुरे कण्ठे धट्टनादभिघाताद्विकीर्ण विक्षिप्ताः लोलाश्चाग्निकणाः स्फुलिङ्गा यस्य तत् । अत एवाप्रसहिष्णु अनभि. भावकम् । प्रसहनमभिभव इति वृत्तिकारः । 'अलंकृञ्-' इत्यादिना इष्णुच् । वैष्णवं चक्रं सुदर्शनं जगत्प्रभोः सकललोकैकस्वामिनः । अस्य सुरद्विषो रावणस्य कंधरायामिति अधिकंधरमधिग्रीवम् । विभक्त्यर्थेऽव्ययीभावः। 'अव्ययीभावश्च' इति नपुंसकत्वात् 'हूस्वो नपुंसके प्रातिपदिकस्य' इति इस्वत्वम् । 'कण्ठो गलोऽथ ग्रीवायां शिरोधिः कंधरेत्यपि' इत्यमरः । नाक्रमताप्रतिहतं न क्रमतें स न प्रवर्तते स्म । किंतु प्रतिहतमेवेत्यर्थः । 'वृत्तिसर्गतायनेषु क्रमः' इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः ॥ विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः। निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः॥५५॥ . विभिन्नेति ॥ स रावणो मदेन दर्पण, इभदानेन च । 'मदो दर्पेभदानयोः' इति विश्वः । दन्तीव गज इव विभिन्नो विघट्टितः शङ्खो निधिभेदः, कम्बुश्च येन सः सन् । 'शङ्खो निध्यन्तरे कम्बुललाटास्थिनखेषु च' इति विश्वः । अकलुपं कलुषं क्षुब्धमाविलं च भवत्कलुषीभवत् । निरस्तं गाम्भीर्यमविकारित्वं, अगाधत्वं Page #34 -------------------------------------------------------------------------- ________________ २२ शिशुपालवधे च यस्य तत् । अपास्तानि पुष्पाणि, पुष्पकं विमानं च यस्मात्तत् । पुष्पपक्षे वैभाषिकः कप्प्रत्ययः । मनुष्यस्येव धर्मः श्मश्रुलत्वादिर्यस्येति स्वामी । तस्य मनुष्यधर्मणः । 'धर्मादनिच् केवलात्' इत्यनिच् । मानसं चित्तं, तदीयं सरश्च । 'मानसं सरसि स्वान्ते' इति विश्वः । मुहुर्न कम्पयामास न क्षोभयामासेति न । किंतु कम्पयामासैवेत्यर्थः । कुबेरस्य महामहिमतया संभाविताप्रकम्पित्वनिवारणाय नद्वयम् । 'संभाव्यनिषेधनिवर्तने नद्वयम्' इति वामनः । अत्र दन्तिरा - वणयोः प्रकृताप्रकृतयोः श्लेषः ॥ रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुंकारपराङ्मुखीकृताः । प्रहर्तुरेवोरगराजरजवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ ५६ ॥ रणेष्विति ॥ किंचरणेषु प्रचेतसा वरुणेन प्रहिताः प्रयुक्ता उरगराजा महासर्पास्ते रज्जव इव उरगराजरज्जवः । नागपाशा इत्यर्थः । तस्य रावणस्य सरोषहुँकारेण पराङ्मुखीकृता व्यावर्तिताः । अतएव सभयाः सत्यः जवेन वेगेन प्रहर्तुः प्रयोक्तुः प्रचेतस एव कण्ठं प्रपेदिरे प्राप्ताः । अत्र परहिंसाप्रयुक्तस्यायुधस्य वैप - रीत्येन स्वकण्ठग्रहणादनर्थोत्पत्तिरूपो विषमालंकारः । ' विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत्' इति लक्षणात् ॥ परेतभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः । हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥ परेतभर्तुरिति ॥ अमुना रावणेन धनुः शाङ्गं विधातुं निर्मातुमुत्खातमुत्पाटितं विषाणयोः शृङ्गयोर्मण्डलं वलयं यस्य स परेत भर्तुर्यमस्य महिषः । वाहनभूत इति भावः । भारे विषाणरूपे । भृञो घञ् । हृतेऽपि महतस्त्रपैव भरस्तस्मात् । ततोऽपि दुर्भरादिति भावः । भृधातोः कैयादिकात् 'ऋदोरपू' इत्यप्प्रत्ययः । भृशमत्यर्थमानतं नम्रं शिरो दुःखेनोवाह वहति स्म । 'असंयोगालिद कित्' इति कित्त्वात् ' वचिस्वपि -' इत्यादिना संप्रसारणम् । हृतेऽपि भारे नतमिति विरोधः । तदनुप्राणिता चेयमवनति हेतुत्वसाधर्म्यात्रपाभारत्वोत्प्रेक्षा ॥ स्पृशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः । अधर्मधर्मोदकविन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥ 1 स्पृशन्निति ॥ अहः करोतीत्यहस्करः सूर्यः । ' दिवाविभानिशा -' इत्यादिना टप्रत्ययः । कस्कादित्वात्सत्वम् । शुचौ समये ग्रीष्मकाले, अनुपहते आचारे च स्थितोऽपि । ‘शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । असमग्रपातिभिः । संकुचितवृत्तिभिरित्यर्थः । कराणामशूनां हस्तानां चायैः । ' बलि हस्तांशवः कराः' इत्यमरः । सशङ्कः स्पृशन् । अविश्वासभयादिति भावः । अधर्मा अनुष्णा धर्मोदकबिन्दवः स्वेदोदबिन्दवः । 'मन्थौदन -' इत्यादिना विकल्पादुदकशब्दस्योदादेशाभावः । तैरेव मौक्तिकैरस्य वधूरलंचकार । ग्रीष्मे तद्भयान्नासह्यं 1 Page #35 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। २३ तपतीत्यर्थः । अत्र प्रस्तुतसूर्यविशेषणमात्रसाम्यादप्रस्तुतप्रसाधकप्रतीतेः समासोक्तिरलंकारः॥ कलासमग्रेण गृहानमुश्चता मनस्विनीरुत्कयितुं पटीयसा । विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिव्यमकारि नेन्दुना ५९ कलासमग्रेणेति ॥ कलाभिः षोडशांशैः, शिल्पविद्याभिश्च समग्रेण संपू. गैन । 'काले शिल्पे वित्तवृद्धौ चन्द्रांशे कलने कला' इति वैजयन्ती । गृहानमुञ्चता सदा तद्गृहेष्वेव वसता । दण्डभयात्सेवाधर्मत्वाचेति भावः । मनस्विनीर्मानिनीरुत्का उत्सुकाः कर्तुम् उत्कयितुम् । 'उत्क उन्मनाः' इति निपातनादुकशब्दात् 'तत्करोति-' इति ण्यन्तात्तुमुन् । पटीयसा । मानभेदचतुरेणेत्यर्थः । कुतः । रतिं वितन्वता चन्द्रिकाभिश्चतुरोक्तिभिश्च रागं वर्धयता इन्दुना विलासिनो विलसनशीलस्य । 'वौ कषलस-' इत्यादिना घिनुण् प्रत्ययः । तस्य रावणस्य नर्मसाचिव्यं क्रीडासंबन्ध्यधिकारित्वे सचेष्टत्वम् । 'लीला क्रीडा च नर्म च' इत्यमरः । नाकारीति न किंत्वकार्येवेत्यर्थः । अनौचित्यात्प्राप्तनर्मसाचिव्यनिषेधनिवारणार्थं नद्वयम् । 'संभाव्यनिषेधनिवर्तने नद्वयम्' इति वामनः। . अनेन्दोः प्रकृतस्याप्रकृतेन नर्मसचिवेन श्लेषः ॥ विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना।। न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥६०॥ विदग्धेति ॥ मानिनाहंकारिणा अनेन रावणेन विदग्धलीलाः । चतुरविलासिन्य इत्यर्थः । तासामुचिताश्च ता दन्तपत्रिकाश्च कर्णभूषणानि । 'विलासिनीवि भ्रमदन्तपत्रिका' इति साधीयान्पाठः। अन्यथा विप्रकृष्टार्थप्रतीतिकत्वेन कष्टाख्यार्थदोषापत्तेः । 'कष्टं तदर्थावगमो दूरायत्तो भवेत्' इति लक्षणात् । अत्र विलासिनीनां या विभ्रमदन्तपत्रिका विभ्रमार्थानि यानि दन्तमयपत्राणि । विभ्रमदन्तशब्दयोः षष्ठीसमासपर्यवसानात्तादर्थ्यलाभः। तासां विधित्सया विधातुमिच्छया। विपूर्वाद्दधातेः 'सनि मीमा-' इत्यादिना अच इस् । 'सः सि' इति तकारः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । ततः 'स्त्रियाम्' इत्यनुवृत्तौ 'अ प्रत्ययात्' इत्यकारप्रत्यये टाप् । नूनं निश्चितं जातु कदाचिदपि । 'कदाचिज्जातु' इत्यमरः । उद्धृतमुत्पाटितं विनायकस्य गणेशस्येदं वैनायकं एकं विषाणं दन्तः । 'विषाणं पशुशृङ्गे स्यात्क्रीडाद्विरददन्तयोः' इति विश्वः । अद्यापि पुनर्न प्ररोहति न प्रादुर्भवति । प्रपूर्वात् 'रुह प्रादुर्भावे' इत्यस्माल्लद । किमन्यदकार्यमस्येति भावः । एतदन्यथा कथं गजाननस्यैकदन्तत्वमुत्प्रेक्ष्यते नूनमिति ॥ निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः । प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः॥६॥ निशान्तेति ॥ निशान्तं गृहम् । 'निशान्तं गृहशान्तयोः' इति विश्वः । तत्र Page #36 -------------------------------------------------------------------------- ________________ २४ शिशुपालवधे. या नार्यः । शुद्धान्तस्त्रिय इत्यर्थः । तासां परिधानान्यन्तरीयाणि । 'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः । तेषां धूननं चालनम् । धूलो ण्यन्ताल्लयुद। 'धूप्रीमोर्नुग्वक्तव्यः' इति नुक् । तेन स्फुटागसा व्यक्तापराधेनापि । अन्तःपुरद्रोहस्य महापराधत्वादिति भावः । ऊरुषु तासां सक्थिषु लोलचक्षुषः सतृष्णदृष्टेः । 'सक्थि क्लीवे पुमानूरुः' इति, 'लोलश्चलसतृष्णयोः' इति चामरः । अत एव तस्य रावणस्य प्रियेण प्रमोदास्पदभूतेनाङ्गीकृतः । म्लानिन दोषायेति न्यायादिति भावः । प्रकम्पनेन वायुना अनपराधेऽपराधाभावेऽपि बाधिताः । राजपुरुषैरिति शेषः । सुरा अनुचकम्पिरे। स्वयमुपायेनान्तःप्रविश्यानपराधबाधातिवेदनेन मोचयता वायुनानुकम्पिता इत्यर्थः । एकस्य वैदग्ध्यावहवो जीवन्तीति भावः॥ तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम् । चभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाळूमवितानमाधिः ॥ ६२ ॥ तिरस्कृत इति ॥ किंच तस्य रावणस्य जनाभिभाविना लोकतिरस्कारिणा महीयसामतिमहतां महसां तेजसां महिम्ना महत्त्वेन । 'पृथ्वादिभ्य इमनिज्वा' इतीमनिच् । मुहुस्तिरस्कृतः अतएव तनुः कृशः । तनुं न पातयति जाठररूपेण शरीरं धारयतीति तनूनपादग्निरिति स्वामी । 'नभ्राद-' इत्यादिसूत्रेण निपातना. नजो नलोपाभावः । आधिदुःखोत्थैर्बाष्पैः निःश्वासोष्मभिः । 'बाष्पो नेत्रजलोप्मणोः', 'पुंस्याधिर्मानसी व्यथा' इति विश्वामरौ । द्वौ गुणावावृत्ती यस्य स द्विगुणः । ततश्विः । द्विगुणीकृतं द्विरावृत्तम् । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती। धूमवितानं धूममण्डलं बभार । अग्निरपि तत्संनिधौ निस्तेजस्को धूमायमान आस्त इत्यर्थः । धूमद्वैगुण्यासंबन्धे संबन्धाभिधानादतिशयोक्तिः ॥ परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः । तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजंगता ॥६३॥ परस्येति ॥ किंच इद्धं दीप्तम् । उग्रमित्यर्थः । ‘इन्धी दीप्ती' कर्तरि क्तः । तं रावणमाराधयितुं सेवितुं परस्य स्वेतरस्य मर्माणि हृदयादिजीवस्थानानि, कुलाचारव्रतानि च विध्यति भिनत्तीति मर्मावित् । विध्यतेः विप् 'अहिज्या-' इति संप्रसारणम् । 'नहिवृत्ति-' इत्यादिना पूर्वस्य दीर्घः । तं मर्माविधं निजं स्वीयं द्विजिबतायां सर्पत्वे यो दोषो दृष्टिविषत्वादिस्तम् । अन्यत्र द्विजिह्वता पिशुनता । "द्विजिह्रौ सर्पसूचकौ' इत्यमरः । सैव दोषस्तमुज्झतां त्यजतां फणिनां संबन्धिभिरजिह्मगामिभिः करचरणादिमद्विग्रहधारित्वादृजुगतिभिः, अकपटचारिभिश्च । तथा कर्णाभ्यां सह वर्तन्त इति सकर्णकाः तैश्चक्षुःश्रवस्त्वं विहाय आविप्कृतकर्णैरित्यर्थः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । शेषाद्विभाषा' इति कप् । अन्यत्र कर्णयति सर्व शृणोतीति कर्णको नियन्ता । कर्णयतेण्वुल । ततः पूर्ववत्समासे सकर्णकैः । सनियामकैरित्यर्थः । फणिनां सपाणां कुलैर्वगैर्भुजंगता सर्पता, विटत्वं Page #37 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः । २५ च। 'भुजंगो विटसर्पयोः' इति हलायुधः। न भेजे वक्तः । भुजैर्गच्छन्तीति भुजंगाः। गमेः सुपि 'खच् च डिद्वा वाच्यः' । तस्मिन्नियन्तरि खलैः खलत्वमपि, सपैंः सर्पत्वमपि विहाय वेषभावक्रियाभिः सौम्यत्वं श्रितमित्यर्थः । अत्र प्रस्तुतसर्पविशेषणसाम्यादप्रस्तुतखलव्यवहारप्रतीतेः समासोक्तिः ॥ तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः । गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्भि दिग्गजैः॥६॥ तदीयेति ॥ तदीयमातङ्गानां घटाभिव्यूहैः विघहितैरभिहतैः । 'गजानां घटना घटा' इत्यमरः । अतएव कटस्थलेभ्यः प्रोषितान्यपगतानि दानवारीणि येषां तैः । गृहीताः पलाय्य संश्रिता दिशो यैस्तैर्गृहीतदिक्कैः । 'शेषाद्विभाषा' इति कप् । अपुनर्निवर्तिभिर्भयात्तत्रैव स्थितैर्दिग्गजैः चिराय याथार्थ्य दिक्षु स्थिता ॥ गजा दिग्गजा इत्यनुगतार्थनामकत्वमलम्भि लब्धम् । लभेय॑न्ताकर्मणि लुङ । विभाषा चिण्णमुलोः' इति विकल्पान्नुमागमः ॥ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा । सचन्दनाम्भःकणकोमलैस्तथा वपुर्जला पवनैर्न निर्ववौ ॥६५॥ अभीक्ष्णमिति ॥ ऊष्मणा सरज्वरेण सहितः सोमा तस्य सोष्मणस्तस्य रावणस्य वपुरभीक्ष्णं भृशमुष्णैरपि । शोकादिति भावः । सुरेन्द्रस्य बन्यः बन्दीकृताः स्त्रियः तासां श्वसितानिलैनिःश्वासमारुतैर्यथा निर्ववौ निर्वृतम् । 'निर्वाणं निर्वृतौ मोझे' इति वैजयन्ती । तथा सचन्दनाम्भःकणाः चन्दनोदकबिन्दुसहिताः ते च ते कोमला मृदुलाश्च तैर्जलाणां जलोक्षिततालवृन्तानां पवनैर्न निर्ववौ । 'धुवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनं च तत्' । 'जलेना जलार्दा स्यात्' इति वैजयन्ती । अत्र संतप्तस्योष्णोपचारान्निर्वृतिरिति कारणविरुद्ध कार्योत्पत्ति. रूपो विषमालंकारः ॥ तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च । प्रसूनतृप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥६६॥ तपेनेति ॥ सदा नित्यं नतु यथाकालं प्रसूनक्लुप्तिं कुसुमसंपत्तिम् । 'प्रसून कुसुम सुमम्' इत्यमरः । दधतो धारयन्तः ऋतवो वर्षाः प्रावृद तपेन ग्रीष्मेण । 'ऊष्ण ऊष्मागमस्तपः' इति, 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्' इति चामरः। तथा हिमागमो हेमन्तः शरदा, तथा शिशिरो वसन्तलक्ष्म्या च समेत्य मिथुनीभावेन मिलित्वा अस्य रावणस्य पुरे वसन्तीति वास्तव्या वस्तारः । 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत्प्रत्ययः। ते च कुटुम्बिनश्च तेषां भावं तत्ताम् । प्रतिवासित्वमित्यर्थः। ययुः समेत्य ययुरिति समुदायसमुदायिनोरभेदविवक्षया समानकर्तृकत्वम् । अत्र पुरे युगपत्सर्वर्तुसंबन्धाभिधानादसंबन्धे संबन्धरूपातिशयोक्तिः ॥ १ तपेन ६५, अभीक्ष्ण-६६, एवं विलोमक्रमेणोपलभ्येते. शिशु०३ Page #38 -------------------------------------------------------------------------- ________________ शिशुपालवधे स चायमासन्नविनाशस्तुभ्यमपि दुग्ध्वा पुनस्त्वयैव हत इति युग्मेनाहअमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः । मुमोच जानन्नपि जानकी न यः सदाभिमानकधना हि मानिनः ६७ अमानवमिति ॥ मनोरयं मानवः । 'तस्येदम्' इत्यण्प्रत्यये पर्यवसानाजातावेकवचनम् । अन्यथा मनोर्जातमित्येव स्यात् । अमानवममानुषम् । न जायत इत्यजम् । 'अन्येष्वपि दृश्यते' इति डप्रत्ययः। तथापि मनोः कुले जातं रामस्वरूपेणोत्पन्न मिति विरोधः। स चाभासत्वादलंकार इत्याह-प्रभाविनमिति । महानुभावे तस्मिन्न कश्चिद्विरोध इति भावः । 'आभीक्ष्ण्ये णिनिः' इति णिनिः । इनिर्वा मत्वर्थीयः। भवन्तमिति शेषः । आत्मनः स्वस्यान्तमिति अन्तं करोतीत्यन्तम् । अन्तशब्दात् 'तत्करोति-' इति ण्यन्तात्पचाद्यच् । भाविनं भविष्यन्तम् । 'भविष्यति गम्यादयः' । जाननपि यो रावणः जनकस्यापत्यं स्त्री जानकी सीता तां न सुमोच नामुञ्चदित्यन्वयः। जानतोऽप्यमोचने कारणमाह-मानिनः सदा प्राणात्ययेऽप्यभिमान एवैकं मुख्यं धनं येषां ते। प्राणात्ययेऽपि न मानं मुञ्चन्तीत्यर्थः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् । पयोधिमाबद्धचलजलाविलं विलक्ष्य लङ्कां निकषा हनिष्यति ॥६८।। स्मरतीति ॥ भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । 'अत इस्' इतीप्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्लादिभिर्बद्धसेतुः अतएव चलन्ति जलानि यस्य स च अतएव आविलश्च तं आबद्धचलजलाविलं पयोधिं विलक्ष्य लङ्कां निकषा लङ्कासमीपे, 'समयानिकपाशब्दो सामीप्ये त्वन्यये मतौ' इति हलायुधः । 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । हनिष्यति अवधीत् । 'अभिज्ञावचने लद' इति भूते लुटू । अदो हननं भवान्सरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥ अथोपपत्ति छलनापरोऽपरामवाप्य शैलूप इवैष भूमिकाम् । तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति मोऽप्यसः परैः ६९ __ अथेति ॥ अथ राक्षसदेहत्यागानन्तरं संप्रति छलनापरः परप्रतारणापरः एष रावणः शैलुषो नटः तस्य भूमिका रूपान्तरमिव । 'शैलूषो नटभिल्लयोः' । 'भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे' इति विश्वः । अपरामुपपत्तिम् । जन्मान्तरमित्यर्थः । अवाप्य शिशुपालसंज्ञया तिरोहितात्मा तिरोहितस्वरूपः सन सोऽपि रावण एव सन्नपि परैरितरैः स न भवतीत्यसः तस्मादन्य एव । 'न' इति नञ्समासः । अतएव 'एतत्तदोः सुलोपो-' इत्यादिना न सुलोपः । Page #39 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः। प्रतीयते ज्ञायत इति प्रतिपूर्वादिणः कर्मणि लट् । यथैक एव शैलूषो रूपान्तरमास्थाय तद्देशभाषादिभिरन्य एव प्रतीयते तद्वदयमपि मानुषदेहपरिग्रहादन्य इव भाति । दौर्जन्यं तु तदेवेत्यवश्यं संहार्य इति भावः ॥ अथैतद्दौर्जन्यं त्रिभिराविष्करोतिस बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः । युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः॥ ७० ॥ स बाल इति ॥ स शिशुपालो बालः सन् वपुषा चतुर्भुजो भुजचतुष्टयवा. नासीत् । विष्णुरिति ध्वनिः । मुखेन पूर्णेन्दुनिभस्तत्तुल्यः त्रिलोचनो लोचनत्रयवानासीत् । त्र्यम्बक इति ध्वनिः । बालविशेषणात्संप्रति तत्सर्वमन्तर्हितमिति भावः । संप्रति तु युवा सन्करेण बलिना आक्रान्तमहीभृदधिष्ठितराजकः सन् । अन्यत्रांशुब्याप्तशैलः । 'बलिहस्तांशवः कराः' इत्यमरः । उच्चकैस्तेजसा रविरसंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः। वपुषा मुखेन चेति येनाअविकारः' इति तृतीया । हानिवदाधिक्यस्यापि विकारत्वात् । तथाच वामनः'हानिवदाधिक्यमप्यङ्गविकारः' इति । तेजसेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया। कराकान्तेत्यादिना श्लेषानुप्राणितेयमुत्प्रेक्षा। रविरसंशयमिति तस्य पूर्णे. न्दुनिभ इत्युपमया संसृष्टिः । हरिहरादितुल्यमहिमत्वादतिदुर्धर्षः स इति भावः ।। खयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया। दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्हसत्यसौ॥ ७१॥ खयमिति ॥ यदृच्छया स्वेच्छया स्वयं सामर्थ्येन । नतु देवताप्रसादबलादिति भावः । सुरदैत्यरक्षसां देवदानवयातुधानानामनुग्रहावग्रहयोः प्रसादनिग्रहयोर्विधाता कर्ता असौ शिशुपालः अभिराद्धाभिराराधिताभिर्देवताभिरीश्वरादिभिर्वितीर्णो दत्तो वीर्यातिशयः प्रभावातिशयो येषां तान्दशाननादीन्हसति । अनन्यप्रसादलब्धैश्वर्ये मयि कथं याचकैस्तुल्यतेति गर्वाद्धसतीत्यर्थः ॥ बलावलेपादधुनापि पूर्ववत्प्रवाध्यते तेन जगजिगीषुणा । सतीव योषित्प्रकृतिःसुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥७२॥ बलेति ॥ जिगीषुणा । नित्योत्साहवतेत्यर्थः । तेन शिशुपालेन बलावलेपाबलगर्वादधुनापि पूर्ववत्पूर्वजन्मनीव जगत्प्रबाध्यते । तथाहि-सती पतिव्रता योषिदिव सुनिश्चलातिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुमांसमभ्येति । 'पतिं या नाभिचरति मनोवाकायसंयता । सा भर्तुर्लोकमामोति सद्भिः साध्वीति चोच्यते ॥' इति मनुः । उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः ॥ तदेनमुल्लवितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् । शुभेतराचारविपक्रिमापदो निपातनीया हि सतामसाधवः ॥७३॥ तदेनमिति ॥ तत्तस्माद्विधेर्विधातुरप्युल्लचितशासनम् । स्वयं विधातेत्याधुक्त Page #40 -------------------------------------------------------------------------- ________________ शिशुपालवधे रीत्यातिक्रान्तदैवशासनमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । एनं शिशुपालं कीनाशनिकेनातिथिं कीनाशो यमस्तस्य निकेतनं गृहं तत्रातिथिं प्राघुणिकं विधेहि कुरु । यमगृहं प्रेषयेत्यर्थः । ' कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः' इति विश्वः । न चैतत्प्राघुणिकहस्तेन सर्पमारणं भवादृशामवश्यकर्तव्यत्वादित्याह — शुभेतराचारेण दुराचारेण विपक्रिमाः परिपाकेन निर्वृत्ताः कालपरिपाकेन प्राप्ता आपदो येषां ते तथोक्ताः । 'द्वितः क्रिः' इति पचेः क्रिप्रत्ययः । 'क्रेर्मनित्यम्' इति तद्धितो मम्प्रत्ययः । असाधवो दुष्टाः सतां भवादृशां जगनियन्तॄणां निपातनीयाः वध्या हि । नच नैर्घृण्यदोषः । स्वदोषेणैव तेषां विनाशे निमित्तमात्रत्वादस्माकमित्याशयेन शुभेतराचारेत्यादिविशेषणोक्तिः । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः ॥ २८ किंचैवं दुष्टनिग्रहे शिष्टानुग्रहः स्यादित्याह - हृदयमरिवधोदयादुदृढद्रढिम दधातु पुनः पुरंदरस्य । घनपुलकपुलोमजाकुचाग्रद्भुतपरिरम्भनिपीडनक्षमत्वम् ॥ ७४ ॥ हृदयमिति ॥ अरिवधोदयाद्रिपुनाशलाभात् । उदूढद्रढिम नैश्चिन्त्याद्धृतदाढर्व्यम् । स्वस्थमिति यावत् । पृथ्वादित्वादृढशब्दादिमनिच्प्रत्ययः । ' र ऋतो हलादेर्लघोः' इति ऋकारस्य रेफादेशः । पुरः शत्रुपुराणि दारयतीति पुरंदर इन्द्रः । 'पूःसर्वयोर्दारिसहो:' इति खच्प्रत्ययः । 'खचि ह्रस्वः' इत्युपधाहस्वः । 'वाचंयमपुरंदरौ च' इति निपातनाददन्तत्वं मुमागमश्च । तस्य हृदयं पुनर्भूयो - ऽपि । पूर्ववदेवेति भावः । घनपुलकयोः सान्द्ररोमाञ्चयोः । पुलोम्नो जाता पुलोमजा शची तस्याः कुचाग्रयोर्युतपरिरम्भ औत्सुक्याच्छीघ्रालिङ्गनं तत्र यत्पीडनं तस्य क्षमत्वं सहत्वं दधातु । प्राक्चित्तविक्षेपात्यक्तभोगेन शक्रेण संप्रति त्वत्सादान्निष्कण्टकं स्वकीयं राज्यं भुज्यतामित्यर्थः । अत्र दार्व्यपदार्थस्योदूढद्र टिमेति विशेषणगत्या निपीडनक्षमत्वं प्रति हेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गम् । हृदय निपीडनक्षमत्व संबन्धेऽप्यसंबन्धोक्त्या संबन्धेऽसंबन्धरूपातिशयोक्तिरित्यर्यालंकारो वृत्त्यनुप्रासश्च तैरन्योन्यं संसृज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुग रेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभ स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति । शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम् ॥ ७५ ॥ इति माघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के कृष्णनारदसंभाषणं नाम प्रथमः सर्गः ॥ १ ॥ १ 'दुपोढ', 'दवाप्त' इति वा पाठ: २ 'कर्तुं मतिं संयति', 'कर्तुं मति संयुगे' इति च पाठौ. ३ 'नारदागमनविसर्जनी' इति पाठः. Page #41 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ओमिति ॥ तस्मिन्सुरमुनी नारदे इति इत्थंभूतां वाचं व्याहृत्योक्त्वा नभ उत्पतिते समुद्गते पुरोऽग्रे इन्दोः श्रियं बिभ्रति सति । अथ मुनिवाक्यानन्तरमो. मित्युक्तवतस्तथास्वित्यङ्गीकृतवतः। 'ओम्प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः। चेदीनां जनपदानामयं चैद्यः शिशुपालः । 'वृद्धत्कोसलाजादाब्यङ्' इति ब्यङ्प्रत्ययः । तं प्रति क्रुद्धस्य शाङ्गिणो वदने व्योम्नीवानिशं सर्वदा। अव्यभिचारेणेत्यर्थः । शत्रूणां विनाशस्य पिशुनः सूचकः । 'चन्द्रमभ्युत्थितः केतुः क्षितीशानां विनाशकृत्' इति शास्त्रादिति भावः। केतुरुत्पातविशेषः। 'केतुर्युतौ पताकायां ग्रहोत्पातारिलक्ष्मसु' इत्यमरः । भृकुटिच्छलेन भ्रभङ्गब्याजेनास्पदं प्रतिष्ठा स्थितिं चकार । 'आस्पदं प्रतिष्ठायाम्' इति निपातनात्सुडागमः । अनेन वाक्यार्थभूतस्य वीररससहकारिणो रौद्रस्य स्थायी क्रोधः स्वानुभावेन भ्रुकुव्या कारणभूतोऽनुमेय इत्युक्तम् । तथा तदविनाभूतस्याङ्गिनो वीरस्य स्थायी प्रयत्नोपनेय उत्साहोऽप्युत्पन्न एवेत्यनुसंधेयम् । इन्दोः श्रियं बिभ्रतीत्यत्र मुनेरिन्दुश्रियोऽयोगात्तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धरूपो निदर्शनालंकारः । वदने व्योम्नीवेत्युपमा । भ्रुकुटिच्छलेन केतुरिति छलादिशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवः । तत्र शत्रुविनाशसूचके त्वपेक्षितेन्दुसान्निध्यव्योमावस्थानसंपादकत्वे निदर्शनोपमयोरपह्नवोपकारसत्त्वादङ्गाङ्गिभावेन संकरः। चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु श्रीशब्दप्रयोगः। यथाह भगवान्भाष्यकारः-'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते, वीरपुरुषाण्यायुष्मत्पुरुषाणि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति' इति । शार्दूलविक्रीडितं वृत्तम् । 'सूर्याश्वर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् । सर्गान्तत्वाद्वृत्तभेदः । यथाह दण्डी–'सगैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरक्षकम् ॥' इति । अथ कविः कविकाव्यवर्णनीयाख्यानपूर्वकसर्गसमाप्तिं कथयति-इतीति । इतिशब्दः समाप्तौ । माघकृताविति कविनामकथनम् । महाकाव्ये इति महच्छ. ब्देन लक्षणसंपत्तिः सूचिता । शिशुपालवध इति काव्यनामकथनम् । प्रथमः सर्ग इति समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध. काव्यव्याख्याने सर्वकषाख्ये प्रथमः सर्गः ॥१॥ द्वितीयः सर्गः। अस्मिन्सर्गे मन्त्रवर्णनाय बीजं वपतियियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् । अभियं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥१॥ Page #42 -------------------------------------------------------------------------- ________________ शिशुपालवधे यियक्षमाणेनेति ॥ अथेन्द्र संदेशश्रवणानन्तरं यियक्षमाणेन यष्टुमिच्छता । यजतेः सन्नन्ताल्लटः शानच् । पार्थेन पृथापुत्रेण युधिष्ठिरेण | 'तस्येदम्' इत्यण् । अन्यथा 'स्त्रीभ्यो ढक् स्यात् । ततः पार्थेय इति स्यात् । आहूत आकारितः । ह्वयतेः कर्मणि ते संप्रसारणदीर्घौौं । तथा अभिचैद्यं शिशुपालं प्रति । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । 'अभिरभागे' इति कर्मप्रवचनीयत्वे तद्योगे द्वितीया वा । प्रतिष्ठासुः प्रस्थातुमिच्छुः । तिष्ठतेः सन्नन्तादुप्रत्ययः । मुरं द्विषन्मुरारिः । 'द्विषोऽमित्रे' इति शतृप्रत्यये 'न लोका-' इत्यत्र 'द्विषः शतुर्वा' इति वैकल्पिकः षष्ठीप्रतिषेधः । कार्यद्वयेन सुरकार्य सुहृत्कार्य रूपेणाकुलो विप्रतिषेधादावश्यकत्वाच्च द्वयोः संदिहान आसीत् । अतो मन्त्रस्यायभवसर इति भावः ॥ एवं मन्त्रबीज संदेहमुपन्यस्य मन्त्रोचितं देशमाह - ३० सांधमुद्धवसीरिभ्यामथासावासदत्सदः । गुरुकाव्यानुगां विभ्रच्चान्द्रमभिनभः श्रियम् ॥ २ ॥ सार्धमिति ॥ अथ संदेहानन्तरमसौ हरिः अभिनभः । पूर्ववदव्ययीभावः । कर्मप्रवचनीयत्वे वा द्वितीया । गुरुकाव्यौ बृहस्पतिशुक्रावनुगावनुयायिनौ यस्यां ताम् । 'गीष्पतिर्धिषणो गुरुः' इति 'शुक्रो दैत्यगुरुः काव्यः' इति चामरः । चन्द्रमां चान्द्रीं श्रियं बिभ्रत् । अत्र श्रीतुल्यां श्रियमिति निदर्शनाभेदः - उद्धवसीरिभ्यां सार्धमुद्धवरामाभ्यां सह सदः सभामासददगमत् । राजसदसः प्रासादत्वादिति भावः । सदेर्लुङि 'पुषादि-' इति चलेरङादेशः । अत्र मनुः - 'गिरिपृष्टं समारुह्य प्रासादं वा रहो गतः । अरण्ये निःशलाके वा मन्त्रयेद्भावभावितौ ॥' इति ॥ जाज्वल्यमाना जगतः शान्तये समुपेयुषी । व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥ जाज्वल्यमानेति ॥ जगतः शान्तयेऽनुपद्रवाय समुपेयुषी मिलिता जाज्वल्यमाना भृशं ज्वलन्ती । 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' । ततो लटः शानजादेशे टाप् । असौ नराः पुरुषा एव शिखिनोऽग्नयस्तेषां त्रयी । 'द्वित्रिभ्याम् -' इत्यादिना तयस्यायजादेशे कृते 'टिड्ढाणज् -' इत्यादिना ङीप् । सभा आस्थानी सैव वेदिः । 'वेदिः परिष्कृता भूमिः' इत्यमरः । तस्यां व्यद्योतिष्ट दीप्यते स्म । 'यो लुङि' इति वा तङ् । रूपकालंकारः ॥ रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे । एकाकिनोऽपि परितः पौरुषेयवृता इव ॥ ४ ॥ रत्नेति ॥ रत्नानां स्तम्भा इति षष्ठीसमासविशेषे पर्यवसानाद्विकारार्थत्वम् । तेषु संक्रान्तप्रतिमाः संक्रान्तप्रतिबिम्बाः । ' प्रतिमानं प्रतिबिम्बं प्रतिमा -' इत्यमरः । dar एकाकिनोsसहाया अपि । 'एकादा किनिच्चासहाये' इत्याकिनिच्प्रत्ययः । परितोऽभितः सर्वतः । 'पर्यभिभ्यां च' इति तसिल्प्रत्ययः । स च सर्वो भयार्था 1 १ पूर्वोत्तरार्धव्यत्यासेन पाठः. Page #43 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। भ्यामिप्यते । पौरुषेयेण प्रतिबिम्बभूयस्त्वात्पुरुषसमूहेनावृता इवेत्युत्प्रेक्षा । चकाशिरे । 'सर्वपुरुषाभ्यां णढो', 'पुरुषाद्वधविकारसमूहतेनकृतेविति वक्तव्यम्' इति समूहे ढञ्प्रत्ययः। एतेन विजयत्वमुक्तम् । यद्यपि 'निस्तम्मे निर्गवाक्षे च निर्भित्त्यन्तरसंश्रये । प्रासादाने त्वरण्ये वा मन्त्रयेद्भावभाविनौ ।' इति कामन्दकीये मन्त्रभूमेः स्तम्भप्राचुर्यनिषेधो गम्यते, तथापि तस्यापि विज. नोपलक्षणत्वाददोष इति भावः ॥ अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी। तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥५॥ अध्यासामासुरिति ॥ अमी यो यान्युत्तुङ्गहेमपीठान्यासनानि अध्यासामासुरधितष्ठः । येषूपविष्टा इत्यर्थः । 'अधिशीस्थासां कर्म' इति कर्मत्वम् । 'भास उपवेशने' लिद । 'दयायासश्च' इत्याम्प्रत्ययः। 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः । 'आम्प्रत्ययवत्कृतोऽनुप्रयोगस्य' इति कृज एवेति नियमादस्खे. नात्मनेपदम् । तैः पीठः केसरिभिः सिंहैः कान्तानां त्रिकूटस्य त्रिकूटाद्रेः शिखराणामुपमा सादृश्यमूहे ऊढा । वहेः कर्मणि लिट् । संप्रसारणम् । त्रीणि कुटान्यस्येत्यन्वर्थसंज्ञा । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । उपमालंकारः॥ गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः। हरिविप्रतिषेधं तमाचचक्षे विचक्षणः ॥६॥ गुर्विति ॥ अथोपवेशनानन्तरं विचष्टे इति विचक्षणो वक्ता । कर्तरि ल्युडिति न्यासकारः । 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिङः ख्याजादेशाभावः । हरिगुर्वोरुद्धवरामयोः पितृव्यज्येष्ठभ्रात्रोद्धयाय । द्वाभ्यामित्यर्थः । गुरुणोमहतोरुभयोः कार्ययोः पूर्वोत्कयोः तं विप्रतिषेधं विरोधमाचचक्षे आख्यातवान् । तुल्यबलविरोधो विप्रतिषेधः ॥ घोतितान्तःसभैः कुन्दकुड्मलाग्रदतः सितैः । स्त्रपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥७॥ द्योतितेति ॥ कुन्दं माघभवः पुष्पविशेषः । 'माध्यं कुन्दम्' इत्यमरः। कुन्दकुड्मलाग्राणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः। 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' इत्यग्रान्तपूर्वपदबहुव्रीहेः समासान्ते वैभाषिको दतादेशः । तस्य हरेः सर. स्वती अन्तःप्रधाना सभा अन्तःसभा । सभाभ्यन्तरमित्यर्थः। सा द्योतिता प्रकाशिता यैस्तैः स्मितैः स्नपितेव क्षालितेव । स्नातेय॑न्तात् क्तः । 'अर्तिही-' इत्यादिना पुगागमः। मितां हस्वः। शुद्धवर्णा स्फुटाक्षरत्वात्स्वच्छकान्तिरभवत् । अत्र स्वाभाविकवर्णशुद्धेः सानहेतुकत्वमुत्प्रेक्ष्यते । स्मितपूर्वाभिभाषी हरिरिति भावः । कार्यविप्रतिषेधं निवेद्य तत्र स्वमतमावेदयिष्यन्पण्डितमानित्वं तावत्परिहरति भवद्रािमवसरप्रदानाय वचांसि नः। पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः॥८॥ Page #44 -------------------------------------------------------------------------- ________________ शिशुपालवंधे भवद्रािमिति ॥ भवद्गिरां युष्मद्वाचामवसरप्रदानाय । प्रसञ्जनायेत्यर्थः । नोऽस्माकं वचांसि सिद्धान्तोन्नयनार्थमुच्यन्ते । न तु सिद्धान्तत्वेनेत्यर्थः। तथाहि-पूर्व रज्यतेऽस्मिन्निति पूर्वरङ्गः नाट्यशाला, तत्स्थं कर्मापि पूर्वरङ्ग इति दशरूपके । अतः पूर्वरङ्गो नाम रङ्गप्रधानाख्यो रङ्गविघ्नशान्तिकारी नान्दीपाठगीतवादित्राद्यनेकाङ्गविशेषो नाट्यादौ कर्तव्यः कर्मविशेषः । तदुक्तं वसन्त. राजीये-'यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः प्रकीर्तितः ॥' इति । स पूर्वरङ्गः नाटके भवं नाटकीयम् । तत्र वर्ण्यमित्यर्थः । वृद्धाच्छः । तस्य 'आयनेयी-' इतीयादेशः। तस्य वस्तुनः प्रवृत्तस्य प्रसङ्गाय प्रसञ्जनाय । प्रवर्तनायेति यावत् । अतः प्रथममादौ न दोषायेति भावः । पूर्वरङ्गः प्रस्तावनेति रङ्गराजः । तच्चिन्त्यम् । 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिगते । प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः ॥ प्रथमं पूर्वरङ्गश्च ततः प्रस्तावनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते ॥' इति दशरूपकाद्युक्तभेदविरोधादिति अत्र हरिवाक्यपूर्वरङ्गयोः प्रसञ्जकत्वस्वरूपसामान्यस्य वाक्यद्वये शब्दान्तरे पृथनिर्देशात्प्रतिवस्तूपमालंकारः । तल्लक्षणं तूक्तम् ॥ संप्रति स्वमतमाह करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् । विनाप्यसदलंभूष्णुरिज्यायै तपसः सुतः॥९॥ करदीकृतेति ॥ दिशां जित्वरैर्जयनशीलैः । 'इणनशजिसर्तिभ्यः क्वरप्' । कृद्योगात्कर्मणि षष्ठी । भ्रातृभिर्भीमादिभिहेतुभिः । करदाः षष्ठभागप्रदाः । 'भागधेयः करो बलिः' इत्यमरः। ततश्विः। 'ऊर्यादिविडाचश्च' इति गतिसंज्ञायां 'कुगतिप्रादयः' इति नित्यसमासः । अकरदाः करदाः संपद्यमानाः कृताः करदीकृता भूपालाः यस्य सः वशीकृतराजमण्डल: तपसः सुतो धर्मपुत्रः। 'तप. श्चान्द्रायणादौ स्थाद्धर्मे लोकान्तरेऽपि च' इति विश्वः । अस्मद्विना । अस्माभिविनापीत्यर्थः । 'पृथग्विनानाना-' इत्यादिना तृतीयाविकल्पात्पञ्चमी । इज्यायै यागाय । यजेर्भावेऽपि क्यप् । 'वचिस्वपि-' इत्यादिना संप्रसारणम् । 'नमःस्वस्ति-' इत्यादिना चतुर्थी । अलं समर्थो भूष्णुर्भवनशीलः । 'भूष्णुर्भविष्णुर्भविता' इत्यमरः । 'ग्लाजिस्थश्च रस्नुः' इति ग्स्नुप्रत्ययः । 'क्विति च' इत्यत्र गकारप्रश्लेषाद्गुणाभावः। तथा च जयादित्यः 'तत्रैव गकारोऽपि च तत्त्वभूतो निर्दिश्यते' इति । अतो जैत्रयात्रैव कार्या न यज्ञयानेति भावः ॥ ननु यज्ञान्ते जैत्रयात्रायामुभयानुसरणं स्यात्तत्राह उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वय॑न्तावामयः स च ॥ १० ॥ उत्तिष्ठमान इति ॥ उत्तिष्ठमानो वर्धमानः। उदोऽनूर्वकर्मणि' इत्यात्मनेपदम् । परः शत्रुः पथोऽनपेतं पथ्यं हितमारोग्यं चेच्छता । पुंसेति शेषः । नोपेक्ष्यो नौदासीन्येन द्रष्टव्यः । कुतः। हि यस्माद्वय॑न्तौ वर्धिष्यमाणौ । 'लुटः सद्वा' इति Page #45 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। सदादेशे 'वृच्यः स्यसनोः' इति विभाषया परस्मैपदम् । 'न वृयश्चतुर्व्यः' इतीडभावः। आमयो व्याधिः। 'रोगव्याधिगदामयाः' इत्यमरः। स शत्रुश्च शिष्टैनीतिजैः समौ तुल्यवृत्ती आम्नातावाख्यातौ । 'अल्पीयसोऽप्यरेवृद्धिर्महानाय रोगवत् । अतस्तस्यानुपेक्ष्यत्वादुभयानुसृतिः कुतः' इति भावः । उपमालंकारः॥ नन्वेवं स्वार्थपरत्वदोषः स्यादिति चेन्न । लोकानुग्रहार्थत्वादस्याः प्रवृत्तेरित्याशयेनाह न ये सात्वतीस्नुर्यन्मह्यमपराध्यति । यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥११॥ नेति ॥ सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । 'उत्सादिभ्योऽम्'। तस्याः सूनुश्चैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति दुह्यतीति यावत् । 'क्रुधगुह-' इत्यादिना चतुर्थी । तत इति शेषः। यत्तदोर्नित्यसंबन्धात् । न दूये न परितप्ये। दूडो देवादिकाकर्तरि लट् । उत्तमपुरुषैकवचनम् । किंतु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । 'लुपसदच. रजप-' इत्यादिना गर्दायां यङ्। 'जपजभदहदशभञ्जपशां च' इत्यभ्यासस्य नुमागमः। अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । 'दुःखास्प्रातिलोम्ये' इति डाच्प्रत्ययः। अतश्चैद्य एवाभियातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः ॥ स्वमतं निगमयन्परमतं शुश्रूषुः पृच्छति___ मम तावन्मतमिदं श्रूयतामङ्ग वामपि । ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२॥ ममेति ॥ तावत् । भवन्मतश्रवणपर्यन्तमित्यर्थः । मम मतमिदम् । अङ्गेत्यामन्त्रणेऽव्ययम् । 'अथ संबोधनार्थकाः । स्युः प्याट् पाडङ्ग हे है भोः' इत्यमरः । वां युवयोः । 'युष्मदस्मदोः षष्ठीचतुर्थी-' इत्यादिना वामादेशः । मतं श्रूयताम् । विधौ लोट् । तदिदं मया श्रोतव्यम् । अन्यथा संदेहानिवृत्तेरिति भावः । विदुषस्ते कुतः संदेहस्तत्राह-ज्ञातसारः ज्ञाततत्त्वार्थोऽप्येकः एकाकी कार्यवस्तुनि कर्तव्यार्थे संदिग्धे संशेते । खलु निश्चये । अतो मयापि संदिह्यत इत्यर्थः । 'दिह उपचये' कर्तरि लट् । घत्वधत्वे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ यावदर्थपदां वाचमेवमादाय माधवः।। विरराम महीयांसः प्रकृत्या मितभाषिणः ॥१३॥ यावदिति ॥ माधवो हरिया॑वानों यावदर्थम् । 'यावदवधारणे' इत्यव्ययीभावः । यावदर्थ पदानि यस्यास्ताम् । अभिधेयसंमिताक्षरामित्यर्थः । एवमुक्तप्रकारेण वाचमादाय गृहीत्वा । उक्त्वेत्यर्थः । विरराम तूष्णीमास । 'व्यापरिभ्यो रमः' इति परस्मैपदम् । तथाहि-महीयांसः उत्तमाः प्रकृत्या स्वभावेन मितभाषिणः । भवन्तीति शेषः । वृथालापनिषेधादिति भावः । पूर्ववदलंकारः ॥ १ 'मदः' इति पाठः. Page #46 -------------------------------------------------------------------------- ________________ ३४ शिशुपालवधे अथाष्टाभिः कुलकेन रामं वर्णयंस्तद्वाक्यमवतारयतिततः सपत्नापनयस्मरणानुशयस्फुरा । ओष्ठेन रामो रामोष्ठविम्बचुम्बनचुञ्चना ॥१४॥ तत इति ॥ ततो रामो जगादेत्युत्तरेणान्वयः। सपनो रिपुः । 'रिपौ वैरिसपत्नारि-' इत्यमरः। तस्यापनयोऽपकारः तस्य स्मरणेन योऽनुशयः पश्चात्तापः। 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । तेन स्फुरतीत्यनुशयस्फूः । तेन स्फुरा । ओष्ठो बिम्बमिवेत्युपमितसमासः । रामाया ओष्ठबिम्बस्य चुम्बनेन वित्तो रामोष्ठबिम्बचुम्बनचुचुः । तेन वित्तश्रु प्रचणपौ' इति चुञ्चप्प्रत्ययः । 'ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्'। तेनौष्ठेनोपलक्षितः । समरसुरतयोः समरस इति भावः । उपमानुप्रासयोः संसृष्टिः ॥ विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृताम् । प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ १५ ॥ विवक्षितामिति ॥ विवक्षितां वृद्धत्वाभिमानादग्रे वक्तुमिष्टाम् । वचेबूंजो वा सन्नन्तात्कर्मणि क्तः । तत्क्षणे विवक्षाक्षणे एवेत्यविलम्बोक्तिः । प्रतिसंहृतां रामानुरोधानुरुद्धां अर्थविदः कार्यज्ञस्य अतएव पवनव्याधेरुद्धवस्य गिरमु. त्तरपक्षता सिद्धान्तपक्षतां प्रापयन् । स्वस्यासत्पक्षावलम्वित्वादिति भावः । अनेन रामस्य व्यग्रतोक्ता ॥ घूर्णयन्मदिरास्वादमदपाटलितद्युती । रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥ घूर्णयन्निति ॥ पुनः। मदिरास्वादेन मद्यपानेन यो मदस्तेन पाटलिता ईषद्तीकृता द्युतिर्ययोस्ते रेवत्या देव्याः वदने यदुच्छिष्टं मद्यलेपताम्बूलादि । अक्षिचुम्बनसंक्रान्तमिति भावः । तेन परिपूते शुद्ध पुटे ययोस्ते दृशौ घूर्णयन् भ्रामयन्निति मद्यविकारोक्तिः । उच्छिष्टपरिपूतेत्यत्र ‘रतिकाले मुखं स्त्रीणां शुद्धमाखे. टके शुनाम् इति स्मरणात् । उच्छिष्टस्य पावित्र्यजनकत्वविरोधस्याभासत्वाद्विरोधाभासोऽलंकारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥ आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् ।। म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥१७॥ आश्लेषेति ॥ पुनः । आश्लेषे लोलुपाया आलिङ्गनलुब्धायाः वध्वाः स्तनयोः कार्कश्यस्य काठिन्यस्य साक्षिणीमुपद्ष्ट्रीम् । नित्यं पीड्यमानामिति भावः । 'साक्षादृष्टरि संज्ञायाम्' इति साक्षाच्छब्दादिनिप्रत्ययः । वनमालामभिमानोष्णरहंकारतप्तैर्मुखानिलैः निश्वासमारुतैापयन् ग्लापयन् । म्लायतेय॑न्तालटः शत्रादेशः। 'आदेच-' इत्यात्वे पुगागमः । अम्लाने म्लानसंबन्धादतिशयोक्तिः ॥ दधत्संध्यारुणव्योमस्फुरत्तारानुकारिणीः। द्विषद्वेषोपरक्ताङ्गसङ्गिनीः खेदविग्रुषः ॥ १८ ॥ Page #47 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। दधदिति ॥ पुनः। संध्यायामरुणे व्योम्नि स्फुरन्तीस्तारा अनुकुर्वन्तीति तथोक्ताः। कुतः। द्विषतः शत्रोद्वेषेण क्रोधेनोपरक्तेऽङ्गे वपुषि सङ्गिनीः सताः खेदविग्रुषः स्वेदबिन्दून् । 'पृषन्तिबिन्दुपृषताः पुमांसो विग्रुषः स्त्रियाम्' इत्यमरः । दधद्दधानः । 'नाभ्यस्ताच्छतुः' इति नुमभावः । उपमालंकारः ॥ प्रोल्लसत्कुण्डलपोतपद्मरागदलत्विषा । कृष्णोत्तरासगरुचं विदधचौतपल्लवीम् ॥ १९ ॥ प्रोल्लसदिति ॥ पुनः । प्रकर्षेणोल्लसतां कुण्डलयोः प्रोतानां स्यूतानां पनरागदलानां माणिक्यशकलानां त्विषा कान्त्या । प्रोतेति प्रपूर्वाद्वेजः कर्मणि क्तः । यजादित्वात्संप्रसारणम् । कृष्णोत्तरासङ्गो नीलोत्तरीयम् । 'द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा । संव्यानमुत्तरीयं च' इत्यमरः । तस्य रुचं चूतपल्लवस्येमा चौतपल्लवीं विदधत् । कृष्णलोहितमिश्रवर्णचूतपल्लववभूम्रा कुर्वनित्यर्थः । 'धून. धूमलौ कृष्णलोहिते' इत्यमरवचनात् । अत्रान्यरुचोऽन्यदीयत्वायोगात्सादृश्याक्षेपानिदर्शनालंकारः॥ ककुझिकन्यावक्रान्तर्वासलब्धाधिवासया । मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥ ककुद्मीति ॥ पुनः । ककुद्मिकन्याया रेवत्या वक्रस्यान्तरम्यन्तरे वासेन स्थित्या लब्धोऽधिवासो वासना यया तया । तन्मुख सौरभवासितयेत्यर्थः । 'संस्कारो गन्धमाल्याचैरधिवासनमुच्यते' । मदिरया कृतानुव्याधं कृतसंसर्गम् । प्रियागण्डूषगन्धिनमित्यर्थः । 'व्यधजपोरनुपसर्ग-' इत्यनुपसृष्टादप्प्रत्ययविधाना. दुपसृष्टाब्यधैर्घञ्प्रत्ययः । मुखामोदं स्वमुखगन्धविशेषम्। 'आमोदः सोऽतिनिहारी' इत्यमरः । उद्वमगिरन् । अत्र मदिराराममुखगन्धयोः स्वगन्धतिरोधानेन रामामुखतगण्डुषमयगन्धस्वीकारात्तद्गुणयोस्तत्रोत्तरस्यात्मविशेषकत्वेन पूर्वसापेक्षवादङ्गाङ्गिभावेन संकरः। 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्षणात् । जगाद वदनच्छद्मपद्मपर्यन्तपातिनः। नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥२१॥ जगादेति ॥ वदनमेव छद्म कपटं यस्य तत्पद्मम् । वदनमेव पद्ममित्यर्थः । छमशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवः । तस्य पर्यन्तपातिनः प्रान्तसंचारिणः । मधु लिहन्तीति मधुलिहस्तान्मधुपान् । किम् । उदग्रैरुच्छ्रितैः दशनांशुभिः श्वैत्यं धावल्यं नयनेवं जगाद । तद्गुणालंकारः । तस्य मधुपसंनिधापकवदनापहवसापेक्षत्वात्तेन संकरः॥ रामो जगादेत्युक्तम् । किं तदित्याकाङ्क्षायामाह यद्वासुदेवेनादीनमनादीनवमीरितम् । वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥ Page #48 -------------------------------------------------------------------------- ________________ शिशुपालवधे यदिति ॥ वासुदेवेन न दीनमित्यदीनमकातरं न आदीनवोऽस्येत्यनादीनवं निर्दोषम् । 'दोष आदीनवो मतः' इत्यमरः । यद्वच ईरितम् । 'उत्तिष्ठमानस्तु परः' इत्यादिपक्षमाश्रित्य यदुक्तमित्यर्थः । तस्य वचसः सपदि क्रिया केवलं सद्योऽनुष्ठानमेवोत्तरम् । सिद्धान्तस्यैवोक्तत्वादिति भावः ॥ अथ तदेव प्रतिपादयिष्यन्ननन्यातिशयतयोपस्करोति नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते । इन्धनौषधगप्यग्निस्त्विषा नात्येति पूषणम् ॥ २३ ॥ नैतदिति ॥ लघु संक्षिप्तमप्येतद्वचो भूयस्या बहुतरया। विस्तृतयापीत्यर्थः । 'द्विवचनविभज्य-' इत्यादिना ईयसुनि 'बहोर्लोपो भू च बहोः' इतीकारलोपो बहोश्च भूरादेशः। वाचा नातिशय्यते नातिरिच्यते। गुर्वर्थत्वादिति भावः । शीङः कर्मणि लटि यक् । 'अयङ् यि विति' इत्ययङादेशः । तथाहि-इन्धनौ. घान्दहतीतीन्धनौघधक् काष्ठराशिदाहकः । भूयानपीत्यर्थः । क्विपि घत्वधत्वभष्भावाः । अग्निस्त्विषा प्रभया पूषणं सूर्यम् । अल्पीयांसमपीति भावः । नात्येति नातिकामति । तेजसः प्रभावत्वमिव वचसोऽर्थवत्त्वमलच्यत्वहेतुरित्यर्थः । अत्र समानधर्मबिम्बितया दृष्टान्तालंकारः ॥ यदि हरिवचो नातिशय्यते, अलं तर्हि तवापि वागारम्भैरत आह संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः।। सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २४ ॥ संक्षिप्तस्येति ॥ अतो हरिवचसोऽनतिशयनीयत्वादेव सुविस्तरतराः प्रपञ्च. तराः। 'प्रथने वावशब्दे' इति घञः प्रतिषेधे 'ऋदोरप्' इत्यप् । मे वाचः संक्षिप्तस्याल्पाक्षरस्याप्यर्थेन गरीयसः । सूत्रकल्पस्येत्यर्थः । 'अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवा च सूत्रं सूत्रविदो विदुः॥' इति लक्षणात् । अस्यैव वाक्यस्य नान्यस्य भाष्यभूता भाष्यैः समाः। नित्यसमासः । 'क्ष्मादौ जन्तौ भूतं क्लीबं समेऽतीते चिरे त्रिषु' इति वैजयन्ती। व्याख्यानरूपा भव. निरवत्यर्थः । सूत्रव्याख्यानविशेषो भाष्यम् । 'सूत्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥' इति । मया तु तदेव विशेषप्रकाशनाय व्याख्यायते, नत्वतिशयाय प्रत्याख्यायत इत्यदोष इत्यर्थः । उपमालंकारः ॥ इत्थं यानं सिद्धान्तयित्वा तत्रोद्धवप्रतिरोधं हृदि निधाय त्रिभिः प्रत्याचष्टेविरोधिवचसो मूकान्वागीशानपि कुर्वते । जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥२५॥ १ 'इतः पूर्व विरोधिवचसो मूकान्-' इति श्लोको दृश्यते. Page #49 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। विरोधीति ॥ कृतिनां कुशलानां गिरः कर्व्यः । विरोधिवचसः प्रतिकूलवादिनो वागीशान्वाक्पतीनपि । 'वागीशो वाक्पतिः समौ' इत्यमरः। मूकानिर्वाचः कुर्वते । जडयन्तीत्यर्थः । अनुलोमोऽनुकूलोऽर्थोऽभिधेयं येषां तेऽनुकूलार्था अनुकूलवादिनः । ताञ्जडान्मन्दानपि प्रवाचः प्रगल्भवाचः कुर्वते । अतो. ऽस्मद्विरः प्रवाच्या इति भावः। अत्र वागीशानां मूकीकरणाजडानां प्रवाक्त्वकरणाच्च शक्यवस्तुकरणरूपो विशेषोऽलंकारः। असंबन्धे संबन्धातिशयोक्तिप्रतिभोत्थापित इति संकरः ॥ नन्वात्मनीनेन स्वामिना 'बुद्धेः फलमनाग्रहः' इति न्यायेन शास्त्रज्ञवचनं प्रतिकूलमपि ग्राह्यमेवेत्याशङ्कयाह षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः। ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ २६ ॥ षडिति ॥ दुष्टा मेधा येषां ते दुर्मेधसो मन्दबुद्धयोऽपि । 'नित्यमसिच्प्रजा. मेधयोः' इति समासान्तोऽसिच्प्रत्ययः । ग्रन्थानौशनसादीनधीत्य पठित्वा गुणाः संधिविग्रहयानासनद्वैधीभावसमाश्रयाख्याः षट् । शक्तयः प्रभुत्वमन्त्रोत्साहाख्यास्तिस्रः । सिद्धयः पूर्वोक्तशक्तित्रयसाध्याः पुरुषार्थलाभात्मिकाः । ताश्च तिस्रः प्रभुसिद्धिमत्रसिद्धिरुत्साहसिद्धिश्चेति । उदया वृद्धिक्षयस्थानानि छत्रिन्यायेनोदया उच्यन्ते । तत्र वृद्धिक्षयौ स्वशक्तिसिद्धयोः पूर्वावस्थानादुपचयापचयौ स्थानं ते च त्रय इति व्याकर्तुं व्याख्यातुमलं समर्थाः । 'पर्याप्तिवचनेष्वलमर्थेषु' इति तुमुन् । पञ्चाङ्गनिर्णयशक्तिविकलानां संध्यादिरूपसंख्यामात्रपाठकानामशास्त्रज्ञत्वादयो न ग्राह्यवचना इत्यभिसंधिः । अत्रामरः ‘संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥' इति । तत्रादिविजिगीष्वोर्व्यवस्थाकरणमैक्यं संधिः । विरोधो विग्रहः । विजिगीषोररिं प्रति यात्रा यानम् । तयोमिथः प्रतिबद्धशक्त्योः कालप्रतीक्षया तूप्णीमवस्थानमासनम् । दुर्बलप्रबलयोर्वाचिकमात्मसमर्पणं द्वैधीभावः । अरिणा पीड्यमानस्य बलवदाश्रयणं संश्रयः। कोशदण्डोत्थं तेजः प्रभावः। कर्तव्यार्थेषु स्थेयान्प्रयत्न उत्साहः । षड्गुणचिन्तनं मन्त्रः । गतमन्यदिति संक्षेपः ॥ ननु शास्त्रोक्तार्थव्याख्यातैव शास्त्रज्ञः, स एव ग्राह्यवचनश्चेत्याशङ्कयाह अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा । निमित्तादपराद्धेपोर्धानुष्कस्येव वल्गितम् ॥ २७ ॥ अनिर्लोडितेति ॥ अनिर्लोडितं नालोकितं कार्य येन तस्य । कार्याकार्यमजानत इत्यर्थः । वाचोऽस्य सन्तीति वाग्मी वावदूकः। 'वाचो युक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि' इत्यमरः । 'वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः । तस्य वाग्जालं वागाडम्बरो निमित्ताल्लक्ष्यात् । 'वेध्यं लक्ष्यं निमित्तं च शरव्यं च समं विदुः' इति वैजयन्ती । अपराद्धेषोः स्खलितबाणस्य । धनुः प्रहरणमस्येति धानुष्को धन्वी। शिशु० ४ Page #50 -------------------------------------------------------------------------- ________________ ३८ शिशुपालवधे 'प्रहरणम्' इति ठक् । 'इसुसुक्तान्तात्कः' । 'अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः । धन्वी धनुष्मान्धानुष्कः' इत्यमरः। तस्य वलिग़तमिव वृथा निष्फलम् । कार्यज्ञस्य वचो ग्राह्यं न तु वाचालस्येति भावः ॥ इत्थं षाडण्यादिपाठमानं न मन्त्र इति सिद्धे संप्रति स्वयं मन्त्रस्वरूपमाह सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् । सौगतानामिवात्मान्यो नास्ति मत्रो महीभृताम् ॥ २८॥ सर्वेति ॥ सर्वाणि कार्याणि संध्यादीनि तानि शरीराणीवेत्युपमितसमासः । व्यासे सौगतानामिवेति लिङ्गान्तेषु सर्वकार्यशरीरेषु सर्वेषु शरीरेष्विव । सर्वकार्येवित्यर्थः । अङ्गानि स्कन्धा इवेत्युपमितसमासः। तेषां पञ्चकं मुक्त्वा । स्कन्धपञ्चकमिवाङ्गपञ्चकं हित्वेत्यर्थः । पञ्च परिमाणमस्येति पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति कप्रत्ययः । सुगतो भक्तिर्भजनीय एषां ते सौगता बौद्धाः । 'भक्तिः' इत्यण्प्रत्ययः । तेषामन्य आत्मेव महीभृतामन्यो मन्त्रो नास्ति । कर्मणामारम्भोपायः, पुरुषद्रव्यसंपत्, देशकालविभागः, विपत्तिप्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दक:-'सहायाः साधनोपाया विभागो देशकालयोः। विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति । रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः । तत्र विषयप्रपञ्चो रूपस्कन्धः, तज्ज्ञानप्रपञ्चो वेदनास्कन्धः, आलयविज्ञानसंतानो विज्ञानस्कन्धः, नामप्रपञ्चः संज्ञास्कन्धः, वासनाप्रपञ्चः संस्कारस्कन्धः। एवं पञ्चधा परिवर्तमानो ज्ञानसंतान एवात्मा इति बौद्धाः । एवं यथा बौद्धानां सर्वेषु शरीरेषु स्कन्धपञ्चकातिरिक्त आत्मा . नास्ति, तथा राज्ञामङ्गपञ्चकातिरिक्तो मन्त्रो नास्तीत्युपमालंकारः । तच्चास्माकं समग्रमेवेत्ययमेव यात्राकाल इति भावः ॥ अथ मन्त्रितार्थक्रियाविलम्बे दोषमाह मत्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥२९॥ मन्त्र इति ॥ संवृतैर्गुप्तैः सर्वाङ्गैः पूर्वोक्तैरुपायादिभिरुरःस्थलादिभिश्वोपलक्षितोऽपि । सर्वाङ्गसंवृतोऽपीत्यर्थः । मन्नो विचारः । अधीरो भीरुः युध्यत इति योधो भट इव । पचाद्यच् । परेभ्योऽन्येभ्योऽरिभ्यश्च । 'परं दूरान्यमुख्येषु परोऽरिपरमास्मनोः' इति वैजयन्ती । भेदो विदारणं तृतीयगामित्वं च तस्य शङ्कया चिरं स्थातुम् । विलम्बितुमित्यर्थः । न सहते न क्षमः । 'शकष-' इत्यादिना तुमुन्प्रत्ययः । अतो न विलम्बितव्यम् , अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति भावः ॥ किंच नीतिसर्वस्वपर्यालोचनयापि न विलम्बः कार्य इत्यभिप्रेत्याह आत्मोदयः परज्यानिर्द्वयं नीतिरितीयती । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३०॥ । १ 'ग्लानिः' इति पाठः. Page #51 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। आत्मोदय इति ॥ आत्मन उदयो वृद्धिः परस्य शत्रोानिहानिः । 'वीज्याहाज्वरिभ्यो निः' इत्यौणादिको निप्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । 'किमिदंभ्यां वो घः' इति वतुपो वस्य घश्च । 'उगितश्च' इति डीप् । नीतिर्नीतिसंग्रहः । एतद्यातिरिक्तो न कश्चिन्नीतिपदार्थोऽस्तीत्यर्थः । यदन्यत्पाडण्यादिवर्णनं तत्सर्वमस्यैव प्रपञ्च इत्याह-तदिति । तद्वयमूरीकृत्याङ्गीकृत्य । 'ऊरीकृतमुररीकृतमङ्गीकृतम्' इत्यमरः । 'ऊर्यादिच्चिडाचश्च' इति गतिसंज्ञायां 'कुगतिप्रादयः' इति समासे क्त्वो ल्यप् । कृतिभिः कुशलैः वाचस्पत्यं वाग्मित्वम् । कस्कादित्वादलुक्सत्वे । 'षष्ठ्याः पतिपुत्र-' इत्यादिना सत्वमिति स्वामी । तन्न । तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वाद्भावे प्यम्प्रत्ययः । प्रतायते विस्तार्यते। कर्मणि लट् । 'तनोतर्यकि' इत्यात्वम् । तस्मादात्मोदयार्थिभिरविलम्बाच्छत्रुरुच्छेत्तव्यः । तत्रान्तरीयत्वात्तस्येति भावः ॥ . ननु लब्धोदयस्य किं परोच्छित्त्येत्यत्राह तृप्तियोगः परेणापि महिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥ ३१ ॥ तृप्तियोग इति ॥ महीयसां महात्मनां परेणापि प्रभूतेनापि महिना ऐश्वर्येण तृप्तियोगः संतोषलाभो न । अत्र तृप्त्यभावे पूर्णः सन् चन्द्रोदयाकाङ्क्षी । वृद्ध्यर्थमिति भावः । महार्णवो दृष्टान्तः दृष्टः अन्तो निश्चयो यस्मिन् दृष्टान्तो निदर्शनम् । उपमानमिति यावत् । राज्ञा वृद्धावलंबुद्धिर्न कार्या । 'असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा निर्लजा च कुलाङ्गना ॥' इति न्यायादिति भावः । नायं दृष्टान्तालंकारः । बिम्बप्रतिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात्। किंतु दृष्टान्तशब्देन तस्याभिधानादुपमालंकारः। अतएव दृष्टान्तोदाहरणनिदर्शनरूपाः शब्दा न प्रयोक्तव्याः पौनरुक्त्यापत्तेरित्येकावल्यलंकारः ॥ तथापि संतोषे दोषमाह संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ३२॥ संपदेति ॥ यः स्वल्पयापि संपदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । 'आत्ममाने खश्च' इति खश्प्रत्यये मुमागमः । तस्याल्पसंतुष्टस्य तां स्वल्पसंपदं कृतकृत्यस्तावतैव कृतार्थो विधिदैवमपि न वर्धयति अहमिति मन्ये । पौरुषहीनादेवमपि जुगुप्सिते तत्प्रवृत्तेः पारार्थ्यादिति भावः ॥ किंच पराक्रमलब्ध एवोदयो नान्यलब्ध इत्याह समूलघातमनन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥ १ 'मुस्थितंमन्यो' इति पाठः. Page #52 -------------------------------------------------------------------------- ________________ शिशुपालवधे समूलेति ॥ मानिनोऽभिमानिनः पराशत्रून् समूलं हत्वा समूलघातमनन्तः । अनुन्मूलयन्त इत्यर्थः । 'समूलाकृतजीवेषु हन्कृष्ग्रहः' इति णमुल प्रत्ययः । 'कषादिषु यथाविध्यनुप्रयोगः' इति हन्तेरनुप्रयोगः । नोद्यन्ति । किंतु हत्वैवोद्यन्तीत्यर्थः । तत्र हत्वैवोदये अन्धयतीत्यन्धं गाढं तमोऽन्धतमसम् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' इत्यच्प्रत्ययः । प्रध्वं. सितमन्धतमसं येन सः । उदयात्प्रागिति भावः । रविरुदाहरणं दृष्टान्तः । अत्रापि 'दृष्टान्तोऽत्र महार्णवः' इतिवदुपमालंकारो न तु दृष्टान्त इति द्रष्टव्यम् ॥ किंचानुच्छिन्नशत्रोः प्रतिष्ठैव दुर्घटेत्याह विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥ विपक्षमिति ॥ विपक्षं शत्रुमखिलीकृत्य खिलमुत्सन्नमकृत्वा । अनुन्मूल्येत्यर्थः । प्रतिष्ठा दुर्लभा खलु । तथाहि-उदकं कर्तृ । धूलिम् । स्वपरिभाविनीमिति भावः । पङ्कतामनीत्वा । नाधःकृत्येत्यर्थः । नावतिष्ठते। किंतु नीत्वैव तिष्ठतीत्यर्थः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । वाक्यभेदेन प्रतिबिम्बनापेक्षो. दृष्टान्तालंकारः ॥ नन्वयं शिशुपाल एकाकी नः किं करिष्यतीत्याशङ्कयाहध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ ३५ ॥ .. भियत इति ॥ एकोऽपि रिपुर्यावद्भियतेऽवतिष्ठते । 'धङ् अवस्थाने' इति धातोस्तौदादिकाकर्तरि लट् । 'रिशयग्लिक्षु' इति रिङादेशः । तावत्तदवधि सुखं कुतः । ‘यावत्तावच्च साकल्येऽवधौ' इत्यमरः । तथाहि-सिंहिकाया अपत्यं पुमान्सँहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुतुदः' इत्यमरः । 'स्त्रीभ्यो ढक्' । असुरद्रुहां देवानां पुरोऽग्रे सोमं क्लिश्नाति धावते । प्राचुर्यात्सो. मग्रहणम् । सूर्यं चेति भावः । तस्मादेकोऽपि शत्रुरुच्छेत्तव्य इति भावः । 'अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत्' इति तात्पर्यम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥ ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशक्य तस्य बलवत्ता वक्तुं मित्रामित्रबलाबलविवेकं तावत्करोति सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।। स्थाताममित्रौ मित्रे च सहजप्राकृतावपि ॥ ३६॥ सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । 'द्वितः क्रिः' 'क्रेर्मन्नित्यम्' । सखा.सुहृत् शत्रुश्च कृत्रिमो गरीयान् । कुतः-हि यस्मात्तौ कृत्रिममित्रशत्रू कार्यत उपकारापकाररूपकार्यवशात् । निर्वृत्ताविति शेषः । उक्त Page #53 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। .४१ कार्योपाधेर्यावजीवमनपायादनयोर्मिनामित्रभावोऽप्यनपायीति गरीयांस्त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह-स्यातामिति । सह जातः सहजः एकशरीरावयवत्वात् । तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि । सहजशत्रुस्तु पितृव्यतत्पुत्रादिः । प्रकृत्या सिद्धः प्राकृतः । पूर्वोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र विषयान्तरः प्राकृतः शत्रुः । तदनन्तरः प्राकृतं मित्रम् । अपि त्वर्थे । तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां तावात्मकार्यवशादनियमेनोभयरूपतामापयेते न कृत्रिमशत्रुमित्रे । कृत्रिमः शत्रुः शत्रुरेव मित्रं च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ गरीयांसौ । नतु सहजौ, नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्वापवादीति सिद्धम् ॥ एवं चेदस्माकं पैतृष्वसेयः शिशुपालः सहजमित्रत्वात्संधातव्यो न तु यातव्य इत्यत आह उपकारिणा संधिर्न मित्रेणापकारिणा । उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥ ३७॥ . उपकāति ॥ उपकर्बोपकारकारिणा अरिणापि । सहजेन प्राकृतेन चेति शेषः । संधिः कार्यः। अरित्वापवादेन कृत्रिममित्रताया बलीयस्या यावजीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । एवमपकारिणा मित्रेणापि । सहजेन प्राकृतेन वेति शेषः । संधिर्न कार्यः । मित्रत्वापवादेन कृत्रिमशत्रुताया बलीयस्या यावजीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । ननु साक्षादरिणा संदध्यात्, मित्रेण कथं विरुन्ध्यादित्याशय क्रियया तयोर्वैपरीत्याददोष इत्याह-हि यस्मादुपकारापकारावेव तयोर्मिश्रामित्रयोर्लक्षणं स्वरूपं लक्ष्यं द्रष्टव्यम् । उपक व मित्रम् अपकतैव शत्रुरित्यर्थः । तस्मात्सहजमित्रत्वेऽपि चैद्यः क्रियया शत्रुत्वाद्यातव्य एवेति भावः ॥ अथ चैद्यस्य कृत्रिमशत्रुत्वं चतुर्भिराह त्वया विप्रकृतश्चैद्यो रुक्मिणी हरता हरे । बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ॥ ३८॥ ' त्वयेति ॥ हे हरे, रुक्मिणी हरता । बन्धुभिस्तस्मै प्रदत्तां राक्षसधर्मेणोद्वहतेत्यर्थः । 'राक्षसो युद्धहरणात्' इति याज्ञवल्क्यः । 'गान्धर्वो राक्षसश्चैव धम्यौं क्षत्रस्य तौ स्मृतौ' इति मनुः । त्वया चैद्यो विप्रकृतः विप्रियं प्रापितः । तथाहि बद्धमूलस्य रूढमूलस्य वैरतरोः स्त्रियो महत्प्रधानं मूलम् । हि निश्चये । रूपकसंसृष्टोऽयं सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ अथ तेनापि त्वं विप्रकृत इत्याह त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् । प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥ Page #54 -------------------------------------------------------------------------- ________________ शिशुपालवधे त्वयीति ॥ त्वयि भूमेरपत्यं पुमांसं भौमं नरकासुरं जेतुं गते सति । स चैद्य इमां पुरीं द्वारकाम् । प्रोषितोऽर्यमा सूर्यो यस्यास्तां मेरोस्तटीं सानुमन्धकार इवारौत्सीद्रुद्धवान् । रुधेरनिटो लुङि सिचि वृद्धिः । उपमालंकारः ॥ अपकारान्तरमाह ४२ ➖➖➖ आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् । कथापि खलु पापानामलम श्रेयसे यतः ॥ ४० ॥ आलप्येति ॥ स चैद्यो बभ्रोर्यादवभेदस्य दारान्भार्याम् । 'भार्या जायाथ पुं भूनि दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । अपाहरदिति यदिदं दारापहरणं आलप्योच्चार्यालम् । नालपनीयमित्यर्थः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्वाप्रत्यये समासे ल्यबादेशः । यतः पापानां पाप्मनां कथनमुच्चारणमपि । 'चिन्तिपूजकुथिकुम्बि' इत्यप्रत्ययः । अश्रेयसेऽनर्थायालं समर्थ खलु । ' नमः - स्वस्ति - ' इत्यादिना चतुर्थी । अत्र निषिध्यमानालपननिषेधन समर्थनात्कार्येण कारणसमर्थकोऽर्थान्तरन्यासः ॥ फलितमाह विराद्ध एवं भवता विराद्धा बहुधा च नः । निर्वर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥ ४१ ॥ विराद्ध इति ॥ एवं भवता विराद्धो विप्रकृतः । राधेरनिटः कर्मणि क्तः । बहुधा नोsस्माकं च विराद्धा विप्रकर्ता श्रुतश्रवा नाम हरेः पितृष्वसा तस्याः सुतः । पैतृष्वसेयत्वात्सहजमित्रमपीति भावः । स चैद्यः क्रियया पूर्वोक्तान्योन्यापक्रियया अरिर्निर्वर्त्यते कृत्रिमः शत्रुः क्रियते । अतो बलीयस्त्वादनुपेक्ष्य इति भावः ॥ अत्राप्युपेक्षायां दोषमाह - विधाय वैरं सामर्षे नरोऽरौ य उदासते । प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम् ॥ ४२ ॥ विधायेति ॥ ये नरः पुमांसः । ' स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः ' इत्यमरः । सामर्षे प्रागेव सरोषेऽरौ वैरं विधाय । स्वयं चापकृत्येत्यर्थः । उदासते उपेक्षते ते नरः कक्षे गुल्मे । 'कक्षस्तु गुल्मे दोर्मूले पापे जीर्णवने तृणे' इति वैजयन्ती । उदर्चिषमधिकज्वालमग्निं प्रक्षिप्य अभिमारुतम् । आभिमुख्येऽव्ययीभावः । शेरते स्वपन्ति । तद्वन्नाशहेतुरित्यर्थः । 'शीडो रुद्र' इति रुडागमः । अत्र ये उदासते ते शेरते इति विशिष्टौदासीन्यशयनयोर्वाक्यार्थयोर्निर्दिष्टैकत्वासंभवात्सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धी वाक्यार्थनिर्वृत्तिरिति निदर्शनाभेदः । न चायं दृष्टान्तः । वाक्यभेदेन प्रतिबिम्बकारणाक्षेपे तस्योत्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकार सर्वस्वकारः ॥ 1 १ इतः पूर्वमुत्तरलोकास्त्रयो दृश्यन्ते. Page #55 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः deft arraत्वात्सोढव्य इत्याशङ्कयाह मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी । क्रियासमभिहारेण विराध्यन्तं क्षमेतं कः ॥ ४३ ॥ ४३ मनागिति ॥ यः क्षमी सहनः । ' शमित्यष्टाभ्यो घिनुण्' इति घिनुण्प्रत्ययः । स सोढा मनागल्पम् । अभ्यावृत्तावपीति भावः । अनभ्यावृत्या सकृद्वा । अनल्पत्वेऽपीति भावः । विराध्यन्तमपकुर्वाणं कामं भृशं क्षाम्यतु क्षमताम् । संभावनायां लोट् । 'शमामष्टानां दीर्घः श्यनि' । क्रियासमभिहारेण भृशम्, पौनःपुन्येन चेत्यर्थः । न च पुंवाक्येष्वनेकार्थत्वं दोषाय । विराध्यन्तं कः क्षमेत सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । ' शकि लिङ् -' इति शक्यार्थे लिङ् । 'क्षमू प्रसहने' दैवादिको भौवादिकश्च ॥ ननु सर्वदा क्षमैव पुंसो भूषणम्, अतोऽपराधेऽपि क्षन्तव्यमत आहअन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ४४ ॥ अन्यदेति ॥ अन्यदा सुरतव्यतिरिक्ते काले योषितो लज्जेव पुंसोऽन्यदा अपरिभवे क्षमा शमो भूषणम् । परिभवे तु योषितः सुरतेषु वैयात्यं धार्यमिव । 'धृष्टे धृष्णुर्वियातश्च' इत्यमरः । पराक्रमः पौरुषं भूष्यतेऽनेनेति भूषणमाभरणम् । एवं चाक्रियावचनत्वान्नियतलिङ्गत्वाद्विरोध इति वल्लभोक्तं प्रत्युक्तम् ॥ अथ परिभवेऽप्यपाक्रमे त्रिभिर्निन्दामाह माजीवन्यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ ४५ ॥ माजीवन्निति ॥ यः परस्यापकर्तुरवज्ञया अवमानेन यद्दुःखं तेन दुग्धस्तोत एव माजीवन्गर्हितजीवी सन् । 'माड्याक्रोशे' इति लटः शत्रादेशः । जीवति प्राणान्धारयति । जनन्याः क्लेशकारिणो गर्भधारणप्रसवादिवेदनाकारिणः । तद्व्यतिरिक्तार्थक्रियाहीनस्येत्यर्थः । तस्याजननमजननिरनुत्पत्तिरेवास्तु । जननीक्लेशनिवृत्त्यर्थमिति भावः । ' आक्रोशे नन्यनिः' इति नञ्पूर्वाजनिधातोरनिप्रत्ययः ॥ पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थ देवापमानेऽपि देहिनस्तद्वरं रजः ॥ ४६ ॥ पादेति ॥ यहजो धूलिः पादेनाहतं सदुत्थायोड्डीय मूर्धानमाहन्तुरेव शिरोsaरोहत्याक्रमति तद्वजः । अचेतनमपीति भावः । अवमाने सत्यपि स्वस्थात्सं तुष्टाद्देहिनश्चेतनाद्वरं श्रेष्ठम् । व्यतिरेकालंकारः ॥ असंपादयतः कंचिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ४७ ॥ १ 'सहेत' इति पाठः. २ 'शमो' इति पाठः Page #56 -------------------------------------------------------------------------- ________________ ४४ शिशुपालवधे असंपादयत इति ॥ किंच जातिर्ब्राह्मणत्वादिः, क्रिया इज्याध्ययनादिः, गुणः शौर्यादिः, तैः साधनैः। करणे तृतीया । कंचिदर्थ सुकृतकीर्त्यादिपौरुषार्थम् , अन्यत्र गोत्ववाचकत्वशौक्लयादिभिः खाभिधेयभूतैः करणैः कंचिदर्थं व्यवहा. ररूपं प्रयोजनमसंपादयतः । उभयत्र तादृग्जात्याद्यसंभवादिति भावः । पुंसो जन्म सत्तालाभः यदृच्छाशब्दवत् इच्छाप्रकल्पितस्य जात्यादिप्रवृत्तिनिमित्तशून्यस्य डित्थादिशब्दस्येव । 'तत्र तस्येव' इति वतिप्रत्ययः। 'स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता चेति ते समाः' इति केशवः । संज्ञायै केवलं संज्ञार्थमेव । एकत्र पारिभाषिकं किंचिन्नाममात्रमनुभवितुम् , अन्यत्र तादृक्तामनुभवितुमित्यर्थः । एवमपौरुषं दूषयित्वा पौरुषं भूषयति तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥४८॥ तुङ्गत्वमिति ॥ अद्रौ पर्वते तुङ्गत्वम् । औन्नत्यमस्तीति शेषः । अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीत्यादिभाष्यात् । भवन्तीति पूर्वाचार्याणां लटः संज्ञा । इतराऽगाधता नास्ति । सिन्धौ समुद्रेऽगाधता गम्भीरतास्ति । इदं तुङ्गत्वं नास्ति । मनस्विनि वीरे त्वलङ्घनीयताहेतुरलङ्घयत्वकारणं तदुभयं तुङ्गत्वमगाधता च । तस्मादद्रिसिन्धुभ्यामधिको मनस्वीति व्यतिरेकालंकारः ॥ संप्रति शत्रौ मार्दवमनायेत्याह__ तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । .. हिमांशुमाशु ग्रसते तन्म्रदिन्नः स्फुटं फलम् ॥ ४९॥ तुल्य इति ॥ स्वर्भानू राहुरपराधे तुल्येऽपि भानुमन्तं सूर्य चिरेण असते, हिमांशुं चन्द्रमाशु शीघ्रं ग्रसते गिलतीति यत् । 'ग्रसिते गिलितं गीर्णम्' इत्यभिधानात् । तन्त्रदिन्नो मार्दवस्य फलं स्फुटम् । 'पृथ्वादिभ्य इमनिच्' इतीमनिष्प्रत्ययः । तस्माद्विपक्षे तीव्रण भवितव्यम् । अन्यथा मृदुः सर्वत्र बाध्यत इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रतीयते इत्यप्रस्तुतप्रशंसाभेदोऽयम् । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्याद्विनियत्रिता ॥' इति लक्षणात् ॥ एतदेव भङ्गयन्तरेणाह स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः॥५०॥ खयमिति ॥ असाराणां दुर्बलानां निदर्शनं दृष्टान्तः । अत एव ईषदसमाप्त तृणं बहुतृणम् । तृणकल्पमित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु' इति बहुच्प्रत्ययः प्रकृतेः पूर्व च भवति । 'स्यादीषदसमाप्तौ तु बहुच्अकृतिलिङ्गके' इति वचनात्प्रकृतिलिङ्गता । लघुर्निष्पौरुषो नरोऽल्पेऽपि परो वायुरिवेत्युपमितसमासः । Page #57 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। बहुतृणमिति । स्पष्टोपमासाहचर्यात्कल्पब्देश्यदेशीयदेश्यादीति दण्डिना कल्पबादीनामौपम्यवाचकेष्वभिधानात् । तस्मिनुपेयुषि प्राप्ते सति स्वयं प्रणमते स्वयमेव प्रह्वीभवति । 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवद्भावात् 'भावकर्मणोः' इत्यात्मनेपदम् । 'न दुहसुनमा यक्चिणौ' इति यक्प्रतिषेधः । वायुना तृणमिवाल्पीयसापि रिपुणा लघुरक्लेशेन परिभूयत इत्यर्थः । उपमालंकारः ॥ पुनः पौरुषे गुणमाह- . तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥५१॥ तेजस्वीति ॥ दवीयानपि दूरस्थोऽपि । 'स्थूलदूर-' इत्यादिना पूर्वगुणयणादिपरलोपौ । तेजस्वी तेजस्विनां मध्ये गण्यते संख्यायते । तथाहि-पञ्चाग्निसाध्यं तपो यस्य स तथा तस्य पञ्चतपसः पञ्चाग्निमध्ये तपस्यतः तपनोऽर्को जातवेदसामनीनां पञ्चमः पञ्चानां पूरणः । पञ्चमो जातवेदा भवतीत्यर्थः। विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ गुणान्तरं च व्यतिरेकेणाह अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम् । कथंकारमनालम्बा कीर्तिर्यामधिरोहति ॥ ५२ ॥ • अकृत्वेति ॥ उच्चैरुन्नतेषु विद्विषां मूर्धसु हेलया पादमकृत्वा अनिधाय । 'अनपूर्वः' इति निषेधात्समासेऽपि न ल्यबादेशः । कीर्तिः कथंकारम् । कथमित्यर्थः । 'अन्यथैवंकथमित्थं सुसिद्धाप्रयोगश्चेत्' इत्यनर्थकादेव करोतेः कथंपूर्वाण्णमुल । अनालम्बा निराधारा कीर्तिद्या दिवमधिरोहति । न कथंचिदित्यर्थः । किंचिनिःश्रेण्यादिकमनाक्रम्य उच्चसौधस्य दुरारोहत्वादिति भावः । तस्मात्कीर्तिमिच्छता पौरुषमेवाश्रयणीयमिति श्लोकतात्पर्यम् । कीर्तितद्वतोरभेदोपचारात्समानकर्तृतानिर्वाहः । अत्र प्रस्तुतायाः कीर्तेर्विषयमहिम्ना अप्रस्तुतप्रासादारोहणस्त्रीव्यवहारप्रतीतेः समासोक्तिः ॥ पौरुषमेवाश्रयणीयमित्यत्रान्वयव्यतिरेकदृष्टान्तावाचष्टे अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः॥ ५३॥ अङ्केति ॥ अङ्कमुत्सङ्गमधिरोपितो मृगो येन स चन्द्रमाः मृगलान्छनः मृगाङ्कः । तथा निष्ठुरं यथा तथा क्षिप्तो हतो मृगयूथो मृगसमूहो येन स केसरी सिंहो मृगाधिपः । उभयत्रापि ख्यात इति शेषः । तस्माच्छनौ मार्दवं दुष्कीर्तये, पौरुषं तु कीर्तये इति भावः । अत्राप्रस्तुतकथनात्प्रस्तुतार्थप्रतीतेरप्रस्तुतप्रशंसा ॥ __ ननु सामादि सुकरोपायमपेक्ष्य किं पाक्षिकसिद्धिना दण्डेन । यथाह मनुः'साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' इति । तस्मात्सान्त्वमेव युक्तमित्याशक्य द्वाभ्यां निराचष्टे Page #58 -------------------------------------------------------------------------- ________________ ४६ शिशुपालवधे चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया। खेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिश्चति ॥ ५४॥ चतुर्थोपायेति ॥ चतुर्थोपायसाध्ये दण्डसाध्ये रिपौ सान्त्वं साम । 'सामसान्त्वमुभे समे' इत्यमरः । अपक्रियापकारः । तथा हि-स्वेद्यं स्वेदाहम् । स्वेदनकार्यमित्यर्थः । 'स्वेदस्तु स्वेदने धर्मे' इति विश्वः । आमज्वरमपक्कज्वरं प्राप्य । 'आमो रोगे रोगभेदे आमोऽपक्के तु वाच्यवत्' इति विश्वः । कः प्राज्ञः पण्डितोऽम्भसा जलेन परिषिञ्चति । न कोऽपीत्यर्थः । ज्वरितस्याम्भस्सेकवत्क्रुद्धस्य सान्त्वमुद्दीपनकरं स्यात् । अतो दण्ड्य एवेति भावः । वाक्यभेदेन प्रतिबिम्बकरणापेक्षो दृष्टान्तालंकारः॥ सामवादाः सकोपय तस्य प्रत्युत दीपिकाः । प्रतप्तस्येव सहसा सर्पिपस्तोयबिन्दवः ॥ ५५ ॥ सामेति ॥ सकोपस्य रूढवैरस्य तस्य चैद्यस्य सामवादाः प्रियोक्तयः सहसा प्रतप्तस्य कथितस्य सर्पिषो घृतस्य तोयबिन्दव इव प्रत्युत वैपरीत्येन दीपिकाः प्रज्वलनकारिणः । न तु शान्तिकरा इत्यर्थः। तस्माद्दण्ड्य एव सः । मनुवचनं त्वप्ररूढवैरविषयमिति भावः ॥ एवंस्थिते यदि केचिदुद्धवादयः प्रत्याचक्षीरंस्तान्प्रत्याह गुणानामायथातथ्यादर्थं विप्लावयन्ति ये । अमात्यव्यञ्जना राज्ञां दृष्यास्ते शत्रुसंज्ञिताः ॥५६॥ गुणानामिति ॥ संध्यादीनां गुणानामायथातथ्यात् । तथात्वमनतिक्रम्य यथातथम् । यथायोग्यमिति यावत् । 'यथार्थे तु यथातथम्' इत्यमरः । यथार्थेऽव्ययीभावः । 'स नपुंसकम्' इति नपुंसकत्वम् । 'हस्वो नपुंसके-' इति हूस्वत्वम् । ततो नन्समासे अयथातथं, तस्य भाव आयथातथ्यम् । ब्राह्मणादित्वाव्यन्प्रत्ययः । 'यथातथयथापुरयोः पर्यायेण' इति विकल्पान्नम्पूर्वपदवृद्धिः । तस्मादायथातथ्यादयथायोग्यत्वात् । अन्यकालेऽन्यप्रयोगादित्यर्थः । अर्थ प्रयोजनं ये विलावयन्ति निन्नन्ति । कार्यहानिं कुर्वन्तीत्यर्थः। अमात्यानां व्यअनं चिह्नं येषां ते तथोक्ताः । तद्वेषधारिण इत्यर्थः । 'अवो बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः' इति वामनः । वस्तुतस्तु शत्रुरिति संज्ञा एषां संजाता शत्रुसंज्ञिताः शत्रव एव ते कूटमन्त्रिणो राज्ञां दूषयितुमर्हाः दूष्या गाः । त्याज्या इति यावत् । 'कृत्यानां कर्तरि वा' इति कर्तरि षष्ठी। अतः स्वोक्तं न प्रतिरोद्धव्यमिति भावः॥ ननु यातव्योऽपि काले यातव्य इत्याशयायमेव काल इत्याह खशक्त्यूपचये केचित्परस्य व्यसनेऽपरे । यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ ५७॥ Page #59 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ४७ खेति ॥ केचिद्वृद्धाः स्वस्य शक्तयुपचये सामर्थ्यातिरेके यानं यात्रामाहुः । यथाह कामन्दकः-'प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति । तथा विपक्षे व्यसनानपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ॥' इति । अपरे वृद्धाः परस्य शत्रोर्व्यसने विपदि । 'व्यसनं विपदि भ्रंशे' इत्यमरः । यानमाहुः । अत्र मनुः-'तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः' इति । तद्यमुक्तपक्षद्वयं कर्तृ आसीनमनुधुञ्जानम् । 'ईदासः' इति शानजाकारस्येकारादेशः । त्वामु. स्थापयति प्रेरयति । तदुभयलाभादीढकालो न कदापि लक्ष्यत इत्यर्थः ॥ तत्र स्वशक्त्युपचयं तावल्लक्षयतिलिलचयिषतो लोकानलङ्घयानलघीयसः। यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥ ५८॥ लिलङ्घयिषत इति ॥ लोकांल्लङ्घयितुमिच्छतो लिलवयिषतः । लङ्घयतेः सन्नन्ताल्लटः शतरि शस् । अलङ्घयान्स्वयं दुर्लङ्घयान् । कुतः अलघीयसोऽतिगुरून् । अत एव यादवा अम्भोनिधय इवेत्युपमितसमासः । वेलेवेति लिङ्गात् । तान्यादवाम्भोनिधीन्भवतः क्षमा तितिक्षा वेलेव कूलमिव । 'वेला कूलेऽपि वारिधेः' इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्वं संहरेयुरिति भावः ॥ अभ्युच्चयश्वायमपरो यदक्लेशेनैव ते विजयलाभ इत्याहविजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् । फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ ५९॥ विजय इति ॥ सेनायाः का विजयः साक्षिमात्रे उदासीने एकफलभाजि त्वयि समीक्ष्योक्ते सांख्योक्ते । 'सांख्यं समीक्ष्यम्' इति त्रिकाण्डः । आत्मनि बुद्धेर्महत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य काः भोगः सुखदुःखानुभव इवापदिश्यतां व्यवहियताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः । सांख्या अप्याहुः- 'कतैव भवत्युदासीनः' इति, 'सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः' इति च ॥ अथ परस्य व्यसनमाह हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि । चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥६० ॥ हत इति ॥ हिडिम्बरिपुणा भीमेन द्वयोर्मात्रोरपत्यं पुमान्द्वैमातुरः। 'मातुरुत्संख्यासंभद्रपूर्वायाः' इत्यण्प्रत्ययः उकारश्चान्तादेशो रेफपरः । तस्मिन्राज्ञि जरासन्धे । सहिताभ्यां पत्नीभ्यामर्धशः प्रसूतो जरया नाम पिशाच्या संधितश्चेति कथयन्ति । युधि हते सति चिरस्य चिरकालेन । 'चिराय चिररात्राय चिरस्याद्या'श्चिरार्थकाः' इत्यमरः । मित्रव्यसनी मित्रव्यसनवान् । मित्रभ्रंशवानिति यावत् । १ 'तन्नैष पक्षो व्यसनं ह्यनिष्टं क्षमस्तु सन्नभ्युदितः प्रतीयात्' इति पाठः. Page #60 -------------------------------------------------------------------------- ________________ ४८ ४८ . शिशुपालवधे 'व्यसनं विपदि भ्रंशे' इत्यमरः । दमघोषाजातो दमघोषजश्चैद्यः सुखेन दम्यत इति सुदमः । एकाकित्वात्सुसाध्य इत्यर्थः ॥ ___ कष्टश्चायं पक्षोऽभ्युपेत्यवादेनोक्तः, वस्तुतस्तु शूराणामग्रिमपक्ष एवेष्टः शास्त्रसंवादी । यथाह कामन्दक:-'यदा समस्तं प्रसभं निहन्तुं पराक्रमादूर्जितमप्यमित्रम् । तदाभियायादहितानि कुर्वन्नपान्ततः कर्षणपीडनानि ॥' इतीत्यभिप्रेत्याह नीतिरापदि यद्गम्यः परस्तन्मानिनो हिये । विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः॥६१॥ नीतिरिति ॥ परः शत्रुरापदि गम्यो गमनाहः नीतिरिति यत्तदापदि गमनं मानिनः शौर्याभिमानिनो हिये । लजाकरमित्यर्थः। किंतु पूर्ण उपचितगात्रः स शत्रुस्तस्य मानिनः । विधुश्चन्द्रः विधुं तुदति हिनस्तीति विधुंतुदो राहुः । 'विध्वरुषोस्तुदः' इति खश्प्रत्यये मुमागमः। तस्येवोत्सवाय । अत एव बलिना बलवानेव यातव्यः, बलिनश्च वयमिति भावः ॥ तर्हि पूर्वोदाहृतमन्वादिशास्त्रविरोधः स्यादित्याशङ्कयाह अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियत्रितम् ।। सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥ अन्यदिति ॥ अन्यदुच्छृङ्खलमनर्गलम् । प्रसह्य पीडनक्षममिति भावः । सत्त्वं बलमन्यत् । शास्त्रेण मन्वादिशास्त्रेण नियत्रितमुदाहृतं परव्यसनकाले निर्मितं सत्त्वमन्यत् । उत्कटानुत्कटलक्षणवैलक्षण्यमन्यशब्दार्थः । तयोः सापेक्षत्वनिरपेक्षत्वाभ्यां मिथो विरोधान्नैकशास्त्रत्वं संभवतीत्यर्थः । अत्र दृष्टान्तमाह-तेजस्तिमिरयोः समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमेकाश्रयत्वं कुतः । न कुतश्चित् तयोः सहावस्थानविरोधादिति भावः । तस्मादुभयोरुदितानुदितहोमवद्भिन्नविषयत्वादितरेतरशास्त्रविरोधो न बाधक इति भावः ॥ तर्हि नः किमिदानीं कार्यमत आह इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः । आमाकदन्तिसांनिध्याद्वामनीभूतभूरुहः ॥ ६३ ॥ इन्द्रप्रस्थेति ॥ इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्चिगमश्च' इत्यप्रत्ययः । तावदिदानी मा कारि तावत् । न क्रियतामेवेत्यर्थः । 'यावत्तावत्परिच्छेदे कात्स्यें मानावधारणे' इति विश्वः । कृजः कर्मणि लुङ् । 'माङि लुङ्' इत्याशीरर्थे । 'न माड्योगे' इत्यत्प्रतिषेधः । किंतु चेदयश्चेदिदेशाः। अस्माकमिमे आस्माकाः 'युष्मदस्मदोरन्यतरस्यां खञ्च' इति विकल्पादण्प्रत्ययः। 'तस्मिन्नणि च युष्माकास्माकौ' इत्यस्माकादेशः । संनिधिरेव सांनिध्यम् । स्वार्थे प्यन्प्रत्ययः । आस्माकानां दन्तिनां सांनिध्याद्वामनीभूताः शाखाभङ्गात्खर्वीभूता भूरुहो वृक्षा येषां ते तथोक्ताः सन्तु । चेदियात्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव Page #61 -------------------------------------------------------------------------- ________________ ४९ द्वितीयः सर्गः। स्वकार्येण गम्यत इति पर्यायोक्तालंकारः । 'कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् । प्रस्तुतत्वेन संबन्धात्पर्यायोक्तः स उच्यते ॥' इति लक्षणात् ॥ निरुद्धवीवधासारप्रसारा गा इव ब्रजम् । उपरुन्धन्तु दाशार्हाः पुरी माहिष्मती द्विषः॥ ६४॥ निरुद्धति ॥ किंच दाशार्हा यादवाः वीवधो धान्यादिप्राप्तिः, आसारः सुहृदलम् , प्रसारस्तृणकाष्ठादेः प्रवेशः । 'धान्यादेवधः प्राप्तिरासारस्तु सुहृद्धलम् । प्रसारस्तृणकाष्ठादेः प्रवेशः' इति वैजयन्ती । ते निरुद्धा यैस्ते तथोक्ताः, अन्यत्र निरुद्धौ वीवधानां पर्याहारापरनाम्नां स्कन्धवाह्यक्षीराद्याहरणसाधनभारविशेषा. णामासारप्रसारौ प्रवेशनिर्गमौ यैस्ते तथोक्ताः । 'विवधो वीवधो भारे पर्याहाराध्वनोरपि' इति हेमचन्द्रः। व्रजं गोष्टम् । 'बजः स्याद्गोकुलं गोष्ठम्' इति वैजयन्ती । गा इव माहिष्मती पुरी द्विषोऽरीनुपरुन्धन्तु । बजे गा इव माहिप्मत्यामरीनावृण्वन्त्वित्यर्थः । 'दुहियाचिरुधि-' इति द्विकर्मकत्वम् । तत्र पुरीबजावकथितं कर्म, अन्यदीप्सितं कर्म ॥ तर्हि पार्थप्रार्थनायाः का गतिरित्याशक्य, उपेक्षैव गतिरित्याह यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः । वयं हनाम द्विषतः सर्वः स्वार्थ समीहते ॥६५॥ यजतामिति ॥ पाण्डवो युधिष्ठिरो यजतां यागं करोतु । इन्द्रः स्वर्गमवतु रक्षतु । इनोऽर्कः । ‘इनः पत्यौ नृपार्कयोः' इति मेदिनी । तपतु प्रकाशताम् । वयं द्विषोऽरीन्हनाम मारयाम । 'आडुत्तमस्य पिच्च' इत्याडागमः । सर्वत्र प्राप्तकाले लोट । तथाहि—सर्वो जनः स्वार्थ स्वप्रयोजनं समीहतेऽनुसंधत्ते । इन्द्रादिसमानयोगक्षेमो नः पार्थ इत्यर्थः । अर्थान्तरन्यासः ॥ प्राप्यतां विद्युतां संपत्संपर्कादर्करोचिषाम् । शस्त्रैर्द्विषच्छिरश्छेदनोच्छलच्छोणितोक्षितैः ॥ ६६ ॥ प्राप्यतामिति ॥ किंच द्विषतां शिरश्छेदेन प्रोच्छलतोद्गच्छता शोणितेनोक्षितैः सिक्तैः शस्त्रैरर्करोचिषां संपर्कात्संबन्धाद्विधुतां संपल्लक्ष्मीः प्राप्यतामिति । निदर्शनालंकारः॥ इति संरम्भिणो वाणीलस्यालेख्यदेवताः । सभाभित्तिप्रतिध्वानैर्भयादन्ववदनिव ॥ ६७॥ इतीति ॥ इतीत्थं संरम्भिणः क्षुभितस्य बलभद्रस्य वाणीरालेख्यदेवताश्चित्रलिखितदेवताः सभायाः सदोगृहस्य भित्तीनां प्रतिध्वानैः । प्रतिध्वनिव्याजेनेत्यर्थः । भयादन्ववदन्नन्वमोदयन्निवेत्युत्प्रेक्षा ॥ निशम्य ताः शेषगवीरभिधातुमधोक्षजः । शिष्याय बृहतां पत्युः प्रस्तावमदिशदृशा ॥ ६८॥ शिशु० ५ Page #62 -------------------------------------------------------------------------- ________________ शिशुपालवधे निशम्येति ॥ अधः कृतमक्षजमिन्द्रियजं ज्ञानं येन सोऽधोक्षजो हरिः ताः शेषस्य शेषावतारस्य बलभद्रस्य गाः वाचः शेषगवीः । 'गोरतद्धितलुकि' इति टच् । टित्वान्डीप् । निशम्य श्रुत्वा । 'निशाम्यतीति श्रवणे तथा निशमयत्यपि' इति भट्टमल्लः । तत्र शाम्यतेरिदं रूपम् । अन्यथा निशमय्येति स्यात् । अतएव वामनः 'निशम्यनिशमय्यशब्दो प्रकृतिभेदात्' इति । बृहतां वाचां पत्पुर्वृहस्पतेस्तस्य शिष्यायोद्धवायाभिधातुं वक्तुं दृशा दृक्संज्ञया प्रस्तावमवसरमदिशदतिसृष्टवान् । 'प्रस्तावः स्यादवसरः' इत्यमरः ॥ भारतीमाहितभरामथानुद्धतमुद्धवः । तथ्यामुतथ्यानुजवजगादाग्रे गदाग्रजम् ॥ ६९॥ भारतीमिति ॥ अथ कृष्णानुज्ञानन्तरमुद्धवः आहितो भरोऽर्थगौरवं यस्यां सा तां तथ्यां यथार्था भारती वाचम् । अनुद्धतमगर्वितं यथा तथा गदस्याग्रज कृष्णं अग्रे पुरत इति प्रागल्भ्योक्तिः । उतथ्यस्य महर्षेरनुजो बृहस्पतिः। 'उतथ्यावरजो जीवः' इति विश्वः । तद्वत्तेन तुल्यं जगाद। तेन तुल्यं क्रिया चेद्वतिः' इति वतिः । तद्धितगेयमुपमा ॥ किं जगादेत्याह संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना । निर्धारितेऽथै लेखेन खलूक्त्वा खलु वाचिकम् ॥ ७० ॥ संप्रतीति ॥ संप्रति मुसलपाणिना बलभद्रेण । केवलं शूरेणेति ध्वनिः । उक्ते सति वक्तुमसांप्रतमयुक्तम् । साधूक्तत्वादभ्याससमानयोगक्षेमप्रसङ्गादिति "ध्वनिः । सांप्रतशब्दस्यार्थित्वात्तद्योगे 'शकष-' इत्यादिना तुमुन् । तथाहि लेख्येन पत्रेणार्थे वाच्ये निर्धारिते निर्णीते सति वाचिकं व्याहृतार्था वाचम् । संदेशवचनमित्यर्थः । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । 'वाचो व्याहृतार्थायाम्' इति ठक् । उक्त्वा खलु । न वाच्यं खल्वित्यर्थः । खलुरायः प्रतिषेधे, अन्यो वाक्यालंकारे, 'निषेधवाक्यालंकारजिज्ञासानुनये खलु' इत्युभयत्राप्यमरः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः । इह 'न पादादौ खल्वादयः' इति निषेधस्योद्वेजकाभिप्रायत्वात् नअर्थखलुशब्दस्यानुढेजकत्वात् नवदेव पादादौ प्रयोगो न दुष्यतीत्यनुसंधेयम् । लिखिताथै वाचिकमिव बलोक्ते मदुक्तिरनवकाशेति वाक्यार्थप्रतिबिम्बकरणात् । स्पष्टस्तावदृष्टान्तः । स्तुतिव्याजेन निन्दावगमायाजस्तुतिश्च । लक्षणं चाग्रे वक्ष्यते ॥ तर्हि किं तूष्णीभूतेन भाव्यं, नेत्याह तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् । तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ ७१ ॥ तथापीति ॥ तथापि बलेन निर्णीतेऽपि । ते तव मय्यपि। बलभद्र इत्यपिशब्दार्थः । गुरुरित्येव यद्गौरवमादरः यद्गौरवं जल्पतः जल्पने प्रयोज्यकर्मणो मे Page #63 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । ५१ प्रयोजककर्तृत्वं प्रेरकत्वमुपैति । अतो वक्ष्यामीत्यर्थः । नहि पण्डितैः सादरं गृष्टस्य विशेषज्ञस्याज्ञवत्तूष्णींभावो युक्त इति भावः ॥ ननु रामेणैव सर्वं प्रपञ्चेनोक्तम्, संप्रति किं ते वाच्यमस्तीत्याशङ्क्य वृथा पोऽयमिति हृदि निधाय स्तुवन्नाह - वर्णैः कतिपयैरेव ग्रथितस्य खरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ७२ ॥ वर्णैरित्यादित्रयेण ॥ कतिपयैः परिमितैर्वर्णैः पञ्चाशतैव मातृकाक्षरैः, कतिपयैः सप्तभिरेव स्वरैर्निषादादिभिर्ग्रथितस्य गुम्फितस्य वाङ्मयस्य शब्दजालस्य । 'एकाचोऽपि नित्यं मयटमिच्छन्ति' इति स्वार्थे मयट् । गीयत इति गेयं तस्य गानस्येव विचित्रता रचनाभेदादनन्ता । अपरिमिता भवतीत्यर्थः । अहो अतस्तेन साधूक्तेऽपि विशेषानन्त्यान्ममापि वक्तव्यमस्तीत्येको भावः । तस्य दुरु क्तत्वान्ममैवास्तीत्यन्यः । प्रत्यवयवमिवोपादानादने कैवेयमुपमा ॥ Tar च्छया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः ।। ७३ ।। पीति ॥ स्वेच्छया स्वप्रतिभानुसारेण प्रकीर्णमसंगतं बह्वपि कामं यथेष्टमभिधीयते । किंतु, अनुज्झितोऽर्थसंबन्धः पदार्थसंगतिर्यस्मिन्स प्रबन्धः संदर्भः दुरुदाहरो दुर्वचः । हरतेः खलप्रत्ययः । रामेण तु संगतमेवोक्तमिति स्तुतिः, असंगतमेवोक्तमिति निन्दा च गम्यते ॥ दीयसीमपि धनामनल्पगुणकल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ ७४ ॥ म्रदीयसीमिति ॥ कुशला वक्तारो प्रदीयसीमतिसुकुमाराक्षरां, श्लक्ष्णतरां च तथापि घनामर्थगुर्वीम्, अन्यत्र सान्द्राम् । कदलीदलकल्पामित्यर्थः । अनल्पैर्बहुभिर्गुणैः श्लेषादिभिः, तन्तुभिश्च कल्पितां रचितां, निर्मितां च चित्रां शब्दादिविचित्रां, विचित्ररूपां च वाचं पटीमिव शाटीमिव प्रसारयन्ति । रामवामप्येवंविधेति स्तुतिः, रामवाक्तु नैवंविधेति निन्दा च गम्यते । अत्र श्लेषस्य शुद्धविषयासंभवेन सर्वालंकारबाधकत्वादुपमाप्रति भोत्थापितः प्रकृताप्रकृतश्लेषोऽयमित्यलंकारसर्वस्वकारः । एवं च पूर्णोपमाया निर्विषयत्वप्रसङ्गाच्छ्रेषप्रतिभोत्था-पितेयमुपमैवेत्यन्ये ॥ अथोद्धवः स्वसिद्धान्तं वर्णयिष्यन्स्तुत्या गर्व परिहरन्हरिमभिमुखीकरोतिविशेषविदुषः शास्त्रं यत्तवद्राह्यते पुरः । हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥ विशेषेति ॥ विशेषानवान्तरभेदान्वेत्तीति विशेषविद्वान् तस्य विशेषविदुषो विशेषज्ञस्य । गतिगम्यादिपाठाद्वितीयासमासः । तव पुरोऽग्रे शास्त्रं नीतिशा Page #64 -------------------------------------------------------------------------- ________________ शिशुपालवधे मुह्यते उपन्यस्यत इति यत् । ' उग्राहितमुपन्यस्तम्' इति वैजयन्ती । सा । तदुग्रहणमित्यर्थः । विधेयप्राधान्यात्स्त्रीलिङ्गत्वम् । वक्तुरुग्राहयितुः परिचयस्थैर्येsभ्यासदाढ हेतुर्गुणनिका । आम्रेडितमेवेति यावत् । नतु वैदुष्यप्रकटनमिति भावः । 'गुण आम्रेडने ' चौरादिकात् 'ण्यासश्रन्थो युच्' इति युच् । ततः संज्ञायां कन् । कात्पूर्वस्येकारः ॥ संप्रति स्वगतमुपन्यस्यति — ५२ प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि । तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥ प्रज्ञेति ॥ अतोऽस्मात्कारणात्स्वमस्यास्तीति स्वामी प्रभुः । 'स्वामिन्नैश्वर्ये ' इति निपातः । प्रज्ञोत्साही मत्रोत्साहशक्ती आत्मनि स्वस्मिन्नाधातुं संपादयितुं यतेत । स्वयमुभयशक्तिमान्भवेदित्यर्थः । कुतः - हि यस्मात्तौ प्रज्ञोत्साहौ उदेव्यन्त्या वर्त्यन्त्याः जिगीषोरात्मनः संपदः प्रभुशक्तेर्मूलं निदानम् । अत्रोत्साहग्रहणं दृष्टान्तार्थम् । यथोत्साहस्तथा मन्त्रोऽपि ग्राह्यो, न तु केवलोत्साह इति । बलभद्रापवादः ॥ उत्साहवत्प्रज्ञापि ग्राह्येत्युक्तं तस्याः प्रयोजनमाह - सोपधानां धियं धीराः स्थेयसीं खगयन्ति ये । तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥ सोपधानामिति ॥ ये धीरा धीमन्तः सोपधानां सविशेषाम् । युक्तियुक्तांमित्यर्थः । अन्यत्र सर्गेन्दुकाम् । सोपबर्हामित्यर्थः । ' उपधानं विशेषे स्याद्वेन्दु के प्रणयेऽपि च' इति विश्वः । स्थेयसीं स्थिरतरामचपलां, द्रढीयसीं च । स्थिरशब्दादीयसुनि 'प्रियस्थिर - ' इत्यादिना स्थादेशः । धियं खयन्ति खट्टां पर्यङ्कं कुर्वन्ति । आश्रयन्तीत्यर्थः । ' शयनं मञ्च पर्यङ्कपल्यङ्काः खट्ट्या समाः' इत्यमरः । ' तत्करोति तदाचष्टे' इति णिच् । ते धीरास्तत्र धीखद्वायामनिशमश्रान्तं निषण्णा विश्रान्ताः सन्तो जातु कदाचिदपि श्रमं खेदं न जानते न विदन्ति । 'श्रमः खेदोऽध्वरत्यादे’रिति लक्षणम् । धीपूर्वक एवोत्साहः सेव्यो न केवल इति सर्वथा धीराश्रयणीयेत्यर्थः । अत्र धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकारपर्यन्ततया परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिमाणः' इति लक्षणात् ॥ अथ प्रज्ञाप्रज्ञयोर्द्वाभ्यां वैषम्यमाह स्पृशन्ति शरवत्तीक्ष्णास्तोकमन्तर्विशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥ स्पृशन्तीति ॥ तीक्ष्णा निशितप्रज्ञाः शरवच्छरेण तुल्यं स्तोकमल्पमेव स्पृशन्ति । अन्तः कार्यस्य चान्तरं विशन्ति । अल्पायासेन बहु कार्यं साधयन्तीत्यर्थः । बहुस्पृशा व्यापिना स्थूलेन मन्देन, बृहता चाश्मनोपलेन तुल्यमश्मवत् । 'तेन Page #65 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। ५३ तुल्यं क्रिया चेद्वतिः' । बहिरेव । कार्यस्याकार्यस्य चेति भावः । स्थीयते स्थितिः क्रियते । मूढो हि अल्पस्य हेतोर्बहु प्रयासं करोति । मूषकग्रहणाय शिखरिखननं परिहासास्पदं भवतीति भावः । तद्धितगतेयमुपमा ॥ आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥७९॥ आरभन्त इति ॥ किंचाज्ञा अल्पं तुच्छमेवारभन्ते प्रक्रमन्ते । काममत्यन्तं व्यग्राः, त्वरिताश्च भवन्ति । न च पारं गच्छन्तीति भावः । कृतधियः शिक्षितबुद्धयस्तु महारम्भा महोद्योगा भवन्ति । निराकुला अव्यग्राश्च तिष्ठन्ति । पारं गच्छन्तीति भावः ॥ अथ प्रज्ञावानपि न प्रमादित्याह उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः। हन्ति नोपशयस्थोऽपि शयालुमंगयुर्मुगान् ॥ ८० ॥ उपायमिति ॥ उपायमास्थितस्य प्राप्तस्यापि । उपायेनैव कार्य साधयतोऽपीत्यर्थः । किमुत व्यग्रतयेति भावः । प्रमाद्यतोऽनवधानस्य । 'प्रमादोऽनवधानता' इत्यमरः । अर्थाः प्रयोजनानि नश्यन्ति । तथाहि-शयालुर्निद्रालुः । आलुचि शीङो वक्तव्यत्वादालुच् । मृगान्यातीति मृगयुर्व्याधः । 'मृगरवादयश्च' इत्यौणादिकः कुप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः' इत्यमरः । उपशेरतेऽस्मिन्नित्युपशयो मृगमार्गस्थायिनो व्याधस्यात्मगुप्तिस्थानं गर्तविशेषः । 'एरच्' इत्यच्प्रत्ययः । तत्र तिष्ठतीत्युपशयस्थोऽपि मृगान हन्ति । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ एवं प्रज्ञायां आवश्यकत्वमुक्तम् , तथोत्साहस्याप्याह उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि । जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥ उदेतुमिति ॥ जेतुमिच्छुर्जिगीपुरेक एव द्वादशस्वपि राजसु मध्ये द्वादशस्वादित्येषु दिनकृद्यो दिनकरणे व्याप्रियमाण आदित्यः स इवेहामुत्साहमत्यजन्प्रयुञ्जान एव । न तु निरुद्योग इति भावः । उदेतुं कल्पते उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशक्तेरपि मूलमित्यर्थः । 'नानालिङ्गत्वाद्धेतूनां नानासूर्यत्वम्' इति श्रुतेः प्रतिमासमादित्यभेदावादशत्वं तच्चैकस्यैव द्वादशात्मकत्वम् 'द्वादशात्मा दिवाकरः' इत्यभिधानात् । ते चार्यमादयः पुराणोक्ता द्रष्टव्याः । राजानस्तु 'अरिमित्रमर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥' पञ्चेति शेषः । 'पाणिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥' पाणिग्राहासारः आक्रन्दासारश्वेत्यर्थः। अत्र चत्वार इति शेषः । एवं नव भवन्ति । विजिगीषुर्दशमः। 'अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थों व्यस्तयोर्वधे । मण्डलाद्धहिरेतेपा Page #66 -------------------------------------------------------------------------- ________________ ५४ शिशुपालवधे. मुदासीनो बलाधिकः ॥' इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः । पूर्णोपमा ॥ उपायमास्थितस्येत्यत्र राजा न प्रमायेदित्युक्तम् , अप्रमादप्रकारमाह बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चकः । चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः॥ ८२॥ बुद्धिशस्त्र इति ॥ बुद्धिरेव शस्त्रं यस्य स बुद्धिशस्त्रः । अमोघपातित्वात्तस्या इति भावः । प्रकृतयः स्वाम्यादिराज्याङ्गानि । 'राज्याङ्गानि प्रकृतयः' इत्यमरः । ता एवाङ्गानि यस्य सः । तद्वैकल्ये राज्ञो वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिर्मनगुप्तिरेव कञ्जुकः कवचो यस्य स तथोक्तः । मन्त्रभेदे राज्यभेदादिति भावः । चरतीति चरः । पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वार्थिकोऽण्प्रत्ययः । 'चारश्च गूढपुरुषः' इत्यमरः । स एवेक्षणं चक्षुर्यस्य स चारेक्षणः । अन्यथा स्वपरमण्डलवृत्तान्तादर्शनात् । 'अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे' इति भावः । दूतः संदेशहरः । 'स्यात्संदेशहरो दूतः' इत्यमरः । स एव मुखं वाग्यस्यासौ दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिद्धौ तत्साध्यासाध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षणः पुमानित्यर्थः । अतो राज्ञा बुद्ध्यादिसंपन्नेन भवितव्यम् । एतदेवाप्रमत्तत्वम् । अन्यथा स्वरूपहानिः स्यादिति भावः । अत्र कोऽपीति राज्ञो लोकसंबन्धेऽपि तदसंबन्धोक्त्या तद्रूपातिशयोक्तिः । सा च बुद्धिशस्त्र इत्यादिरूपकनियूंढेति तेन सहाङ्गाङ्गिभावेन संकरः ॥ चतुर्थोपायसाध्य इत्यादिना यत्क्षाश्रमेव कर्तव्यमुक्तं तत्रोत्तरमाह- . तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः । नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ ८३ ॥ तेज इति ॥ कालं जानातीति कालज्ञस्तस्य । अयं काल इति विदुष इत्यर्थः। 'आतोऽनुपसर्गे कः' न तु 'इगुपध-' इत्यादिना कविधिः । समासे कर्मोपपदस्यैव बलवत्त्वभाषणात् । तस्य महीपतेस्तेजः क्षात्रमेवेति वा क्षमैव वा एकान्तं नियमो न नास्ति, किंतु यथाकालमुभयमप्याश्रयणीयमित्यर्थः । तथा हि-रसाजशृङ्गारादीन्भावान् , निर्वेदादींश्च वेत्ति यस्तस्य रसभावविदः । भावग्रहणं संपातायातम् । कवेः कवितुरेकं केवलमोजः प्रौढप्रबन्धत्वं वा एकः प्रसादः सुकुमारप्रबन्धत्वं वा न । किंतु तत्र हि रसानुगुण्येन यथायोग्यमुभयमप्युपादेयम् । दृष्टान्तालंकारः ॥ ___ यदुक्तं 'क्रियासमभिहारेण विराध्यन्तं सहेत कः' इति तत्रोत्तरमाह कृतीपचारोऽपि परैरनाविष्कृतविक्रियः । असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ॥ ८४ ॥ १ 'कृतापराधोऽपि' इति पाठः. Page #67 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। कृतापचार इति । परैः शत्रुभिः कृतः अपचारोऽपकारः, अपथ्यं च यस्य सः, तथाप्यनाविष्कृतविक्रियोऽन्तर्गुढविकारः। अत एवासाध्योऽप्रतिसमाधेयः सन् गदो यथा रोग इव । 'इववद्वा यथाशब्दः' इति दण्डी। काले बलक्षयावसरे प्राप्ते सति कोपं कुरुते । प्रकुप्यतीत्यर्थः । तदुक्तम्-'वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः । तमेव चागते काले भिन्द्याटमिवाश्मना ॥' इति ॥ इतश्च क्षन्तव्यमिदानीमित्याह मृदुव्यवहितं तेजो भोक्तुमर्थान्प्रकल्पते। प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया । ८५ ॥ मृद्विति ॥ मृदुना मृदुवस्तुना व्यवहितमन्तर्हितं तेजः अर्थान्भोक्तुं प्रकल्पते प्रभवति । तथाहि-प्रदीपोऽभ्यन्तरस्थया मध्यस्थया दशया वया॑ । 'दश वर्ताववस्थायां स्नेहस्तैलादिके रसे' इति विश्वः। स्नेहं तैलादिकमर्थमादत्ते । अन्यथा स्वयमेव निर्वापादिति । ततः शान्तिपूर्वमेव क्षात्रं फलतीति सर्वथा प्रथमं क्षन्तव्यमिति भावः । विशेषेण सामान्यसमर्थनादर्थान्तरन्यासः॥ तर्हि पौरुषं मा भून्नित्यं, क्षममाणस्य दैवमेव श्रेयो विधास्यतीत्याशङ्कयाह - नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थों सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८६ ॥ नालम्बत इति ॥ विद्वानभिज्ञः दिष्टे मतिर्यस्येति दैष्टिकः । दैवप्रमाणक इत्यर्थः । 'दैवं दिष्टं भागधेयम्' इत्यमरः । 'अस्तिनास्तिदिष्टंमतिः' इति ठक् । तद्भावं दैष्टिकतामेव नालम्बते । सर्वथा यद्भविष्यस्य विनाशादिति भावः । तथा पौरुषे केवलपुरुषकारेऽपि । युवादित्वादण्प्रत्ययः । न निषीदति न तिष्ठति । दैवप्रातिकूल्ये तस्य वैफल्यादिति भावः । किंतु सत्कविः सत्कवयिता शब्दार्थाविव तयोः काव्यशरीरत्वादिति भावः । यथाह वामनः- 'अदोषौ सगुणौ सालंकारी शब्दार्थों काव्यम्' इति । द्वयं पौरुषं, दैवं चापेक्षते । अतः पौरुषमप्यावश्यकम् , किंतु काले कर्तव्यमिति विशेषः । पौरुषादृष्टयोः परस्परसापेक्षत्वादिति भावः ॥ अथ क्षान्तेः फलमाह स्थायिनोऽर्थे प्रवर्तन्ते भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ ८७ ॥ स्थायिन इति ॥ रस्यते स्वाद्यत इति रसः शृङ्गारादिः । रसतेः स्वादनार्थत्वादस्यन्ते ते रसा इति निर्वचनात् तस्य रसस्य रसीभवतः स्थायिभावस्य रस्यादेः । 'रतिर्हासश्च क्रोधश्च शोकोत्साहभयानि च । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥' इत्युक्तत्वात् । एकस्यैवाथै स्वादुभावरूपे प्रयोजने भूयांसः संचारिणो व्यभिचारिणो भावा निर्वेदादयः। विभावादीनामुपलक्षणमे१ 'महीभुजः' इति पाठः. Page #68 -------------------------------------------------------------------------- ________________ शिशुपालवधे तत् । यथा प्रवर्तन्ते । तदुक्तम्-'विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः ॥' इति । तथा स्थायिनः स्थिरस्य । क्षान्त्या कालं प्रतीक्षमाणस्येत्यर्थः । एकस्यैव नेतुर्विजिगीषोर्नायकस्यार्थे प्रयोजने भूयांसो महीभृतो राजानः प्रवर्तन्ते । स्वयमेवास्य कार्य साधयन्तीत्यर्थः । ततः क्षन्तव्यमिति भावः । केचित्तु भावपदस्यापि रसपरत्वमाश्रित्य यथा संचारिणः प्रसङ्गादागन्तुका अन्ये रसाः स्थायिनः स्थिरस्यैकस्य मुख्यस्यार्थे प्रवर्तन्ते, तथास्मिन्नेव काव्ये वीरस्य शृङ्गारादय इति व्याचक्षते । उपमालंकारः ॥ क्षान्तिपक्ष एव गुणान्तरमाह तत्रावापविदा योगैमण्डलान्यधितिष्ठता । सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८८ ॥ तन्त्रेति ॥ तन्त्रावापौ स्वपरराष्ट्रचिन्तनम् । अन्यत्र तनावापं शास्त्रौषधप्रयोगं च वेत्ति यस्तेन तन्त्रावापविदा । 'तत्रं स्वराष्ट्रचिन्तायामावापः परचिन्तने । शास्त्रौषधान्तमुख्येषु तन्त्रम्' इति वैजयन्ती । योगैः सामाधुपायैः, अन्यत्र देवताध्यानैश्च । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । मण्डलानि स्वपरराष्ट्राणि, माहेन्द्रादिदेवतायतनानि च अधितिष्टतातिक्रमता नरेन्द्रेण राज्ञा, विषवैद्येन च । 'नरेन्द्रो वार्तिके राज्ञि विषवैद्ये च कथ्यते' इति विश्वः । शत्रवः फणीन्द्रा इव सुनिग्रहाः सुखेन निग्राह्याः। एवं च प्रकृताप्रकृतविषयः श्लेषः । उपमैवेति केचित् ॥ 'प्रज्ञोत्साहावतः स्वामी' इत्यत्रैव तावेव प्रभुशक्तेर्मूलमित्युक्तं तदेव व्यनक्ति करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम् । प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८९॥ करेति ॥ उत्तुङ्गो महोन्नतः प्रज्ञाबलं मन्त्रशक्तिरेव बृहत्प्रधानं मूलं यस्य सः उत्साह एव पादपः । करेण बलिना प्रचेयां वर्धनीयां, हस्तग्राह्यां च । 'बलिहस्तांशवः कराः' इत्यमरः । प्रथीयसी पृथुतराम् । 'रऋतो हलादेः-' इति रेफादेशः । प्रभुशक्ति तेजोविशेषम् । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' . इत्यमरः । फलति । प्रसूत इत्यर्थः । ‘फल निष्पत्तौ' मत्रपूर्वक एवोत्साहः फलति । विपरीतस्तु छिन्नमूलो वृक्ष इव शुष्यतीति भावः । रूपकालंकारः ॥ विमृश्यकारिणस्तु विश्वमपि विधेयं स्यादिति त्रयेणाह अनल्पत्वात्प्रधानत्वाद्वंशस्येवेतरे स्वराः। विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ॥ ९० ॥ अनल्पत्वादिति ॥ अनल्पत्वात्प्रज्ञोत्साहाधिकत्वादत एव प्रधानत्वान्मण्डलाभिज्ञत्वात् , अन्यत्रानल्पत्वादुच्चैस्तरत्वात् प्रधानत्वान्नायकस्वरत्वाच्च वंशस्य वंशवाद्यस्वरस्य इतरे स्वरा वीणागानादिशब्दा इव । अथवा आश्रयत्वाद्वंश इव Page #69 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः । वंशस्तत्कालविहितः स्वर उच्यते तस्य स्वरस्येतराः षड्जादयः विजिगीषोर्नृपतयोऽन्ये मण्डलपरिवर्तिनो राजानः परिवारतां पोप्यतां प्रयान्ति । तत्कार्यमेव साधयन्तीत्यर्थः । तस्माद्विमृश्य कर्तव्यमित्यर्थः ॥ अप्यारभमाणस्य विभोरुत्पादिताः परैः । व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥ अपीति ॥ किंच अनारभमाणस्य स्वयमकिंचित्कुर्वाणस्यापि विभोः प्रभोः, व्यापकस्य च परैरन्यैर्नृपतिभिः शङ्खभेर्यादिभिश्च उत्पादिताः संपादिताः, जनिताश्वार्थाः प्रयोजनानि विहायस आकाशस्य शब्दा इव गुणतां विशेषणतां कारणत्वाद्गुणत्वं व्रजन्ति । शक्तो हि राजा स्वयमुदासीन एवाकाशवत्स्वमहिम्नैव कार्यदेशं व्याशुवन्शब्दानिव सर्वार्थानपि स्वकीयतां नयतीत्यर्थः । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती ॥ यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः । एकार्थतन्तु प्रोतायां नायको नायकायते ॥ ९२ ॥ यातव्येति ॥ किंच एकार्थ एकप्रयोजनं स एव तन्तुः सूत्रं तत्र प्रोतायाम् । maratटाभिलाषिण्यामित्यर्थः । प्रपूर्वाजः कर्मणि क्तः । ' वचिस्वपि - ' इत्यादिना संप्रसारणम् । यातव्योऽभिषेणयितव्योऽरिः पाणि गृह्णातीति पाणिग्राहः पृष्ठानुधावी । कर्मण्यण् । तावादी येषां ते पूर्वोक्ताः पङ्क्तिशः स्थितास्त एव माला रत्नमालिका तस्यामधिकद्युतिर्महातेजा नायकः शक्तिसंपन्नो जिगीषुनयकायते मध्यमणिरिवाचरति । स्वयमेव सर्वोत्कर्षेण वर्तत इत्यर्थः । तस्माद्विमृश्य कर्तव्यमिति भावः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । 'उपमानादाचारे' इति क्यङ् । 'अकृत्सार्वधातुक -' इति दीर्घः । नायकायते इत्युपमा । अन्यथानुशासनविरोधात् । एकार्थतन्त्वित्यत्र तु रूपकमधिष्ठानतिरोधानेनारोप्यमाणतन्तुत्वस्यैवोद्भटत्वात्प्रोतत्वसिद्धेस्तदेव युक्तम् । तद्बलात्पाणिग्राहादिमालायामित्यत्राभिरूपकमेव । तदनुप्राणिता चेयमुपमेत्यङ्गाङ्गिभावेन तयोः संकरः ॥ अथ विमृश्यकरणप्रकारमाह पाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनम् । भवन्त्यस्यैवमङ्गानि स्थास्तूनि बलवन्ति च ॥ ९३ ॥ षाङ्गुण्यमिति ॥ शक्तिं प्रभावादित्रयं बलं चापेक्षत इति शक्त्यपेक्षः सन् । पचाद्यच् । 'शक्तिर्बले प्रभावादौ' इति विश्वः । षड्गुणा एव षाडुण्यं संधिविग्रहादिषट्कम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । तदेव रसायनमौषधविशेषमुपयुञ्जीत सेवेत । 'रसायनं विहंगेऽपि जराव्याधिभिदौषधे' इति विश्वः । एवं सत्यस्य प्रयोक्तुरङ्गानि स्वाम्यादीनि । 'स्वामी जनपदोऽमात्यः कोशो दुर्गं बलं सुहृत् । राज्यं सप्तप्रकृत्यङ्गं नीतिज्ञाः संप्रचक्षते ||' इति । गात्राणि च १ 'शक्त्यपेक्षं' इति पाठः. , - ५७ , Page #70 -------------------------------------------------------------------------- ________________ ५८ शिशुपालवधे स्थानि स्थिराणि । कालान्तरक्षमाणीत्यर्थः । 'ग्लाजिस्थश्च-' इति ग्स्नुः । बलवन्ति च परपीडाक्षमाणि च भवन्ति । श्लिष्टपरम्परितरूपकम् ॥ स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथाबलमारम्भो निदानं क्षयसंपदः॥ ९४ ॥ स्थाने इति ॥ किंच स्थाने शक्यविषये शमवतां क्षमावतामङ्गिनां सप्तागिनां राज्ञां, शरीरिणां च शक्त्या प्रभावाद्यनुसारेण, बलेन च व्यायामे व्यापारे । षाड्गुण्यप्रयोगे गमनादौ च सतीत्यर्थः । वृद्धिरुपचयः । राज्यस्य, शरीरस्य चेति भावः । विपक्षे बाधकमाह-अयथाबलं शक्त्यतिक्रमेण । 'यथा सादृश्ये' इत्यव्ययीभावे नसमासः। आरम्भो व्यायामः। क्षयसंपदोऽत्यन्तहानेर्निदानमादिकारणम् । अङ्गानामिति भावः । तस्मादस्माकमकस्माच्चैद्यास्कन्दनमश्रेयस्करमिति भावः । अत्र विशेषस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो वस्तुना वस्तुध्वनिः । अतो द्वयानामङ्गिनामौपम्यं च गम्यत इति संक्षेपः ॥ फलितमाह तदीशितारं चेदीनां भवांस्तमवमस्त मा । निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ ९५ ॥ तदिति ॥ तत्तस्मादशक्यार्थस्याकार्यत्वात्तं चेदीनामीशितारं शिशुपालं भवान्मावमस्त नावमन्यस्व । मन्यतेर्माङि लुङ् । अनुदात्तत्वान्नेडागमः । कुतः । यश्चैद्यः उदात्तः स्वराननुदात्तादीनिवारीनेकपदे एकस्मिन्पदन्यासे, सुप्तिङन्तलक्षणे च निहन्ति हिनस्ति नीचैः करोति च । अतिशूरत्वात् । 'अनुदात्तं पदमेकवर्जम्' इति परिभाषाबलाच्चेति भावः ॥ न चायमेकाकी किं नः करिष्यतीति मन्तव्यमित्याह मा वेदि यदसावेको जेतव्यश्चेदिराडिति । राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥ ९६ ॥ मा वेदीति ॥ असौ चेदिराट् एकः एकाकी अतो जेतव्यः सुजय इति मा वेदि मा ज्ञायि । वेत्तेः कर्मणि माङि लुङ् । यद्यस्मात्स चेदिराद राज्ञश्चन्द्रस्य यक्ष्मा, राजा चासौ यक्ष्मेति वा राजयक्ष्मा क्षयरोगो रोगाणामिव महीभृतां समूहः समष्टिरूपः । यथाह वाग्भटः--'अनेकरोगानुगतो बहुरोगपुरःसरः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानां च राज्ञो. ऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥' इति। अतो दुर्जेय इति भावः । एतेन 'चिरस्य मित्रव्यसनी सुदमो दमघोपजः' इति निरस्तम् ।। अथास्य सर्वराजसमष्टितामेव द्वाभ्यां व्याचष्टे संपादितफलस्तेन सपक्षः परभेदनः। कार्मुकेणेव गुणिना बाणः संधानमेष्यति ॥ ९७॥ Page #71 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। संपादितेति ॥ संपादितं फलं लाभो, बाणाग्रं च यस्य सः । 'फलं लाभशराग्रयोः' इति शाश्वतः । सपक्षः ससुहृत्, कङ्कादिपत्रयुतश्च परेषां भेदकः शत्रुविदारणः बाणो बाणासुरः, शरश्च । गुणिना शौर्यादिगुणवता, अधिज्येन च तेन चैयेन कर्मणे प्रभवति कार्मुकम् । 'कर्मण उकञ्' । तेनैव संधानं संधिमेष्यति । अतो नैकाकीति भावः। अत्राप्युपमा श्लेषो वा मतभेदात् ॥ ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः। तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥ ९८॥ ये चेति ॥ ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावास्तमोगुणात्मका अतएव तेऽपि प्रदोषं प्रकृष्टदोषम् । 'प्रदोषौ दुष्टराज्यशौ' इति वैजयन्ती । तामसमेवैनं चैद्यमनुयायिनोऽनुयास्यन्ति । सादृश्यादिति भावः । 'भविष्यति गम्यादयः' इति णिनिर्भविष्यदर्थे । 'अकेनोर्भविष्यदाधमर्ययोः' इति षष्ठीप्रतिषेधाद्वितीया । यथा ध्वान्तं रजनीमुखमनुयाति तद्वदिति वस्तुनालंकारध्वनिः ॥ ननु बाणादयोऽस्मादिभिः कृतसंधाना इदानीं न विराध्यन्तीत्यत आहउपजापः कृतस्तेन तानाकोपवतस्त्वयि । आशु दीपयिताल्पोऽपि सानीनेधानिवानिलः ॥ ९९ ॥ उपेति ॥ तेन चैयेन कृतोऽल्पोऽप्युपजापो भेदः । ‘भेदोपजापौ' इत्यमरः । 'त्वय्याकोपवतस्तान्बाणादीन् अनिलः साग्नीनेधानानिन्धनानीव । 'काष्ठं दाविन्धनं वेध इध्ममेधः समिस्त्रियाम्' इत्यमरः । आशु दीपयिता सद्यः प्रज्वलयिष्यति । दीपेय॑न्ताल्लुद । अन्तर्वैराः संहिताः आपदि सति रन्ध्रे सद्यो विश्लिष्यन्तीति भावः॥ ततः किमत आह बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १० ॥ बृहदिति ॥ बृहत्सहायो महासहायवान्क्षोदीयान्क्षुद्रतरोऽपि । 'स्थूलदूर-' इत्यादिना यणादिपरलोपः पूर्वगुणश्च । कार्यस्यान्तं पारं गच्छति । तथाहि-अपां समूह आपम् । 'तस्य समूहः' इत्यण् । तेन गच्छतीत्यापगा नगापगा गिरिनदी महानद्या गङ्गादिकया संभूय मिलित्वाम्भोधिमभ्येति । क्षुद्रोऽप्येवं तादृक् । महावीरश्चैद्यस्तु किमु वक्तव्य इत्यपिशब्दार्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ किंच न केवलं शत्रोरसाध्यत्वं मित्रविरोधश्चाधिकोऽनर्थकर इत्याह-- तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः । अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥१०१ ॥ १ 'ये चान्ये चो' इति पाठः. Page #72 -------------------------------------------------------------------------- ________________ शिशुपालवधे तस्येत्यादिद्वयेन ॥ ये च तस्य चैद्यस्य मित्राणि नृपाः, ये च ते तवामित्रा नृपास्त उभये त्वयाभियुक्तमभियातमेनं चैद्यं गन्तारो गमिष्यन्ति । गमेः कर्तरि लुट् । अतः परे उक्तोभयव्यतिरिक्ताः तव मित्राणि तस्यामित्राश्चेत्यर्थः। त्वां गन्तारः ॥ ततः किमत आह मखविघ्नाय सकलमित्थमुत्थाप्य राजकम् । हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२ ॥ मखेति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' इति थमुप्रत्ययः । मखविघ्नाय मखविघाताय सकलं राजकं राजसमूहम् । 'गोत्रोक्ष-' इत्यादिना वुञ् । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे। अजातारेरजातशत्रोर्युधिष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे क्तः ॥ अस्तु सोऽपि शत्रुः, को दोषस्तत्राह संभाव्य त्वामतिभरक्षमस्कन्धं स बान्धवः । सहायमध्वरधुरां धर्मराजो विवक्षते ॥ १०३॥ संभाव्येति ॥ बन्धुरेव बान्धवः स धर्मराजः अतिभरस्य क्षमः स्कन्धो यस्य स तम् । समानस्कन्धमित्यर्थः । त्वां सहायं संभाव्याभिसंधाय । अध्वरस्य धुरमध्वरधुराम् । 'ऋक्पूर्-' इत्यादिना समासान्तोऽच्प्रत्ययः। समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप् । विवक्षते वोढुमिच्छति । वहतेः स्वरितेतः सन्नन्ताल्लए । तथा हि-विरोधे विश्वासघातो, बन्धुद्रोहश्च तौ स्यातामिति भावः । विशेषणसाम्यात्प्रस्तुतयागधर्मप्रतीतेः समासोक्तिः ॥ ननु प्रतिश्रुत्याकरणे दोषः प्रागेव, परिहारे तु को दोष इत्यत आह महात्मानोऽनुगृह्णन्ति भजमानात्रिपूनपि । सपत्नीः प्रापयन्त्यब्धि सिन्धवो नगनिम्नगाः॥ १०४ ॥ महात्मान इति ॥ महात्मानो निग्रहानुग्रहसमर्था भजमानाशरणागतारिपूनप्यनुगृह्णन्ति । किमुत बन्धूनिति भावः । अर्थान्तरं न्यस्यति–सिन्धवो महानद्यः समान एकः पतिर्यासां ताः सपत्नीः। 'नित्यं सपल्यादिषु' इति ङीपू नकारश्च । नगनिम्नगा गिरिनिर्झरिणीरब्धि प्रापयन्ति । स्वसौभाग्यं ताभ्यः प्रयच्छन्तीति भावः । अतः परिहारेऽप्यनर्थ इति भावः ॥ . तर्हि संप्रत्युपेक्षायामपि पश्चात्प्रार्थनया पार्थमार्जवयेयमित्यत आहचिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु । छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः॥ १०५ ॥ १ 'सुबान्धवः' इति पाठः. Page #73 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। चिरादिति ॥ बलिनः स्वयं बलवतोऽप्यरिषु विषये बलात्कारो दण्डविराचिरकालेनापि । सद्यो मा भूदिति भावः । सिद्धये। वशंवदत्वसिद्धये भवतीति शेषः । अविमनसो विमनसः संपद्यमानाः कृता विमनीकृताः । वैमनस्यं प्रापिता इत्यर्थः । 'अरुमनश्चक्षुश्चेतोरहोरजसा लोपश्च' इति च्चिप्रत्ययलोपौ । 'अस्य च्वौ' इतीकारः । शोभनं हृदयं येषां ते सुहृदो मित्राणि तु । 'सुहृदुहृदौ मिन्त्रामिप्रयोः' इति निपातः । छन्दस्याभिप्रायस्यानुवृत्त्या चित्तानुरोधेनापि दुःसाध्याः। आर्जवयितुमशक्या इत्यर्थः । 'अभिप्रायश्छन्द आशयः' इत्यमरः । शनैः शत्रुर्दण्डेनापि वशो भवति, मित्रं वैमनस्येन सान्नापीति भावः ॥ ननु सुहृत्कार्यात्सुरकार्य बलीय इत्यत्राह मन्यसे रिवधः श्रेयान्प्रीतये नाकिनामिति । पुरोडाशभुजामिष्टमिष्टं कर्तुमलंतराम् ॥ १०६॥ मन्यस इति ॥ नाकिनां देवानां प्रीतयेऽरिवधः श्रेयान्प्रशस्यतरः । 'प्रशस्यस्य श्रः' इति श्रादेशः । इति मन्यसे चेत्तर्हि पुरोडाशभुजां हविर्भोजिनाम् । अतएव नाकिनामिष्टमभीप्सितं कर्तुम् । इषेः कर्मणि क्तः । इष्ट इष्टिः । याग इति यावत् । यजेर्भावे तः। 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अलंतरा। मतिपर्याप्तम् । अव्ययादामुप्रत्ययः । शत्रुवधादतिप्रियकरो याग एव नाकिनां भुक्त्वापि शत्रुवधस्य सुकरत्वादिति भावः ॥ तथाप्यमृताशिनां तेषां देवानां किमेभिः पिष्टभक्षणप्रलोभनैरत आह अमृतं नाम यत्सन्तो मत्रजिह्वेषु जुह्वति । शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥ अमृतमिति ॥ अमृतं नाम सन्तो विद्वांसः मन्त्रा एव जिह्वा येषां तेषु मन्त्रजिह्वेष्वग्निषु । 'मत्रजिह्वः सप्तजिह्वः सुजिह्नो हव्यवाहनः' इति वैजयन्ती । यत्पुरोडाशादिकं जुह्वति तदेवेति शेषः। यत्तदोनित्यसंबन्धात् । मन्दर एव क्षुब्धो मन्थनदण्डः । 'क्षुब्धस्वान्त-' इत्यादिनास्मिन्नर्थे निपातनासिद्धम् । तेन क्षुभितस्य मथितस्याम्भोधेवर्णना शोभैवालंकार एव । अब्धिमन्थनेनामृतमुत्पादितमिति यतः कीर्तिमानम्, अतो हुतमेवामृतमिति भावः । वाक्यार्थयोर्हेतु. हेतुमदावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ यात्रायाः प्रतिबन्धः कश्चिदुस्तरस्तवास्तीत्याह सहिष्ये शतमागांसि सूनोस्त इति यत्त्वया । प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृष्वस्र प्रतिश्रुतम् ॥ १०८ ॥ सहिष्य इति ॥ प्रतीक्ष्यायै पूज्यायै । 'पूज्यः प्रतीक्ष्यः' इत्यमरः । पितृष्वरे पितृमगिन्यै । 'विभाषा स्वसृपत्योः' इति विकल्पादलुगभावः । 'मातृपितृभ्यां स्वसा' इति षत्वम् । ते तव सूनोः शतमागांस्यपराधान् । 'आगोऽपराधो मन्तश्च' १'नाकिनामपि' इति पाठः. शिशु. ६ Page #74 -------------------------------------------------------------------------- ________________ शिशुपालवधे इत्यमरः । सहिष्ये सोढाहे इति यत्त्वया प्रतिश्रुतं प्रतिज्ञातं तत्प्रतीक्ष्यं प्रतिपालनीयम् । अन्यथा महादोषस्मरणादिति भावः ॥ सत्यमस्ति प्रतिश्रुतं, किंत्वस्योन्मत्तत्वादौद्धत्यादपि जिहासितमत आह तीक्ष्णा नारंतुदा बुद्धिः कर्म शान्तं प्रतापवत् । नोपतापि मनः सोष्म वागेका वाग्मिनः सतः॥१०९ ॥ तीक्ष्णेति ॥ सतः सत्पुरुषस्य बुद्धिस्तीक्ष्णा निशिता स्यादिति विद्धीत्यध्याहारः । एवमुत्तरत्रापि । तथाप्यरुस्तुदतीत्यरंतुदा शस्त्रवन्मर्मच्छेदिनी न भवेत् । अहिंसयैव परं पीडयेदि त्यर्थः । कर्म व्यापारः प्रतापवत्तेजस्वि भयदं स्यात्, तथापि शान्तं स्यात् । नतु सिंहादिवद्धिंत्रं भवेदित्यर्थः । मनश्चित्तं सोम अभिमानोष्णं स्यात्तथापि उपतापयतीत्युपतापि । अग्न्यादिवत्परसन्तापि न स्यात् । वाग्मिनो वक्तुर्वागेका एकरूपा स्यात् । वाग्ग्मी सत्यमेव वदेदित्यर्थः । अतः सत्यसन्धस्य प्रतिश्रुतार्थहानिरनहेति भावः। अत्र प्रकृताया वाचोऽप्रकृतानां बुद्धिकर्ममनसां च तुल्यधर्मादौपम्यावगमाद्दीपकालंकारः । 'प्रकृताप्रकृतानां च साम्ये तु तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥' इति लक्ष. णात् । बुद्ध्यादीनां शस्त्रादिव्यतिरेको व्यज्यते ॥ अशक्यश्च काले चैद्यवध इत्याह स्वयंकृतप्रसादस्य तस्थाह्रो भानुमानिव । समयावधिमप्राप्य नान्तायालं भवानपि ॥ ११० ॥ स्वयमिति ॥ किंच अह्नो भानुमानिव स्वयं कृतः प्रसादोऽनुग्रहः, प्रकाशश्च यस्य तस्य चैद्यस्यान्ताय समयावधि नियतकालावसानमप्राप्य भवानपि नालं शक्तो न । तथा च वृथापकीर्तिरेव । अन्यन्न किंचित्फलं स्यादिति भावः ॥ तर्हि किमयमुपेक्ष्य एव, नेत्याह कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदांकुर्वन्तु महतस्तलं विद्विपदम्भसः ॥ १११ ॥ कृत्वेति ॥ किंतु कृत्य विदः कार्यज्ञाः विधिज्ञाश्च प्रणिधीयन्त इति प्रणिधयो गूढचारिणः । 'प्रणिधिगूढपुरुषः' इति हलायुधः। तरन्त्येभिरिति तीर्थानि मन्त्राद्यष्टादश स्थानानि, जलावताराश्च । 'योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थ स्यात्' इति हलायुधः । तेष्वन्तः पदं स्थानं पादप्रक्षेपं च कृत्वा महतो दुरवगाहस्य, पूज्यस्य च विद्विषन् शत्रुरेवाम्भस्तस्य तलं स्वरूपम् । प्रमाणमिति यावत् । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । विदांकुर्वन्तु विदन्तु । 'विद ज्ञाने' लोट् । 'विदांकुर्वन्त्वित्यन्यतरस्याम्' इति विकल्पादाम्प्रत्ययनिपातः। अम्भस इव शत्रोः कृततीर्थस्य सुप्रवेशत्वात्प्रागन्तः प्रविश्य परीक्ष्येत्यर्थः । श्लिष्टपरम्परितरूपकम् ॥ १'तीर्थैरन्तः' इति पाठः. Page #75 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः। आवश्यकं चैतदित्याह अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥ ११२ ॥ अनुदिति ॥ उत्सूत्र उच्छास्त्री नीतिशास्त्रविरुद्धः पदन्यासः एकपदप्रक्षेपोऽपि । स्वल्पव्यवहारोऽपीति यावत् । स नास्ति यस्यां सानुत्सूत्रपदन्यासा । नीति पूर्वकसर्वव्यवहारेत्यर्थः । अन्यत्रानुत्सूत्रपदन्यासा अनुत्सृष्टसूत्राक्षरः इष्ट्य. पसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव सर्वार्थप्रतिपादको न्यासो वृत्तिव्याख्यानग्रन्थविशेषो यस्यां सा तथोक्ता । तथा सती यथार्थकल्पनया शोभना वृत्ति त्यामात्यादीनामाजीविका यस्यां सा सवृत्तिः, अन्यत्र सती वृत्तिः काशिकाख्य. सूत्रव्याख्यानग्रन्थविशेषो यस्यां सा। 'वृत्तिर्ग्रन्थजीवनयोः' इति वैजयन्ती। सन्ति निबन्धनान्यनुजीव्यादीनां क्रियावसानेषु दत्तानि गोहिरण्यादिशाश्वतपारितोषिकदानानि यस्यां सा । एतच्च दत्त्वा भूमिनिबन्धं चेत्येतद्वचनव्याख्याने मिताक्षरायां द्रष्टव्यम् । अन्यत्र सन्निबन्धनं भाष्यग्रन्थो यस्यां सा । एवंभूतापि राजनीती राजवृत्तिः । अपगतः स्पशः चारो यस्याः सा अपस्पशा चेत् । 'यथार्थवर्णो मर्मज्ञः स्पशो हरक उच्यते' इति हलायुधः। अन्यत्र अविद्यमानः पस्पशः शास्त्रारम्भसमर्थक उपोद्धातसंदर्भग्रन्थो यस्याः सा अपस्पशा शब्दविद्या व्याकरणविद्येव नो भाति न शोभते । तस्माच्चरप्रेषणमावश्यकम् , तद्रहितस्य राज्ञोऽन्धप्रायत्वादिति भावः । अत्रापस्पशेत्यत्र जतुकाष्ठवच्छब्दयोरेव श्लिष्ट. त्वाच्छब्दश्लेषः । सद्वृत्तिः सन्निबन्धनेत्यत्रैकवृन्तावलम्बिफलद्वयवदर्थश्लेषः । अनुत्सूत्रपदन्यासेत्यत्र तूभयसंभवादुभयश्लेषः । शब्दविद्येवेति पूर्णोपमा व्यक्कैव । तयोः सापेक्षत्वात्संकरः ॥ न केवलं चारमुखेन वृत्तान्तज्ञानम् , अपि तूपजापश्च कर्तव्य इत्याह अज्ञातदोषैर्दोषहरुदृष्योभयवेतनैः। भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ११३ ॥ अज्ञातेति ॥ किंचाज्ञातदोषैः परैरज्ञातस्वकर्मभिर्दोषज्ञैः स्वयं परमर्मज्ञैरभि. व्यक्तानि भेद्यस्याग्रे प्रकटितानि शासनानि तदमात्याद्यविश्वासकराणि कूटलिखितानि येषां तैः उभयवेतनैरुभयत्र भेद्ये स्वामिनि च वेतनं भृतिर्येषां तैरुभयजीविकाग्राहि भिः भेद्यनगरवास्तव्यैश्चरैरित्यर्थः। 'भृतयो भर्म वेतनम्' इत्यमरः । शत्रोः संबन्धिनः समवायं समवयन्तीति सामवायिकाः सङ्घमुख्याः सचिवा. दयः । 'समवायान्समवैति' इति ठक् । उदृष्य द्विषामेते दत्तहस्ता अस्माभिरेषां लिखितान्येव गृहीतानीत्युच्चैर्दूषयित्वा भेद्या विघट्टनीयाः ॥ उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम् । राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥ उपेयिवांसीति ॥ किंच उपायज्ञैः कार्यसाधनकुशलैस्तव चरन्तीति चरैगूढ. Page #76 -------------------------------------------------------------------------- ________________ ६४ शिशुपालवधे चारिभिः । पचायच् । एकार्थानि त्वया सहैकप्रयोजनानि राजन्यानां समूहा राजन्यकानि। गोत्रोक्ष-' इत्यादिना वुञ्। अजातशत्रोरिमामाजातशात्रवी पुरीमिन्द्रप्रस्थमुपेयिवांसि प्राप्नुवन्ति। उपेयिवान्-' इत्यादिना कसुप्रत्ययान्तो निपातः।कर्तारः करिष्यन्ते । कृतः कर्मणि लुट् । इन्द्रप्रस्थेऽस्माकं महत्कार्य भविष्यति तदध्वरयात्राव्याजेन संनद्वैरागन्तव्यमिति गूढं संदिश्य तत्र सर्वे मेलयितव्या इत्यर्थः ॥ ननु तत्रावरकर्मणि को युद्धावकाश इत्याशक्य तत्रैव महत्कलहवीजं संपा. दयति सविशेषं सुते पाण्डोभक्तिं भवति तन्वति । वैरायितारस्तरलाः स्वयं मत्सरिणः परे ॥ ११५ ॥ सविशेषमिति ॥ पाण्डोः सुते युधिष्ठिरे भवति पूज्ये त्वयि सविशेषं यथा तथा भक्तिं तन्वति सति तरलाश्चपला मत्सरिणो द्वेषवन्तः परे शत्रवः स्वयमेव वैरायितारो वैरं कर्तारः। 'शब्दवैरकलह-' इत्यादिना क्यङ् । ततः कर्तरि लुट् ॥ किं तेऽपि सर्वे वैरायिष्यन्ते, नेत्याहय इहात्मविदो विपक्षमध्ये सह संवृद्धियुजोऽपि भूभुजः स्युः। बलिपुष्टकुलादिवान्यपुष्टैः . पृथगसादचिरेण भाविता तैः ॥ ११६ ॥ य इति ॥ ये इह विपक्षमध्ये शत्रुमध्ये सहसंवृद्धियुजोऽपि चैद्येन सहैश्वर्य गता अपि 'सत्सूद्विष-' इत्यादिना क्किए । ये भूभुजो राजान आत्मविदः स्वाभिजनवेदिनः स्युः, यद्वा स्वात्मरूपवेदिनः स्युस्तैर्भूभुग्भिः बलिपुष्टकुलात्काककुलात् । 'काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः' इत्यमरः । अन्यपुष्टैः परभृतैरिवाचिरेण सद्योऽस्माद्विपक्षमध्यात्। 'अन्यारात्-' इत्यत्रान्यशब्दस्यार्थपरत्वात्पृथगादिप्रयोगेऽपि पञ्चमी । पृथग्भाविता पृथग्भविष्यते । भावे लुट् । चिण्वदिटि वृद्धिः । तेष्वपि केचिदस्माभिः संगच्छन्त इत्यर्थः । औपच्छन्दसिकं वृत्तम् ॥ अथ फलितं निगमयन्नाशिषं प्रयुक्ते सहजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः । तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ११७ सहजेति ॥ सहजं स्वाभाविकं चापलं दुर्विनीतत्वम्, अनवस्थितत्वं च । 'चपलः पारदे शीघ्र दुर्विनीतेऽनवस्थिते' इति वैजयन्ती। तेनैव दोषेण समुद्धतो दृप्तः पक्षः सहायो गरुच्च । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिपु' इति वैजयन्ती । चलितोऽस्थिरो दुर्बलपक्षपरिग्रहो यस्य सः असुहृद्गणः शत्रुवर्गस्तव दुरासदवीर्यविभावसौ दुःसहतेजोवद्वौ । 'वीर्य शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि', 'सूर्यवह्नी Page #77 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। विभावसू' इति विश्वामरौ । शलभतां पतङ्गत्वम् । 'समौ पतङ्गशलभा' इत्यमरः । भावे तल । लभतां गच्छतु । रूपकालंकारः । द्रुतविलम्बितं वृत्तम् ॥ इति विशकलितार्थामौद्धवीं वाचमेना मनुगतनयमार्गामर्गलां दुर्नयस्य । जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥ ११८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥२॥ इतीति ॥ हरिरित्थं विशकलितार्थी विवेचितार्थामनुगतनयमार्गी नीतिमार्गानुसारिणी दुर्नयस्य । बलभद्रायुक्तस्येत्यर्थः । अर्गलां निवारयित्रीमिति वैध hण रूपकालंकारः । तद्विष्कम्भोऽर्गलं न ना' इत्यमरः। अतएव जनितमुदं हरेः कृतानन्दाम् । उच्छ्रित उन्नते उरःस्थले नियतं निषण्णया अविश्रान्तमाश्रितया श्रिया श्रुतां नान्ययेति मन्त्रगुप्तिः । उद्धवस्येमामौद्धवीमेनां पूर्वोक्तां वाचं शुश्रुवान्श्रुतवान् । 'भाषायां सदवसश्रुवः' इति वसुः। उच्चैरेवोच्चकैरुन्नतः सन् । 'अव्ययसर्वनाम्नामकच्याक्टेः' इत्यकच्प्रत्ययः । उदस्थादासनादुत्थितवान् । 'उदोऽनूर्ध्वकर्मणि' इत्यस्य प्रत्युदाहरणमेतत् । रूपकानुप्रासालंकारौ। मालिनी वृत्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध. ___ काव्यव्याख्याने सर्वकषाख्ये द्वितीयः सर्गः ॥२॥ तृतीयः सर्गः। कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः । अपेतयुद्धाभिनिवेशसौम्यो हरिहरिप्रस्थमथ प्रतस्थे ॥१॥ कौबेरेति ॥ अथोद्धववाक्य श्रवणानन्तरम् । अपेतो युद्धेऽभिनिवेश आग्रहो यस्य सः। शान्तक्रोध इत्यर्थः । अतएव सौम्यः प्रसन्नः । अतएव कौबेर्या दिशो भागम् । उत्तरायणमित्यर्थः। 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः । तमपास्य त्यक्त्वाऽगस्त्यस्येममागस्त्यं मार्गमवतीर्णः । दक्षिणायनं गत इत्यर्थः। उष्णांशुरिव स्थितः। अनेन हरेः क्रोधः कार्यवशादाकालमन्तः स्तम्भितो, न वेकान्ततो निवृत्त इति सूचितम् । हरिः कृष्णो हरिप्रस्थमिन्द्रप्रस्थं प्रतस्थे प्रचचाल । 'इन्द्रो दुश्यवनो हरिः' इति हलायुधः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति गन्तव्यस्य कर्मत्वम् । उपमालंकारः । सगेऽस्मिन्निन्द्रोपेन्द्रवज्रामिश्रणादुपजातिवृत्तम् । 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् ॥ .. १ 'नरकरिपुरुदस्थादु' इति पाठः. Page #78 -------------------------------------------------------------------------- ________________ ६६ शिशुपालवधे अथास्य प्रस्थानसंनाहं वर्णयन्नादौ छत्रधारणमाह - जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः । यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥ २॥ जगदिति ॥ अर्को जगत्पूज्यं तं हरिं अतएव जगत्पवित्रैरपि पादैश्वरणैः किरणैश्च स्प्रष्टुं नायुज्यत नार्हत । युजे दैवादिकात्कर्तरि लङ् । कुतः — यतस्तस्य हरेर्बृहद्विपुलं पार्वणचन्द्रचारु पूर्णेन्दुसुन्दरमित्युपमालंकारः । आतपात्रायत इत्यातपत्रं छत्रम् | 'सुपि' इति योगविभागात्कः । बिभरांबभूवे दध्रे । भृञः कर्मणि लिट् 'भीहीभृहुवाम्' इति विकल्पादाम्प्रत्ययः । आतपत्रान्तर्हितस्य द्वयैरपि पादैः स्प्रष्टुमशक्यत्वादित्यर्थः । जगत्पूज्यस्य हरेः पादेन स्पर्शनिषेधादिति भावः ॥ अथ चामरधारणमाह मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः । भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३ ॥ मृणालेति ॥ मृणालसूत्रामलं बिसतन्तुविशदमित्युपमा चलन्ती च ते चामरे च चलच्चामरे । वीजनादिति भावः । तयोर्द्वयमन्तरेण स्थितः । द्वयस्य मध्ये स्थित इत्यर्थः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । स हरिरभितःपातुका उभयतःपातिनी सिद्ध सिन्धुराकाशगङ्गा यस्य स तथोक्तः । 'पर्यभिभ्यां च ' इति तसिल्प्रत्ययः । ‘सर्वोभयार्थवर्तमानाभ्यामिष्यते' इत्युभयार्थत्वम् । सुप्सुपेति समासः । पातुकेति । 'लषपत - ' इत्यादिनोकन् प्रत्ययः । तस्याम्बुराशेः समुद्रस्याभूतपूर्वं पूर्वमभूताम् । सुप्सुपेति समासः । रुचं कान्ति भेजे । अतएव निदर्शना । सा चाम्बुराशेः संभावनामात्रोक्त्या अभितः पातुकसिद्धसिन्धु संबन्धमूलया भसंबन्धे संबन्धरूपातिशयोक्त्या स्वोपजीवकसंयोगेन संकीर्यत इति संक्षेपः ॥ अथाष्टभिरस्य प्रसाधनविधिं वर्तयन्मुकुटधारणमाहचित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्थाकृतिरन्वकारि ॥ ४ ॥ चित्राभिरिति ॥ अस्य हरेरुपर्यूर्ध्वदेशे मौलिभाजां मुकुटगतानां मणीनामनणीयसीभिर्महती भिश्चिन्नाभिरनेकवर्णाभिर्भाभिः प्रभाभिः कर्त्रीभिः । ' स्युः प्रभारुचिस्त्विमाभाइछ विद्युतिदीप्तयः' इत्यमरः । सान्तपक्षे 'भोभगो-' इत्यादिना रोर्य कारे तस्य 'हलि सर्वेषाम्' इति लोपः । अनेकैर्धातुभिर्गैरिकादिभिछुरितानां रूषितानामश्मनां मणीनां राशिः समूहो यस्य तस्य गोवर्धनाख्यपर्वतस्याकृतिरन्वकार्यनुकृता । तत्सादृश्यमभाजीत्यर्थः । पूर्णोपमेयम् ॥ कुण्डले च धृते इत्याह तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा । अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥ Page #79 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। तस्येति ॥ तस्य हरेरुर उरस्थलमुल्लसन्त्या काञ्चनकुण्डलाग्योः प्रत्युप्तानां खचितानां गारुत्मतरत्नानां मरकतमणीनां भासा दीया । उरसि प्रसरन्त्येति भावः। बाल्यं शैशवम् । ब्राह्मणादित्वात्ष्यञ् । तत्रोचितमभ्यस्तं यन्नीलकण्ठपिच्छं मयूरबर्हम् । 'अभ्यस्तेऽप्युचितं न्याय्ये' इति यादवः । 'पिच्छबहें नपुंसके' इत्यमरः । तेन निर्मितावचूडा मालिका तस्याः कलनामामोचनमवमोचनं वा अवापेत्युत्प्रेक्षा । 'यत्रान्यधर्मसंबन्धादन्यदेवोपतर्कितम् । प्रकृते हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥' इति लक्षणात् ॥ तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् । वहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥६॥ तमङ्गदे इति ॥ तं हरिं मन्दरकूटकोटिव्याघट्टनं मन्दराचलशिखरामसंघर्षणं सैवोत्तेजना शाणोल्लेखना तया बंहीयसा बहुतरेण । 'प्रियस्थिर-' इत्यादिना बहु. लशब्दस्येयसुनि बहादेशः । मणीनां दीप्तिवितानकेन प्रभापटलेनोल्लसन्ती दीप्यमाने । 'आच्छीनद्योर्नुम्' इति नुमागमः । अङ्गदे केयूरे । 'केयूरमगदं तुल्ये' इत्यमरः । चकासयामासतुः शोभयांचक्रतुः। अङ्गदे मृतवानित्यर्थः । चकास्तेय॑न्ता. ल्लिटि आम्प्रत्ययेऽस्तेरनुप्रयोगः । अत्राङ्गदयोः प्राग्भवीयाङ्गदभेदेऽप्यभेदोक्तिमु. प्रेक्ष्य तयोर्मन्दरकूटकोट्यसंबन्धेऽपि संबन्धोक्त्या द्वयोरतिशयोक्त्योः संकरः ॥ निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छरितैनखात्रैः। व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्नपितैरिवासौ॥७॥ निसर्गेति ॥ असौ हरिनिसर्गरक्तैः स्वभावलोहितैः। किंच वलये कटके। 'कटके वलयोऽस्त्रियाम्' इत्यमरः। तयोरवनद्धानां प्रत्युप्तानां ताम्राश्मनां पद्मरागाणां रश्मिभिः छुरितैः अतएवाद्यापि सुरारेहिरण्यकशिपोर्वक्षसो विक्षोभेण विदारणेन जाता यासृक्तया स्नपितैः सिक्तैरिव स्थितेत्युत्प्रेक्षा । स्रातेय॑न्तात् क्तः। 'अर्तिही-' इत्यादिना पुगागमः । मितां ह्रस्वः । नखाग्रैर्व्यद्योतत । कटके च धृतवानित्यर्थः ॥ उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥८॥ उभाविति ॥ तमालवन्नीलं आमुक्ते आसञ्जिते मुक्तालते लतादीर्घत्वसाम्येन मौक्तिकहारौ यस्मिंस्तस्य हरेर्वक्ष आकाशगङ्गायाः पयस उभौ प्रवाही व्योनि यदि पृथक्पतेतां प्रवहेतां चेत् । संभावनायां लिङ् । तेन व्योम्नोपमीयेत समीक्रियेत । नास्योपमानं किंचित्पश्याम इति भावः । मुक्ताहारं धृतवानित्यर्थः । अन्न व्योम्नो गङ्गाप्रवाहद्वयासंबन्धेऽपि संभावनायां संबन्धकथनादतिशयोक्तिः । त. देतत् 'पुष्पं प्रवालोपहितं यदि स्या' दित्याद्युदाहृत्यालंकारसर्वस्वकारः स्पष्टीचकार॥ तेनाम्भसां सारमयः पयोधेर्दधे मणिर्दीधितिदीपिताशः। अन्तर्वसन्विम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥९॥ Page #80 -------------------------------------------------------------------------- ________________ ६८ शिशुपालवधे तेनेति ॥ तेन हरिणा दीधितिभिर्दीपिता आशा येन सः । दिगन्तविश्रान्ततेजा इत्यर्थः । पयोधेरम्भसां सारस्य विकारः सारमयो मणिः । समुद्रमन्थनोत्थः कौस्तुभाख्य इत्यर्थः । दधे तः । पृञ् धारणे । कर्मणि लिट् । यत्र मणौ बिम्बगतः प्रतिबिम्बगतो लोको बाह्यप्रपञ्चस्तदङ्गे तस्य हरेः शरीरे साक्षात् । बहिः प्रत्यक्षेण लक्ष्यमाण इत्यर्थः । अन्तर्वसन्नन्तर्गतो लोक इवालक्ष्यत । यत्र मणौ प्रतिबिम्बितो बाह्यलोकस्तदङ्ग एव नैर्मल्यावहिः प्रतिफलितः कुक्षिस्थलोक इवालक्ष्यत इत्युत्प्रेक्षा॥ मुक्तामयं सारसनावलम्बि भाति स दामाप्रपदीनमस्य । अङ्गुष्ठनिष्ठयूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः संततधारमम्भः ॥१०॥ मुक्तेति ॥ अस्य हरेर्मुक्तामयं मुक्ताप्रचुरम् । 'तत्प्रकृतवचने मयद' । सारसने कटिसूत्रेऽवलम्बते इति सारसनावलम्बि । 'क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु' इत्यमरः । आप्रपदीनम् । आ समन्तात्प्रपदं प्राप्नोतीति खश प्रत्ययः । 'पादाग्रं प्रपदं पादः' इत्यमरः । दाम मुक्तासरः अङ्गुष्ठेन निष्टयूतम् । विसृष्टमित्यर्थः । गौणार्थत्वादग्राम्यत्वम् । यथाह दण्डी-'निष्टयतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥' इति ऊर्ध्वमूर्ध्वप्रवाहमुच्चैरुन्नतं त्रिस्रोतसो मन्दाकिन्याः संततधारमविच्छिन्नसंपातमम्भ इव भाति स्मेत्युत्प्रेक्षा ॥ स इन्द्रनीलस्थलनीलमूर्ती रराज करपिशङ्गवासाः। विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥११॥ स इति ॥ इन्द्रनीलस्थलमिव नीलमूर्तिः श्यामाङ्गः। संहितायां 'रोरि' इति रेफलोपः । 'ठूलोपे पूर्वस्य-' इति दीर्घः। करं हरितालमिव पिशङ्गं वासो यस्य सः पीताम्बरो हरिः । 'हरितालं तु कचूरम्' इति वैजयन्ती । स हरिर्विसृत्वरैर्विस्मरैः । 'इण्नशजिसर्तिभ्यः करप्' । अम्बुरुहामम्बुजानाम् । रुहेः विप् । रजोभिः परागैश्चित्रश्चित्रवर्णो यमस्वसुर्यमुनाया उदकस्य भारः पूर उदभारः स इव रराज । 'मन्यौदन-' इत्यादिनोदकस्योदादेशः॥ प्रसाधितस्यास्य मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् । वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता धुरसीतरा तु १२ प्रसाधितस्येति ॥ प्रसाधितस्यालंकृतस्यास्य मधुद्विषो हरेः अन्यैवासदृशी विभिन्ना च । 'अन्यौ विभिन्नासदृशौ' इति वैजयन्ती । लक्ष्मीः शोभा, पद्मा च । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते' इति विश्वः। अभूदित्येतद्युक्तम् । कुतः। हि यस्मात्सा प्रसाधनरूपा लक्ष्मीरशेषे वपुषि । वसतीति शेषः । किंचाखिललोकस्य कान्ता प्रिया । इतरा नित्या त्वन्यस्य कान्ता प्रिया न भवतीत्यनन्य. कान्ता । किंतु तस्यैवेत्यर्थः । उरसि । उरस्येव वसतीत्यर्थः । अत्र हरेः प्रसाधनादसाधारणी शोभा जातेति पारमार्थिको वाक्यार्थः। अन लक्ष्मीशब्देन श्लेष Page #81 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। महिम्ना वाच्यायाः शोभायाः प्रतीयमानायाः श्रीदेव्या सहाभेदाध्यवसायादियमन्यैव लक्ष्मीरित्यभेदे भेदरूपातिशयोक्तिरलंकारः ॥ अथैनमेवार्थ भङ्ग्यन्तरेणाहकपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥१३॥ कपाटेति ॥ कपाटवद्विस्तीर्णे मनोरमे चोरःस्थले स्थिता श्रीरिति ललना कान्ता यस्य तस्य हरेरानन्दिताशेषजना सर्वाङ्गसङ्गिनी सकलदेहव्यापिनी अत एवापरैवासाधारण्येव श्रीदेव्या अन्यैव लक्ष्मीः शोभा, रमा च बभूव । स एवालंकारः । प्रायेणैकार्थमप्यनेकं श्लोकमुक्तिविशेषलाभाल्लिखन्ति कवयः। तथाहि नैषधे-आदावेव निपीयेत्यादि श्लोकद्वयं, तथा स्वकेलिलेशेत्यादि श्लोकद्वयं चेति ॥ अथ देवीसहचरस्यैवास्य यात्रेति सूचयन्प्रसाधनविधेः फलमाहप्राणच्छिदा दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन । प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवत्रुरेनम्॥१४॥ प्राणेति ॥ भूषणतामुपेयुषाम् नतु प्रहरणवतामिति भावः । दैत्यपतेः हिरण्यकशिपोः प्राणच्छिदां प्राणमुषां प्राणापहारिणाम् । वज्रादपि कठोराणामित्यर्थः । नखानां क्षतेन व्रणेन प्रकाशो व्यक्तः कार्कश्यमेव गुणो ययोस्तौ स्तनौ । स्तनानित्यर्थः । जातावेकवचने प्राप्ते जातिभूयस्सु स्तनादिषु जातेर्द्वित्वविशिष्टत्वाविवचनम् । यथाह वामनः-स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण' इति । दधानास्तरुण्यो युवतयः । 'वयसि प्रथमे' इति डीए । एनं हरिं परिवत्रुः । अत्र हरिनखानां नरहरिनखभेदेऽप्यभेदोक्त्या स्तनयोश्च तादृक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्त्यतिशयोक्ती तयोश्च सापेक्षत्वात्संकरः॥ आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाकान्त इवाङ्गनानां १५ आकर्षतेति ॥ अत्युन्नतत्वाद्धेतोः ऊर्ध्वमाकर्पतेव नमन्तम् । मध्यमुन्नमयतेव स्थितेनेत्युत्प्रेक्षा । अतिगुरुत्वमतिभारत्वम्, अतिप्रवृद्धत्वं च भजतीति भाक् । 'भजो ण्विः' । तेनाङ्गनानां कुचमण्डलेनातिक्रशीयानत्यन्तकृशतरः तनीयान्, क्षीणश्च । 'र ऋतो हलादेर्लघोः' इति रेफादेशः । मध्यो नितान्तमा. क्रान्तः पीडित इव ननाम नतः, प्रणतश्च । अत्र मध्यकुचमण्डलयोर्विशेषणसाम्यादरिविजिगीपुराजप्रतीतेः समासोक्तिः । तथा वाच्ययोः प्रतीयमानाभेदे. नाक्रमणक्रियाकर्मकर्तृभावसंभावितेयं नभस्याक्रमणहेतुकत्वोत्प्रेक्षेत्यनयोः संकरः । उत्प्रेक्षयोस्तु नैरपेक्ष्यादसंसृष्टिरेवेति विवेकः ॥ १'दैत्याधिपप्राणमुपां नखानाम्' इति पाठः. Page #82 -------------------------------------------------------------------------- ________________ ७० शिशुपालवधे यां यां प्रियः प्रेक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव । निःशङ्कमन्याः सममाहितेयास्तत्रान्तरे जघ्नुरभु कटाक्षैः॥१६॥ यां यामिति ॥ प्रियो हरियां यामङ्गनाम् । 'नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः एकपदम् । प्रेक्षतालोकयत सा सा । पूर्ववविर्भावः । कातराक्षी साध्वसाच्चकितलोचना सती ह्रिया नम्रमुखी बभूव । एतेन कार्यद्वारा लजासाध्व. सभावोदय उक्तः । अन्यासामीाभावोदयमाह-अन्या अप्रेक्षिताङ्गना आहि. तेाः कृताक्षमाः सत्यः । 'परोत्कर्षाक्षमेा स्यात्' इति लक्षणात् । तत्रान्तरे तस्मिन्नीक्षणावसरे । 'क्लीबेऽन्तरं चावकाशे तादर्थेऽवसरेऽवधौ' इति वैजयन्ती । निःशकं तदनीक्षणादेव विस्रब्धं यथा तथा समं युगपत्कटाक्षैरमुं हरि जन्नुः प्रजघ्नुः सरोषमद्राक्षुः ॥ अथास्य पञ्चभिर्दिव्यास्त्रसंनिधानमाहतस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन । चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः॥१७॥ तस्येत्यादि । अतसीसूनेन क्षुमाकुसुमेन समानभासस्तुल्यकान्तेः । स्निग्धश्यामस्येत्यर्थः । 'अतसी स्यादुमा क्षुमा' इत्यमरः । तस्य हरेरेकबाहुः भ्राम्यदावर्तमानं मयूखावलीनां मण्डलं चक्रवालं यस्य तेन चक्रेण सुदर्शनेन स्फुरन्महानावों भ्रमो यस्य सः। 'स्यादावर्तोऽम्भसा भ्रमः' इत्यमरः । यमुनाजलानामोघः पूर इव रेजे । चक्रं दधावित्यर्थः ॥ विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती । नित्यं हरेः संनिहिता निकामं कौमोदकी मोदयति स चेतः१८ विरोधिनामिति ॥ विरोधिनां वैरिणां विग्रहभेदे शरीरविदारणे दक्षा । 'शरीरं वर्म विग्रहः' इत्यमरः । कचिरकाप्यस्खलन्ती। सर्वत्राप्रतिहतवृत्तिरित्यर्थः । नित्यं संनिहिता अनपायिनी । अतएव मूर्ता मूर्तिमती शक्तिः सामर्थ्यमिव स्थितेत्युत्प्रेक्षा । कौमोदकी गदा हरेश्चेतो निकामं मोदयति स्म । स्वसंनिधानेनेति भावः ॥ न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः । - अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दकोऽभूत् ॥१९॥ न केवलमिति ॥ अन्यस्य साधारणो न भवतीत्यनन्यसाधारणस्तस्य भावस्तत्ता तां दधानः, तथापि यो नन्दकः स्वतया केवलं गजाश्वादिवत्स्वत्वेनैव मुरारेनन्दको न किंतु परेषां शत्रूणामत्यर्थमुटेजयिता भीषयिता सन् । अतएव नाम्नापि चन्द्रादिवन्नन्दयतीति नन्दक इत्यन्वर्थसंज्ञाबलेनापि । नन्दयितृत्वेनापीति यावत् । तस्यैव तदीय एव योऽनन्यसाधारणत्वात्परोद्वेजकरवाच्च तस्यैव Page #83 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। नन्दको, नन्दयिता चेत्यर्थः । स नन्दको नन्दकाख्यः खड्गोऽभूत् । संनिहितो. ऽभूदित्यर्थः। संबन्धानुवादेन संनिधानमेवात्र विधेयं प्रकरणात् । अत्रानन्य. साधारणत्वपरोद्वेजकत्वपदार्थाभ्यां विशेषणगत्या नन्दकस्य तदीयतासमर्थनास्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ न नीतमन्येन नतिं कदाचित्कर्णान्तिकप्राप्तगुणं क्रियासु । विधेयमस्या भवदन्तिकस्थं शाङ्ग धनुर्मित्रमिव द्रढीयः ॥२०॥ न नीतमिति ॥ अन्येन पुरुषान्तरेण नतिमाकर्षणं भेदेन स्वानुकूल्यं च न नीतं न प्रापितम् , क्रियासु रणकर्मसु, हिताहितकृत्येषु च कर्णान्तिकं कर्णगोचरं प्राप्तो गुणो मौर्वी, आप्तताधर्मश्च यस्य तद्विधेयं क्रियासु वश्यं द्रढीयः दृढतरम् । पीडासहतरमिति यावत् । शृङ्गस्य विकारः शाङ्ग नाम धनुः मित्रमिवास्य हरेरन्तिकस्थं संनिहितमभवत् ॥ प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः । मन्दानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः॥२१॥ प्रवृद्धति ॥ धियं रातीति धीरो मनोहरः मन्द्रो गम्भीरोऽम्बुदस्य मेघस्येव धीरश्च नादः प्रवृद्धो येन सः प्रवृद्धमन्द्राम्बुदधीरनाद इत्युपमा । कृष्ण एवार्णवः समुद्रस्तस्याभ्यर्णचरोऽन्तिकचरः । 'उपकण्ठान्तिकाभ्यां' इत्यमरः। स चासावे. कहंसश्चेति श्लिष्टपरम्परितरूपकम् । मन्दानिलस्य पूर आपूरणं तेन कृतं जनितं निध्वानं दधानः । अनाध्मातोऽपि मन्दमारुतप्रवेशादेव ध्वनतीति पाटवादतिशयोक्तिः । ध्वन्यसंबन्धेऽपि संबन्धकथनात् । पञ्चजनो नाम कश्चिदसुरतत्र भवः पाञ्चजन्योऽस्य शङ्खः । 'बहिर्देवपञ्चजनेभ्यश्च वक्तव्यम्' इति न्यप्रत्ययः । अश्रूयत श्रूयते स । पाञ्चजन्योऽपि संनिहितोऽभूदित्यर्थः । वीणा श्रूयते, पुष्पाण्याघ्रायन्ते इत्यादिवद्धर्मधर्मिणोरभेदोपचारात्पाञ्चजन्यस्य श्रवणोक्तिः ॥ रराज संपादकमिष्टसिद्धेः सर्वासु विश्वप्रतिषिद्धमार्गम् । महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥२२॥ रराजेति ॥ महारथो यस्य स महारथो रथिकविशेषः । 'आत्मानं सारथिं चाश्वानरक्षन्युयेत यो नरः। स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः॥' इति । रथाङ्गं चक्रमस्यास्तीति रथाङ्गी हरिः इष्टसिद्धेः संपादकं लक्षणवत्त्वात् । 'पुष्यः सर्वार्थसाधकः' इति शास्त्रादिति भावः । सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् । अनिपिद्धगमनमित्यर्थः । अधिष्ठानशक्तेर्निरङ्कुशत्वात् । 'पुष्यो हस्तो मैत्रमप्याश्विनं च चत्वार्याहुः सर्वदिग्द्वारकाणि' इति शास्त्रादिति भावः । क्षिप्रं क्षिप्रगामिनं, अन्यत्र क्षिप्रनामकम् । 'क्षिप्रं चाश्विदिनेशपुष्यम्' इति शास्त्रात् । पुष्यरथं क्रीडारथम् । 'असौ पुष्यरथश्चक्रयानं न समराय यत्' इत्यमरः । अधिरूढः सन् पुष्यो रथ इव तं पुष्यरथमधिरूढः पुष्यनक्षत्रगतः क्षपानाथश्चन्द्र इव रराज ॥ Page #84 -------------------------------------------------------------------------- ________________ ७२ शिशुपालवधे ध्वजाग्रधामा ददृशेऽथ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु । फणावतस्त्रासयितुं रसायास्तलं विविक्षन्निव पन्नगारिः ॥२३॥ ध्वजेति ॥ अथ रथारोहणानन्तरं शोरेः कृष्णस्य ध्वजाग्रं धाम स्थानं यस्य सः मणिमेदिनीषु मणिमयकुट्टि मेषु संक्रान्तमूर्तिः प्रतिबिम्बिताङ्गः सन् पन्नगारि. र्गरुत्मान्फणावतः सपास्त्रासयितुं द्रावयितुं रसायास्तलं पातालं विविक्षन् । प्रवेष्टुमिच्छन्नित्युत्प्रेक्षा । विशतेः सन्नन्ताल्लटः शत्रादेशः । ददृशे दृष्टः । सोऽपि संनिहितोऽभूदित्यर्थः ॥ यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान्पटहप्रणादः । जलान्तराणीव महार्णवौघःशब्दान्तराण्यन्तरयांचकार॥२४॥ यियासत इति ॥ यातुमिच्छतो यियासतः। यातेः सन्नन्ताल्लटः शत्रादेशः। तस्य हरेः संबन्धी महीं धरन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः । यदाह वामनः-'महीध्रादयो मूलविभुजादिदर्शनात्' इति । तेषां रन्ध्राणि बिलानि तेषां भिदा भेदनम् । 'षिद्भिदादिभ्योऽङ्' । तस्यां पटीयान्समर्थतरः पटहप्रणाद आनकघोषः महार्णवस्यौघः समुद्रस्य प्रवाहः । अन्यानि जलानि जलान्तराणीव । सुप्सुपेति समासः । अन्याशब्दान् शब्दान्तराणि । पूर्ववत्समासः । अन्तरयांचकारान्तर्हितानि चकार । छादयामासेत्यर्थः । अन्तरशब्दादन्तर्धानार्थात् 'तत्करोति-' इति ण्यन्ताल्लिट् । 'अन्तरमवकाशावधिपरि. धानान्तर्धिभेदतादर्थ्य' इत्युभयत्राप्यमरः ॥ यतः स भर्ता जगतांजगाम धर्ना धरित्र्याः फणिना ततोऽधः। महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुज प्रसस्रे ॥ २५ ॥ यत इति ॥ जगतां भर्ता धारयिता । कुक्षिस्थाखिललोक इत्यर्थः । 'कर्तृकमणोः कृति' इति कर्मणि षष्ठी । स हरिय॑तो येन भूमार्गेण जगाम ततस्तस्मिन्भूभागे अधः पाताले धरित्र्या धरण्याः धर्ना धारयित्रा । पूर्ववत्षष्ठी । फणिना शेषेण महता भरेण आसमन्ताद्भुग्नस्य कुब्जीभूतस्य शिरःसहस्रस्य साहायके सहायकर्मणि । 'योपधाद्गुरूपोत्तमागुञ्' व्यग्रास्त्वरमाणा भुजा यस्मिंस्तद्यथा तथा प्रसस्त्रे प्रसृतम् । भावे लिट् । हरिश्वचालेत्यर्थः । अत्र शेषस्य विशिष्टप्रसरणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ अथोचकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि । क्रियाफलानीव सुनीतिभा सैन्यानि सोमान्वयमन्वयुस्तम् २६ अथेति ॥ अथ हरिचलनानन्तरमुच्चकैरुन्नततोरणे द्वारदारुणि सङ्गेन भङ्गस्तस्माद्धयेनावनम्रीकृतानि केतनानि येस्तानि सैन्यानि । सोमस्यान्वयः संतानः तं सोमान्वयं हार सुनीतिभाजं सुष्टु नीतिमन्तं क्रियाः सामाधुपायप्रयोगास्तासां फलानि हिरण्यभूमित्रादिलाभा इवान्वयुरन्वगच्छन् । यातेर्लङ् 'लङः शाकटायनस्य-' इति झेर्जुस् ॥ Page #85 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। ७३ श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः । आनेमि मनः शितिकण्ठपिच्छक्षोदद्युतश्चक्षुदिरे रथौधैः ॥२७॥ श्यामेति ॥ श्यामानि चारुणानि च तैः श्यामारुणैः कृष्णलोहितैः । 'वर्णों वणेन' इति समासः । वारणदानतोयैर्गजमदोदकैरालोडिताः संमिलिता अत एव शितिकण्ठपिच्छशोदा मयूरबर्हचूर्णा इव द्योतन्त इति तथोक्ताः । विप् । उपमालंकारः । काञ्चनस्य भूः काञ्चनभूस्तस्याः परागाः पांसवः। आनेमि नेमिमभिव्याप्य । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री' इत्यमरः । 'आङ् मर्यादाभिविध्योः' इत्यभिविधावव्ययीभावः । भग्नै रथौघैः चुक्षुदिरे । पिष्टा इत्यर्थः । परागाणां विशिष्टपेषणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः। तथा च महती गजरथसंपत्तिय॑ज्यत इत्यलंकारेण वस्तुध्वनिः ॥ न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम । अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥२८॥ नेति ॥ अष्टसु धातुषु पदं प्रतिष्ठा अस्येत्यष्टापदं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इति सुवर्णपर्यायेष्वमरः । तस्य भूमिस्तस्या रेणुः काञ्चनभूरजः पदाहतः । रथाश्वादिचरणताडितोऽपि सन्नित्यर्थः । महाजनानां बहुजनानां पूज्यानां च शिरांसि न लङ्घयामास नाकामति स्म । किं बहुना । उद्धनिमुत्पवनं दर्प च नैवाजगाम । कुतः-यद्यस्माद्गरिम्णो गुरुत्वगुणस्य माहात्म्यस्य च । 'प्रियस्थिर-' इत्यादिना गुरोर्गरादेशः । सदृशमनुरूपं यथा तथाचेष्टत । अलङ्घनव्यवहारे गुरुत्वस्यौद्धत्यप्रतिबन्धकत्वादिति भावः । अत्रानौद्धत्यादिप्रस्तुतसुवर्णपरागविशेषणसाम्यादप्रस्तुतसुजनप्रतीतेः समासोक्तिरलंकारः ॥ निरुध्यमाना यदुभिः कथंचिन्मुहुर्यदुचिक्षिपुरग्रपादान् । ध्रुवं गुरुन्मार्गरुधः करीन्द्रानुल्लङ्घय गन्तुं तुरगास्तदीषुः॥२९॥ निरुध्यमाना इति ॥ तुरगा यदुभिः । आरूडैरिति भावः । कथंचिदतिप्रयत्नेन निरुध्यमाना लगाकर्षणेन वार्यमाणा अपि यद्यस्मादग्राश्च ते पादाश्च तानग्रपादान् । 'हम्ताग्राग्रहस्तादयो गुणगुणिनोरभेदभेदयोगात्' इति वामनः । सामानाधिकरण्येन समासः । मुहुरुच्चिक्षिपुरुक्षिप्तवन्तः तत्तस्मान्मार्ग रुन्धन्तीति मार्गरुधो मन्दगमनेन मार्गरोधिनः । क्विम् । गुरून्महतः पूज्यांश्च । अल यानपीति भावः । करीन्द्रानुल्लङ्घय गन्तुमीपुरिच्छन्ति स्म । ध्रुवमित्युत्प्रेक्षायाम् । गुरवोऽपि सन्मार्गरोधकाः परैरुल्लङ्घयन्त इत्यलंकारेण वस्तुध्वनिः ।। अवेक्षितानायतवल्गमग्रे तुरंगिभिर्यत्ननिरुद्धवाहैः । प्रक्रीडितात्रेणुभिरेत्य तूर्ण निन्युर्जनन्यः पृथुकान्पथिभ्यः॥३० अवेक्षितानिति ॥ आयता आकृष्टा वल्गा मुखरज्जुर्यस्मिन्कर्मणि तद्यथा १ 'खुराहतो' इति पाठः. शिशु० ७ Page #86 -------------------------------------------------------------------------- ________________ शिशुपालवधे तथा यत्नेन दुर्वारवेगत्वादतिप्रयत्नेन निरुद्धा वाहा वाजिनो यैस्तैः । 'वाजिवाहार्वगन्धर्व' इत्यमरः । तुरंगिभिरश्वसादिभिरग्रे पुरोदेशेऽवेक्षितानालोकितान् रेणुभिः प्रक्रीडन्तीति प्रक्रीडितान्पांसुक्रीडाकरान् । कर्तरि क्तः । पृथुकाशिशून् । 'पृथुकः शावकः शिशुः' इत्यमरः । जनन्यस्तूर्णमेत्य पथिभ्यो निन्युः अपसारयांचकुरिति स्वभावोक्तिः ।। दिदृक्षमाणाः प्रतिरथ्यमीयुर्मुरारिमारादन, जनौघाः । अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥३१॥ दिदृक्षमाणा इति ॥ अनघमकलकं मुरारि दिदृक्षमाणा द्रष्टुमिच्छन्तः । दृशेः सन्नन्ताल्लटः शानजादेशः। 'ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् । 'आराहरसमीपयोः' इत्यमरः । ईयुर्जग्मुः । इणो लिद 'दीर्घ इणः किति' इत्यभ्यासदीर्घः । ननु नित्यपरिचिते का दिदृक्षेत्यत्राह–अनेकश इति । अनेकशो बहुवारमित्यर्थः । 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' इति शस्प्रत्ययः । संस्तुतं परिचितमपि वस्तु । जनेनेति शेषः । 'संस्तवः स्यात्परिचयः' इत्यमरः । अनल्पाधिका प्रीतिः प्रेम की नवं नवम् । आभीक्ष्ण्येन नवं करोति । 'नित्यवी. प्सयोः' इति द्विर्भावः । अहोशब्दः पुराणस्यापि नूतनत्वमित्याश्चर्ये । यथा परप्रेमास्पद वस्तु नित्यदृष्टमप्यदृष्टचरमिव प्रतिक्षणं दिदृक्षते भगवानपि तथैवेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छासमनीकिनीभिः । रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैन यातम् ॥३२॥ उपयुष इति ॥ विद्वानभिज्ञः अत एव तस्यां पुरि नगर्या दत्तचक्षुर्निसृष्टष्टिरसौ हरिनिरन्तराभिर्नीरन्ध्राभिरनीकिनीभिः सेनाभिर्निरुच्छासमतिसङ्कट वोंपेयुषः प्राप्तस्य रथस्य शनैर्यातं संबन्धनिबन्धनं मन्दगमनं न विदामास न विवेद । 'उपविदजागृभ्योऽन्यतरस्याम्' इत्याम्प्रत्ययः । व्यासङ्गादसंवेदनं न तु तत्त्वाज्ञानादिति भावः । व्यासङ्गम्य पदार्थत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ अथैकत्रिंशच्छोकैभरका वर्णयतिमध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरंगकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥३३ ।। मध्य इति ॥ समुद्रस्य मध्ये मध्येसमुद्रम् । 'पारे मध्ये षष्ट्या वा' इति विकल्पादव्ययीभावः । मध्यशब्दस्य तत्संनियोगादेकारान्तत्वम् । काञ्चनवप्रभासा हेमप्राकारप्रभया ककुभो दिशः पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीष् । कुर्वती या पू: जलं समुद्रोदकं भित्त्वा । उत्थितेति शेषः । तुरंगकान्ताया वडवाया मुखे हव्यं वहतीति हव्यवाहोऽग्निः । कर्मण्यण्प्रत्ययः । तस्य वाडवाग्नेर्वालेवोललास उद्घभासे । अत्र समुद्रान्तीनायां वडवानलज्वालायां कदाचित्संभाव्यमानस्य मध्योल्लसनस्य पुरि दर्शनाभेदाध्यवसायेनास्या ज्वालात्वमुत्प्रेक्षते। इवशब्दो Page #87 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। ऽयमुत्प्रेक्षाया एव व्यञ्जको नोपमायाः, ईदृग्ज्वालाया अप्रसिद्धत्वेनोपमानस्वायोगात् । 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इत्याचार्यदण्डी ॥ कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः। अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ३४ कृतास्पदेति ॥ भूमिभृतां राज्ञां, गिरीणां च सहस्रैः कृतास्पदा कृताधिछाना । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । उदकमस्यास्तीत्युदन्वानुदधिः । 'उदन्वानुदधिः सिन्धुः' इत्यमरः । 'उदन्वानुदधौ च' इति निपातनात्साधुः । तस्याम्भोभिः परिवीता परिवेष्टिता मूर्तिः स्वरूपं यस्याः सा पृथ्वी पृथुः । 'वोतो गुणवचनात्' इति ङीपू । एवंभूता या पू: न निर्विद्यते न खिद्यते इत्यनिर्वित् । विदेर्शानार्थत्वान्निःपूर्वात् 'सत्सृद्विष-' इत्यादिना क्विम् । तेनानिर्विदा अखिझेन । अन्यथा शिल्पसौष्ठवासिद्धेरिति भावः । विधात्रा प्रथत इति पृथ्वी भूः । प्रथेरौणादिकः पिवुन् । 'षिगौरादिभ्यश्च' इति ङीष् । तस्याः प्रतियातना प्रतिकृतिरिव विदधे विहिता । 'प्रतियातना प्रतिच्छाया । प्रतिकृतिः' इत्यमरः । • भूप्रतिनिधित्वोत्प्रेक्षया पुरो वैचित्र्यविस्तारादिवस्तु व्यज्यते ॥ त्वष्टः सदाभ्यासगृहीतशिल्प विज्ञानसंपत्प्रसरस्य सीमा । अदृश्यतादर्शतलामलेषु च्छायेव या वर्जलधेर्जलेषु ॥ ३५ ॥ त्वष्टुरिति ॥ त्वष्टुर्विश्वकर्मणः सदाभ्यासेन गृहीतो लब्धो यः शिल्पविज्ञानसंपदः प्रसरः प्रकर्षस्तस्य सीमावधिः । अप्रतिमेति यावत् । या पूगदर्शतलामलेषु दर्पणपृष्ठस्वच्छेषु । 'दर्पणे मुकुरादशौं' इत्यमरः । जलधेर्जलेषु स्वः स्वर्गस्य । 'स्वरव्ययं स्वर्गनाक-' इत्यमरः । छाया प्रतिबिम्बमिवादृश्यतेत्युत्प्रेक्षा। 'छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययोः' इति वैजयन्ती ॥ रथाङ्गभāभिनवं वराय यस्याः पितेव प्रतिपादितायाः। प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३६ ॥ रथाङ्गेति ॥ अम्बुधिः पितेव वराय श्रेष्ठाय, जामात्रे च । 'वरो जामातरि श्रेष्ठे' इति विश्वः । रथाङ्गभत्रै चक्रधराय हरयेऽभिनवं यथा तथा प्रतिपादितायाः । अङ्कः समीपं, उत्सङ्गश्च तद्भाजः । 'अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः' इति केशवः। यस्याः पुर उपकण्ठमन्तिके । अत्यन्तसंयोगे द्वितीया । अन्यत्र कण्टे । विभक्त्यर्थेऽव्ययीभावः । मुहुः प्रेम्णा रत्नावलीराबबन्ध आसमन्ताद्वबन्ध । श्लेषानुप्राणितेयमुपमेति संकरः ॥ यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन । वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रोऽन्वहमन्वकारि ॥ ३७॥ यस्या इति ॥ चलन्तीनां वारिधिवारिवीचीनां छटासु परम्परासूच्छलद्भिरुत्पतद्भिः शङ्खानां कुलैराकुलेन संकीर्णेन यस्याः पुरो वप्रेण प्राकारेण पर्यन्ते चर Page #88 -------------------------------------------------------------------------- ________________ ७६ शिशुपालवधे तीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य सः सुमेरोर्वप्रः सानुः । 'सानुप्राकारयोर्वप्रम्' इत्युभयत्रापि सजनः । अहन्यहनीत्यन्वहम् । 'अव्ययं विभक्ति-' इत्यादिना यथार्थेऽव्ययीभावः । 'अनश्च' 'नपुंसकादन्यतरस्याम्' इति समासान्तोऽच् । अन्वकार्यनुकृतः । तत्साम्यं प्रापित इत्यर्थः । मेरोरुपमानाद्वग्रस्य तत्तुल्यमौन्नत्यं व्यज्यते ॥ वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः। लोलैरलोलद्युतिभाजि मुष्णरत्नानि रत्नाकरतामवाप ॥ ३८ ॥ वणिक्पथ इति ॥ यत्र यस्यां पुरि वणिजां पथि वणिक्पथे आपणे अपुगाः पूगाः संपद्यमानानि कृतानि पूगकृतानि पुञ्जीकृतानि । 'श्रेण्यादयः कृतादिभिः' इति समासः। श्रेण्यादिषु व्यर्थवचन मिति व्यर्थता । अलोलद्युतिभाञ्जि स्थिरप्रभावन्ति रत्नानि लोलैश्चलैः । अत एव भ्रमागतैर्जलनिर्गममार्गादागतः । 'भ्रमाश्च जलनिर्गमाः' इत्यमरः । अम्बुभिर्मुष्णन्नपहरनम्बुराशिरर्णवः । जलमात्रसारोऽपीति भावः । रत्नाकरतामवाप प्राप । न तु प्रागिति भावः । अम्बुराशेः प्राग्रनसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः । तथा च पुर्याः समुद्रातिशायिनी रत्नसमृद्धिर्वस्तु व्यज्यते ॥ अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः। यत्रातपे दातुमिवाधितल्पं विस्तारयामास तरङ्गहस्तैः ॥ ३९ ॥ अम्भ इति ॥ यत्र पुरि अपांनिधिः समुद्रः । अम्भश्च्योतन्ति क्षरन्तीत्यम्भश्युतो जलस्राविणः अत एव फेनैः पिनद्धभासः पिहितकान्तीन् । अपिपूर्वान्नह्यतेः कर्मणि क्तः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यपेरकारलोपः । कोमलानुत्कृष्टान्रत्नराशीनातपे दातुं शोषणार्थं निधातुमिवेति फलोत्प्रेक्षा । तल्पेष्वट्टेषु अधितल्पम् । 'तल्पं शय्यादृदारेषु' इत्यमरः । विभक्त्यर्थेऽव्ययी. भावः । तरङ्गैरेव हस्तैर्विस्तारयामास प्रसारितवान् । अत्रातपदानस्य तरङ्गहस्तसाध्यत्वेनोत्प्रेक्षारूपकयोः संकरः ॥ यच्छालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य । महोर्मिभिर्व्याहतवाञ्छिताथैीडादिवाभ्याशगतैर्विलिल्ये ४०॥ यच्छालमिति ॥ सागरस्य महोर्मिभिः कर्तृभिर्यच्छालं यस्याः प्राकारम् । 'प्राकारो वरणः शालः' इत्यमरः । उत्तुङ्गतया औन्नत्यगुणेन । जेतुमिवेत्यर्थः । फलोत्प्रेक्षेयं व्यञ्जकाप्रयोगाद्गम्या । दूरादुदस्थीयतोत्थितम् । भावे लङ् । अ. भ्याशगतैः समीपगतैः । 'समीपे निकटाभ्याससंनिकृष्टसनीडवत् । सदेशाभ्याशसविध-'इत्यमरः। व्याहतो वाञ्छितार्थः शालविजयरूपो येषां तैः। विजयाक्ष मैरित्यर्थः । अत एव ब्रीडादिवेति हेतूत्प्रेक्षा । ऊर्मिभिर्विलिल्ये विलीनम् । लीयते. भर्भावे लिद । अत्र शक्तस्याप्यविजिगीषो/डानुदयात्सापेक्षत्वेनोत्प्रेक्षयोः संकरः ॥ Page #89 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। . ७७ कुतूहलेनेव जवादुपेत्य प्राकारभित्या सहसा निषिद्धः । रसन्नरोदीभृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥४१॥ कुतूहलेनेति ॥ अम्बु वहतीत्यम्बुवाहो मेघः। कर्मण्यण् । कुतूहलेनान्तःप्रवेशकौतुकेनेवेति हेतूत्प्रेक्षा । जवादुपेत्य यस्याः प्राकारभित्त्या सहसा निषिद्धो निवारितः अत एव बहिरेव रसन्गर्जन् । दुःखात्क्रन्दंश्चेति श्लेषः । अम्बुवर्षव्याजेन भृशमरोदीदभूणि मुक्तवान् । 'रुदिर् अश्रुविमोचने' लङ् 'रुदश्च पञ्चभ्यः' इतीडागमः । अत्राम्बुवर्षच्याजेनोत्पादकस्योक्तश्लेषोत्प्रेक्षासापेक्षत्वात्संकरः ॥ यदङ्गनारूपसरूपतायाः कंचिद्गुणं भेदकमिच्छतीभिः । आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्ना:४२ यदङ्गनेति ॥ यस्यां पुर्यामङ्गनानां रूपं सौन्दर्यमाकारो वा । 'रूपं स्वभावे सौन्दर्य आकारश्लेषयोरपि' इति विश्वः । तस्य सरूपतायाः सारूप्यानेदकं व्यावनकं कंचिद्गुणं धर्ममिच्छतीभिरपेक्षमाणाभिः। 'आच्छीनद्योर्नुम्' इति विकल्पाअमभावः । अप्सरोभिराराधितः प्रार्थितो मनुर्मानुषसृष्टिकर्ता स्वाः स्वकीयाः प्रजाः निमेषः पक्ष्मपात एव चिह्न व्यावर्तकं तेन सह वर्तन्त इति सनिमेषचिह्नः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । चक्रे अद्धा तत्त्वमित्युत्प्रेक्षा । 'तत्त्वे त्वद्धाञ्जसा द्वयोः' इत्यमरः । अत्र स्वाभाविकनिमेषस्याप्सरसः प्रार्थनाहेतुकत्वोत्प्रेक्षया द्वारकाङ्गनानां निमेषमात्रभिन्नममानुषं सौन्दर्य वस्तु व्यज्यते ॥ स्फुरत्तुषारांशुमरीचिजालैर्विनिहृताः स्फाटिकसौधपतीः। आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्यराजन् ॥४३॥ स्फुरदिति ॥ यस्यां पुरि क्षणदासु रात्रिषु नार्यः स्फुरद्भिस्तुषारांशोश्चन्द्रस्य मरीचिजालैश्चन्द्रिकाभिः विनिहृता अपहृताः । तदेकरूपतापत्तेरगृह्यमाणा इत्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । स्फाटिकानां स्फटिकविकाराणां सौधानां पतीरारुह्य नभोगता देव्यो देवाङ्गना इव । देवशब्दस्य पचादिषु देवडिति पाठात् 'टिड्ढाणञ्-' इत्यादिना डीप । व्यराजन् । सौधानामग्रहणादभ्रंकषत्वात् तत्र लक्ष्यमाणाः स्त्रियः खेचर्य इव रेजुरित्यर्थः । अत्र नभोगतत्वोत्प्रेक्षायाः पूर्वोक्तसामान्यसापेक्षत्वात्संकरः ॥ कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र । उच्चैरधःपातिपयोमुचोऽपि समूहमूहुः पयसां प्रणाल्यः ॥४४॥ कान्तेति ॥ यत्र पुरि क्षपासु रात्रिषु प्रतिक्षपम् । विभक्त्यर्थेऽव्ययीभावः । कान्तानि रम्याणीन्दुकान्तोपलानां चन्द्रकान्तमणीनां कुट्टिमानि बद्धभूमयो येषु तेषु । 'कुट्टिमं बद्धभूमिः स्यात्' इति हलायुधः । हर्यतलेपूच्चैरुन्नताः प्रणाल्यो जलमार्गाः । 'द्वयोः प्रणाली पयसः पदव्याम्' इत्यमरः । अधःपातिनोऽधश्वराः १'यस्या' इति पाठः. Page #90 -------------------------------------------------------------------------- ________________ ७८ . शिशुपालवधे पयोमुचो मेघा यासां ताः । अधःकृतमेघमण्डलत्वात् अज्ञातवृष्टिपाता अपीत्यर्थः। विरोधालंकारः । पयसां समूहं पयःपूरं मुहुर्वहन्ति स्म । चन्द्रकान्तनिप्यन्दैरिति भावः । वहेलिट् 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अत्र सौधानां प्रणालीनां च तादृगौन्नत्यपयःपूरासंबन्धेऽपि तत्संबन्धोक्तयातिशयोक्तिः ॥ रतौ हिया यत्र निशाम्य दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः। विम्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः॥४५॥ रताविति ॥ यत्र पुरि गृहेष्वधिगृहम् । विभक्त्यर्थेऽव्ययीभावः । गृहिण्यः कुलाङ्गनाः अत एव रतौ रतिकाले ह्रिया दीपान्निशाम्य निर्वाप्य । शर्मित्वास्वादेशाभावश्चिन्त्यः । जालागताभ्यो गवाक्षमार्गप्रविष्टाभ्यः । 'जालं गवाक्ष आनायः' इति विश्वः । विदूरात्प्रभवन्तीति वैदूर्याणि बालवायजानि मणयः 'वैदूर्य बालवायजम्' इति विश्वः । 'विदूरायः ' इति ज्यप्रत्ययः । अत्र विदूरशब्दो बालवायजस्यादेशः पर्यायो वा तत्रोपचारितो वा । तेन बालवायाविरेरसौ प्रभवति न विदूरान्नगरात्। तत्र तु संस्क्रियत इत्याक्षेपः प्रत्युक्तः । यदुक्तम्'बालवायो विदुरं च प्रकृत्यन्तरमेव वा । नवै तत्रैति चेद्रयाजित्वरीवदुपाचरेत् ॥' इति तेषां कुड्येषु भित्तिषु । संक्रान्ताभ्य इति शेषः । अत एव तच्छायापत्या पैङ्गल्याद्विडालेक्षणवद्भीषयन्त्य इति भीषणाभ्यो भयंकराभ्यः । नन्द्यादित्वात्कतरि ल्युप्रत्यये टाप् । शशिद्युतिभ्यो बिभ्युर्भीताः । मौरध्यादिति भावः। बिभेतेर्लिद । अत्र लजावारणाय दीपनिर्वापणे न केवलं तदसिद्धिः प्रत्युत भयं चोस्पन्नमित्यनर्थोत्पत्तिरूपो विषमभेदः । विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना या स्याद्विषमालंकृतिर्मता ॥' इति लक्षणात् ॥ यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशवन्तः । चकुर्युवानः प्रतिविम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ४६ यस्यामिति ॥ यस्यां पुरि गृहेष्वतिश्लक्ष्णतया रत्नभित्तीनामतिस्निग्धतया आलेख्यं चित्रं विधातुं निर्मातुमशक्नुवन्तो युवानः प्रतिबिम्बिताङ्गाः स्वयं तासु संक्रास्तमूर्तयः सन्तो रत्नभित्तीः सजीवचित्राः सचेतनचित्रवतीरिव चारित्युत्प्रेक्षा ॥ सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरापाण्डुतयाङ्गनानाम् । यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः॥४७॥ सावयेति ॥ यस्यां पुरि कलधौतधामस्तम्भेषु हेमागारस्तम्भेषु । 'कलधौतं रौप्यहेम्नोः' इति विश्वः । प्रतिमागतानां प्रतिबिम्बगतानां सावर्ण्यभाजाम् । तत्सावादगृहीतभेदानामित्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसान्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । अङ्गनानां स्मरापाण्डुतया लक्ष्यैर्विभि. नवर्णत्वा देन गृह्यमाणैरित्यर्थः । कपोलैर्मणिदर्पणानां स्फटिकमुकुराणां श्रीरिव श्रीभैजे प्राप्ता इति निदर्शना । सा चोक्तसामान्यप्रसादलब्धेति तेनास्याः संकरः॥ १ 'निशम्य' इत्येव पाठो वल्लभाङ्गीकृतः. Page #91 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् । यस्यामलिन्देपु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि॥४८॥ शुकाङ्गेति ॥ यस्यां पुरि मुग्धाङ्गनाः शुकाङ्गवन्नीलोपला नीलमणयः । मरकतानीत्यर्थः । 'उपलः प्रस्तरे मणौ' इति विश्वः । तैर्निर्मितानां गृहाणां देहल्यो गृहद्वारशाखाधारदारूणि । 'गृहावग्रहणी देहली' इत्यमरः । तासां भासा लिप्तेप्वलिन्देपु द्वारबहिर्भागेपु । 'प्रघाणप्रघणालिन्दा बहिरप्रकोष्टके' इत्यमरः । गोः पुरीपं गोमयम् । 'गोश्च पुरीपे' इति मयद । तस्य गोमुखानि विलेपनानि । 'गोमुखं कुटिलाकारे वाद्यभाण्डे विलेपने' इति विश्वः । न चक्रुरेव । मरकतप्रभायां विलेपनभ्रान्त्येति भावः । अत एव भ्रान्तिमदलंकारः । 'कविसंमतसाहश्याद्वस्वन्तरमतिर्हि यत् । स भ्रान्तिमान्' इत्यलंकारसर्वस्वकारलक्षणात् ॥ गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः । हरिन्मणिश्यामतृणाभिरामैगृहाणि नीधैरिव यत्र रेजुः॥४९॥ गोपानसीविति ॥ यत्र पुरि गृहाणि गोपानसीषु वलभीषु । छादनाधारेषु वंशपञ्जरेग्वित्यर्थः । अत एव 'गोपानसी तु वल्लभी छादने वक्रदारुणि' इत्यत्र पटलाधारवंशपञ्जरे इत्याह स्वामी । क्षणमीपत्कालम् । अत्यन्तसंयोगे द्वितीया । आस्थितानामासीलानां चन्द्रकाः । 'समौ चन्द्रकमेचकौ' इत्यमरः । तद्वतां चन्द्रकिणां मयूराणामालम्बिभिर्लम्बमानैः कलापैहै: । 'कलापो भूषणे बहे' इत्यमरः । हरिन्मणयो मरकतानि । 'गारुत्मतं मरकतमश्सगर्भो हरिन्मणिः' इत्यमरः। तद्वच्छयामैस्तृणैरभिरामाणि । हरिततृणमयानीत्यर्थः । तैर्नीधैः पटलप्रान्तैरिव रेजुः । 'वलीकनीभ्रे पटलप्रान्तेऽथ पटलं छदिः' इत्यमरः । छादनपर्यायौ पटलच्छदी । छद्यञ्चलवाचिनी वलीकनीधे । छदेराधारो वंशपञ्जरो गोपानसीति विवेकः । अत एव हरितत्वालम्बनादिगुणक्रियानिमित्तत्वान्नीधैरिवेति जातिस्वरूपोत्प्रेक्षा ॥ बृहत्तुलैरप्यतुलवितानमालापिनद्धैरपि चावितानः।। रेजे विचित्रैरपि या सचित्रैहैविशालैरपि भूरिशालैः ॥५०॥ बृहदिति ॥ या पू: बृहत्यस्तुला उपरिस्थाप्यदार्वाधारभूतानि स्तम्भाग्रपीठानि येषु तैः बृहत्तुलैस्तथाप्यतुलैस्तद्रहितैरिति विरोधः । अनुपमैरित्यविरोधः । 'तुला माने पलशते सादृश्ये राशिभाण्डयोः । गृहाणां दारुबन्धाय पीठ्याम्' इति हैमः । वितानानामुल्लोचानां मालाभिः पङ्क्तिभिः पिनद्धराच्छादितैः तथाप्यवितानैस्तदहितैरिति विरोधः । अशून्यरित्यविरोधः । समस्तवस्तुसमृद्धरित्यर्थः । 'अस्त्री वितानमुल्लोचः' 'वितानं त्रिषु तुच्छकम्' इत्युभयत्राप्यमरः । विचित्रैरालेख्यरहितैरपि सचित्रैः तत्सहितैरिति विरोधः । विचित्रैरद्भुतैरिति परिहारः । 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । विगताः शाला गृहैकदेशा येषां तानि । 'शाला गृहे तरुस्कन्धे शाखापारैकदेशयोः' इति विश्वः । तैः विशालैरपि भूरिशालैः प्रचुरगृहैकदेशविशिष्टैरिति विरोधः । विशालैः पृथुलैरित्यविरोधः । Page #92 -------------------------------------------------------------------------- ________________ शिशुपालवधे ‘विशालं पृथुलं महत्' इत्यमरः । ' वेः शालच्छङ्कटचौ' इति शालच्प्रत्ययः । गृहे रेजे । अपिरयं सर्वत्र विरोधे । विरुद्धवदाभासाद्विरोधालंकारः । 'विरोधः सोsarso faरुद्धत्वेन यद्वचः' इति काव्यप्रकाशलक्षणात् ॥ ८० चिकंसया कृत्रिमपत्रिपतेः कपोतपालीषु निकेतनानाम् । मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५१ ॥ चित्रंसयेति ॥ यस्यां पुरि निकेतनानां वेश्मनाम् । ' वेश्म सद्म निकेतनम् ' इत्यमरः । कपोतान्पक्षिणः पालयन्तीति कपोतपाल्यो विटङ्कापरनामानः स्तम्भाप्रसारिता दारुविशेषाः । ' कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । कर्मण्यणि ङीप् । तासु कृत्रिमपत्रिणां दारुमयपक्षिणां पतेः । कर्मणि पष्ठी । चिक्रंसया क्रमितुमिच्छया । जिघृक्षयेत्यर्थः । क्रमेः सन्नन्तान् 'अप्रत्ययात्' इत्यकारप्रत्यये टाप् । 'स्स्रुक्रमोरनात्मनेपदनिमित्ते' इतीडागमो न भवति । अत्र क्रमेर्वृच्यादिव्यतिरिक्तार्थेऽपि 'अनुपसर्गाद्वा' इति वैकल्पिकस्यात्मनेपदनिमित्तस्यानुपसर्गत्वस्य वैवक्षिकस्य संभवात् । आयतमानतं वा निश्चलमङ्गं यस्य तं मार्जारं बिडालमपि । 'ओतुर्बिडालो मार्जारः' इत्यमरः । जनः कृत्रिमं क्रियया निर्वृत्तमेव मेने । न तु वास्तवमित्यर्थः । 'वितः क्रिः', 'क्रेर्मनित्यम्' इति मम्प्रत्ययः । अनेन कृत्रिमा कृत्रिमभेदो दुर्ग्रह इति शिल्पज्ञानातिशयोक्तिः । अत्र कविकल्पितसादृश्यान्मार्जारजनयोः कृत्रिमा कृत्रिमेषु विपरीतमतिवर्णनाद्भान्तिमदलंकारः ॥ क्षितिप्रतिष्ठोऽपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार । अतीतनक्षत्र पथानि यत्र प्रासादशृङ्गाणि वृथाध्यरुक्षत् ।। ५२ ।। क्षितीति ॥ तस्यां पुरि वधूजनः क्षितौ प्रतिष्ठा यस्य स भूमिस्थितोऽपि चन्द्रम् । दिवि स्थितमिति भावः । तत्रापि मुखैरेवारविन्दैरधश्वकारेति विरोधः। स्वलावण्यमहिम्नाधरीचकारेति परिहाराद्विरोधालंकारः । अतीतानि नक्षत्रपथमतीतनक्षत्रपथानि । 'अत्यादयः कान्ताद्यर्थे द्वितीयया' इति समासः । 'द्विगुप्राप्तापन्ना -' इत्यादिना परवल्लिङ्गताप्रतिषेधः । प्रासादशृङ्गाणि वृथा अध्यक्षधिरोहति स्म । अनधिरुयैवाधः करणादिति भावः । रोहतेर्लुङ । 'शल इगुपधादनिट: क्स:' इति चले: क्सादेशः । अत्राधः करणवाक्यार्थस्य श्लेषविरोधोपजीव्यवैयर्थ्य हेतुत्वात्संकीर्णः काव्यलिङ्गभेदः ॥ रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५३ ॥ रम्या इति ॥ यस्यां पुरि युवानो रम्या रमणीया इति हेतोः पताकाः प्राप्तवतीः । उत्क्षिप्तध्वजा इत्यर्थः । अन्यत्र रम्या इत्येवं पताकाः प्राप्तवतीः । प्रसिद्धिं गता इत्यर्थः । 'पताका वैजयन्त्यां च सौभाग्येऽर्कध्वजेऽपि च, ' ' इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्युभयत्रापि विश्वः । विविक्ता विजना विमलाश्च इति हेतो रागं वर्धयन्तीः । 'विविक्तौ पूतविजनौ' इत्युभयत्राप्यमरः । नमइलीका Page #93 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। नन्नीध्राः । 'वलीकनीधे पटलप्रान्ते' इत्यमरः । अन्यत्र नमन्त्यो वल्यस्त्रिवल्याख्या मध्यरेखा यासां ता नमवलीकाः । 'नद्यतश्च' इति कप्प्रत्ययः । 'वली मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु' इति वैजयन्ती। वलभीः कूटागाराणि । 'कूटागारं तु वलभी' इत्यमरः । वधूभिः सममसेवन्त । वधूसहिता असेवन्तेत्यर्थः । अत्र वधूनां वलभीनां च प्रकृतानामेव धर्मसाधर्म्यणौपम्यावगमात्केवलप्रकृतगोचरा तुल्ययोगिता न श्लेषः । तत्र विशेष्यस्यापि श्लिष्टत्वनियमात् । यथाहुः-'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः। औपम्यं गम्यते यत्र सा मता तुल्ययोगिता॥' इति ॥ सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् । मधूनि वक्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः॥५४॥ सुगन्धितामिति ॥ यत्र पुरि न प्रतियत्नः संस्कारः पूर्वो यस्यास्तामप्रतियत्नपूर्वामकृत्रिमाम् । स्वाभाविकीमित्यर्थः । 'प्रतियवस्तु संस्कारः' इति वैज. यन्ती । शोभनो गन्धो येषां तेषां भावस्तत्ता तां सुगन्धितां सौरभ्यम् । 'गन्धस्येत्-' इतीकारः । बिभ्रन्ति बिभ्राणानि । 'वा नपुंसकस्य' इति नुमागमः । मधूनि मद्यानि कामिनीनां वत्राणि च यूनां प्रमदाय प्रीत्यै आमोदकर्मणो वास. नाधानस्य व्यतिहारं परस्परकरणमीयुः । अन्योन्यगन्धेनान्योन्यं वासयामासुरित्यर्थः । इणो लिद । अत्रापि मधूनां वक्राणां च प्रकृतत्वात्तत्पूर्वक एव तुल्ययोगिताभेदः । तेन यूनां मधुवासितवधूवदनपानं वदनवासितगण्डूषपानं च वस्तु व्यज्यते । तेन च निरातङ्कभोगाः पौरा इति गम्यते ॥ रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यहविटङ्कनीडः । रुतानि शृण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम्५५ रतान्तर इति ॥ यत्र पुरि गृहान्तरेषु वितर्दयो विहारवेदिकाः । 'स्याद्वितदिस्तु वेदिका' इत्यमरः । तासां नियूहा मत्तवारणाख्या अपाश्रयाः । 'नि!हो मत्तवारणः' इति वैजयन्ती । तेषां विटङ्का उपरितन्यः कपोतपालिकाः त एव नीडाः कुलाया यस्य सः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । वयसां शुकसारिकादिपत्रिणां गणः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । अङ्गनानाम् । वितर्दिषु रममाणानामिति भावः । रतान्तरे रुतानि रतिकूजितानि शृण्वन् । अन्ते समीपे वसन्त इत्यन्तेवासिनः शिष्याः । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । 'शयवासवासिष्वकालात्' इत्यलुक् । तेषां भावस्तत्त्वमाप । समीपे प्रतिशब्दं यथाश्रुतमुच्चारणादेवमुत्प्रेक्ष्यते । अत एव स्फुटमिति व्यञ्जकप्रयोगः ॥ छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु । आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥५६॥ छन्नेविति ॥ यत्र पुरि छन्नेष्वाच्छादितेषु । 'वा दान्त-' इत्यादिना वैकल्पिको निपातः । स्पष्टतरेषु । स्फुटतरं लक्ष्यमाणेष्वित्यर्थः । नारीकुचमण्डलेषु स्वच्छानि स्फटिकादिवदतिरोधायकान्यम्बराणि वस्त्राणि केवलं नामतोऽम्बरमिति Page #94 -------------------------------------------------------------------------- ________________ ● शिशुपालवधे नाम्नैवाकाशसाम्यं न दधुः । 'अम्बरं व्योम्नि वाससि' इति विश्वः । किंत्वर्थतोstarपि तत्साम्यं दधुः । स्वयमतिसूक्ष्मत्वादव्यवधायकत्वं दृष्ट्यादेर्मूर्तन्तरङ्गत्वविघातित्वं चेत्यादिनापि साम्यं दधुरित्यर्थः । उपमालंकारः ॥ ८२ यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः । जनैरजातस्खलनैर्न जातु द्वयेऽप्यमुच्यन्त विनीतमार्गाः ॥५७॥ यस्यामिति ॥ यस्यां पुरि अजिह्मा अवकाः, अन्यत्राकपटाः । दम्भादिरहिता इत्यर्थ: । 'आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा' इति स्मरणादिति भावः । 'जिह्मः कपटवक्रयोः' इति विश्वः । अपङ्काः कर्दमरहिताः, निष्पापाश्च । 'पङ्कोऽघे कर्दमे' इति हैमः । महतीं सीमानं राजकल्पितक्षेत्र मानमर्यादां, कुलागतानुष्ठानस्थितिं चात्यजन्तः । अत्यक्तमहामर्यादा इत्यर्थः । अतिमात्रा आयतिरायामः उत्तरकालश्च येषां ते अत्यायतयः । ' आयतिस्तूत्तरे काले संयमायामयोरपि' इति विश्वः । द्वये द्विरूपा अपि । 'प्रथमचरमतया -' इत्यादिना जसि विभाषया सर्वनानसंज्ञा । विनीतमार्गाः सुरचितपुरवीथयः, सुशिक्षिताचारपद्धतयश्च न जातं स्खलनं पाषाणादिप्रतिघातो, विरुद्वाचरणं च येषां तैर्जनैर्जातु कदाचिदपि नामुच्यन्त न त्यक्ताः । न कदाचित्खिलीकृता इत्यर्थः । अत्र मार्गशब्दस्य साधर्म्या - देव वृन्तावलम्बिफलद्वयव देकशब्देनार्थद्वय प्रतीतेः, द्वयानामपि मार्गाणां प्रकृतत्वाच्च केवलप्रकृतविषयोऽर्थश्लेषः । विशेष्यस्यापि लिष्टत्वान्न तुल्ययोगिता ॥ परस्परस्पर्धिपरार्थ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः । श्री निर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ५८ ॥ परस्परेति ॥ यत्र पुरि परस्परस्पर्धीन्यहमहमिकयान्योन्यसामर्षाणि परानि श्रेष्ठानि रूपाणि सौन्दर्याणि यासां ताः । 'रूपं स्वरूपे सौन्दर्ये' इति विश्वः । पुरे भवाः पौरास्ताः स्त्रियः पौरस्त्रियः । 'स्त्रियाः पुंवत् - ' इत्यादिना पुंवद्भावः । विधाय निर्माय वेधाः स्रष्टा श्रियो लक्ष्मीदेव्याः निर्मित्या निर्माणेन प्राप्तं यत् घुणेन वज्रकीटेन क्षतस्योत्कीर्णस्यकवर्णस्योपमया साम्येन वाच्यमपवादः तदलमत्यन्तम् । तदेव मलमिति केचित् । ममार्ज घुणाक्षरवद्यादृच्छिकमिदं श्रीदेवतासौन्दर्यशिल्पं न कौशलमित्ययशः क्षालितवानित्यर्थः । अनया चातिशयोक्त्या पौरस्त्रीणां रमासमानसौन्दर्यं वस्तु व्यज्यते ॥ क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदैव । अध्यषुषो यामभवज्जनस्य याः संपदस्ता मनसोऽप्यगम्याः॥५९॥ क्षुण्णमिति ॥ यदन्तःकरणेन क्षुण्णमभ्यस्तम् । ममेदं भूयादिति भूयोभूयः संकल्पितमित्यर्थः । कल्पयन्ति संकल्पितार्थानिति कल्पाः । कल्पा इत्युपपदं व्यावर्तकं येषां ते कल्पोपपदा वृक्षाः कल्पवृक्षाः तदैव फलन्ति फलानि निष्पादयन्ति । 'फल निष्पत्तौ ' इति धातोर्लट् । कुतः । यां पुरमध्यूषुषो यस्यामुषितवतः । ' उपान्व१ 'प्यभूमिः' इति पाठः • Page #95 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः । ८३ ध्यावसः' इति कर्मत्वम् । 'भाषायां सदवसश्रुवः' इति वसुप्रत्ययः । जनस्य याः संपदोऽभवन् ता मनसोऽप्येगम्याः । वाचामभूमय इति किमु वक्तव्यमिति भावः । गृहेगृहे कल्पवृक्षसंबन्धातिशयोक्त्या पौराणां देवेन्द्रभोगो व्यज्यते । इह कल्प इत्युपपदं स्वसंज्ञैकदेशो येषामिति व्याख्याने हिरण्यपूर्वं कशिपु मित्यादिवदवाच्यवचनदोषावकाशः ॥ कला दधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः । यां रेवतीजानिरियेष हातुं न रौहिणेयो न च रोहिणीशः ॥ ६० ॥ कला इति ॥ सकलाः समग्राः कलाश्चतुःषष्टिविद्याः, षोडशभागांश्च दधानः । ' कला शिल्पे कालभेदे' इति, 'कला तु षोडशो भागः' इति चामरः । सुधयावलिप्तं सौधं तद्वत्सिताभिः स्वभाभिराशा दिश उद्भासयन् रेवती ककुद्मिकन्या पूषकं भं च जाया यस्य स रेवतीजानिः । 'जायाया निङ्' इति समासान्तो निङादेशः । 'लोपो व्योर्वलि' इति यलोपः । रोहिण्या अपत्यं पुमान्हिणेयो बलभद्रः। ‘स्त्रीभ्यो ढकू' । यां पुरीं हातुं त्यक्तुं न इयेष नेच्छति स्म । लिट् । रोहिणीशश्चन्द्रश्च हातुं न इयेष । अत्र रौहिणेयरोहिणीशयोः परोत्क - र्षावहत्वेन द्वयोः प्रकृतत्वाद्विशेष्यस्याश्लिष्टत्वाच्च केवलप्रकृतविषया तुल्ययोगिता । गतमन्यत् ॥ बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य । शरीरिणा जैत्रशरेण यत्र निःशङ्कभूषे मकरध्वजेन ॥ ६१ ॥ बाणेति ॥ यत्र पुरि बाणाहवे बाणासुरयुद्धे व्याहता क्षयं नीता शंभुशक्तिन तस्य हरविजयिनो जनार्दनस्य कृष्णस्यासत्तिं प्रत्यासत्तिमासाद्य । पुत्रत्वं प्राप्येत्यर्थः । शरीरिणा विग्रहवता । न त्वनङ्गेनेति भावः । जेतार एव जैत्रा जयशीलाः । तृन्नन्तात्प्रज्ञादित्वादण्प्रत्ययः । ते शरा यस्य तेन मकरध्वजेन कामेन । प्रद्युम्नरूपेणेति भावः । निःशङ्कं निर्भीकभूषे उषितम् । 'वस निवासे' भावे लिट् । 'वचिस्वपि -' इत्यादिना संप्रसारणम् । 'शङ्का वितर्कभययोः' इति विश्वः । अत्र शंभुशक्तिव्याघातपदार्थस्य विशेषणगत्या निःशङ्कनिवासहेतुत्वोक्तेः काव्यलिङ्गभेदः । पुरा किल भगवान्भक्तवत्सलो धूर्जटिर्बाणप्रेम्णा बाणाभियोधिनं हरिमभियुज्य निर्जित इति पौराणिकाः कथयन्ति ॥ निषेव्यमाणेव शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय । उद्रश्मिरत्नाङ्करधानि सिन्धावाह्वास्त मेरावमरावतीं या ॥ ६२ ॥ निषेव्यमाणेवेति ॥ शिवैर्मरुद्भिर्मन्दमारुतैः, अन्यत्र शिवै रुद्वैः, मरुद्भिः मरुद्गणैश्च चिराय निषेव्यमाणेव हरिणा श्रीकृष्णेन शक्रेण चाध्यास्यमाना अधिष्ठीयमाना उदश्मीनां रत्नाङ्कराणां धाम्नि स्थाने । एकत्र रत्नाकरत्वादन्यत्र रत्नसानुत्वाच्चैचेति भावः । सिन्धौ स्थितेति शेषः । या पूर्मेरौ स्थिताम् अमरा यस्यां सन्तीत्य " १ 'प्यभूमिर्वाचामभूमिः' इति पाठः. Page #96 -------------------------------------------------------------------------- ________________ शिशुपालवधे मरावतीमिन्द्रनगरीम् । ‘मतौ बह्वचोऽनजिरा-' इति दीर्घः । संज्ञायाम् ‘मादु. पधायाश्व-' इति वत्वम् । आह्वास्त स्पर्धयाहूतवती । अमरावतीमनुचकारेत्यर्थः । वयतेर्लुङ् 'स्पर्धायामाङः' इत्यात्मनेपदम् । ‘लिपि सिचि ह्वश्च' इति 'आत्मनेपदेवन्यतरस्याम्' इति च्लेरङभावपक्षे सिजादेशः । अत्र प्रथमाधे श्लेषेऽपि सिन्धी मेरौ स्थितेति प्रतिबिम्बाभावेन साधम्र्योक्तेः श्लेषानुप्राणितेयमुपमेति संक्षेपः । आह्वाम्तेति सादृश्यप्रतिपादकः शब्दः । स्पर्धते ह्वयते द्वेष्टीत्यनुशासनात् ॥ स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः। विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ६३ स्निग्धेति ॥ स्निग्धं यदञ्जनं तद्वत्तेन च श्यामरुचिः सुवृत्तः सद्वत्तिः वर्तुलश्च । त्रयाणां लोकानां समाहारस्त्रिलोकी । तद्धितार्थ-' इत्यादिना समासः । 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञा । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिप्यते' इति स्त्रीत्वे 'द्विगोः' इति ङीप् । तस्यास्तिलको भूषणभूतः स हरिरेव, विशेषको वा । तिलक इवेत्यर्थः । 'इववद्वायथाशब्दो' इत्यनुशासनात् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । अध्वंसिता वर्णानां ब्राह्मणादीनां कान्तिरौज्वल्यं यस्यास्तस्याः पुरः, अन्यत्राध्वंसितो वर्णो गौरादिः, कान्तिावण्यं च यस्यास्तस्याः। 'वों द्विजादौ शुक्लादी इन्युभयत्राप्यमरः । वध्वा इव श्रियं विशिशेष विशेषितवान् । अनेकशब्दे यमु. रसेत्येके । शब्दमात्रसादृश्याच्छेष इत्यन्ये । श्लेपोपमेत्याह दण्डी ॥ तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः। वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्ख्या ।। ६४ ॥ तामिति ॥ अतुलप्रतापः स हरिस्तां पूर्वोक्तां पुरमीक्षमाणः पुरस्तात्पूर्वस्यां दिशि । सप्तम्यर्थे तसिल प्रत्ययः । प्रतोली रथ्याम् । 'रथ्या प्रतोली विशिग्वा इत्यमरः । प्रापत्प्राप्तवान् । लुङि 'पुषादि-' इत्यादिना च्लेरडादेशः । वज्राणां तोरणप्रासादादिगतहीरकादिमणीनां प्रभाभिरुद्भासिनी सुरायुधश्रीरिन्द्रचापलधमीर्यस्यां सा । इह वज्रग्रहणं मणिमात्रोपलक्षणम् । अन्यथेन्द्रायुधासाम्यादिति भावः । अन्यत्र वज्रस्य कुलिशस्य प्रभाभिरुद्भासिनी सुरायुधानामितरदेवतायुधानां श्रीर्यस्याः सा । 'वज्रोऽस्त्री हीरके पवौ' इत्यमरः । या प्रतोली देवसेना सुरचमूरिव परैः शत्रुभिरलवथा दुष्प्रधा ॥ प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः । मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्धजिन्यः॥६५।। · प्रजा इति ॥ अरविन्दनाभेर्विष्णोरङ्गात्प्रजा इव । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेरिति भावः । शंभोर्जटाजूटतटादाप इव गङ्गाजलानीव विधातुर्मुखाच्छ्रुतय इव मुरजितो हरेर्वजिन्यः सेनाः पुरान्निरीयुर्निर्गताः । मालोप्रमेयम् ॥ Page #97 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। ८५ श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः । परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः॥६६॥ लिप्यद्भिरिति ॥ अन्योन्येषां मुखाग्रेषु सङ्गेन स्खलन्तः खलीनाः कविका यस्मिन्कर्मणि तद्यथा तथा । 'कविका तु खलीनोऽस्त्री' इत्यमरः । श्लिष्यद्भिः संघृप्यद्भिर्विलोलैः मुहुरुचलगिर्हरिभिस्तुरंगैः करणैः । अश्वान्वारयन्ति ये तेऽश्ववारा अश्वारोहाः परस्परेणोत्पीडितजानुभागाः सन्तो दुःखेन निश्चक्रमुर्निर्जग्मुः । अत्र स्वभावोक्त्यतिशयोक्त्योः संकरः ॥ निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन । तेजोमहद्भिस्तमसेव दीपेर्द्विपैरसंवाधमयांबभूवे ॥६७॥ निरन्तराल इति ॥ तमसा तिमिरेणेव प्राणभृतां गणेन प्राणिवर्गेण की निरन्तरालेऽपि पूर्व स्वेनैवातिसंकटेऽपि पथि संप्रति दूरं दूरत एव विमुच्यमाने पति । एकत्र दीपभयादन्यत्र द्विपभयाञ्चेत्यर्थः। तेजोमहद्भिर्बलाधिकैः, प्रभासंपन्नश्च । 'तेजो बलं प्रभा तेजः' इति विश्वः । द्विपै-पैरिवासंबाधमसंकीर्णमयांबभूचे जग्मे । न त्वश्वैरिव कृच्छ्रादिति भावः । 'अय गतौ' भावे लिद 'दयायासश्च' इत्याम्प्रत्ययः । स्वतेजमव दरोत्सारिततमस्के दीपा इव तथोत्सारितप्राणिके पथि निरर्गलं द्विपाः प्रययुरित्यर्थः । तमसीति सप्तम्यन्तपाठे तु तमसः पथ्युपमानत्वे द्विपागमनात्पथ इव तमसो दीपागमनात्प्राकृतप्राणिवर्गेण निरन्तरालत्वं पश्चान्मुन्यमानत्वं च न संभवतीत्युपमानोपमेययो(रूप्यं स्यात् । तृतीयान्तपाटे तमसः प्राणिवर्गापमानत्वे तत्सारूप्यसाकल्यात्स एव साधीयानित्यालंकारिकाणां पन्थाः ।। शनैरनीयन्त रयात्पतन्तो रथाः क्षिति हस्तिनखादखेदैः । सयनसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरंगैः ॥ ६८ ॥ शनैरिति ॥ रयात्पतन्तो धावन्तो रथाः सयत्नैः सूतैः सारथिभिः । 'सूतः अत्ता च सारथिः' इत्यमरः । आयता आकृष्टा ये रश्मयः प्रग्रहाः । 'किरणप्रग्रही रश्मी' इत्यमरः । तैर्भुग्नेषु प्रह्वेपु ग्रीवाणामग्रेषु संसक्ता युगा युग्याः स्कन्धवाह्या दारुविशेषा येषां तैरत एवाखेदेरश्रमैस्तुरंगैः । हस्तिनखात् । हस्तिनखः पूरि मृत्कृटः । 'कूटं पूरि यद्धस्तिनखस्तस्मिन्' इत्यमरः । तस्माच्छनैः क्षितिमनीयन्त नीता इति स्वभावोनिः । यथावद्वस्तुवर्णनात् ॥ बलोभिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः । प्रायेण निष्कामति चक्रपाणी नेटं पुरो द्वारवतीत्वमासीत् ६९ बलोमिभिरिति ॥ बलान्यूमय इव तैर्बलोर्मिभिर्वलयैः कङ्कणैरिव तत्क्षणे हरिनिष्क्रमणक्षण एव हीयमाना अपरिच्यमाना रध्या भुजेव यस्यास्तस्याः अत एवास्याः पुरो द्वारवत्याश्चक्रपाणौ कृष्णे निष्कामति निर्गच्छति सति प्रायेण भूम्ना द्वारवतीत्वं द्वारकात्वम् । स्वस्वरूपमिति यावत् । इष्टं नासीत् । हरिविरहे तद्वैफल्यादिति भावः । द्वारवतीशब्दस्य संज्ञात्वात् 'स्वतलोर्गुणवचनस्य' इति न पुंव शिशु० ८ Page #98 -------------------------------------------------------------------------- ________________ ८६ शिशुपालवधे द्भावः । अन्यत्र द्वारवतीत्वं द्वारवत्त्वं नेष्टं तस्य हरिनिष्क्रमणहेतुत्वादित्युभयथाप्युपमितभुजवलयगलनहेतुत्वादुपमासंकीर्णेयमनिष्टत्वोत्प्रेक्षा प्रायेणेत्यनेन व्यज्यते ॥ अथासर्गसमाप्तेः समुद्रं वर्णयतिपारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः। घनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ७० ॥ पार इति ॥ मुरारि रनिधेः समुद्रस्य जलानां पारे परतीरे पारेजलम् । 'पारावारे परार्वाची तीरे' इत्यमरः । ‘पारे मध्ये षष्ट्या वा' इत्यव्ययीभावः । तत्संयोगादेकारान्तत्वं च पारेशब्दस्य । आ समन्तान्नीला पलाशानां पत्राणां राशयो यासां ताः । हरितपर्णपूर्णा इत्यर्थः । 'पत्रं पलाशं छदनम्' इत्यमरः । अत एवोत्कलिका ऊर्मयः । 'ऊर्मिरुत्कलिकोल्लोलकल्लोललहरिस्तथा' इति हला. युधः। तासां सहस्रः प्रतिक्षणमुत्कूलिताः कूलमुद्गताः । कूलं प्रापिता इत्यर्थः। उत्कूलशब्दात् 'तत्करोति-' इति ण्यन्ताकर्मणि क्तः । तेषां शैवलानामाभेवाभा यासां ताः। तत्सदृशीरित्यर्थः। घनावलीरपश्यत् । अत्रोत्कूलितशैवलस्य स्वतः सिद्धसंदेहादुपमोत्प्रेक्षयोः संदेहसंकरः ॥ लक्ष्मीभृतोऽम्भोधितटाधिवासान्द्रुमानसौ नीरदनीलभासः। लतावधूसंप्रयुजोऽधिवेलं बहूकृतान्स्वानिव पश्यति स्म ॥७१॥ लक्ष्मीभृत इति ॥ असौ हरिर्लक्ष्मी शोभां, श्रीदेवी च बिभ्रतीति लक्ष्मीभृतस्तान् अम्भोधितटेऽधिवासो येषां तान्नीरदवन्नीलभासो नीलवर्णान् । लता वध्व इवेत्युपमितसमासः । अन्यत्र लता इव वध्व इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। ताभिः संप्रयुज्यन्त इति संप्रयुजः संगतान् । विप् । अधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः। दुमान्बहूकृताननेकीकृतान्स्वान् स्वकीयविग्रहानिवेत्यर्थः । एवं च पुंलिङ्गतानिर्वाहः । आत्मपरत्वे नपुंसकत्वापातः। 'स्वो ज्ञातावात्मनि स्त्रं त्रिप्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । पश्यति स्म । श्लेषसंकीर्णेयमुत्प्रेक्षा ॥ आश्लिष्टभूमि रसितारमुच्चैर्लोलवजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७२ ॥ आश्लिष्टेति ॥ आश्लिष्टभूमिमालिङ्गितभूतलमुच्चैस्तारं रसितारं क्रन्दितारं लोलतां चलतामितस्ततः पततां ध्वजानामाकार इवाकारो येषां ते बृहत्तरङ्गा यस्य तं तथोक्तं फेनायमानं फेनमुद्वमन्तम् । 'फेनाञ्चेति वक्तव्यम्' इति क्यङ् । अपां समूह आपम् । 'तस्य समूहः' इत्यण् । तेन गच्छन्तीत्यापगास्तासां पतिं समु. द्रम् । असौ हरिरपस्मारिणमपस्माररोगिणमाशशङ्के । तत्कर्मयोगात्तथोत्प्रेक्षांचक्रे इत्यर्थः । यथाहुनैदानिकाः—'क्रुद्धैर्धातुभिरारतेऽथ मनसि प्राणी मनः संदिशन्दन्तान्खादति फेनमुद्रिति दोःपादौ क्षिपन्मूढधीः । पश्यन्रूपमसक्षितौ निपतति च्यां करोति क्रियां बिभ्यत्स स्वयमेव शाम्यति नते वेगे त्वपस्माररुक् ॥' इति ॥ Page #99 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। पीत्वा जलानां निधिनातिगाादृद्धि गतेऽप्यात्मनि नैव मान्तीः। क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥७३॥ पीत्वेति ॥ जलानां निधिना समुद्रेण गर्ध एव गाय॑म् । औपम्यादिवच्चातुर्वर्ण्यादित्वात्स्वार्थे प्यञ् । तदतिमात्रमतिगाय तस्मात् । तृष्णाभरादित्यर्थः । गृधोः पुनरोर्गुणः 'वान्तो यि प्रत्यये' इति गार्धव्यमिति स्यात् । पीत्वा । क्षेपणक्रियापेक्षया पूर्वकालता। अथ वृद्धि गते आत्मनि देहे । चन्द्रोदये समुद्रस्य वृद्धिरित्यागमः। नैव मान्तीरमान्तीः। अतिरिच्यमाना इत्यर्थः । मातेः शतरि ङीप् । 'आच्छीनद्योर्नुम्' । क्षिप्ता उद्गीर्णातितृष्णयोत्कटं पीत्वा अन्तरमाना. द्वहिरुद्वान्ता इत्यर्थः । इन्दो रुचो मरीचीरिवेत्युत्प्रेक्षा । स हरिरधिवेलमधितीरम् । 'वेला कूलविकारयोः' इति विश्वः । मुक्तावलीराकलयांचकाराकलयामास । कलतिः कामधेनुः ॥ साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी । तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान्यिवतो ददर्श ७४ • साटोपमिति ॥ अमी मेघाः साटोपं ससंभ्रमम् । 'संभ्रमाटोपसंरम्भाः' इति यादवः। अनिशं नदन्तो गर्जन्तो यैस्तोयैरम्भोभिरुवी समन्ततः प्लावयिष्यन्ति तान्यम्भांसि पयोधेरेकदेशादेककोणान्निभृतं निश्चलं यथा तथा पिबतो मेघान्स हरिददर्श । एतेन समुद्रस्यापरिच्छिन्नरूपत्वं व्यज्यते ॥ उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्ररिव संप्रणीताः । आलोकयामास हरिः पतन्तीनदीः स्मृतीर्वेदमिवाम्बुराशिम् ७५ उद्धृत्येति ॥ मुनीन्द्रस्ततो वेदावेदार्थमिव मेघैस्ततोऽम्बुराशेरेव तोयमुद्धृत्य संप्रणीताः कृता अम्बुराशिं पतन्तीः प्रविशन्तीनदीर्वेदं पतन्तीः स्मृतीर्मन्वादिसंहिता इव हरिरालोकयामास । श्रुतिमूलत्वेनैव प्रामाण्यात्स्मृतीनाम् । तत्संवाद एव तत्संप्रवेशः । अनेकवेयमुपमा ॥ विक्रीय दिश्यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः। तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ७६ विक्रीयेति ॥ दिक्षु भवानि दिश्यानि । दिगन्तरानीतानीत्यर्थः । 'दिगादिभ्यो यत्' । उरूणि महान्ति धनानि नानाद्रव्याणि विक्रीय मूल्येन दत्त्वोत्तमलाभं द्वैगुण्यादिकं भजन्तीति तानुत्तमलाभभाजः । तत्रत्यं द्वैप्यमित्यर्थः । 'अव्ययात्य' । अफल्गु सारवत् । ‘फल्गु तुच्छमसारं च' इति यादवः । भाण्डं मूलधनम् । पण्यद्रव्यमित्यर्थः । 'वणिमूलधने पात्रे भाण्डं भूषाश्वभूषयोः' इति वैजयन्ती । तरीषु नौषु । 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः । 'अविस्तरिस्तन्त्रिः-' इत्यौणादिक इकारप्रत्ययः । आवपत आदधतः । शतृप्रत्ययः । द्वैप्यान्समुद्रद्वीपवासिनः । 'द्वीपादनुसमुद्रं यज्' इति यन्प्रत्ययः । संयात्रा संभूय यात्रा सा Page #100 -------------------------------------------------------------------------- ________________ ८८ शिशुपालवधे प्रयोजनमेषां तान्सांयात्रिकान्पोतवणिजः। 'सांयात्रिकः पोतवणिक्' इत्यमरः । 'प्रयोजनम्' इति ठक् । असौ हरिरभ्यनन्दत् ॥ उत्पित्सवोऽन्तनदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन । पयांसि भक्त्या गरुडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः७७ उत्पित्सव इति ॥ नदभर्तुः समुद्रस्यान्तरभ्यन्तरादुत्पित्सव उत्पतितुमिच्छवः। पततेः सन्नन्तादुप्रत्ययः । 'सनि मीमा-' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । फणीन्द्राः सर्पा भक्त्या गरुडध्वजस्य हरेर्ध्वजानिव गरीयसातिमहता निःश्वसितानिलेन मुखमारुतेन पयांस्युच्चैरुच्चिशिपिरे उत्क्षिप्तवन्तः । उत्प्रेक्षा । स्वरितेत्त्वादात्मनेपदम् ॥ तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः। प्रत्युजगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गवाहुः ॥ ७८ ॥ तमिति ॥ अम्बुराशियुगान्तबन्धुम् । आपद्धन्धुमित्यर्थः । उत्सङ्ग एव शय्या तस्यां शेत इति तथोक्तम् । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । आगतमभ्यागतं तं हरिं वीक्ष्य गुरुणा प्रमोदेन प्रसारिता उत्तुङ्गास्तरङ्गा एव बाहवो यस्य सः सन्प्रत्युजगाम संमेलनार्थमागतवानिवेति क्रियास्वरूपोत्प्रेक्षा ॥ उत्सङ्गिताम्भःकणको नभस्वानुदन्वतः खेदलवान्ममार्ज । तस्यानुवेलं बजतोऽधिवेलमेलालतास्फालनलब्धगन्धः ॥७९॥ उत्सङ्गितेति ॥ उत्सङ्गिानः संसर्गिणः कृता उत्सङ्गिताः । 'तत्करोति-' इति ण्यन्तात्कर्मणि क्तः। उत्सङ्गिता अम्भःकणा येनेति 'शेषाद्विभाषा' इति कप् । एलालतानामास्फालनेन संघर्षणेन लब्धगन्धः एवं शिशिरसुरभिरुदन्वतो नभस्वान्समुद्रस्य वायुरधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः । ब्रजतस्तस्य हरेः स्वेदलवाननुवेलं प्रतिक्षणम् । यथार्थेऽव्ययीभावः । ममार्ज जहार । 'वेला कूले च जलधेर्वेला तीरविकारयोः' इति विश्वः । काव्यलिङ्गम् ॥ उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः। आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः॥८॥ उत्तालेति ॥ चमूषु चरन्तीति चमूचराः सैनिकाः । 'चरेष्टः' इति टप्रत्ययः । तैरुत्तालेषून्नतेषु तालीवनेषु संप्रवृत्तेन समीरणेन मारुतेन सीमन्तिताः सीमन्तिन्यः कृताः । सीमन्तशब्दान्मत्वन्तात् 'तत्करोति-' इति ण्यन्ताकर्मणि क्तः । णाविष्ठवद्भावे विन्मतो क् । ताः केतक्यो येषु ते तथोक्ताः । 'नतश्च' इति कप् । लवणसिन्धोरिमा लावणसैन्धव्यः । 'तस्येदम्' इत्यण् । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य-' इत्युभयपदवृद्धिः । तासां कच्छभुवामनूपभूमीनाम् । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । प्रदेशा देशा आसेदिरे प्राप्ताः । सीदतेः कर्मणि लिट् । अत्र स्वभावोक्तिरनुप्रासश्वालंकारौ । ओजःश्लेषसौशब्दसौकुमार्याघनेकगुणसंपत्तिः स्पष्टा ॥ Page #101 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः। ८९ लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः। आस्वादिताईक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥८१॥ लवङ्गेति ॥ लवङ्गमालाभिर्लवङ्गकुसुममाल्यैः कलितावतंसाः कृतभूषणाः। नारिकेलान्तरित्यव्ययम् । नारिकेलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् । समासे 'ऋक्पूर्-' इत्यादिना समासान्तप्रसङ्गात् । पिबन्तः। आस्वादिता भक्षिता आईक्रमुका आर्द्रपूगीफलानि यैस्ते । 'घोण्टा तु पूगः क्रमुकः' इत्यमरः । ते चमूचराः समुद्रादभ्यागतस्यातिथेः प्रतिपत्तिं गौरवं सत्कारमीयुः । 'प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च' इति विश्वः । अत्राभ्यागतप्रतिपत्तिप्राप्तेर्विशेषणगत्या अवतंसकलनादिपदार्थहेतुत्वाकाव्यलिङ्गमलङ्कारः । तेन समुद्रचमूचराणां गृहस्थाभ्यागतौपम्यप्रतीतेरलंकारेणालंकारध्वनिः ॥ तुरगशताकुलस्य परितः परमेकतुरंगजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय श्चिरविगतश्रियो जलनिधेश्व तदाभवदन्तरं महत् ॥ ८२॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके पुरीप्रस्थानो नाम तृतीयः सर्गः ॥३॥ तुरगेति ॥ परितस्तुरगशतैराकुलस्य । अपरिमिताश्वस्येत्यर्थः । प्रतिपथं प्रतिमार्गम् । यथार्थेऽव्ययीभावे समासान्तः । प्रमथिताः क्षुण्णा भूभृतो राजानो, गिरयश्च येन तस्य । न तु स्वयं केनापि मथितस्येति भावः । सततं धृता श्रीः शोभा, रमा च येन तस्य धृतश्रियः पुरोऽग्रे, नगराद्वा परिचलतः परिगच्छतः बलो रामस्तस्यानुजस्य हरेर्बलस्य सैन्यस्य । 'बलं सैन्ये बलो रामे' इत्युभयत्रापि शाश्वतः । परं केवलमेकस्यैव तुरंगस्य जन्म जन्ममात्रं यस्मात्तस्यैकतुरंगजन्मनः । एकोऽपि जात एव न त्वस्तीति भावः । महीभृता मन्दराद्रिणा, राज्ञा च मथितस्य । न तु स्वयं कस्यापि मन्थिता । सततं विगतश्रियः। उत्पत्त्यनन्तरमेवास्या हरिस्वीकरणादिति भावः । जलनिधेश्च तदा प्रस्थानलमये महदन्तरं दूरगमनादिव्यवधानं, उक्तरीत्या महत्तारतम्यं चाभवत् । अत्रोपमेयस्य हरिबलस्योपमानाजलधेराधिक्यवर्णनाध्यतिरेकालंकारः । पञ्चकावली वृत्तम् । 'नभजजजा जरी नरपते कथिता भुवि पञ्चकावली' इति लक्षणात् । धृतश्रीवृत्तमिति कश्चित् । 'नभजपुरस्कृता जजजरा रचिता भुवि रुद्रादिक्पतिः' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध काव्यव्याख्याने सर्वकषाख्ये तृतीयः सर्गः ॥ ३ ॥ Page #102 -------------------------------------------------------------------------- ________________ शिशुपालवधे चतुर्थः सर्गः। निःश्वासधूमं सह रत्नभाभिर्भित्वोत्थितं भूमिमिवोरगाणाम् । नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥ १ ॥ निःश्वासेति ॥ नीलोपलैरिन्द्रनीलमणिभिः स्यूताः प्रोता विचित्रा नानावर्णा धातवो गैरिकादयो यस्य तम् । अत एव रत्नभाभिर्मणिप्रभाभिः सह भूमि भित्त्वोत्थितमूर्ध्वं निर्गतं उरगाणां निःश्वासधूमं फूत्कारबाप्पमिव स्थितं रैवतकाख्यं गिरिमसौ हरिददर्श । स्यूतेति सीव्यतेः कर्मणि क्तः। 'च्छ्वोः शूडनुनासिके च' इत्युडादेशे यणादेशः । अत्र गिरेर्विशिष्टवर्णनीयत्वेन विशिष्टधूमत्वोप्रेक्षणाद्गुणनिमित्तजातिस्वरूपोत्प्रेक्षा । सर्गेऽस्मिन्नानावृत्तानि । तत्रादावष्टादशोपजातयः । तल्लक्षणं तूक्तमतीतानन्तरसर्गादौ । अनासर्गसमाप्तेगिरिवर्णनमेव ॥ गिरिं ददर्शेत्युक्तम् , कीदृगित्याकाङ्क्षायामेकान्वयेनाष्टाभिर्विशिनष्टिगुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानः । विन्ध्यायमानं दिवसस्य भर्तुर्मार्ग पुना रोद्भुमिवोन्नमद्भिः॥२॥ गुर्वीरिति ॥ गुर्वीमहतीईषदः । शिलातटीरित्यर्थः । 'पाषाणप्रस्तरग्रावोपलाइमानः शिला दृषत्' इत्यमरः। उपर्युपरि दृषदां समीपे । उपरिप्रदेश इत्यर्थः । 'उपर्यध्यधसः सामीप्ये' इति द्विर्भावे तद्योगाद्वितीयेति । यथाह वामनः-'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । समन्तादजस्रमुन्नमद्भिः । देशकालाविच्छेदेनोत्पतद्भिरित्यर्थः । अत एव तैरम्बुमुचां वितानैर्मेघवृन्दैनिमित्तैर्दिवसस्य भर्तुः सूर्यस्य मार्ग पुना रोद्धम् । संहितायां रोरि' इति रलोपः 'ढलोपे-' इति दीर्घः। विन्ध्यायमानमिव विन्ध्यवदाचरन्तम् । तद्वद्वर्धमानमिव स्थितमित्यर्थः । आचारे क्यङन्ताल्लटः शानजादेशः । अत्राविच्छिन्नमेघोन्नमनेन विन्ध्यायमानत्वोत्प्रेक्षणाक्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा ॥ क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् । श्रितं शिलाश्यामलताभिरामं लताभिरामत्रितषट्पदाभिः ॥३॥ क्रान्तमिति ॥ पुनर्नवानि प्रभाजालानि बिभ्रतीति नवप्रभाजालभृतस्तेषां मणीनां संबन्धिन्या काञ्चनवप्रभाजा स्वर्णसानुप्रसृतया रुचा दीत्या क्रान्तं व्याप्तम् । पुनः शिलानां मेचकोपलानां, इन्द्रनीलानां वा श्यामलतया श्यामलिम्ना अभिरामम् । तथा आमन्त्रितषट्पदाभिर्मकरन्दपूरितत्वादाहूतभृङ्गाभिर्लताभिः श्रितं व्यातम्। इतःपरं ध्यन्तरमेकं यमकं वक्ष्यति। तत्र तदेवालंकारः । अर्थालंकारस्त्वभ्युच्चेय इति यथासंभवमूह्यम् । यमकलक्षणं त्वाचार्यदण्डिनोक्तम् -- 'अव्यपेतव्यपेतात्मा या वृत्तिर्वर्णसंहतेः। यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादयमकानां प्रकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ अत्यन्तंबहवस्तेषां भेदाः संभेदयोनयः । सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ॥' इति ॥ Page #103 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४॥ सहस्रेति ॥ सहस्रमिति संख्या येषां तैः सहस्रसंख्यैः शिरोभिः शिखरैः शीर्षश्च गगनं तथा तत्संख्यैः पादैः प्रत्यन्तपर्वतैश्चरणैश्च भुवं च व्याप्य वितिष्ठमानमवतिष्ठमानम् । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । विलोचनयोर्यत्स्थानं योग्यदेशस्तद्गतावुष्णरश्मिनिशाकरौ यस्य तम् । अन्यत्र नेत्रीकृतार्केन्दुमित्यर्थः । अतः साधु सत्यं हिरण्यगर्भ ब्रह्माणमिवेत्युत्प्रेक्षा । 'सहस्रशीर्षा' इत्यादिश्रुतेरिति भावः । हिरण्यगर्भो निधिगर्भश्च ॥ क्वचिजलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभमानमिव स्मरारिम् ॥५॥ क्वचिदिति ॥ पुनः क्वचिदेकदेशे जलानामपायेनापगमेन विपाण्डुराणि शुभ्राणि अतएव धौतं क्षालितं यदुत्तरीयं तत्प्रतिमा तत्समा छविर्येषां तान्यभ्राणि मेघान्बिभ्राणं दधानम् । भृजः कर्तरि शानच् । अत एवोमायाः पार्वत्या अङ्गसङ्गेनार्धभागेन विभक्तं एकभागस्थापितं भस्म यस्य तं स्मरारि हरमिव स्थितमित्युपमालंकारः॥ छायां निजस्त्रीचटुलालसानां मदेन किंचिच्चटुलालसानाम् । कुर्वाणमुत्पिञ्जलजातपत्रैविहंगमानां जलजातपत्रैः॥६॥ छायामिति ॥ पुनः निजस्त्रीणां चटुषु प्रियवचनेषु लालसा लोलुपाः । 'लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि च' इति यादवः। तेषां निजस्त्रीचटुलालसानां मदेन किंचिदीषच्चटुलाश्चपलास्तेऽलसाश्च । विशेषणयोरपि मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । तेषां चटुलालसानां विहंगमानां हंसादीनामुत्पिञ्जलानि जातान्युत्पिालजातानि । पूर्ववत्समासः। तानि पत्राणि येषां तैरुत्पिञ्जलजातपत्रैः । उत्पिञ्जरीभूतलैरित्यर्थः । रलयोरभेदः । जलजातपत्रै लजैरेवातपत्रैश्छायां कुर्वाणम् । एतेन महती कमलाकरसमृद्धिय॑ज्यते । यमकरूपकयोः संकरः ॥ स्कन्धाधिरूढोज्वलनीलकण्ठानुर्वी रुहः श्लिष्टतनूनहीन्द्रैः। प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥ ७ ॥ स्कन्धेति ॥ पुनः स्कन्धं प्रकाण्डमधिरूढा उज्वला नीलकण्ठा मयूरा येषां तान् , अन्यत्र स्कन्धाधिरूढा अंसस्थिता नीलाः कण्ठा येषां तान् । 'अंसप्रकाण्डयोः स्कन्धः' इति विश्वः । अहीन्द्रैः श्लिष्टतनून्व्याप्तदेहान् । एकत्र तदावासत्वादन्यत्र तद्भूषणत्वाञ्चेति भावः । प्रनर्तितान्यनेकलतानामेव भुजानां लतानामिव च भुजानामग्राणि येषां तानत एवानन्तानसंख्यान्रुद्रानिव स्थितानित्युप्रेक्षा । उर्वीरुहो वृक्षान्धारयन्तमुद्वहन्तम् ॥ Page #104 -------------------------------------------------------------------------- ________________ शिशुपालवधे विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः । नवोलपालंकृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥ ८ ॥ विलम्बीति ॥ विलम्बिनो नीलोत्पलान्येव कर्णपूराः कर्णावतंसा यासां ताः। लोध्रेण लोध्ररजसा गौरीरवदाताः । 'षिगौरादिभ्यश्च' इति ङीष् । कपोलभित्तीः स्त्रीणां गण्डस्थलीरिव स्थिताः । उपमान्तरमाह-नवा उलपा बल्वजतृणानि । 'उलपा बल्बजाः प्रोक्ताः' इति विश्वः । तैरलंकृतानां सैकतानामाभेवाभा यासां ताः । कुतः-शुचीः शुद्धाः शैवलिनी: शैवलवतीरपो दधानम् । शुचित्वशैवलवत्त्वाभ्यां बिम्बप्रतिबिम्बभावेनोपमाद्वयम् ॥ राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् । कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ९ राजीवेति ॥ पुनः राजीवराजीनां पद्मपतीनां वशा अधीना लोलाश्चला भृङ्गा यस्मिंस्तं राजीवराजीवशलोलभृङ्गं तरूणां ततिभिः सङ्घरुष्णमातपं मुष्णन्तं हरन्तं कान्ता रम्या अलकान्ताश्चर्णकुन्तलाग्राणि यासां ताः कान्तालकान्ताः । 'अलकाश्चूर्णकुन्तलाः' इत्यमरः । सुराणां ललनाः स्त्रियोऽप्सरसो रक्षोभी राक्षसैरक्षोभितमनभिभूतं यथा तथोद्वहन्तम् ॥ नन्वल्पीयानयं कश्चिदैवतको नाम शिलोच्चयः कथमियद्वर्ण्यत इति शङ्का निरस्थति मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः। भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः १० मुद इति ॥ मुरारेर्मुदे संतोषायामरैः कर्तृभिः सुमेरोः शृङ्गैः करणैरानीयोपचितस्य वर्धितस्य । आनीतैः शृङ्गैरुपचितस्येत्यर्थः । उपचये करणानां शृङ्गाणामर्थादानयनकर्मत्वम् । यस्य शैलस्योच्छ्राय औन्नत्यं, सौन्दर्यं च तयोर्गुणा उस्कर्षा उद्दामगिरां प्रगल्भवाचां कवीनां मृषा उद्यन्त इति मृषोद्याः मिथ्यावाच्या न भवन्ति । मेरुशृङ्गेषु सर्वगुणसंभवादिति भावः । 'राजसूयसूर्यमृषोद्य-' इत्यादिना वदेः क्यबन्तो निपातः । उत्कृष्टः श्राय उच्छ्राय इति घजन्तेनोपसर्गस्य समासः । न तूपसृष्टान्प्रत्ययः। 'श्रिणीभुवोऽनुपसर्गे' इति नियमात् । मुद इत्यादिश्लोकसप्तके यच्छब्दस्य दृष्टोऽयं शैलः स इत्यनेनान्वयः । मेरुशृङ्गासंबन्धेऽपि संबन्धवर्णनादतिशयोक्तिः ॥ यतः पराया॑नि भृतान्यनूनः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि । आढ्यादिव प्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ११ यत इति ॥ लोकः पराानि श्रेष्ठान्यनूनैर्महद्भिर्भूरिभिः प्रभूतैः । 'प्रभूतं प्रचुरं प्राज्यं भूरि' इत्यमरः । प्रस्थैः सानुभिर्मानविशेषैश्च । 'प्रस्थोऽस्त्री सानुमा Page #105 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। ९३ नयोः' इत्यमरः । भृतानि संभृतानि मितानि च उच्छिखान्युदश्मीनि अमितान्यपरिमितानि रत्नानि यतः शैलादाढ्याद्धनिकात् । 'इभ्य आढ्यो धनी' इत्यमरः । प्रपणो व्यवहारः प्रयोजनमस्य प्रापणिको वणिक् । 'तदस्य प्रयोजनम्' इति ठक् । 'पण्याजीवाः प्रापणिका वैदेहा नैगमाश्च ते वणिजः' इति वैजयन्ती । तस्मादिवाजस्रं मुहुर्जग्राह । उपमालंकारः ॥ अखिद्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने । भृङ्गावलियस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥१२॥ अखिद्यतेति ॥ आसन्नमौन्नत्यात्संनिहितमत एवोदग्रतापं दुःसहतापं रविं दधानेऽपि अरविन्दधान इति विरोधः । अरविन्दानां धाने निधाने इति परिहारः। धीयतेऽस्मिन्निति धानम् । अधिकरणे ल्युट । शब्दश्लेषमूलो विरोधालंकारः । यस्य गिरेस्तटे निपीतरसा नितरां पीतमकरन्दा नमन्ति तामरसानि पङ्केरुहाणि भारभूतया यया सा नमत्तामरसा। 'पङ्केरुहं तामरसम्' इत्यमरः । अत एव मत्ता भृङ्गावलि खिद्यत न खिन्ना । खिदेवादिकाकर्तरि लङ् । अत्यन्तसूर्यसंनिधानेऽप्यरविन्दाकरविहारान्मधुकरास्तापं नापुरित्यर्थः ॥ यत्राधिरूढेन महीरुहोचैरुन्निद्रपुष्पाक्षिसहस्रभाजा। मुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः॥१३॥ यत्रेति ॥ यत्र शैले रजतस्य विकारो राजतः। 'प्राणिरजतादिभ्योऽञ्' इत्यप्रत्ययः । स चासौ गण्डशैलश्च । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । उन्निद्राणि विकसितानि पुष्पाण्यक्षीणीवेत्युपमितसमासः । तेषां सहस्रं भजतीति तद्भाजा अधिरूढेनोचैर्महीरुहा वृक्षण सुराधिपेन देवेन्द्रेणाधिष्ठितो यो हस्ती मल्ल इव तस्यैरावतस्य लीलां शोभां दधौ। ऐरावतस्य धावल्यादिति भावः। 'हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके' इति विश्वः । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शनालंकारः ॥ विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥१४॥ विभिन्नेति ॥ गरुडाग्रजेनारुणेन विभिन्नवर्णा अन्यथाकृतवर्णाः । अरुणिमानमापादिता इत्यर्थः । सूर्यस्य संबन्धिनो रथं वहन्तीति रथ्या रथाश्वाः । 'तद्वहति रथयुगप्रासङ्गम्' इति यत्प्रत्ययः । यत्र शैले वंशकरीरनीलैवंशाङ्कुरश्यामै रत्नैः । मरकतैरित्यर्थः । 'वंशाङ्करे करीरोऽस्त्री' इत्यमरः । वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वादपौनरुक्तयम् । अत एवैकार्थपदमप्रयोज्यमित्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष इत्याह वामनः । न विशेषश्वेदिति । परितः स्फुरन्त्या रुचा स्वप्रभया करणेन, पुनः स्वां रुचं निजहरितवर्णमेवानिन्यिरे आनीताः । नयतेर्द्विकर्मकात्प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अत्र विभिन्नवर्णा इत्येकस्तद्गुणः । रथ्यानां Page #106 -------------------------------------------------------------------------- ________________ शिशुपालवधे स्वगुणत्यागेन गरुडाग्रजगुणग्रहणात्पुनस्तत्त्यागेन मरकतगुणग्रहणादपरस्त गुणस्त दुपजीवीति सजातीययोः संकरः । तेन गिरेः सूर्यमण्डलपर्यन्तमौन्नत्यं वस्तु व्यज्यते । 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः ' ॥ ९४ यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः । वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ||१५|| यत्रेति ॥ यत्र शैले समुन्नमद्भिः समुत्पतद्भिरम्बुवा है रुज्झिताभिस्त्यक्ताभिरद्भिर्मुहुः समुन्नं सम्यगुन्नं क्विन्नम् । सिक्तमित्यर्थः । 'उन्दी क्केदने' इति धातोः कर्मणि क्तः । ' नुदविद -' इत्यादिना निष्ठानत्वम् । विपन्नगा विगतसर्पा न भवन्तीत्यविपन्नगाः । सपन्नगा इत्यर्थः । तेषामविपन्नगानां नगानां वृक्षाणां वनविषपावकोत्था विषाग्निसमुत्था विपदापन्न बबाधे । नित्यं वर्षानुसङ्गाद्विषाग्निक्षोभो वृक्षाणामकिंचित्कर इति भावः ॥ फलद्भिरुष्णांशुकराभिमर्शात्काशनवं धाम पतङ्गकान्तैः । शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् १६ फलद्भिरिति ॥ यः शैल उष्णांशुकराभिमर्शादर्ककरसंपर्कात् कृशानोरिदं काशनवमाग्नेयं धाम तेजः फलद्भिरुद्भिरद्भिः । अग्निकरसामर्थ्याभिव्यञ्जकैरिति भावः। पतङ्गकान्तैः सूर्यकान्तैः । दृष्टान्तभूतैरिति भावः । गुणानां संक्रान्तिमन्यत्र संक्रमणम् । संक्रान्तगुणानित्यर्थः । पात्रगुणादाधारगुण सहकारादाक्रान्तः प्राप्तो गुणातिरेकः कार्यविशेषाधानरूपो गुणोत्कर्षो यस्यास्तां शशंस प्रतिपादयामास । अर्कत्विषां सर्वत्र संक्रमणाविशेषेऽपि सूर्यकान्तेष्वेव ज्वलनजननदर्शनात्सर्वत्रापि संम्यकारिणां गुणानामाधारगुण सहकारात्कार्यविशेषाधायकत्वमिति निश्चयोऽत्रैव जायत इत्यर्थः । ततश्च सहकारशक्तिविरहिणी सहजशक्तिरनुपकारिणीति भावः । वृत्त्यनुप्रासोऽलंकारः ॥ दृष्टोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान । क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥ १७ ॥ पीति ॥ मुष्टोऽपि स शैलो मुरारेरपूर्वेणादृष्टपूर्वेण तुल्यमपूर्ववत् । 'तेन तुल्यं क्रिया चेत् -' इति वतिः । विस्मयमाततान । अतिरमणीयत्वादिति भावः । तथाहि — क्षणे क्षणे प्रतिक्षणम् । वीप्सायां द्विर्भावः । नवतामपूर्ववद्भावमुपैतीति यत्, तन्नवत्वोपगमनमेव रमणीयताया रूपं स्वरूपम् । लक्षणमित्यर्थः । अत्र रमणीयत्वलक्षणस्य वाक्यार्थस्य विस्मये हेतुत्वसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ उच्चारणज्ञोऽथ गिरा दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् । उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कंधरं दारुक इत्युवाच ॥ १८ ॥ उच्चारणज्ञ इति ॥ अथ हरिविस्मयानन्तरं गिरां वाक्यानामुच्चारणं जानातीत्युच्चारणज्ञ उक्तिकुशलः | 'आतोऽनुपसर्गे कः' इति कप्रत्ययः । ' इगुपधे 'त्यादिना Page #107 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। 'आकारादनुपपदात्कर्मोपपदो भवति विप्रतिषेधेन' इति वचनात् । दारुकः कृष्णसारथिरुच्चा उन्नता रणन्तः शब्दायमानाः पक्षिगणा यासु ता रणत्पक्षिगणास्तटीर्दधानं तं पूर्वोक्तं धरतीति धरं पर्वतम् । पचाद्यच् 'अहार्यधरपवताः' इत्यमरः । द्रष्टुमुल्कमुत्सुकम् । 'उत्क उन्मनाः' इति निपातः । उत्कंधरमौत्सुक्यादुन्नमितकंधरं शौरिमवेक्ष्य इति वक्ष्यमाणक्रमेण वाचमुवाच । नहीङ्गितज्ञोऽवसरेऽवसीदतीति भावः ॥ इतःप्रभृति यमकानन्तरश्लोकेषु वसन्ततिलकावृत्तं नियमेनाहआच्छादितायतदिगम्बरमुच्चकैः माक्रम्य संस्थितमुदग्रविशालशृङ्गम् । मूर्ध्नि स्खलत्तुहिनदीधितिकोटिमेन मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ १९ ॥ आच्छादितेति ॥ आच्छादितान्यावृतानि आयतानि दीर्घाणि दिशोऽम्बरं खं च दिगम्बराणि येन तम् , अन्यत्राच्छादितं वसितमायतं दिगेवाम्बरं वासो येन तं तथोक्तम् । उच्चकैरुन्नतां गां भुवमाक्रम्य व्याप्य संस्थितम् । तथोदग्रा. ण्युन्नतानि विशालानि च शृङ्गाणि शिखराणि यस्य तम् । अन्यत्रोदने विशाले शृङ्गे विषाणे यस्य तं उच्चकैरुन्नतं गां वृषभमाक्रम्य अधिष्ठाय संस्थितमित्यर्थः। 'शृङ्गं विषाणे शिखरे' इति, 'गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः । अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥' इति च विश्वः । मूर्ध्नि शिखरे । अन्यत्र शिरसि स्फुरन्ती तुहिनदीधितेरिन्दोः कोटिः रश्मिः, कला च यस्य तमेनं नगेशं नगश्रेष्ठं रैवतकं कैलासनायकमीश्वरं चोदीक्ष्य को न विस्मयते । सर्वोऽपि विस्मयत इत्यर्थः । नेयं तुल्ययोगिता । प्रकृताप्रकृतविषये तदनुत्थानात् । नापि समासोक्तिः । तस्या विशेषणसाम्यजीवित्वात् । नापि श्लेषः । उभयश्लेषे विशेप्यश्लेषयोगात् । तस्मात्प्राकरणिकार्थमात्रपर्यवसिताभिधाव्यापारेणापि शब्ढ़ेनार्थान्तरधीकृद्धवनिरित्याहुः । तदुक्तं काव्यप्रकाशे-'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृघ्यापृतिरञ्जनम् ॥' इति । वृत्तलक्षणं तु-'उक्ता वसन्ततिलका तभजा जगा गः' इति ॥ उदयति विततो रश्मिरजावहिमरुचौ हिमधानि याति चास्तम् वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्२० उदयतीति ॥ वितता अाश्च रश्मिरजवो रश्मयो रजव इव यस्य तस्मिन्दिततोलरश्मिरजौ अहिमरुचौ सूर्ये उदयत्युदयमाने । 'अय गतौ' इति स्वरितेतं केचिदिच्छन्ति । ततः शतरि सप्तमी । तथा विततोलरश्मिरजौ हिमधाम्नि चन्द्रे चास्तं यात्यस्तमयमाने । यातेः शतरि सप्तमी । अयं गिरिविलम्बिना विशेष लम्ब १'इट किट कटी गतौ' इत्यत्र केचिदीकारप्रश्लेषं वर्णयन्ति इति, अनेनैव श्लोकेन कविना 'घण्टामाघः' इति नाम लब्धम् , इति च वल्लभदेवः. Page #108 -------------------------------------------------------------------------- ________________ शिशुपालवधे मानेन घण्टाद्वयेन परिवारितस्य वेष्टितस्य वारणेन्द्रस्य लीलां शोभा वहति । अत्र लीलामिव लीलामिति सादृश्याक्षेपानिदर्शना । तथा सूर्याचन्द्रमसावस्य कुक्षिसमानकक्षा बिभ्रत इति महदौन्नत्यं व्यज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति ॥ वहति यः परितः कनकस्थलीः सहरिता समाननवांशुकः । अचल एष भवानिव राजते स हरितालसमाननवांशुकः॥२१॥ वहतीति ॥ लसमाना दीप्यमाना नवांशवो यस्य स लसमाननवांशुकः। शैषिकः कप्प्रत्ययः । योऽचलः सहरिताः सदूर्वाः । 'हरितेति च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति विश्वः । कनकस्य स्थलीः स्वर्णभूमीः। 'जानपद-' इत्यादिना अकृत्रिमार्थे ङीष् । परितो वहति स एषोऽचलः हरितालेन कर्चुरेण समानं नवमंशुकं वासो यस्य स हरितालसमाननवांशुकः पीताम्बरो भवानिव राजते। द्रुतविलम्बितं वृत्तम् । 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥ पाश्चात्यभागमिह सानुषु संनिषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनालपनोपमान मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ २२ ॥ पाश्चात्येति ॥ इहाद्रौ सानुषु संनिषण्णाः स्थिता जनाः शान्तमलं कल. ङ्कस्य पुरोवर्तित्वानिष्कलङ्कमत एव सान्द्रतरमंशुजालं यस्य तं संपूर्ण परिपूर्ण लब्धं प्राप्तं ललनालपनोपमानं स्त्रीमुखसादृश्यं येन तम् । 'आननं लपनं मुखम्' इत्यमरः । कुतः । उत्सङ्गसङ्गिहरिणस्याङ्कस्थमृगस्य मृगाङ्का मृगचिह्ना मूर्तिर्यस्य तस्य मृगाङ्कमूर्तेश्चन्द्रस्य पश्चाद्भवः पाश्चात्यः । 'दक्षिणापश्चात्पुरसस्त्यक्' । सचासौ भागश्च तं पाश्चात्यभागं पृष्ठभागं पश्यन्ति । पाश्चात्यभागदर्शनातिशयोतया तादृगौन्नत्यध्वनिः । वसन्ततिलका वृत्तम् ॥ कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः । कुर्वन्ति द्यामुत्पतन्तः स्मरातस्वलॊकस्त्रीगात्रनिर्वाणमत्र ॥२३॥ कृत्वेति ॥ अनाद्री निर्झरौघा गिरिनदप्रवाहाः। 'प्रवाहो निर्झरो झरः' इत्यमरः । चूतवृक्ष इत्यादिवत्सामान्यविशेषभावादपुनरुक्तिः । पुंवत्पुंभिस्तुल्यम् । 'तेन तुल्यं क्रिया चेत्-' इति वतिः। उच्चै गुभ्योऽतटेभ्यः। 'प्रपातस्त्वतटो भृगुः' इत्यमरः । ग्राव्णां शिलानां मूर्ध्नि पातं कृत्वा पतित्वा जर्जराः शकलीभूता द्यामाकाशं प्रत्युत्पतन्तः स्मरार्तानां स्वलॊकस्त्रीणां खेचरीणामप्सरसां गात्रनिर्वाणमङ्गनिर्वृतिं कुर्वन्ति । 'अनुष्टानासमर्थस्य वानप्रस्थस्य जीर्यतः । भृग्वग्निजलसं. पातैमरणं प्रविधीयते ॥' इति विहितभृगुपातिनां पुंसां स्वर्लोकगामिनामिहोपमा. नता । शालिनी वृत्तम् । 'शालिन्युक्ता न्तौ तगौ गोऽब्धिलोकैः' इति ॥ Page #109 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। स्थगयन्त्यमूः शमितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकातखराः । जगतीरिह स्फुरितचारुचामीकराः सवितुः क्वचित्कपिशयन्ति चामी कराः ॥ २४ ॥ स्थगयन्तीति ॥ इहाद्रौ क्वचिदमूर्जगतीभूमीः। 'जगती भुवने भूमौ' इति विश्वः । शमिताश्चातकानामार्तस्वरा यैस्ते शमितचातकार्तस्वराः । 'सर्वसहापतितमम्बु न चातकानाम्' इति भूमिगतस्य तेषां विषाभत्वादभौमाम्बुपानेनोजीवयन्तीत्यर्थः। किंच तडिद्भिस्तुलितान्युपमितानि कान्तानि कार्तखराणि सुवर्णानि यैस्ते तडित्तुलितकान्तकार्तस्वराः । तडित्स्फुरणे तेषामपि तद्वत्स्फुरणादिति भावः । ते जलदाः स्थगयन्त्याच्छादयन्ति । 'स्थग आच्छादने' इति चौरादिकः । क्वचित्तु स्फुरितान्युल्लसितानि चारूणि चामीकराणि सुवर्णानि यैस्ते स्फुरितचारुचामीकरा अमी सवितुः कराः, आतपाश्च कपिशयन्ति कपिशिताः कुर्वते । कचि. दृष्टिः क्वचिदातपश्चेति महदाश्चर्यमिति भावः । पथ्या वृत्तम् । 'सजसा यलो च सह गेन पथ्या मता' ॥ उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै रुत्तम्भितोडुभिरतीवतरां शिरोभिः । श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ २५ ॥ उत्क्षिप्तमिति ॥ उच्छ्रिता उरिक्षप्ताः सितांशोश्चन्द्रस्य करा अंशवो हस्ताश्चावलम्बो येषां तैः। उत्तम्भितान्युडूनि यैस्तैः । उडूनि चावष्टभ्येत्यर्थः । शिरोभिः, शिखरैर्मस्तकैश्चातीवरां भृशतरम् । अतीवशब्दादव्ययादामुप्रत्ययः । उरिक्षप्यमु. द्यम्य वृतं अन्तरीक्षं श्रद्धेयः सादृश्याद्विश्वसनीयो निर्झरजलमिति व्यपदेशो व्यवहारो यस्य तत् । दृढतरां निझरजलधियं कुर्वदित्यर्थः । अस्याद्रेस्तटेषु विष्वक्समन्तात्पतति स्फुटं सत्यम् । इन्दुकरानुडूनि चावष्टभ्य शिरोभिर्धियमाणमपि दुरुद्धरत्वाद्रश्यदन्तरीक्षमेवेदं न तु जलम् । सादृश्यात्तु व्यपदेशो दुर्वार इति सर्वतः पातिता, निझरजलं चोत्प्रेक्ष्यते । तेनोत्सेधविस्तारावस्य व्यज्यते ॥ एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥२६॥ एकत्रेति ॥ एकत्र एकस्मिन्भागे स्फटिकस्य यत्तटं तस्यांशुभिभिननीरा मिश्रोदकाः । शुभ्रजला इत्यर्थः । अपरत्रापरस्सिन्भागे नीलाश्मनामिन्द्रनीलानां विशु० ९ Page #110 -------------------------------------------------------------------------- ________________ शिशुपालवधे द्युतिभिर्भिदुराणि मिश्राण्यम्भांसि यासां ताः । नीलसलिला इत्यर्थः । इहाद्वैौ सरितः कलिन्दस्याद्रेरपत्यं स्त्री कालिन्दी यमुना । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्यमरः । तस्या जलैर्जनिता श्रीः शोभा यस्यास्तस्याः । तत्संगताया इत्यर्थः । सुरापगाया गङ्गाया वैदग्धीं शोभां श्रयन्ते भजन्ति । विदग्धस्य भावो वैदग्धी । ब्राह्मणादित्वात् 'गुणवचन-' इत्यादिना व्यन्प्रत्ययः । 'षिगौरादिभ्यश्च' इति ङीष् । सोऽपि त्वस्य बाहुलकत्वादिह वैकल्पिकः । अत एव 'ध्यञः विकरणादिकारो बहुलम्' इति वामनः । अत्र सितासितमणिगुणग्रहणात्सरितां यमुनासंगतगङ्गाशोभासादृश्याक्षेपात्तगुणोत्थापिता निदर्शना । प्रहर्षिणी वृत्तम् । 'नौज गस्त्रिदशयतिः प्रहर्षिणीयम्' ॥ ९८ इतस्ततोऽस्मिन्विलसन्ति मेरोः समानवप्रे मणिसानुरागाः । स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः २७ इत इति ॥ मेरोः समानवप्रे तुल्यप्रस्थे अत एवास्मिन्नद्रावितस्ततो मणिसानुरागा रत्नतटकान्तयो विलसन्ति प्रसरन्ति । किंच नवं प्रेम यस्य तस्मिन्नवप्रेमणिपत्य अनुरागेण सह वर्तन्त इति सानुरागाः सुरसुन्दरीभिः समाः सरूपाः स्त्रियश्चेतस्ततो विसलन्ति क्रीडन्ति । अन्योन्यमनुरागिणोऽनुरूपाश्चेह विलासिनस्तदनुरूपाणि च विहारस्थलानि सन्तीति भावः ॥ उच्चैर्महारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा । अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलाम् ॥ २८ ॥ उच्चैरिति ॥ इहाद्रौ सान्द्रया सुधया लेपविशेषेणामृतेन वा सवर्णा समानवर्णा । 'ज्योतिर्जनपद-' इत्यादिना समानस्य सादेशः । 'लेपभेदेऽमृते सुधा' इति वैजयन्ती । महारजतराजिविराजिता काञ्चनरेखाशोभिता असौ पुरोवर्तिनी उच्चैरुन्नता दुर्वर्णभित्ती रजतभित्तीः । ' महारजतकाञ्चने' इति, 'दुर्वर्ण रजतं 'रूप्यम्' इति चामरः । भस्मना परिपाण्डुरितस्य स्मरारेरुद्वह्नि उद्गतार्चिलोचनमेव ललामं भूषणं यस्य तस्य ललाटस्य लीलां शोभामभ्येति भजतीति निदर्शनालंकारः । ‘ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु' इत्यमरः ॥ अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्विभर्ति २९ अयमिति ॥ अयं गिरिरतिजरठा अतिकठिनाः, अतिजरतीश्च । 'जरठः कठिने जीर्णे' इति वैजयन्ती । प्रकामं गुर्वीः श्रेष्ठाः, स्थौल्याद्दुर्भराश्च प्रकामगुर्वीः । 'गुरुस्तु गीतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दार्णवः । विस्पष्टपटुवत् 'मयूर - व्यंसकादयश्च' इति समासः । अलघुभिर्विलम्बिभिर्लम्बमानैः पयोधरैर्मेधैः, Page #111 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। स्तनैश्च । 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः। उपरुद्धा आवृताः निबद्धाः सततं सर्वदासुमतां प्राणभृतामगम्यरूपा अत्युन्नतत्वादुरारोहवरूपाः, अन्यत्र वृद्धत्वाद्गमनानह विग्रहाः । 'त्यजेदन्त्यकुलोत्पन्नां वृद्धां स्त्री कन्यकां तथा' इति गमननिषेधादिति भावः । परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु ताः परिणतदिक्करिकाः। 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । 'इनः स्त्रियाम्' इति समासान्तः कप्रत्ययः। अन्यत्र परिणताः किणीभूता दिशो दन्तक्षतविशेषाः करिकाः, नखवणाश्च यासां ताः । 'दिग्दष्टे वर्तुलाकारे करिका नखरेखिका' इति वैजयन्ती । तटीर्बिभर्ति । अत्र प्रकृततटीविशेषणमहिम्ना अप्रकृतवृद्धाङ्गनाप्रतीतेः समासोक्तिः । पुष्पिताग्रा वृत्तमुक्तम् ॥ धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी । श्यामीभूताः कुसुमसमूहेऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥३०॥ धूमेति ॥ इहाद्रौ पुरोऽग्रे वर्णेनाग्नेः सदृशि समाने । अग्निसमानवर्ण इत्यर्थः । सौवर्णे सुवर्णविकारे तटे कुसुमसमूहे लीनां स्थिताम् । 'ल्वादिभ्यश्च' इति निष्ठानत्वम् । अलीनां भृङ्गाणामालीमावलिं बिभ्राणा अत एव श्यामीभूता अमी तरवो धूमाकारं धूमसाम्यं दधति । त्वं पश्य । स्वर्णतटमग्निवद्भाति, श्यामास्त. रवो धूमवद्भान्तीत्युपमा। जलधरमाला वृत्तम् । 'अब्ध्यङ्गैः स्याजलधरमाला म्भौ मौ' इति लक्षणात् ॥ व्योमस्पृशः प्रथयता कलधौतभित्ती__ रुन्निद्रपुष्पचणचम्पकपिङ्गभासः । सौमेरवीमधिगतेन नितम्बशोभा मेतेन भारतमिलावृतवद्विभाति ॥ ३१ ॥ व्योमेति ॥ व्योमस्पृशोऽभ्रंकषाः उन्निद्रेविकसितैः पुष्पैर्वित्ता उन्निद्रपुष्पचणाः । तेन वित्तः-' इति चणप्प्रत्ययः। ते च ते चम्पकाश्च तद्वत्पिङ्गभासः पिङ्गवर्णाः कलधौतभित्तीः कनकतटीः। 'कलधौत रौप्यहेनोः' इति विश्वः । प्रथयता प्रकटयता अत एव सौमेरवीं सुमेरुसंबन्धिनी नितम्बशोभां कटकलक्ष्मीमधिगतेन प्राप्तवता । 'गत्यर्थाकर्मक-' इत्यादिना गमेः कर्तरि क्तः । एतेन रैवतकाद्रिणा भारतं भरतस्य राज्ञ इदं भारताख्यं वर्ष भूखण्डम् । 'स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्' इत्यमरः। इलावृतवदिलावृतवर्षमिव विभातीत्युपमा । नवखण्डस्य जम्बूद्वीपस्य हिमाद्रेर्दक्षिणभूखण्डं हैमवतापरनामकं भारतवर्ष सुमेरुयोगात्सौमेरवापराख्यं मध्यमखण्डमिलावृतवर्षम् । अत एव 'नाम्नेदं भारतं वर्ष हिमाद्रेस्तच्च दक्षिणे । तेन हैमवतं नाम परेष्वप्येवमुन्नतम् ॥ इलावृतं सौमेरवं सुमेरोः परितो हि तत् ॥' इति वैजयन्ती ॥ Page #112 -------------------------------------------------------------------------- ________________ १०० शिशुपालवधे रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकत्रजैः । विविधरत्नमयैरभिभात्यसाववयवैरिव जङ्गमतां गतैः ॥ ३२ ॥ रुचिरेति ॥ असौ गिरिः रुचिरैरुज्वलैश्चित्रैर्नानावर्णैस्तनूरुहैर्लोमभिः शालन्त इति तथोक्तैः परितः प्रचलितैः प्रसरद्भिः प्रियकाः कम्बलप्रकृतयो मृगविशेषाः । ' प्रियको रोमभिर्युक्तो मृदूच्चमसृणैर्घनैः' इति वैजयन्ती । तेषां व्रजैः समूहैर्जङ्गमतां चरिष्णुतां गतैर्विविधरल मयैरवयवैः स्वाङ्गैरिव प्रतिभातीत्युत्प्रेक्षा । द्रुतविलम्बितं वृत्तम् । " द्रुतविलम्बितमाह नभौ भरौ” इति लक्षणम् ॥ 1 कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकखरैः । प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकखरैः ॥३३॥ कुशेशयैरिति ॥ अत्रादौ जलाशयोषिता जलाशयेषु हृदेषु उषिता वसन्तः 1 'गत्यर्थाकर्मक-' इत्यादिना वसतेः कर्तरि क्तः । संप्रसारणम् ' मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्तमानार्थता । कलभात्रिंशद्वर्ष करिणः । 'त्रिंशद्वर्षस्तु कलभः ' इति वैजयन्ती । विकस्वरैर्विकसनशीलैः । 'स्थेश भासपिसकसो वरच्' । कुशेशयैः शतपत्रैः । 'शतपत्रं कुशेशयम्' इत्यमरः । मुदा प्रीत्या रमन्ते क्रीडन्ति । करिविहाराणां कमलाकराणामयमाकर इति भावः । किंच कला अव्यक्तमधुराः । विकारो मानसो भावः स प्रयोजनमेषां भाविकाः । उद्दीपका इत्यर्थः । कलभाविकाश्च स्वराः षड्जादयो येषां तैः कलभाविकस्वरैः सिद्धगणैः सुरसङ्घैर्योषितां स्वस्त्रीणामन्ते समीपे उदारमुचैः प्रगीयते च । भूस्वर्गोऽयमिति भावः ॥ आसादितस्य तमसा नियतेर्नियोगा दाकाङ्क्षतः पुनरपक्रमणेन कालम् । पत्युस्त्विषामिह महौषधयः कलत्रस्थानं परैरनभिभूतममूर्वर्हन्ति ॥ ३४ ॥ आसादितस्येति ॥ इहाद्रौ अमूर्महौषधयो नियतेर्नियोगादस्मिन्काले इदं भावीति दैवशासनात् । तमसान्धकारेण तत्प्रायेण व्यसनेन वा आसादितस्याक्रान्तस्य पुनरपक्रमणेन पुनरावृत्या कालं समागमकालमाकाङ्क्षतः । पुनरागत्य संगन्तुमिच्छत इत्यर्थः । त्विषां पत्युः सूर्यस्य संबन्धि परैस्तेजोन्तरैः, पुरुषान्तरैश्वानभिभूतमतिरस्कृतमनुपहतं च कलत्रस्थानं कलत्रभूतानां त्विषां स्थानं स्थितिं वहन्ति । निर्वहन्तीत्यर्थः । स्त्रीणां स्त्रीष्वेव रक्षणं कार्यमिति भावः । यथा केनचिदापदि न्यासीकृतानि कलत्राणि संरक्ष्य कालान्तरे साधवस्तस्मै प्रयच्छन्ति तद्वदोषधयोsपि त्विषस्त्विषां पत्युरर्पयन्तीत्यर्थः । एतच्च तासां सूर्यास्तमये प्रज्वलनादुदये विपर्ययाच्चोपचर्यते । अत्र विशेषणसाम्यादर्कादीनामापन्नादिसाम्यप्रतीतेः समासोक्तिरलंकारः ॥ १ 'भजन्ति' इति पाठः. Page #113 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। वनस्पतिस्कन्धनिषण्णवालप्रवालहस्ताः प्रमदा इवात्र । पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतत्रातवृतैर्ऋतत्यः ॥ ३५ ॥ वनस्पतीति ॥ अत्रादौ वनस्पतयो वृक्षाः। 'वनस्पतिवृक्षमात्रे विनापुष्पफलद्रुमे' इति विश्वः। तेषां स्कन्धेषु प्रकाण्डेषु, अंशेषु च निषण्णाः सक्ता बालप्रवाला बालपल्लवा हस्ता इव यासां तास्तथोक्ताः । मधूनि व्रतयन्ति भुञ्जते इति मधुव्रता मधुपास्तेषां वातेन वृन्देन वृतैश्छन्नैः । अत एव लम्भिताः प्रापिता लोचकास्तारकाणि, कजलानि च यैस्तैर्वा । तैरिव स्थितैरित्युत्प्रेक्षा । इवार्थे वाशब्दः तद्वदुत्प्रेक्षायां चोक्तः । 'लोचको मांसपिण्डे स्यादक्षितारे च कजले' इति विश्वः । पुष्पैरीक्षणैरिव पुष्पेक्षणैरुपलक्षिता व्रतत्यो लताः । प्रमदा इव लक्ष्यन्त इति शेषः। 'न प्रसिद्ध क्रियाध्याहारदोषः' इत्याह वामनः । लिङ्गाध्याहारवदिति ॥ विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् । भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ३६ ॥ विहगा इति ॥ कदम्बैः सुरभिः सुगन्धिस्तस्मिन्कदम्बसुरभाविहाद्री विहगाः पक्षिणोऽनुक्षणं प्रतिक्षणं अनेके बहुविधा लया विच्छेदा यस्मिन्कर्मणि तद्यथा तथा गाः वाचः । शब्दानित्यर्थः । कलयन्त्युच्चारयन्ति । 'अर्जुनीनेत्रदि. ग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । किंच धूतानि कम्पितानि नवानि नीपवनानि कदम्बकाननानि येन स धूतनवनीपवनः । 'नीपप्रियकदम्बास्तु हलिप्रिये' इत्यमरः । अयं पवनो मुहुरभ्रं मेघ भ्रमयन्नुपैति । प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ विद्वद्भिरागमपरैर्विवृतं कथंचि छुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः । श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूढार्थमेष निधिमत्रगणं विभर्ति ॥ ३७॥ विद्वद्भिरिति ॥ एषोऽद्विः श्रेयान् श्रेष्ठः द्विजातिर्ब्राह्मण इव आगमो निधिकल्पो मन्त्रशास्त्रं च स एव परं प्रधानं येषां तैरागमपरैर्विद्वद्भिर्निधीनां मन्त्राणां च साधनविधानज्ञैः कथंचिद्विवृतं स्वरूपतः प्रकाशितम् । नास्ति निश्चिता इदमित्थमिति निश्चयात्मिका धीर्येषां तैरनिश्चितधीभिरन्यैरशास्त्रज्ञैः श्रुत्वापि इह निधिरस्ति, ईदृङ्महिमा असौ मन्त्र इति चाप्तमुखादाकर्ष्यापि दुर्घहं दुःसाधनम् । अघानि दुःखान्येनांसि च हन्तुं दक्षं समर्थम् । 'दुःखैनोव्यसनेष्वघम्' इति वैज. यन्ती। गूढः संवृतोऽर्थो धनं, अभिधेयं च यस्मिंस्तं गूढार्थम् । निधयो मन्त्रा इव, अन्यत्र निधय इव मन्त्रास्तेषां गणं विभर्ति । द्विजातिमन्त्रगणमिव निधिगणमेष बिभर्तीत्युपमार्थः॥ Page #114 -------------------------------------------------------------------------- ________________ १०२ शिशुपालवधे विम्बोष्ठं बहु मनुते तुरंगवक्रबन्तं मुखमिह किंनरं प्रियायाः । श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्री मुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ३८ ॥ बिम्बोष्ठमिति ॥ इहाद्वैौ तुरंगस्य वत्रमिव वक्रं यस्य स तुरंगवको देवयोनिविशेषः । सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्चेत्युष्ट्र मुखवत्समासः । 'बिम्बकल्प ओष्ठो यस्य तं बिम्बोष्ठमित्युपमालंकारः । 'ओत्वोष्ठयोः समासे वा 'पररूपं वक्तव्यम्' इत्योकारः । प्रियाया मुखं चुम्बन्तं किंनरं मानुषमुखमश्वाङ्गं देवयोनिविशेषं बहु गुरु यथा तथा मनुतेऽवबुध्यते । तुरंगवक्रस्य चुम्बनासंभवादिति भावः । इतरः किंनरोऽप्युत्तुङ्गस्तनभरेण यो भङ्गस्तस्माद्भीरुर्मध्यो यस्यास्तां निजस्त्रीं स्वस्त्रियम् । 'वाम्शसोः' इति विकल्पादियङादेशाभावः । मुहुः लिष्यन्तं मानुषाङ्गत्वादालिङ्गन्तं तुरंगवक्रं बहु यथा तथा मनुते । तुरंगवपुषः किंनरस्याश्लेषासंभवादिति भावः । दुर्लभं प्रियं भवतीति रहस्यम् । मध्यस्याभsपि भङ्गोक्तेरतिशयोक्तिरुपमया संसृज्यते । प्रहर्षिणीवृत्तमुक्तम् ॥ यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् । न पुष्पितात्र स्थगितार्करश्मावनन्तताने कतमा लतालम् ॥ ३९ ॥ यदिति ॥ अस्याद्वेरनुतटं तटेषु । विभक्त्यर्थेऽव्ययीभावः । तता विस्तृता अनेके बहवस्तमालास्तालाश्च यस्मिंस्तत्तताने कतमालतालं यदेतत्पुरोवर्ति वनं विभाति स्थगितार्करश्मौ तिरोहितातपे अनन्ततानेऽपार विस्तारेऽत्र वने कतमा -लता का वा लता अलमत्यन्तं न पुष्पिता । संजातपुष्पा न भवतीति शेषः । सर्वापि पुष्पितेत्यर्थः ॥ दन्तोलासु विमलोपल मेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः । अस्मिन्भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ॥ ४० ॥ दन्तोज्ज्वलाखिति ॥ अस्मिन्नद्रौ दन्ता निकुञ्जाः, दशनाश्च । 'दन्तो निकुञ्जे दशने' इति विश्वः । तैरुज्वलासु रुचिरासु सङ्गतैश्चित्राणि कटकानि सानूनि, वलयानि च यासां तासु । 'कटकं वलये सानौ' इति विश्वः । अधित्यकासूर्ध्वभूमिषु ।' भूमिरूर्ध्वमधित्यका' इत्यमरः । ' उपाधिभ्यां त्यकन्नासन्नारूढयोः' इत्यधिशब्दात्यकन्प्रत्ययः । विमलोपला उज्वलशिलाः, उज्वलमणयो वा मेखलाः कायो, नितम्बभूमयश्च । 'मेखला खड्गबन्धे स्यात्काञ्चीशैल नितम्बयो:' इति विश्वः । ताभिरन्ता रम्याः । 'मृताववसिते रम्ये समाप्तावन्त इष्यते' इति शब्दार्णवे । बृहन्तो नितम्बः कटिपश्चाद्भागाः शिखराणि च यासां ताः । ' नितम्बी रोधसि Page #115 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। १०३ स्कन्धे शिखरेऽपि कपेरधः' इति विश्वः। घना विपुलाः कोमलाः श्लक्ष्णा गण्ड. शैला गण्डस्थलानि, स्थूलोपलाश्च यासां ताः नार्योऽनुरूपमिच्छासदृशं, आत्म. सदृशं वाधिवासं भजन्ति । अत्र नारीणामधित्यकानां च प्रकृतत्वात्केवलप्रकतगोचरा श्लेषोपस्थापिता तुल्ययोगिता। अत एवोभयविशेषणान्युभयन्त्र विभ. क्तिविपरिणामेन योज्यानि ॥ अनतिचिरोज्झितस्य जलदेन चिर स्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् । विरलविकीर्णवज्रशकला सकला मिह विदधाति धौतकलधौतमही ॥४१॥ अनतिचिरेति ॥ इहाद्रौ विरलं यथा तथा विकीर्णाः प्रसरणशीला वज्रशकलाः श्वेतहीरखण्डानि यस्यां सा धौता शुभ्रा कलधौतमही रजतभूमिः। 'कलधौतं रूप्यहेनोः' इति विश्वः । जलदेनानतिचिरोज्झितस्य तत्कालमुक्तस्य । शुभ्र. स्येति भावः । चिरस्थिताश्चिरस्थायिनो बहवश्च बुहुदा जलस्फोटा यसिंस्तस्य पयसोऽम्भसः सकलामनुकृति समग्रसादृश्यं विदधाति । अत्र मेघोज्झितजलस्य स्थिरबुडुदासंबन्धेऽपि संभावनया संबन्धोक्तेरतिशयोक्तिः । कुररीरुता वृत्तम् । 'कुररीरुता नजभजैलंगयुक्' इति लक्षणात् ॥ वर्जयन्त्या जनैः संगमेकान्तत स्तकेयन्त्या सुखं सङ्गमे कान्ततः। योषयैष सरासन्नतापाङ्गया सेव्यतेऽनेकया संनतापाङ्गया ॥४२॥ वर्जयन्त्येति ॥ एकान्तत एकान्ते । रहसीत्यर्थः । कान्ततः कान्तेन । प्रिये. णेत्यर्थः । उभयत्रापि सार्वविभक्तिकस्तसिः। संगमे सति सुखं तर्कयन्त्या उत्प्रेक्षमाणया। विस्रब्धं विहारमाकाङ्क्षन्त्येत्यर्थः । अत एव जनैः सङ्गं वर्जयन्या । कुतः । स्मरेणासन्नतापानि प्राप्तज्वराण्यङ्गानि यस्यास्तया सरासन्नतापाङ्गया । 'अङ्गगात्रकण्ठेभ्यश्चेति वक्तव्यम्' इति विकल्पादिह पक्षे टाप् । संनतौ नम्राव. पाङ्गौ यस्यास्तया संनतापाङ्गया स्मरतापास्कूणितनेत्रया अनेकया योषया। अनेका. भिर्योषाभिरित्यर्थः । जातावेकवचनम् । 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । एषोऽद्रिः सेव्यते । इच्छाविहारस्थानानीह सन्तीति भावः । स्रग्विणी वृत्तम् । 'रैश्चतुर्भिर्युता स्त्रग्विणी संमता' इति लक्षणात् ॥ संकीर्णकीचकवनस्खलितैकवाल विच्छेदकातरधियश्चलितुं चमर्यः । अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रनिर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥ ४३ ॥ Page #116 -------------------------------------------------------------------------- ________________ १०४ शिशुपालवधे संकीणति ॥ अस्मिन्नद्रौ संकीर्णा मिथः संदृष्टाः कीचका वेणुविशेषाः । 'वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां वने स्खलितस्यैकवालस्यैकरोम्णो विच्छेदात्कातरा जस्ता धीर्यासां ताश्चमर्यो मृदुश्वसनो मन्दमारुतो गर्भे येषां तेभ्यस्तदीयरन्ध्रेभ्यः कीचकविवरेभ्यो निर्यतो निर्गच्छतः स्वनस्य श्रुत्या श्रवणेन यत्सुखं तस्मादिवेति हेतूत्प्रेक्षा। चलितुं नोत्सहन्ते । वस्तुतस्तु वालप्रियत्वादिति भावः । 'शकष-' इत्यादिना तुमुन्प्रत्ययः ॥ मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रे पीष्वन्तीनमहानीलदलासु । शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भ श्छायामच्छामृच्छति नीलीसलिलस्य ॥४४॥ मुक्तमिति ॥ इहागावन्तीनानि महानीलदलानीन्द्रनीलविशेषखण्डानि यासु तासु । 'सिंहलस्थाकरोद्भूता महानीलास्तु ते मताः' इति भगवानगस्त्यः । वापीषु दीर्घिकास्वधैर्मेधैर्मुक्तं वृष्टं मुक्तागौरं मौक्तिकशुभ्रं अत एव क्षीरमिव स्थितम् । शस्त्री छुरिका । 'स्याच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका' इत्यमरः । 'बह्वादिभ्यश्च' इति ङीष् । शस्त्रीवच्छ्यामैरंशुभिरन्तर्गतेन्द्रनीलमरीचिभिराशु तत्क्षणमेव द्रुतं लोलितं सत् । छुरितमित्यर्थः। नीलीसलिलस्य नीलान्यौषधिपत्ररसस्य । 'नीली काला क्लीतकिका' इत्यमरः । अच्छां छायां कान्तिमृच्छति । तत्सदृशीं छायां गच्छतीत्यर्थः । अतो निदर्शनालंकारः। स च मुक्तागौर क्षीरमिव, शस्त्रीश्यामैरिति चोपमात्रयेणान्तर्लीनमहानीलदलासु वापीष्विति पदार्थहेतुकं काव्यलिङ्गं तेनोत्थापितेनांशुभिर्दुतमिति तद्गुणोत्थापित इत्यङ्गाङ्गिभावेन संकरः । क्षीरमिवेत्यनेनेन्द्रनीलानां सौष्ठवं सूचितम् । 'क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेत् । इन्द्रनीलमिति ख्यातम्' इति लक्षणसंभवात् । तेनात्र नीलीरसोपमानेन तद्वर्णा एवेति सूचितम् । 'नीलीरसनिभाः केचिच्छंभुकण्ठनिभाः परे' इत्यादिनागस्त्येन रत्नशास्त्र एषामेकादशविधच्छायाभिधानादिति । मत्तमयूरं वृत्तम् । 'वेदै रन्धैम्तौ यसगा मत्तमयूरम्' इति लक्षणात् ॥ या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् । तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम् ॥४५॥ या नेति ॥ इहादावन्यवधूभ्यः स्यन्तरेभ्यः । पञ्चमी विभक्ते' इति पञ्चमी । सारतरं श्रेष्ठमागमनं यस्याः सा सारतरागमना । श्लाघ्यसंगमेत्यर्थः। या स्त्री यतमानं स्वप्राध्यै प्रयतमानम् । प्रार्थयमानमित्यर्थः। 'यती प्रयत्ने' शानच् । प्रियं न ययौ।सा तथा प्रतिकूलापि स्त्री रहस्तेन प्रियेण सह अनायतमानमदीर्घरोपं यथा तथा रतरागं सुरताभिलाषं बिभर्ति । अयमतिमानवतीरपि सद्य एवोद्दीपयतीति भावः । दोधकवृत्तम् । 'दोधकवृत्तमिदं भभभा गौ' इति लक्षणात् ॥ Page #117 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। १०५ भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो ___ रुचावचैरुपगतेषु सहस्रसंख्याम् । दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥ ४६॥ भिन्नेष्विति ॥ इहादाविन्दोः किरणेषु उदञ्चश्चावाञ्चश्व तैरुच्चावचैः । अनेकविधैरित्यर्थः । 'उच्चावचं नैकभेदम्' इत्यमरः। मयूरव्यंसकादिषूच्चोच्चनीचापराचोच्चवर्च किंचनाकुतोभयानीति तत्पुरुषे निपातनात्साधुः । रत्नकिरणैर्भिन्नेषु मिश्रेषु अत एव सहस्रसंख्यामुपगतेषु सत्सु । नलिन्यः पद्मिन्यः। 'नलं पद्म नलं तृणम्' इति शाश्वतः। असौ प्रकाशमानोऽहिमांशुः । किलेति । सहस्रकिरणत्वात्सूर्य एवेति संभावनाबुद्ध्येत्यर्थः । 'वार्तासंभाव्ययोः किल' इत्यमरः । दोषापि रात्रावपि । सप्तम्यर्थेऽव्ययम् । 'दिवाहीत्यथ दोषा च नक्तं च रजनौ' इत्यमरः । व्याकोशकोकनदतां विकचपद्मतां दधते स्वीकुर्वन्ति । नूनमित्युत्प्रेक्षायाम्। 'अथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदम्' इति, 'व्याकोशविकचस्फुटाः' इति चामरः । इह देवभूमित्वान्नित्यपद्मा नलिन्य इति भावः । इह नलिनीनां दोषातनविकासासंबन्धेऽपि तत्संबन्धरूपयातिशयोक्त्या तस्येन्दावर्कभ्रान्तिनिमित्तोत्प्रेक्षया भ्रान्तिमदलंकारो व्यज्यते ॥ अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः। अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ४७ अपशङ्कमिति ॥ अपशकं निःशङ्कमङ्कपरिवर्तनेषूत्सङ्गलुण्ठनेषूचिताः परिचिताः पतिं भर्तारमुपैतुं पुरोऽग्रे चलिताः प्रयाता आत्मजाः, स्वसंभवा दुहितृश्च निम्नगा नदीः करुणेन दीनेन पत्रिणां पक्षिणां विरुतेन क्रोशनेन निमित्ते. नैषोऽद्रिर्वत्सलतया वात्सल्येन । स्नेहेनेत्यर्थः । 'श्रीमान्निग्धस्तु वत्सलः' इत्यमरः । 'वत्सांसाभ्यां कामबले' इति लच्प्रत्ययः । अनुरोदितीवानुक्रोशतीवेत्युस्प्रेक्षा । 'रुदश्च पञ्चभ्यः' इति गुणः । 'रुदादिभ्यः सार्वधातुके' इतीट् ॥ मधुकरविटपानमितास्तरुपतीविभ्रतोऽस्य विटपानमिताः। परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥४८॥ मधुकरेति ॥ मधुकरा एव विटास्तेषां पानं चुम्बनमिताः प्राप्ताः । इणः कर्तरि क्तः । विटपैः शाखाविस्तारैरानमिताः विटपानमिताः । 'विस्तारो विटपोs. स्त्रियाम्' इत्यमरः। तरुपकीर्बिभ्रतोऽस्याद्रेः रोधो नितम्बो गलता पतता परिपाकेण पिशङ्गीनां लतानां रजः पुष्परेणुस्तेन परिपाकपिशङ्गलतारजसा कपिशं पिशङ्गं चकास्ति । मात्रावृत्तेष्वियमार्यागीतिरष्टगणा। 'अर्धे वसुगण आर्यागीतिः' इति पिङ्गलनागः॥ Page #118 -------------------------------------------------------------------------- ________________ शिशुपालवधे प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः। संलक्ष्यते विविधरत्नकरानुविद्ध मूर्ध्वप्रसारितसुराधिपचापचारु ॥४९॥ प्राग्भागत इति ॥ इहाद्रौ प्राग्भागत ऊर्ध्वप्रदेशादुपत्यकास्वधःप्रदेशेषु । 'उपत्यकानेरासन्ना' इत्यमरः । 'उपाधिभ्याम्-' इत्यादिनोपशब्दात्त्यकन्प्रत्ययः । पतत् शृङ्गारः सिन्दूरादिमण्डनमस्य संजातः शृङ्गारितः । 'शृङ्गारः सुरते नाट्ये रसे दिग्गजमण्डने' इति विश्वः । आयतो दीर्घस्तस्य महेभकरस्याभेवाभा यस्य तत् विविधरतानां करैरंशुभिरनुविद्धमनुरञ्जितमिदमम्भ ऊर्ध्वप्रसारितं यत्सुराधिपचापमिन्द्रधनुस्तद्वच्चारु संलक्ष्यते । अत्रेन्द्रचापस्योर्ध्वत्वासंबन्धेऽपि संबन्धोकेरतिशयोक्तिः । अभूतोपमेति मतान्तरम् । तिरोहितविवक्षायां तूपमानस्य प्रसिद्धत्वादुपमैवेयम् ॥ दधति च विकसद्विचित्रकल्प द्रुमकुसुमैरभिगुम्फितानिवैताः। क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥ ५० ॥ दधतीति ॥ किंचेति चार्थः। अमुष्याबेरेताः शिखराणि शृङ्गाण्येव शिखाः केशपाश्यः। 'शिखा चूडा केशपाशी' इत्यमरः । विकसद्भिर्विचित्रै नावणैः कल्पद्रुमकुसुमैरभिगुम्फितान्यथितानिव स्थितानित्युत्प्रेक्षा । अलघुनि बिलम्बीनि, लम्बमानानि च पिच्छान्येव दामानि स्रजो येषु तान् शिखिनः केकिन एव शेखरानापीडान्क्षणं दधतीव । 'शिखावलः शिखी केकी' इति, 'शिखास्वापीडशेखरौ' इति चामरः । भत्र कुसुमगुम्फेनोत्प्रेक्षालिङ्गेन पिच्छादीनां दामादिरूपकसिद्धिस्तदुत्थापिता चोत्प्रेक्षेति संकरः । पुष्पिताग्रा वृत्तमुक्तम् ॥ सवधूकाः सुखिनोऽस्मिन्ननवरतममन्दरागतामरसदृशः। नासेवन्ते रसवन नवरतममन्दरागतामरसदृशः ॥५१॥ सवधका इति ॥ अस्मिन्नद्राववरे न भवन्तीत्यनवराः श्रेष्ठा अनवरतमाः, श्रेष्ठतमाश्च मन्दरागतैरमरैः सदृशः, सरूपाश्च अनवरतममन्दरागतामरसदृशः अमन्दरागाण्यतिरक्तानि तामरसानि पङ्केरुहाणीव दृशो येषां तेऽमन्दरागतामरसदृशोरक्तनेत्राः । 'पङ्केरुहं तामरसम्' इत्यमरः। सुखिनो भोगिनः सह वधूभिः सवधूकाः सन्तः। तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। 'नतश्च' इति कप् । रसवसानुरागम् । 'गुणे रागे द्रवे रसः' इत्यमरः । नवरतं नूतनसुरतं नासेवन्त इति न किंवासेवन्त इवेत्यर्थः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः । विशिष्टसुरतानां सेवनस्य सामान्यतः प्रसक्तेः। उपमालंकारः। गतेयमार्यागीतिः॥ Page #119 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। १०७ आच्छाद्य पुष्पपटमेष महान्तमन्त रावर्तिभिर्गृहकपोतशिरोधराभैः। स्वाङ्गानि धूमरुचिमागुरवीं दधान धूपायतीव पटलैनवनीरदानाम् ॥ ५२ ॥ आच्छायेति ॥ एषोऽदिर्महान्तं पुष्पाण्येव पट इति रूपकं तमाच्छाद्य अन्तः पटाभ्यन्तर आवर्तिभिरभीक्ष्णं भ्रमद्भिः। 'बहुलमाभीक्ष्ण्ये' इति णिनिः । गृहकपोतशिरोधराभा गृहपारावतकण्ठस्याभेवाभा येषां तैरित्युपमा। 'पारावतः कपोतः स्यात्' इति विश्वः । अगुरोः कालागुरोरिमामागुरवीम् । 'कालागुर्वगुरुः स्यात्' इत्यमरः । धूमरुचिं धूमकान्तिम् । तत्सदृशीमित्यर्थः । अत एव निदर्शना । दधाननवनीरदानां पटलैः स्वाङ्गानि धूपायतीव धूपैरिवाधिवासयतीवेत्युत्प्रेक्षा रूपकोपमानिदर्शनाभिरङ्गैः संकीर्यते । 'धूप संतापे' इति धातोः 'गुपू. धूपविच्छिपणिपनिभ्य आयः' इत्यायप्रत्ययः ॥ अन्योन्यव्यतिकरचारुभिर्विचित्र स्त्रस्यन्नवमणिजन्मभिर्मयूखैः। विस्मेरान्गगनसदः करोत्यमुष्मि नाकाशे रचितमभित्ति चित्रकर्म ॥ ५३॥ अन्योन्येति ॥ अमुष्मिन्नद्रावन्योन्येषां व्यतिकरेण मिश्रणेन चारुभिः अत एव विचित्र नावणैरत्रस्यन्तस्त्रासदोषेणादुष्यन्तः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' इत्यादिना वैकल्पिकः श्यन्प्रत्ययः। तेभ्यो नवमणिभ्यो जन्म येषां तैर्मयूखैराकाशे रचितमभित्ति अकुड्यम् । अनाधारमित्यर्थः । चित्रकर्म कर्तृ । गगनसदः खेचरान्विस्मेरान्विस्मयशीलान्करोति । 'नमिकम्पि-' इत्यादिना रप्रत्ययः । अत्र मणिमयूखेषु खे चित्रकर्मभ्रान्तिमतामेवाभित्तिचित्रकमैत्यकारणे कार्योत्पत्तिवर्णनाभान्तिमदलंकारोत्थापिता विभावनेति संकरः । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना' इति । प्रहर्षिणी वृत्तम् ॥ समीरशिशिरः शिरःसु वसतां सतां जवनिका निकामसुखिनाम् । विभर्ति जनयन्नयं मुदमपा मपायधवला बलाहकततीः ॥५४॥ समीरेति ॥ समीरेण मारुतेन शिशिरः शीतलः शिरःसु शिखरेषु वसतां निकामसुखिनामत्यन्तसुखिनां सतां पुण्यवतां मुदं जनयन्नयमदिरपामम्भसामपायेनापगमेन धवला बलाहकततीर्मेघपतीरेव जवनिकास्तिरस्करिणीर्बिभर्ति । अनावृतेष्वपि शिखरेषु क्रीडने मेधैरेवावरणतां संपाद्य मुदं जनयतीत्यर्थः । अत्र Page #120 -------------------------------------------------------------------------- ________________ १०८ शिशुपालवधे बलाहकततिष्वारोप्यमाणानां जवनिकानां मुदं जनयन्निति प्रकृतोपयोगिवर्णनास्परिणामालंकारः। 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । रूपके तूपरञ्जनमात्रमिति भेदः। जलोद्धतगतिवृत्तम् । 'रसैर्जसजसा जलोद्धतगतिः' इति लक्षणात् ॥ मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः। ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धम् ॥५५॥ मैत्रीति ॥ इहागौ समाधिं योगं बिभ्रतीति समाधिभृतो योगिनः । मैत्रीकरुणा-मुदिता-उपेक्षेति चतस्रश्चित्तवृत्तयः । तत्र पुण्यकृत्सु मैत्री । दुःखिषु करुणा । सुखिषु मुदिता अनुमोदनम् । पापिषु उपेक्षा । मैत्री आदिर्येषां तानि चित्तस्य परिकर्माणि प्रसाधकानि । शोधकानीत्यर्थः । तानि विन्दन्ति लभन्ते इति तद्विदस्तद्भाजः तैः । क्षीणान्तःकरणमला इत्यर्थः। अत एव क्लेशप्रहाणं विधाय । 'अविद्यास्सितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः' । तत्रानित्येषु नित्यस्वाभिमानः, अनात्मनि च देहेन्द्रियादावात्मधीरित्यादि विभ्रमोऽविद्या। अस्मिता अहंकारः। रागोऽभिमतविषयाभिलाषः । द्वेषोऽनभिमतेषु रोषः। अभिनिवेशः कार्याकार्येष्वाग्रहः । ते हि पुरुषं क्लिश्यन्तीति क्लेशाः क्लेशहेतवः । पचाद्यच् । तेषां प्रहाणं क्षयः । 'कृत्यचः' इति णत्वम् । तद्विधाय । क्लेशान्हित्वेत्यर्थः । अतो लब्धः सबीजः सावलम्बनो योगो यैस्ते लब्धसबीजयोगाः सन्तः । आलम्बनमेव व्यनक्ति । सत्त्वेति । सत्वपुरुषयोः प्रकृतिपुरुषयोरन्यतयान्यत्वेन मिथोभिनत्वेन ख्यातिं ज्ञानं चाधिगम्य । प्रकृतिपुरुषौ भिन्नाविति ज्ञात्वेत्यर्थः । 'प्रकृतिपुरुषयोर्विवेकाग्रहणात्संसारः । विवेकग्रहणान्मुक्ति'रिति सांख्याः । अथ तां ख्यातिमपि निरोढुं निवर्तयितुं वाञ्छन्ति वृत्तिरूपाम् । तां निवर्त्य स्वयंप्रकाशतयैव स्थातुमिच्छन्तीत्यर्थः। 'प्रकृतावुपरतायां पुरुषस्वरूपेणावस्थानं मुक्तिः' इति सांख्यसिद्धान्तः । न केवलं भोगभूरियं, किंतु मोक्षक्षेत्रमपीति भावः ॥ मरकतमयमेदिनीषु भानो स्तरुविटपान्तरपातिनो मयूखाः । अवनतशितिकण्ठकण्ठलक्ष्मी मिह दधति स्फुरिताणुरेणुजालाः ॥ ५६ ॥ मरकतेति॥ इहागौ मरकतानां विकारा मरकतमय्यस्तासु मेदिनीषु । 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः । तरूणां विटपाः पल्लवास्तेषामन्तरैरवकाशैः पतन्तीति तथोक्ताः । 'विटपः पल्लवे षिङ्गे विस्तारे स्तम्बशाखयोः' इति विश्वः । स्फुरिताणुरेणूनां सूक्ष्मरजसां जालानि येषु ते भानोर्मयूखाः अवनतस्य शितिकण्ठकण्ठस्य मयूरकंधराया लक्ष्मी दधतीति निदर्शनालंकारः । पुष्पितामा वृत्तम् ॥ Page #121 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः । या विभर्ति कलवल्लकीगुणस्वानमानमतिकालिमाऽलया । नात्र कान्तमुपगीतया तया खानमा नमति कालिमालया ॥५७॥ येति ॥ अत्राद्रावत्यन्तः कालिमा काष्र्ण्यं यस्याः सातिकालिमा । अतिश्यामेयर्थः । न विद्यते लयो लयनं क्वचिदवस्थानं यस्याः सा अलया । भ्रमन्ती - त्यर्थः । अत एव सस्वनेति भावः । या अलिमाला कलोsव्यक्तमधुरः वल्लकीगुणस्वानस्य वीणातन्त्रीशब्दस्य मानमुपमानं बिभर्ति । तत्रीवनतीत्यर्थः । उपमालंकारः । उपगीतया समीपे गातुं प्रवृत्तयैव, न तु पूर्वं गायन्त्येवेति भावः । 'आदिकर्मणि क्तः कर्तरि च' इति क्तः । तयालिमालया भृङ्गावल्या स्वानमा सुखेनानमयितुमात्रष्टुं शक्या 'ईषदुस्' इत्यादिना खल्प्रत्ययः । का वा स्त्री कान्तं प्रियं न नमति । सर्वापि मानं विहाय कान्तं सद्यः प्रणमत्येव । तथोद्दीपकत्वाद्गानस्येत्यर्थः । रथोद्धृता वृत्तम् । 'रो नराविति रथोद्धता लगौ' इति लक्षणात् ॥ सायं शशाङ्ककिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः । अर्कोपलोल्लसितवह्निभिरहि तप्ता स्तीव्रं महाव्रतमिवात्र चरन्ति वप्राः ।। ५८ । १०९ सायमिति ॥ इहाद्रौ वप्राः सानवः । 'वप्रोऽस्त्री सानुमानयोः' इत्यमरः । सायं रात्रौ शशाङ्ककिरणैराहतेभ्यश्चन्द्रकान्तेभ्यो निस्यन्दिना प्रस्त्राविणा नीरनिकरेण जलपूरेण कृताभिषेकाः कृतस्नानाः | अह्नि अर्कोपलेभ्यः सूर्यकान्तेभ्य उल्लसितैरुत्थितैर्वह्निभिस्तप्ताः सन्तस्तीत्रमुग्रं दुश्वरं महाव्रतं महातपश्चरन्तीवेत्युत्प्रेक्षा ॥ एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ।। ५९ ।। एतस्मिन्निति ॥ एतस्मिन्नद्रावधिकपयःश्रियमधिकां जलसमृद्धिं वहन्त्यः, अन्यत्र तु अधिकाः कपयः सुग्रीवादयो वर्ण्यत्वेन यासु ताः अधिकपयः श्रियं गुणालंकारादिशोभां वहन्त्यः पवनाद्भवतीति पवनभूस्तेन पवनभुवा वायुजन्येन जवेन वेगेन संक्षोभं चलनं नीताः, अन्यत्र तु जवेन जविना । 'जवो जविनि वेगे स्यात्' इति विश्वः । पवनभुवा हनुमता संक्षोभमौद्धत्यं नीताः । हनुमद्वेगवर्णनया प्रागल्भ्यं नीता इत्यर्थः । वाक्पक्षे सर्वत्र पष्ट्या विपरिणामः कार्यः । महासरस्यो महासरांसि अरहिताववर्जितौ रामलक्ष्मणौ याभिस्तासाम्, अन्यत्र तु रामो रमणः अरहितरामा अवियुक्तरामाः लक्ष्मणाः सारसयोषितो यासु ताः । केचि - त्वरहितरामा अवियुक्तस्त्रीका: लक्ष्मणाः सारसा इति पुंपक्षिपरत्वेन व्याचक्षते । तेषां 'हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा' । 'लक्ष्मणौषधिसारस्यो:' इत्याद्यशिशु० १० 1 Page #122 -------------------------------------------------------------------------- ________________ शिशुपालव मरविश्वप्रकाशादिवाक्य गतनियतख्यर्थताविरोधः । तासां वाल्मीकेर्गिरां साधर्म्य सादृश्यं दधति । अत्र पवनभुवा जवेनेत्यत्रैकवृन्तावलम्बिफलद्वयवदभग्नैकपादगतत्वेनार्थद्वयप्रतीतेरर्थश्लेषः । अन्यत्र पदभङ्गेनार्थद्वयप्रतीतेर्जतुकाष्ठवच्छब्दयोरेव मिथः श्लिष्टत्वाच्छब्दश्लेष इत्युभयसाहित्यादुभयश्लेषोऽयं प्रकृताप्रकृतगोचरः, उपमा त्वङ्गमिति संकरः ॥ इह मुहुर्मुदितैः कलभैरवः प्रतिदिशं क्रियते कलभैरवः । स्फुरति चानुवनं चमरीचयः कनकरत्नभ्रुवां च मरीचयः ॥ ६० ॥ इहेति ॥ इहाद्रौ मुदितैरिच्छाविहारसंतुष्टैः कलभैः करिपोतैः । 'कलभः करिशावकः' इत्यमरः । प्रतिदिशं दिशि दिशि । यथार्थेऽव्ययीभावः । 'अव्यभावे शरत्प्रभृतिभ्यः' इति समासान्तो ऽच्प्रत्ययः । कलश्वासौ भैरवश्च कलभैवो मधुरभीषणः । विशेषणयोरपि कुपाणिखञ्जवदैच्छिकोपसर्जनत्वविवक्षया विशेषणसमासः । रवो बृंहणध्वनिर्मुहुः क्रियते । अनुवनं वने वने चमरीचयः चमरीमृगसङ्घः स्फुरति । किंच कनकरत्लानां या भुवस्तासां मरीचयः किरणाश्च स्फुरन्ति । समृद्धिमद्वस्तुवर्णनादुदात्तालंकारे यमकस्याभ्युच्चयः ॥ त्वक्साररन्ध्रपरिपूरणलब्धगीति रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः । कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ।। ६१ ।। त्वगिति । अस्मिन्नौ त्वचि सारो येषां ते त्वक्सारा वंशाः । 'वंशे त्वक्सारकर्मारत्वचि सारतृणध्वजाः' इत्यमरः । तेषां रन्ध्राणि तेषां परिपूरणेन ध्मापनेन लब्धा गीतिर्गान सुखं येन सः । मृदितानि संमृष्टानि पक्ष्मलानि लोमशानि रल्लकानां कम्बलमृगाणां, कम्बलानां वाङ्गानि शरीराणि येन सः । 'रल्लकः कम्बलमृगे कम्बले परिकीर्तितः' इति वैजयन्ती । एतेन स्पर्शसुखमुक्तम् । कस्तूरिकामृगाणां विमर्देन संघर्षेण सुगन्धिः शोभनगन्धः । यद्यपि गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यमित्युक्तम्, तथापि 'निरङ्कुशाः कवय' इत्यपर्यनुयोगः । असावेवंभूतो वायू रागीव कामीव विषयेषु प्रदेशेषु च । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । अधिकां सक्तिं व्यासक्तिमेति गच्छति ॥ प्रीत्यै यूनां व्यवहिततपनाः प्रौढध्वान्तं दिनमिह जलदाः । दोषामन्यं विदधति सुरतक्रीडायासश्रमशमपटवः ॥ ६२ ॥ ११० Page #123 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। १११ · प्रीत्यै इति ॥ इहाद्रौ युवतयश्च युवानश्च तेषां यूनाम् । 'पुमान्स्त्रिया' इत्येकशेषः । प्रीत्यै व्यवहिततपनास्तिरोहितार्काः । अत एव सुरतान्येव क्रीडास्ताभिर्य आयासो व्यायामस्तेन यः श्रमः खेदः । 'श्रमः खेदोऽध्वरत्यादेः' इति लक्षणात् । तस्य शमे वारणे पटवः समर्था जलदाः प्रौढध्वान्तं मेघावरणादादान्धकारं दिनं दिवसं दोषां रात्रिमात्मानं मन्यत इति दोषामन्यं रात्रिमानिनं विदधति । मेघावरणमहिम्ना दिवसः स्वयमप्यात्मानं रात्रिं मन्यते, किमुतान्य इत्यर्थः । दोषेत्यव्ययं तदुपपदान्मन्यतेर्धातोः 'आत्ममाने खश च' इति खश प्रत्ययः । इह यूनां दोषावदिवापि विस्रम्भं विहाराः संभवन्तीति भावः । भ्रमरविलसितं वृत्तम् । 'म्भौ न्लौ गः स्याद्रमरविलसितम्' इति लक्षणात् ॥ भग्नो निवासोऽयमिहास्य पुष्पैः सदानतो येन विषाणिनागः। . तीव्राणि तेनोज्झति कोपितोऽसौ सदानतोयेन विषाणि नागः ॥ ६३ ॥ - भग्न इति ॥ इहादावस्य नागस्य निवास आश्रयः सदा पुष्पैरानतो नम्रोऽयं न गच्छतीत्यगो वृक्षः दानतोयैर्मदोदकैः सह वर्तते यस्तेन सदानतोयेन । मत्तेनेत्यर्थः । येन विषाणिना दन्तिना भग्नस्तेन विषाणिना कोपितः कोपं प्रापितोऽसौ नागः सर्पस्तीवाणि विषाणि गरलान्युज्झति वमति । परप्रतीकाराक्षमस्य क्रोधः स्वाश्रयमेव व्याहन्तीति भावः ॥ प्रालेयशीतमचलेश्वरमीश्वरोऽपि सान्द्रेभचर्मवसनावरणोऽधिशेते । सर्वर्तुनितिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किंचिदकिंचनोऽपि ॥ ६४ ॥ प्रालेयेति ॥ ईश्वरः शिवोऽपि किमुतान्य इति भावः । सान्द्रं यदिभचर्म तदेव वसनं तदेवावरणं छादनं यस्य सः तथा सन् । न त्वनावरणो नापि शिथिलावरण इति भावः । प्रलयादागतं प्रालेयं हिमम् । 'तत आगतः' इत्यणि 'केकयमित्रयुप्रलयानां यादेरियः' इति यशब्दस्येयादेशः । तेन शीतं शीतलमचलेश्वरं हिमवन्तमधिशेते। तस्मिन्शेत इत्यर्थः । 'अधिशीस्थासां कर्म' इति कर्मत्वम् । सर्वर्तुभिर्निर्वृतिकरे सदासुखकर इहाद्रौ निवसन् पुनर्नास्ति किंचनास्थेत्यकिंचनो निःस्वोऽपि । उच्चावचेत्यादिना मयूरव्यंसकादिषु निपानतात्तत्पुरुषः । किंचिदल्पमपि द्वन्द्वदुःखं शीतोष्णदुःखं नोपैति । नित्यं संनिहितानामृतूनामन्योन्यदोषनिवारकत्वादिति भावः । 'द्वन्द्वं युग्महिमोष्णादि मिथुनं कलहो रहः' इति वैजयन्ती । अत्रोपमानाद्धिमाचलादुपमेयस्याधिक्यवर्णनाव्यतिरेकः ॥ Page #124 -------------------------------------------------------------------------- ________________ ११२ शिशुपालवधे नवनगवनलेखाश्याममध्याभिराभिः स्फटिककटकभूमिर्नाटयत्येष शैलः। अहिपरिकरभाजो भासनैरङ्गरागै रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ ६५ ॥ नवेति ॥ एष शैलो रैवतको नवया नगवनलेखया तरुवनपतया श्यामो मध्यो मध्यभागो यासां ताभिराा मेः स्फटिकानां कटकभूभिस्तटप्रदेशैः करणैरहिरेव परिकरो गात्रिकाबन्धस्तं भजतीति तस्याहिपरिकरभाजः। 'भवेत्परिकरो वाते पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि' इति विश्वः । 'भजो ण्विः' । भास्मनैर्भसमयैः । वैकारिकोऽण् प्रत्ययः। अनिति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपो न । अङ्गरागैरनुलेपनैरधिगतधवलिम्नः प्राप्तधावल्यस्य शूलं पाणौ यस्य तस्य शूलपाणेरीश्वरस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' । अभिख्यां शोभाम् । 'अभिख्या नामशोभयोः' इत्यमरः । 'आतश्चोपसर्गे' इत्यप्रत्ययः । नाटयत्यनुकरोति । निदर्शनालंकारः। मालिनी वृत्तमेतत् ॥ दधद्भिरभितस्तटौ विकचवारिजाम्बू नदै विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः । निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥ ६६ ॥ दधद्धिरिति ॥ अनाद्रौ माधवस्य इमे माधवा यादवाः विकचानि वारिजानि येषु तान्यम्बूनि ययोस्तौ विकचवारिजाम्बु अभित उभयतस्तटौ दधद्भिर्नः दैरम्बुप्रवाहैः । प्राक्स्रोतसो नद्यः, प्रत्यक्स्रोतसो नदाः नर्मदां विनेत्याहुः । विनोदितो दिनक्लमो येषां ते । विहारापनीताहिकसंतापा इत्यर्थः । किंच जाम्बू. नदस्य विकारैर्जाम्बूनदैः कनकभूषणैः कृतरुचो जनितशोभाः सन्तः रसवत्स्वादवत् । 'रसो गन्धरसे स्वादे' इति विश्वः । कादम्ब इक्षुः । 'कादम्बः कलहंसेक्ष्वोः' इति विश्वः । कादम्बं राति रलयोरभेदालाति प्रकृतित्वेनादत्त इति कादम्बरमैक्षवम् । 'पानसं द्राक्षमधुकं खाजूंरं तालमैक्षवम्' इति स्मरणात् । 'आतोऽनुपसर्गे कः' । मधु मद्यम् । एवं च मधुकादम्बरशब्दयोः सामान्यविशेषपरत्वादपौनरुक्त्यम् । निषेव्य पीत्वा । क्षत्रियाणां पैष्ट्या एव निषेधादिति भावः । रतये सुरतार्थ रहः प्रियतमानां प्रेयसीनामङ्गादेवाङ्गकाद्गाबादम्बरं वस्त्रं हरन्ति । यादवाश्चेह मधुपानरतोत्सवैर्विस्रब्धं विहरन्तीति भावः । पृथ्वीवृत्तम् । 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥ दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः । Page #125 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः। ११३ बीडमसंमुखोऽपि रमणैरपहृतवसनाः काञ्चनकं दरासु तरुणीरिह नयति रविः ॥६७॥ दर्पणेति ॥ इहाद्रौ रविर्दर्पणनिर्मलासु पुरः रौप्यभित्तिषु । काञ्चनकंदराग्रवर्तिरजतसानुषु पतिते संक्रान्ते घनं सान्द्र यत्तिमिरं तन्मुष्णाति हरतीति तन्मुद । विप् । तस्मिक्ष्योतिषि स्वतेजसि काञ्चनकंदरासु मुहुः प्रतिफलति संमूर्च्छति सति रमणैरपहृतवसनास्तरुणीरसंमुखोऽपि कंदरानभिमुखोऽपि व्रीड अपम् । यद्यपि 'गुरोश्च हलः' इति स्त्रियाभप्रत्ययः । अत एव 'मन्दाक्षं हीस्त्रपा ब्रीडा' इत्यमरः। तथापि तत्र स्त्रीत्वाविवक्षायां बाहुलकत्वान्नपुंसकत्वं च । अत एव 'अविधौ गुरोः स्त्रियां बहुलविवक्षा' इति वामनः । नयति प्रापयति । 'नीवह्योहरतेश्चैव' इति द्विकर्मकता । यस्मिन् सुवर्णकंदरासु क्रीडाथ प्रविष्टाः स्त्रियोऽन्धकार इति कृत्वा पुरुषैरपहृतवस्त्राः सत्यः । पुरःस्थितरौप्यभित्तितेजसामन्तःप्रतिबिम्बवत्प्रकाशे सति सलज्जा इति भावः। अत्र काञ्चनकंदराणामसंमुखार्कज्योतिःप्रतिफलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । वंशपत्रपतितं वृत्तम् । 'दिङ्मुनि वंशपत्रपतितं भरनभनलगैः' इति लक्षणात् ॥ अनुकृतशिखरौघश्रीभिरभ्यागतेऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः। द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ६८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के रैवतक वर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥ अनुकृतेति ॥ असावुच्चैरुन्नतोऽद्रिः रैवतकः त्वयि अभ्यागते सति अनुकृता शिखरौघाणां श्रीयस्तैस्तथोक्तैः । शिखरौघभ्रमकारिभिरिति भावः । अत एवात्र श्रीरिव श्रीरिति निदर्शनया भ्रान्तिमदलंकारो व्यज्यते । द्रुतमरुता शीघ्रमारुतेबोपनुन्नैः प्रेरितैः अत एव सहेलं सलीलमुन्नमद्भिरुत्पतद्भिः। धरतीति धरः । पचाद्यच् । हलस्य धरो हलधरो बलभद्रः तस्य परिधानान्यम्बराणि तद्वच्छ्यामलैः श्यामैरम्बुवाहैर्निमित्तेन सरभसमभ्युत्तिष्ठतीव प्रत्युत्थानं करोतीवेति क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा । विशिष्टमेघोन्नमनक्रियया प्रत्युत्थानक्रियोत्प्रेक्षणात्सा चोक्तनिदर्शनानुप्राणितेति संकरः । शाब्दस्तु वृत्त्यनुप्रासः । मालिनी वृत्तम् । “ननमययुतेयं मालिनी भोगिलोकैः” इति ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध. काव्यव्याख्याने सर्वकषाख्ये चतुर्थः सर्गः ॥ ४ ॥ Page #126 -------------------------------------------------------------------------- ________________ ११४ शिशुपालवधे पञ्चमः सर्गः। इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः शुश्राव सूततनयस्य तदा व्यलीकाः। रन्तुं निरन्तरमियेष ततोऽवसाने __तासां गिरौ च वनराजिपटं वसाने ॥१॥ इत्थमिति ॥ स हरिरित्थमनेन प्रकारेण । 'इदमस्थमुः' इति थमुप्रत्ययः । अव्यलीका अप्रियरहिताः । 'व्यलीकं त्वप्रियेऽनृते' इत्यमरः । प्रियतमाः प्रेयस्य इव स्थिताः । कान्तासंमिता इत्यर्थः । व्यलीका विगतानृताः सत्यः सूततनयस्य सारथिकुमारस्य दारुकस्य गिरस्तदा शुश्राव । ततः श्रवणानन्तरं तासां गिरामवसाने समाप्तौ निरन्तरं नीरन्ध्र वनराजिरेव पटस्तं वसाने आच्छादयति । 'वस आच्छादने' इति धातोः कर्तरि लटः शानजादेशः । गिरौ रैवतकाद्रौ रन्तुं क्रीडितुमियेष । तत्र वसतिं कर्तुमिच्छति मेत्यर्थः । उपमायमकयोः संसृष्टिः । सगैsस्मिन्वसन्ततिलका वृत्तम् । 'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥ तं सद्विपेन्द्रतुलितातुलतुङ्गशृङ्ग मभ्युल्लसत्कदलिकावनराजिमुच्चैः । विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मी दधत्प्रतिगिरेरलघुर्बलौघः ॥२॥ तमिति ॥ कदल्य एव कदलिकाः वैजयन्त्यो रम्भातरवश्च । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । अभ्युल्लसन्त्यः कदल्यो वैजयन्त्यो वनराजय इव यस्य सः, अन्यत्र रम्भावनपतयो यस्य तमिति योज्यम् । उच्चैरुन्नतः विस्तारेण रुद्धवसुधो व्याप्तभूमिः । अत एव प्रतिगिरेलक्ष्मी दधत् । स्वयमप्यन्यो गिरिरिव स्थित इत्यर्थः । अलघुर्महान्स बलौघः सेनासङ्घो द्विपेन्द्रैस्तुलितान्यतुलान्यप्रतिमानि द्विपेन्द्रव्यतिरिक्तप्रतिमारहितान्युत्तुङ्गशृङ्गाणि यस्य तं तथोक्तमन्वचलं रैवतकमनु चचाल । तं प्रति ययावित्यर्थः । 'अनुर्लक्षणे' इति कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । अत्र प्रतिगिरेः कस्यचिदप्रसिद्धत्वादिरिधर्मयोगी बलौघः प्रतिगिरेलक्ष्मीमिव लक्ष्मी दधातीति निदर्शनामुखेन प्रतियोगित्वेनोत्प्रेक्ष्यते इत्युत्प्रेक्षैवेयं श्लेषानुप्राणितेति संकरः ॥ भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः सापत्रपा इव महाजनदर्शनेन । संविव्युरम्बरविकासि चमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः ॥३॥ Page #127 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। ११५ भास्वदिति ॥ आशा दिशो भास्वत्करव्यतिकरेण सूर्यांशुव्याप्त्या उल्लसिताम्बरान्ताः प्रकाशिताकाशदेशाः । अन्यत्र भास्वान्भास्वरोऽभिरूपः। 'भास्वान्भास्वरसूर्ययोः' इति विश्वः। तस्य हस्तस्य स्पर्शनेनोल्लसिताम्बरान्ताः स्रस्तवस्वाञ्चलाः अत एव महाजनदर्शनेन सापत्रपा इव । 'लज्जा सापत्रपान्यतः' इत्यमरः । अम्बरविकासि व्योमव्यापि, वासशोभि च । 'अम्बरं व्योमवाससोः' इति विश्वः । चमूषु समुत्थं करभ उष्ट्रपोतः। 'उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः' इत्यमरः । तस्य कण्ठ इव कडारं कपिशम् । 'कडारः कपिशः पिङ्गः' इत्यमरः । पृथ्वीरजः संविव्युः संवत्रुः । आच्छादयामासुरित्यर्थः । 'ध्ये संवरणे' लिट् । कित्त्वात्संप्रसारणे द्विर्भावः । ‘एरनेकाच-' इति यणादेशः । स्त्रियो वस्त्रापहारे लज्जया यत्किंचिदाच्छादयन्तीति भावः । अत्राचेतनास्वाशासु श्लिष्टविशेषणमहिम्ना स्त्रीप्रतीतौ तदभेदाध्यवसायेन संव्यानव्यवहारसमारोपात्समासोक्तिः । सा च सापत्रपत्वोत्प्रेक्षानुप्राणितेति संकरः ॥ आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः। अश्वाः प्यधुर्वसुमतीमतिरोचमाना स्तूर्णं पयोधय इवोर्मिभिरापतन्तः ॥ ४ ॥ आवर्तिन इति ॥ आवर्तिनो दशावर्तवन्तः । 'प्रशंसायाम्-' इति णिनिः । ते च 'द्वावुरस्यौ शिरस्यौ द्वौ द्वौ द्वौ रन्ध्रोपरन्ध्रयोः । एको भाले झपाने च दशावर्ता ध्रुवाः स्मृताः ॥' इत्युक्ता दश ध्रुवाख्या विवक्षिताः । अन्येषामनन्तरमेव पृथगभिधानात् । अन्यत्र तु जलभ्रमवन्तः। 'स्यादावर्तोऽम्भसा भ्रमः' इत्यमरः । रोमसंस्थाने तु तत्साम्याव्यपदेशः। तदुक्तम्-'आवर्तसाम्यादावों रोमसंस्थानमङ्गिनाम्' इति । शुभफलानि राज्यलाभादीनि प्रददतीति शुभफलप्रदाः । 'प्रे दा ज्ञः' इति कः । ताभिः शुक्तिभिः संस्थानरावर्तविशेषैर्युक्ताः । तदुक्तम्- 'वक्षःस्थाः शुक्तयस्तिस्र ऊर्ध्वरोमा जयावहाः' इति । अन्यत्र शुभफलानि मुक्ताफलानि तत्प्रदाः शुक्तयो मुक्तास्फोटास्ताभिर्युक्ताः । 'मुक्तास्फोटे हयावर्ते शुक्तिः शङ्खकपालयोः' इति यादवः। संपन्नाः समग्रा देवमणयो निगालावर्ताः । कौस्तुभादिदिव्यमणयश्च येषां ते। 'आवर्तो रोमजो देवमणिस्त्वेष निगालजः । निगालस्तु गलोद्देशे सकृत्' इति वैजयन्ती। भृताः पूर्णा रन्ध्रभागाः पार्श्वदेशाः, निम्नप्रदेशाश्च येषां ते। अतिशयिता रोचमानाः कण्ठावर्ता येषां तेऽतिरोचमानाः । 'कण्ठजो रोचमानश्च स्वामिसौभाग्यवर्धनः' इति वैजयन्ती । अन्यत्र त्वत्यन्तं दीप्यमाना इत्यर्थः । ऊर्मिभिर्गतिविशेषैर्वीचिभिश्च पतन्त आधावन्तः । 'पतीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्ता गतिरूर्मिरुदाहृता ॥' इति वैजयन्ती। ईदृशोऽश्वाः पयोधय इव तूर्णं वसुमती प्यधुश्छादयन्ति स्म । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । अपिपूर्वाद्दधातेर्लुङ् । 'वष्टि Page #128 -------------------------------------------------------------------------- ________________ ११६ शिशुपालवधे भागुरिल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । एकनालावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेरर्थश्लेषोऽयं प्रकृताप्रकृतगोचरः । उपमा त्वङ्गमिति संकरः ॥ आरक्षमग्रमवमत्य सृणिं शिताग्र मेकः पलायत जवेन कृतार्तनादः । अन्यः पुनर्मुहुरुदप्लवतास्तभार मन्योन्यतः पथि बताबिभितामिभोष्ट्रौ ॥ ५ ॥ __आरक्षेति ॥ पथि मार्गे इभोष्ट्रावन्योन्यतोऽन्योन्यस्मादबिभितां भीतवन्तौ । 'जिभी भये' लङ् । 'भियोऽन्यतरस्याम्' इतीत्वम् । बतेत्यनयोरपि भीतिरिति खेदेऽतिविस्मये वा । 'खेदानुकम्पासंतोषविस्मयामन्त्रणे बत' इत्यमरः । तत्र लिङ्गमाह-एक इभ आरक्षः कुम्भयोरधःप्रदेशस्तत्र मग्नं प्रविष्टं शिताग्रं तीक्ष्णमुखं सृणिमडशम् । 'अङ्कुशोऽस्त्री सृणिर्द्वयोः' इत्यमरः। अवमत्यावधूय कृत आर्तनादो येन सः । अतिकरुणं क्रन्दन्नित्यर्थः। जयेन पलायत पलायितवान् । परापूर्वादयतेलुङ् । 'उपसर्गस्यायतौ' इति रेफस्य लत्वम् । अन्यः पुनरुष्ट्रस्तु अस्तभारं निरम्तभारं यथा तथा मुहुरुदप्लवतोप्लवितवान् । 'लु गतौ' इति लङ् । स्वभावोक्तिः ॥ आयस्तमैक्षत जलश्चटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् । नागं पुनर्मुदु सलीलनिमीलिताक्षं सर्वः प्रियः खलु भवत्यनुरूपचेष्टः ॥६॥ आयस्तमिति ॥ जनश्चटुलाग्रपादं चञ्चलपूर्वचरणं यथा तथा गच्छन्तम् । शीघ्रं धावन्तमित्यर्थः । उच्चलितैरुल्लसितैश्चामरैश्चारुमश्वमायस्तं सयनमाहृतं यथा तथा । 'यसु प्रयत्ने' कर्तरि क्तः । क्लान्तं क्रियाविशेषणम् । ऐक्षत ईक्षितवान् । ईक्षतेर्लङ् 'आडजादीनाम्' इत्याटि 'आटश्च' इति वृद्धिः । नागं पुनर्गजं तं सलीलं निमीलिते अक्षिणी यस्मिन्कर्मणि तत् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पन्' । मृदु मन्दं गच्छन्तमायस्तमैक्षत । कथं शीघ्रमन्योस्तुल्यदृष्टिरत आह-सर्वः प्राणी अनुरूपचेष्टः स्वजात्युचितव्यापारः सन् प्रीणातीति प्रियः प्रीतिकरो भवति खलु । 'इगुपधज्ञाप्री-' इति कर्तरि क्तः । अर्थान्तरन्यासः ॥ त्रस्तः समस्तजनहासकरः करेणो स्तावत्खरः प्रखरमुल्ललयांचकार । यावच्चलासनविलोलनितम्बबिम्ब विस्रस्तवस्त्रमवरोधवधूः पपात ॥७॥ त्रस्त इति ॥ करेणोरिभ्याः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । 'भीत्रार्थानां भयहेतुः' इत्यपादानत्वम् । जस्तो भीतः खरो गर्दभः समस्तजनस्य हासं करो Page #129 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। ११७ तीति तत्करः सन् । 'कृजो हेतु-' इत्यादिना टप्रत्ययः । तावत्तदवधि प्रखरं भृशमुल्ललयांचकार उत्पपात । यावत् चलात्स्थानचलितादासनात्पल्ययनात् विलोलोऽपसृतस्तस्मानितम्बबिम्बाद्विस्रस्तं वस्त्रं यस्मिन्कर्मणि तद्यथा तथा अवरोधवधूः पपात । स्वभावोक्तिः ॥ शैलोपशल्यनिपतद्रथनेमिधारा निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः। भूरेणवो नभसि नद्धपयोदचक्रा चक्रीवदङ्गरुहधूम्ररुचो विसः॥८॥ शैलेति ॥ शैलस्य रैवतकाद्रेपशल्यं प्रान्तम् । यद्यपि 'अामान्त उपशल्यं स्यात्' इत्यमरः, तथाप्युपचाराददोषः । तत्र निपततां धावतां रथानां नेमयश्चक्रान्ताः । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः। तासां धाराभिर्निपिष्टानां चूर्णितानां निष्ठुरशिलातलानां चूर्णो गर्भे येषां ते तथोक्ताः । नभसि नद्धानि पयोदचक्राणि पयोदाकारमण्डलानि यैस्ते चक्रवद्रमणमस्यास्तीति चक्रीवान्गर्दभः । 'चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः' इत्यमरः । • 'आसन्दीवदष्ठीवञ्चक्रीवत्-' इत्यादिना साधुः । तस्याङ्गरुहाणि रोमाणि तद्वद्धू म्ररुचः कृष्णलोहितवर्णाः । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः । भूरेणवो विसस्नुः प्रसृताः ॥ उद्यत्कृशानुशकलेषु खुराभिघाता भूमीसमायतशिलाफलकाचितेषु । पर्यन्तवमसु विचक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥९॥ उद्यदिति ॥ खुराः शफानि । 'शर्फ क्लीवे खुरः पुमान्' इत्यमरः । तेषामभिघातादुद्यन्तः कृशानुशकलाः स्फुलिङ्गा येभ्यस्तेषु । टङ्कप्रायाः खुरा इति भावः । भूम्यां समानि समतलान्यायतानि च यानि शिलाः फलकानीव शिलाफलकानि तैराचितेष्वास्तृतेषु तैलस्य पर्यन्तवमसु प्रान्तमार्गेषु महाश्वा दर्दु. राणां वाद्यविशेषाणां पुटान्मुखानि वादयन्त इव विचक्रमिरे जग्मुः । पादन्यासैस्तादृशं शब्दमकुर्वन्नित्यर्थः । 'वेः पादविहरणे' इत्यात्मनेपदम् । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' इत्यमरः । उत्प्रेक्षालंकारः ॥ तेजोनिरोधसमतावहितेन यत्रा सम्यकशात्रयविचारवता नियुक्तः। आरट्टजश्वटुलनिष्ठुरपातमुच्चै चित्रं चकार पदमर्धपुलायितेन ॥१०॥ तेज इति ॥ तेजो नाम दर्पापरनामा सत्वगुणविकारः प्रकाशकोऽन्तःसारवि Page #130 -------------------------------------------------------------------------- ________________ ११८ शिशुपालवधे शेषः । यथाह भोजराजः-'तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः । क्रोबस्तम इति ज्ञेयास्त्रयोऽपि सहजा गुणाः ॥' इति । तच्च द्विविधं सततोत्थितं भयो. त्थितं चेति । यथाह स एव–'धारासु योजितानां च निसर्गात्प्रेरणं विना । अविच्छिन्नमिवाभाति तत्तेजः सततोत्थितम् ॥ कशापादादिघातैर्यत्साध्वसात्स्फु. रितं तु तत् ॥' इति । अत्र तेजःशब्देन तत्कार्य वेगो लक्ष्यते। तथा च तेजसि वेगे निरोधे तनिवारणे समतायां वेगसाम्ये चावहितेन । वल्गाविभागकुशले नेत्यर्थः । कशा ताडनी। 'अश्वादेस्ताडनी कशा' इत्यमरः । अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषु यथासंख्यं मृदुसमनिष्ठुरसकृवित्रिरूपं त्रितयं तस्य विचारः एतेषु निमित्तेष्वङ्गेष्वेवं ताड्य इति विमर्शः । तद्वता तज्ज्ञेन । तथाह भोजः-'मृदुनैकेन घातेन दण्डकालेषु ताडयेत् । तीक्ष्णं मध्यं पुन भ्यां जघन्यं निष्टुरैस्त्रिभिः । उपवेशेऽथ निद्रायां स्खलिते दुष्टचेष्टिते । वडवालोकनौत्सुक्ये बहुगर्वितहेषिते ॥ संत्रासे च दुरुत्थाने विमार्गगमने भये । शिक्षात्यागस्य समये संजाते चित्तविभ्रमे ॥ दण्डः प्रयोज्यो वाहानां कालेषु द्वादशस्वपि । ग्रीवायां भीतमाहन्यात्रस्तं चैव च वाजिनम् ॥ विभ्रान्तचित्तमधरे त्यक्तशिक्षं च ताडयेत् । प्रहेषितं स्कन्धबाह्वोर्वडवालोकितं तथा ॥ उपवेशे च निद्रायां कटिदेशे च ताडयेत् । दुश्चेष्टितं मुखे हन्यादुन्मार्गप्रस्थितं तथा ॥ जघने स्खलितं हन्यान्नेत्रमार्गे दुरुत्थितम् । यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताडयेत् ॥' इति । एवंभूतेन यन्ना सादिना सम्यग्यथाशास्त्रं नियुक्त ईरितः उच्चैरुन्नत आरहोऽश्वयोनिदेशविशेषः तजोऽश्व आरदृजः। विशेषणमात्रप्रयोगे सागराम्बरादिवत्तावतैव विशेष्यप्रतीतेरित्याह वामनः । विशेषणप्रयोगो विशेष्यप्रतिपत्ताविति । चटुलश्चपलो निष्ठरः परुषश्च पातः प्रक्षेपो यस्मिन्कर्मणि तद्यथा तथा अर्धपुलायितेन मण्डल:गतिविशेषेण चित्रमद्भुतं पदं पदक्रमं चकार । 'शतार्धार्धक्रमादूनैर्मण्डलायितवलिगतैः । उन्मुखस्याश्वमुख्यस्य गतिरर्धपुलायितम् ॥' इति लक्षणात् । पुला नाम प्लुताद्यनेकापरनामा हयानां गतिविशेषः । तदुक्तं हयलीलावत्याम्-'प्लुतां प्लवगितामाहुर्या धारा पुलनाभिधा । पुनरेनां रलोपान्तां पुलामित्याह देशिकः ॥' तल्लक्षणं च तत्रैवोक्तम्-'क्षिपति समविशेषानुत्क्षिपत्यग्रपादान्प्रसरति पुरतोऽश्वः साधु धारा पुलाख्या । विलसति समपादोत्क्षेपणाकुञ्चनानां करुणमिह गतिज्ञाः प्राहुरन्ये पुलाख्याम् ॥' इति । पाणिप्रधानं प्रविधाय रागावल्गां श्लथीकृत्य वहे. त्पुलाख्याम्' इत्यादि । पुलाख्यया अयितं गतिः पुलायितम् । 'अय गतौ' भावे तः । तच्छतार्धेत्याधुक्तरीत्यानुष्ठितमर्धपुलायितमित्यलमतिविस्तरेण ॥ नीहारजालमलिनः पुनरुक्तसान्द्राः कुर्वन्वधूजनविलोचनपक्ष्ममालाः । क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिशां मुखमतुत्थयदुत्थितोऽद्रेः ॥ ११ ॥ नीहारेति ॥ नीहारजालवत्तुहिनव्यूहवन्मलिनो वधूजनविलोचनानां पक्ष्म Page #131 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। ११९ मालाः पुनरुक्तसान्द्राः द्विगुणसान्द्राः कुर्वन् । स्वभावतोऽपि सान्द्रस्वादिति भावः । मयूरव्यंसकादित्वादिस्पष्टपटुवत्समासः । क्षणं यदूनां बलैः सैन्यैः क्षुण्गोऽनेरुत्थितो दिवमाकाशमातनितुमवतनितुमिच्छुरातितांसुः । तनोतेः सन्नन्तादुप्रत्ययः । 'सनीवन्तर्ध-' इत्यत्र तनिपतिदरिद्राणामुपसंख्यानाद्वैकल्पिक इडभावः । 'तनोतेर्विभाषा' इति दीर्घः । पांशुर्दिशां मुखमतुत्थयदाच्छादयतिस्म । 'तुत्थ आच्छादने' इति धातोश्चौरादिकाल्लङ् ॥ उच्छिद्य विद्विष इव प्रसभं मृगेन्द्रा निद्रानुजानुचरभूपतयोऽध्यवात्सुः । वन्येभमस्तकनिखातनखाग्रमुक्त मुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥१२॥ उच्छिद्येति ॥ इन्द्रानुजस्योपेन्द्रस्य हरेरनुचरा अनुजीविनो भूपतयो मृगेन्द्रान्सिहान् विद्विषः शत्रूनिव प्रसभं प्रसह्योच्छिद्य हत्वा वन्येभानां मस्तकेषु निखातैनिक्षिप्तै खाप्रैः सिंहनखमुखैर्मुक्तान्विकीर्णान्मुक्ताफलप्रकरान्भजन्तीति तथोक्तानि । गुहा गृहाणीवेत्युपमितसमासः । विद्विष इवेति लिङ्गादध्यवात्सुरध्युषितवन्तः । 'उपान्वध्याङ्सः' इति कर्मत्वम् । 'वस निवासे' लुङि सिचि वृद्धिः । 'सः स्यार्धधातुके' इति तत्वम् ॥ बिभ्राणया बहलयावकपङ्कपिङ्ग पिच्छावचूडमनुमाधवधाम जग्मुः। चश्वग्रदष्टचटुलाहिपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥ १३ ॥ बिभ्राणयेति ॥ अन्ये भूपतयः याव एव यावकोऽलक्तकः । 'लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो दुमामयः' इत्यमरः । 'यावादिभ्यः कन्' इति स्वार्थे कन् । बहलेन यावकपङ्केन पिङ्गं पिङ्गलं पिच्छं बर्हमेवावचूडमधोलम्बिकलापं बिभ्राणया 'अस्योचूडावचूडाख्यावूर्वाधोमुखचूडको' इति ध्वजाङ्गेषु हलायुधः । चक्षुस्त्रोटिः। 'च[स्त्रोटिरुभे स्त्रियाम्' इत्यमरः । तस्या अग्रेण दष्टा चटुला चञ्चला अहिरेव पताका यस्यां तया उरगाशनो गरुडस्तस्य केतुयष्टिः । तदधिष्ठितो ध्वजदण्ड इत्यर्थः । तथा अभिज्ञानेनेति भावः । अनुमाधवधाम हरिशिबिरमनु स्वावासभागं स्वनिवेशदेशं जग्मुः प्रापुः । दूरादेव गरुडध्वजेन माधवधाम ज्ञात्वा तत्संनिहितान्नियतदिक्कान्स्वावासानिश्चित्य जग्मुरित्यर्थः ॥ छायामपास्य महतीमपि वर्तमाना मागामिनी जगृहिरे जनतास्तरूणाम् । सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ १४ ॥ Page #132 -------------------------------------------------------------------------- ________________ शिशुपालवधे छायामिति ॥ जनानां समूहा जनता: । ' ग्रामजनबन्धुसहायेभ्यस्तल्' । तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनीं छायां जगृहिरे | वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथा हि-सर्वो जन उपगतं प्राप्त - मप्यपचीयमानं क्षीयमाणम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किंत्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १२० अग्रे गतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकरणाकुलेन । यान्तोऽन्यतः प्लुतकृतखरमाशु दूरादुद्धाहुना जुहुविरे मुहुरात्मवयः ॥ १५ ॥ अग्र इति ॥ अग्रे गतेन पुरः प्रयातेन रम्यां वसतिं निवासम् । 'वहिवस्यर्तिभ्यश्च' इति वसेरौणादिकोऽतिप्रत्ययः । परिगृह्यापतन्तीत्यापात्याः स्वयमाक्रमितुमागच्छन्तः । ' भव्यगेय-' इत्यादिना कर्तरि ण्यदन्तो निपातः । तेषां सैनिकानां निराकरणे निरसने आकुलेन व्यग्रेण उद्वाहुनोद्यतहस्तेन । केनचिदिति शेषः । अन्यतो यान्तो गच्छन्त आत्मवर्ग्यः स्वयूथ्याः । लुतं त्रिमात्रिकं यथा तथा कृतः स्वरो नाद आह्वानं यस्मिन्कर्मणि तद्यथा तथा । 'दूराद्धूते च' इति दूरादाह्वाने विधानादिति भावः । आशु दूरान्मुहुराजुहुविरे आहूताः । ह्वयतेराङ्गपूर्वात्कर्मणि लिट् 'अभ्यस्तस्य च' इति संप्रसारणे द्विर्वचनमुवङादेशश्च ॥ सिक्ता इवामृतरसेन मुहुर्जवानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् । शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥ सिक्ता इति ॥ अमृतरसेन सिक्ता इवेत्युत्प्रेक्षा । मुहुर्जनानां क्लान्तिच्छिदः श्रमहराः। कल्पद्रुमवदमृतसेकाभावादपि तद्वदाह्लादका इति भावः । शाखास्ववसक्तैर्लग्नैर्वलग्नैराभरणैश्चाभिरामाः । एकत्र सेनास्थापितैरन्यत्र स्वप्रसूतैरिति भावः । वनवनस्पतयो वनवृक्षा विचित्रफलैर्वखाभरणाद्यनेकफलयुक्तैः कल्पद्रुमैः । तत्रत्यैरिति शेषः । सह तदानीं विरेजुः । तद्वद्विरेजुरित्यर्थः । सहेति सादृइये । 'सह साकल्यसादृश्ययौगपद्यसमृद्धिषु' इति विश्वः । तथा चोपमालंकारः ॥ यानाञ्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौ विदल्लाः । Page #133 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १२१ स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण वक्रश्रियः सभयकौतुकमीक्षते स ॥ १७ ॥ यानादिति ॥ परिजनैर्यानाद्वाहनादवतार्यमाणा अवरोप्यमाणाः । रुहेर्यन्तात्कर्मणि लटः शानजादेशः । 'रुहः पोऽन्यतरस्याम्' इति पकारः । नराणामालोकिजनानामपनयनेऽपसारणे आकुलाः सौविदल्लाः कञ्जुकिनो यासां ताः। 'सौविदल्लाः कञ्जुकिनः' इत्यमरः । स्रस्ता अवरोपणसंक्षोभादपसृता अवगुण्ठनपटा नीरङ्गीवस्त्राणि यासां ताः । अत एव क्षणं लक्ष्यमाणा वक्रश्रियो यासां तास्तथोक्ता राज्ञी राजस्वीः । 'पुंयोगादाख्यायाम्' इति ङीप् । जनः सभयकौतुकमीक्षते स्म । ताडनाद्भय कामात्कौतुकम् ॥ कण्ठावसक्तमृदुबाहुलतास्तुरङ्गा द्राजावरोधनवधूरवतारयन्तः । आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥१८॥ कण्ठेति ॥ तुरङ्गादाजावरोधनवधूः राज्ञामवरोधस्त्रीरवतारयन्तोऽवरोपयन्तोऽधिकृता अन्तःपुराधिकारिणः कण्टेषु स्वकीयेष्ववसक्ता मृदवो बाहुलतास्तदीया येषां ते तथोक्ताः सन्तः स्फुटं व्यक्तमालिङ्गनान्यापुरेव । अन्यथा दुरवरोहत्वाद्ध्याजाच्चेति भावः । आसां वधूनां गण्डस्थलीः शुचितया स्वयं शुद्धवर्तित्वाद्गण्डनैर्मल्याच न चुचुम्बुः । यावत्कर्तव्यकारिणः शुद्धात्मानो नातिचरन्तीति भावः । अन्यत्र तु पापाचाराः पापलिङ्गानि प्रकाशयन्तीति भावः ॥ दृष्ट्वेव निर्जितकलापभरामधस्ता___याकीर्णमाल्यकबरां कबरी तरुण्याः। प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रा त्संघर्पिणा सह गुणाभ्यधिकैर्दुरासम् ॥ १९ ॥ दृष्ट्वेति ॥ अधस्तात्तरुतले निर्जितः कलापभरो बर्ह भारो यया ताम् । 'कलापो भूषणे बहे' इत्यमरः । व्याकीर्णेन विक्षिप्तेन माल्येन कबरां शाराम् । 'कबरः कर्बुरः शारः' इति हलायुधः। तरुण्याः कबरी केशपाशम् । 'कबरी केशपाशोऽथ' इत्यमरः । 'जानपद-' इत्यादिना ङीष् । दृष्ट्ववेत्युत्प्रेक्षा । सपदि चन्द्रका अस्य सन्तीति चन्द्रकवान्मयूरः द्रुमाग्रात्प्रादुद्रुवत्पद्रुतवान् । 'द्रु गतौ' लुङि 'णिनि-' इत्यादिना च्लेश्वङादेशः । 'अचि श्रुधातु-' इत्यादिनोवडादेशः । तथा हि संघर्षिणा मत्सरिणा का गुणाभ्यधिकैर्गुणोत्कृष्टैः सह दुरासम् । आसितुमशक्यमित्यर्थः । आसेरकर्मकात् । 'ईषदुर्' इत्यादिना भावे खल् प्रत्ययः । 'तयोरेव कृत्यक्तखलाः ' इति नियमात् । अत्र भयहेतुकस्य पलायनस्य कबरी शिशु० ११ Page #134 -------------------------------------------------------------------------- ________________ १२२ शिशुपालवधे दर्शन हेतुकत्वमुत्प्रेक्ष्य तत्समर्थनासमर्थोऽयमर्थान्तरन्यासः कृत इत्यस्यानयाङ्गेन संकरः । न हि जितैर्जेतुरग्रे स्थातुमुचितमिति भावः ॥ रोचिष्णुकाञ्चनचयांशु पिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः । भूभर्तुरायतनिरन्तरसंनिविष्टाः पादा इवाभिवभुरावलयो रथानाम् ।। २० ।। रोचिष्वति ॥ रोचिष्णवो रोचनशीलाः । ' अलंकृञ् - ' इत्यादिना इष्णुच्प्रत्ययः । तेषां काञ्चनचयानां कनकचयानामंशुभिः पिशङ्गिताः पिशङ्गीकृता आशा याभिस्ताः वंशानां तत्तद्राजकुलानां ध्वजैः प्रतिनियतकुलानामङ्कुशादिचिह्नितकेतुभिः, अन्यत्र वंशा वेणवस्तैरेव ध्वजैर्जलदसंहतिं मेघसंघातमुल्लिखन्त्यः आयतं दीर्घं निरन्तरं नीरन्धं च संनिविष्टाः संस्थिता रथानामावलयो भूभर्तृ रैवतकाद्रेः पादाः प्रत्यन्तपर्वता इवाभिबभुः भान्तिस्म । आशापिशङ्गीकरणादिक्रियानिमित्ता जातिस्वरूपोत्प्रेक्षा ॥ छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः । दूयैरिव क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ।। २१ ।। छायेति ॥ क्षितिभृतां राज्ञां निवसन्त्यत्रेति निवासाः निवासदेशाश्छायाविधायिभिः कान्तिकरैरनातपसंपादकैश्च । 'छाया वनातपे कान्तौ' इति विश्वः । अनुज्झिता भूतीनां भस्मरचनानां संपदां च शोभा यैस्तैः । 'भूतिर्भस्मनि संपदि ' इत्यमरः । उच्छ्रायिभिरुन्नमद्भिर्बहलः सान्द्रः पाटल आरक्तधातुरागो गैरिकादि - रञ्जनं येषां तैः । उदारा तारावलीनां शुद्धमुक्तावलीनां विरचना येषु तैः । मुक्तासारभूषितैरित्यर्थः । ' तारा मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिके' इति विश्वः । दृष्यपक्षे तारावली रज्जुसंततिरिति केचित् । द्विरदैर्दृष्यैः पटमण्डपैरिव । 'दूष्यं वस्त्रे च तद्गृहे' इति विश्वः । व्यरुचन्रोचन्ते स्म । 'रुच दीप्तौ' 'यो लुङि' इति परस्मैपदे 'पुषादि -' इत्यादिना च्लेरङादेशः । ' अत्र द्विरदानां दूष्याणां च प्रकृतत्वान्नोपमा, नापि श्लेषभेदः । विशेष्यस्य विशेषणानां च केषांचिदष्टित्वात्। तस्मात्केवलप्रकृतास्पदा तुल्ययोगितेयम् । इवशब्दस्तु सादृश्यमात्रानुवादक इति संक्षेपः ॥ उत्क्षिप्तकाण्डपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः ः। दूर्वाप्रतान सहजास्तरणेषु भेजे निद्रासुखं वसनसद्मसु राजदारैः ॥ २२ ॥ Page #135 -------------------------------------------------------------------------- ________________ पञ्चमः १२३ उत्क्षिप्तेति ॥ उत्क्षिप्त उद्धृतो यः काण्डपट एव काण्डपटकः दूष्याधोलम्बि वायुसंचारार्थः पटः । 'अपटः काण्डपटी स्यात्' इति वैजयन्ती । तस्यान्तरेऽवकाशे यमानेन मन्दानिलेन प्रशमितं श्रमेणाध्वखेदेन यद्धर्मतोयं स्वेदाम्बु तद्येषां तै राजदारै राजावरोधैः दुर्वाणां प्रतानं प्रचय एव सहजमकृत्रिममास्तरणं तल्पं येषु. तेषु वसनसद्मसु पटमण्डपेषु निद्वासुखं भेजे ॥ सर्गः : । प्रस्वेदवारिस विशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती । आविर्भवद्धनपयोधरबाहुमूला शातोदरी युवशां क्षणमुत्सवोऽभूत् ॥ २३ ॥ प्रस्वेदेति ॥ अङ्गे गात्रे प्रस्वेदवारिणा सविशेषं सातिशयं यथा तथा विषतमतिश्लिष्टं कूर्पासकं चोलकम् । कञ्चुकमित्यर्थः । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । क्षतानि पुनर्विदीर्णानि नखक्षतानि यस्मिन्कर्मणि तद्यथा तथा उत्क्षि पन्ती उन्मोचयन्ती अत एवाविर्भवत्प्रकाशमानं घनपयोधरबाहुमूला धनौ पयो - धरौ बाहुमूले च यस्याः सा शातोदरी । 'नासिकोदर -' इत्यादिना ङीप् । युवदृशां क्षणमुत्सवोऽभूत् । एतेन यूनां त्वराचिन्तादिकरमिष्टवस्त्ववलोकननिमित्तं कालाक्षमत्वलक्षणमौत्सुक्यं व्यज्यते । नायिकाभिसारिणी प्रगल्भा वा ॥ यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य । पर्यापतत्क्रयिकलोकमगण्यपण्य पूर्णापणा विपणिनो विपणीविभेजुः ॥ २४ ॥ यावदिति ॥ विपणो व्यवहारः स एषामस्तीति विपणिनो वणिजो यावत्स एव समयः सेनानिवेशलक्षण एव तावत्क्षण एव समं युगपत् अव्याकुला अव्यग्राः सन्तः पटमयानि पटविकाराणि । पटमण्डपानित्यर्थः । अभितो वितत्य उभयतः श्रेण्या वितत्य विस्तीर्य क्रयेण जीवतीति क्रयिकः । 'वस्त्रक्रयविक्रयात् -' इति ठक् । पर्यापतन्परितो धावन् क्रयिकलोकः क्रेतृजनो यस्मिन्कर्मणि तत् अगण्यैरसंख्येयैः पण्यैः पण्यद्रव्यैः पूर्णा आपणाः पण्यप्रसारणस्थानानि यासु ता विपणीःपण्यवीथीः । ' आपणस्तु निषद्यायां विपणिः पण्यवीथिका' इत्यमरः । विभेजुः । असंकीर्णं निर्ममुरित्यर्थः । स्वभावोत्यनुप्रासौ ॥ १ पूर्णापणं विपणिनो विपणिं विभेजुः ' अयमेव पाठो वल्लभव्याख्यातः प्राचीनश्च । अतः एवामरव्याख्यायाम् ' अत एव प्रयोगाद्विपणेः पुंस्त्वमपीति सर्वधरः' इति मुकुट उक्तवान् । वल्लभोऽपि 'बाहुल्येन विपणिशब्दं स्मरन्ति' इत्युक्तवान्. Page #136 -------------------------------------------------------------------------- ________________ १२४ शिशुपालवधे अल्पप्रयोजनकृतोरुतरप्रयासै रुद्र्णलोष्टलगुडैः परितोऽनुविद्धम् । उद्यातमुद्रुतमनोकहजालमध्या दन्यः शशं गुणमनल्पमवन्नवाप ॥ २५ ॥ अल्पेति ॥ अल्पप्रयोजनेनाल्पफलेन निमित्तेन कृत उरुतरो भूयान्प्रयासो यैस्तैः । अल्पस्यैकस्य शशपिण्डस्य भूयसामकिंचित्करत्वादिति भावः । उद्गुर्णा उद्यताः लोष्टानि मृत्खण्डा लगुडाश्च दण्डकाष्ठानि यैस्तैः पुंभिरिति शेषः । परितोऽनुविद्धमनुरुद्धम् । अनसः शकटस्याकं गतिं नन्तीत्यनोकहा वृक्षास्तेषां जालमध्यादुद्यातमुत्थितम् । उत्पूर्वांद्यातेः कर्तरि क्तः । उद्रुतं पलायितं शशं मृगविशेषम् । अन्यः परः अवन् हन्तृन्निवार्यं रक्षन्ननल्पं गुणं महान्तमुत्कर्षमवाप । दयालोरनामिषलोलुपस्य सुकीर्तिः सुलभेति भावः । अत्रार्थान्तरं चाहुः । अन्यो गुणं पाशमवन् प्रयुञ्जानः शशमवाप जग्राह । यो हन्ता तस्यैव मृग इति व्याधसमयादिति भावः ॥ त्रासाकुलः परिपतन्परितो निकेता न्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाना माकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥२६॥ त्रासेति ॥ त्रासाकुलो जनदर्शनाद्भयविह्वलोऽत एव निकेतान्निवेशान्परितः सर्वतः । 'अभितःपरितः-' इत्यादिना द्वितीया। परिपतन्धावन्मृगो हरिणः कैश्चिदपि धन्विभिर्धनुष्मद्भिः। 'धन्वी धनुष्मान्धानुष्कः' इत्यमरः । ब्रीडादित्वादिनिरिति स्वामी । पुंभिर्नान्वबन्धि नानुयातः। बनातेः कर्मणि लुङ्। तथाप्यङ्गनानामाकर्णपूर्णा विस्तीर्णा आकृष्टाश्च ये नयनान्येवेषवस्तैर्हता ईक्षणश्रीर्यस्य सः। अतः क्वचिदपि न तस्थौ । किंतु वीरविशिखपाताभावेऽप्यङ्गनापाङ्गविशिखपातात्प. लायित एवेति भावः । अत्र जनालोकनोत्थभयहेतुकस्य मृगानवस्थानस्थागनापाङ्गेषु हतिहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगात्प्रतीयमाना हेतोश्च हतेक्षणश्रीरिति विशेषणगत्योक्तत्वात्काव्यलिङ्गमिति संकरः ॥ आस्तीर्णतल्परचितावसथः क्षणेन वेश्याजनः कृतनवप्रतिकर्मकाम्यः । खिन्नानखिन्नमतिरापततो मनुष्या न्प्रत्यग्रहीचिरनिविष्ट इवोपचारैः ॥२७॥ आस्तीर्णेति ॥ क्षणेनास्तीर्णतल्पं वेश्यावृत्तेः शय्याप्रधानत्वात्प्रागेव सजितशय्यं यथा तथा रचितावसथः कल्पितनिकेतः। 'स्थानावसथवास्तु च' इति कोशः। कृतेन नवप्रतिकर्मणा नूतनेन प्रसाधनेन काम्यः स्पृहणीयोऽखिन्नमतिरश्रान्तचित्तः। अगणिताध्वखेद इत्यर्थः । वेश्याजनः खिन्नानध्वश्रान्तानापतत Page #137 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १२५ : आगच्छतो मनुष्यान्पुरुषान् चिरनिविष्ट इव तत्रैव नित्यवास्तव्य इवेत्युत्प्रेक्षा । उपचारैः शीताम्बुताम्बूलदानादिसत्कारैः प्रत्यग्रहीत् । वशीचकारेत्यर्थः ॥ सस्नुः पयः पपुरनेनिजुरम्बराणि ___ जक्षुर्विसं धृतविकासिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्व दोषप्रवादममृजन्नगनिम्नगानाम् ॥ २८ ॥ सस्नुरिति ॥ सेनायां समवेताः सैन्याः सैनिकजनाः। 'सेनायां च' इति ण्यप्रत्ययः । नगनिम्नगानां याः श्रियः समृद्धयस्तासामनुपभोग उपभोगाभावः । वचित्प्रसज्यप्रतिषेधेऽपि नसमास इष्यते । यथाऽदर्शनमश्रवणमनुच्चारणमनुपलब्धिरभाव इत्यादि । तेन यन्निरर्थकत्वं निष्फलत्वं तदेव दोषस्तेन यः प्रवादो निन्दा तममृजन्नमार्जन् । 'मजू शुद्धौ' अदादित्वाल्लङि शपो लुक् । 'मृजेरजादौ विकृति विभाषा वृद्धिर्वक्तव्ये ति विकल्पाद्यभावः। मार्जनप्रकारमाह-सस्नुः स्नानं चक्रुः । पयः पानीयं पपुः । 'प्णा शौचे' 'पा पाने' लिट् । अम्बराण्यनेनिजुरक्षालयन् । 'णिजिर् शौचे' । जुहोत्यादित्वाल्लङि 'लौ' इति द्विर्भावः । 'सिजभ्यस्तविदिभ्यश्च' इति झेर्जुसादेशः । 'णिजां त्रयाणां गुणः श्लो' इत्यभ्यासस्य गुणः । धृतानि विकासिबिसप्रसूनानि विकासितपुष्कराणि यैस्ते । 'बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च' इत्यमरः । बिसं मृणालं जक्षुर्भक्षयाचक्रः । घसेलिटि 'गमहन-' इत्यादिना उपधालोपे चुत्वं 'शासिवसिघसीनां च' इति षत्वम् । स्नानाद्युपभोगेनोक्तनैरर्थ्य 'निराचारित्यर्थः । अत्र दोषमाजनस्य स्नानादिना कृतत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । स्नानादिक्रियासमुच्चयस्त्वङ्गमस्येति संकरः ॥ नाभिहदैः परिगृहीतरयाणि निम्नः स्त्रीणां बृहजघनसेतुनिवारितानि । जग्मुर्जलानि जलमड्डकवाद्यवल्गु वल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ २९ ॥ नाभीति ॥ स्त्रीणां निम्नैर्गम्भीरै भिभिरेव हूदैः परिगृहीतरयाणि प्रतिषिद्धवेगानि बृहद्भिर्जघनैरेव सेतुभिर्निवारितानि । प्रतिहतगतिकानीत्यर्थः । 'पश्चानितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । जलमेव मड्डकवाद्यं वाद्यविशेषः । जलमेकेन पाणिनोत्थापितमपरेण ताडितं मडुकवट्वनतीति प्रसिद्धम् । तेन वल्गु सुन्दरं यथा तथा वल्गद्भिश्चलैपनैः स्तनतटैः स्खलितानि स्खलनं गतानि गमितानि वा जलानि पूर्वोक्तनगनिम्नगासलिलानि मन्दं जग्मुः। अत्र जलमन्दगमनस्य विशेषणगत्या रयप्रतिबन्धादिपदार्थहेतुकत्वात्काव्यलिङ्गम् ॥ Page #138 -------------------------------------------------------------------------- ________________ १२६ शिशुपालवधे आलोलपुष्करमुखोल्लसितैरभीक्ष्ण___ मुक्षांबभूवुरभितो वपुरम्बुवः । खेदायतश्वसितवेगनिरस्तमुग्ध___मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३० ॥ आलोलेति ॥ हस्तिनां समूहा हास्तिकानि । 'अचित्तहस्तिधेनोष्ठक्' । आलोलानि यानि पुष्काराणि हस्ताग्राणि । 'पुष्करं करिहस्ताने' इत्यमरः । तेषां मुखै रन्धैरुल्लसितान्युत्क्षिप्तानि तैरम्बुवर्षेः खेदेनाध्वश्रमेणायतेन द्वाघीयसा श्वसितस्योच्छवासमारुतस्य वेगेन निरस्ता बहिरुत्क्षिप्ता ये मुग्धाः सुन्दराः मूर्धन्या मूर्धनि भवाः । 'शरीरावयवाच' इति यत्प्रत्ययः । 'ये चाभावकर्मणोः' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपाभावः। रत्ननिकरा मुक्ताफलप्रकरास्तैरिवेत्युत्प्रेक्षा । वपुरभीक्ष्णमुक्षांबभूवुः सिषिचुः। 'उक्ष सेचने' 'इजादेच गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । 'गजेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥' इति गजानां मुक्ताकरत्वे प्रमाणम् ॥ ये पक्षिणः प्रथममम्बुनिधि गतास्ते येऽपीन्द्रपाणितुलितायुधलूनपक्षाः । ते जग्मुरद्रिपतयः सरसीविंगाढु माक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥३१॥ य इति ॥ ये पक्षिणः पक्षवन्तः । इन्द्रेणाच्छिन्नपक्षा इत्यर्थः। संसर्गे इनिप्रत्ययः । तेऽद्रिपतयो मैनाकादयः प्रथममम्बुनिधिं गताः प्रविष्टाः। येऽपि । ये ये इत्यर्थः । इन्द्रस्य पाणिना तुलितेन प्रेरितेनायुधेन वज्रेग लूनपक्षाश्छिन्नगरुतस्तेऽद्रिपतय आक्षिप्ता अपनीताः केतवो ध्वजाः कुथाः, पृष्ठास्तरणानि च येषाम् । "प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । तेषां सैन्यगजानां छलेन सरसीविंगाढुं विगाहितुम् । 'स्वरतिसूति-' इति विकल्पान्नेडागमः। जग्मुः । अत्र गजच्छलेनेति छलशब्देन गजत्वमपढ्त्याद्रित्वारोपणाच्छलादिशब्दैरसत्यत्वप्रति. पादनरूपोऽपहवालंकारः । तेन पक्षवतामद्रीणां सागरावगाहनदर्शनान्मत्सरात्स्वयमपि सलिलमवगाहमानाः साक्षालनपक्षाः पर्वता इवेत्युत्प्रेक्षा व्यज्यते ॥ आत्मानमेव जलधेः प्रतिविम्बिताङ्ग-. मूमौ महत्यभिमुखापतितं निरीक्ष्य । क्रोधादधावदपभीरभिहन्तुमन्य नागाभियुक्त इव युक्तमहो महेभः ॥ ३२ ॥ आत्मानमिति ॥ महेभो जलधेर्जलाशयस्य महत्यूमौं प्रतिबिम्बितमङ्गं Page #139 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १२७ यस्य तमभिमुखापतितमभिमुखमागतमात्मानमेव । आत्मप्रतिबिम्बमेयेत्यर्थः । निरीक्ष्यान्यनागेन प्रतिगजेनाभियुक्तोऽभिद्रुत इवातितूर्णमपभीनिर्भीकः सन् क्रोधादधावत् । अहो इति मौढ्येन विस्मयः । तच्च युक्तं महेभस्येति भावः । अभियुक्त इवेत्युत्प्रेक्षायाः प्रतिगजभ्रान्तिनिबन्धनत्वाभान्तिमदुत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः॥ नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः । रुद्धे गजेन सरितः सरुषावतारे । रिक्तोदपात्रकरमास्त चिरं जनौषः ॥ ३३ ॥ नेति ॥ अन्यकरिणा प्रतिगजेन मुक्तेन मदाम्बुना तिक्तं सुरभि । 'कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः' इति केशवः । अम्भ आदातुं ग्रहीतुं नेच्छता विहातुं त्यक्तुमपि नेच्छता अनिच्छता । क्रोधपिपासाभ्यामिति भावः । धूताङ्कुशेन सरुषा सक्रोधेन गजेन सरितोऽवतारे तीर्थे रुद्धे सति जनौघः रिक्तान्युदपात्राणि येषु ते करा यस्मिंस्तद्यथा तथा चिरमास्त अतिष्ठत् । 'आस उपवेशने' लङ् । 'एकहलादौ पूरयितव्येऽन्यतरस्याम्' इत्युदकशब्दस्योदादेशः ॥ पन्थानमाशु विजहीहि पुरः स्तनौ ते __ पश्यन्प्रतिद्विरदकुम्भविशकिचेताः। स्तम्बरमः परिणिनंसुरसावुपैति पिझैरगद्यत ससंभ्रममेव काचित् ॥ ३४ ॥ पन्थानमिति ॥ पन्थानमाशु विजहीहि । 'ओहाक् त्यागे' लोटि सेादेशः। 'आ च हौ' इति विकल्पादीकारादेशः । पुरोऽये ते स्तनौ पश्यन्प्रतिद्विरदस्य कुम्भौ विशङ्कत इति तद्विशङ्कि चेतो यस्य सः । कुम्भभ्रान्तिमानित्यर्थः । अत एव भ्रान्तिमदलंकारः । स्तम्बे तृणे रमत इति स्तम्बेरमः । 'इभः स्तम्बेरमः पद्मी' इत्यमरः । 'स्तम्बकर्णयोरमिजपोः' इत्यच् प्रत्ययः । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । परिणन्तुं तिर्यक्ग्रहर्तुमिच्छुः परिणिनंसुः । नमेः सन्नन्तादुप्रत्ययः । 'एकाच उपदेशेऽनुदात्तात्' इतीट् प्रतिषेधः । असावुपैति । पुरेति पाठे पुरोपैतीत्यन्वयः । उपैष्यतीत्यर्थः । यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । षि विटैः । 'षिङ्गः पाल्लविको विटः' इति कोशः । काचिदेवमुक्तरीत्या ससंभ्रम ससत्वरमगद्यत गदिता ॥ कीर्णं शनैरनुकपोलमनेकपानां हस्तैर्विगाढमदतापरुजः शमाय । आकर्णमुल्लसितमम्बु विकासिकाशनीकाशमाप समतां सितचामरस्य ॥ ३५ ॥ Page #140 -------------------------------------------------------------------------- ________________ १२८ शिशुपालवधे कीर्णमिति ॥ अनेकपानां द्विपानां विगाढः प्ररूढो यो मदेन तापः स एव रुक् रोगस्तस्या रुजः शमाय शनैर्मन्दं हस्तैरनुकपोलं कपोलयोः कीर्णं क्षिप्तम् । आकर्णं कर्णपर्यन्तम् । 'आमर्यादाभिविध्योः' इत्यव्ययीभावः । उल्लसितमुत्पतितं विकासि यत्काशं काशकुसुमं तेन सदृशं काशनीकाशम् । नित्यसमासत्वादस्वपदविग्रहः । अतएव 'स्युरुत्तरपदे त्वमी । निभसंकाशनीकाशप्रतीकाशोपमादयः' इत्यमरः । अम्बु पानीयं सितचामरस्य समतां सादृश्यमाप । 'तुल्याथै-' इत्यादिना षष्टी । उपमालंकारः ॥ गण्डूषमुज्झितवता पयसः सरोपं नागेन लब्धपरवारणमारुतेन । अम्भोधिरोधसि पृथुप्रतिमानभाग रुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ३६ ॥ गण्डूषमिति ॥ लब्धः परवारणस्य प्रतिगजस्य मारुतो मदगन्धवाहो येन तेन अत एव सरोषं यथा यथा पयसः पानीयस्य गण्डूषं मुखपूरणम् । मुखान्तर्गतं पय इत्यर्थः । 'गण्डूषो मुखपूरणः' इति हलायुधः । द्विलिङ्गत्वेऽपि पुंलिङ्गमेवाह वामनो लिङ्गाध्याहारावित्यत्र । उज्झितवता त्यक्तवता नागेन गजेन । 'मतङ्गजो गजो नागः' इत्यमरः । अम्भोधिरोधसि सागरतीरे। 'दन्तयोरुभयोर्मध्यं प्रतिमानमिति स्मृतम्' । पृथुना प्रतिमानभागेन रुद्धः प्रतिबद्धः उरू दन्तौ मुसलाविव तयोः प्रसारो यस्मिन्कर्मणि तत् । 'अयोग्रं मुसलोऽस्त्री स्यात्' इत्यमरः । निपेते निपतितम् । भावे लिट् । क्रोधवेगादलब्धरोधाः प्रहत्य पारवश्यात्स्वयं चाधोमुखः पपातेत्यर्थः । क्रोधान्धाः किं न कुर्वन्तीति भावः ॥ दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत । यदन्तिनः कटकटाहतटान्मिमो मझदपाति परितः पटलैरलीनाम् ॥ ३७॥ दानमिति ॥ दीयत इति दानं धनं मदश्च । 'दानं गजमदे त्यागे' इति विश्वः । तद्ददति वितरत्यपि । दातर्यपीत्यर्थः । सहसा अकस्मात् । स्वरादित्वादव्ययत्वमिति शाकटायनः । जलैर्जडै रैश्च । 'जलं गोकलले नीरे हीबेरे च जडेऽन्यवत्' इति विश्वः । अधिरूढे आक्रान्ते सति विद्यमानगतिः गत्यन्तरवान्सम. र्थश्च कः पुमानासितुं तत्र स्थातुमुत्सहेत । न कोऽपीत्यर्थः । 'शकष-' इत्यादिना तुमुन् । यस्मान्मिमतोमङ्गुमिच्छोः । मजेः सन्नन्तादुप्रत्ययः । दन्तिनः कटो गण्डः स कटाहः खर्पर इव । 'कटाहः खर्परस्तुपः' इति वैजयन्ती । तस्य तटात्प्रदेशादलीनां पटलैः परितो मङ्क्ष द्राक् । 'द्रााट सपदि द्रुतम्' इत्यमरः । Page #141 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १२९ उदपाति उत्पतितम् । भावे लुङ् 'चिण् भावकर्मणोः' इति चिण् 'चिणो लुक्' । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे । द्रव्याश्रयेष्वपि गुणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ॥ ३८॥ अन्तरिति ॥ जलौघे अन्तरित्यन्तर्जलौघम् । विभक्त्यर्थेऽव्ययीभावः । अथवा जलौघं जलपूरमन्तरभ्यन्तरेऽवगाढवतः प्रविष्टवतः । गाहेर्निष्ठाक्तवतुप्रत्ययः । ढत्वष्टुत्वढलोपाः । गजस्य कपोलौ हित्वा क्षणमन्तरीक्षे उपर्याकाशे विततपक्षतिविस्तृतपक्षमूलः । आमूलाद्विततपक्ष इत्यर्थः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षात्तिः' इति तिप्रत्ययः । अलिगणो भ्रमरसङ्घो गुणेषु रूपादिषु द्रव्यमाश्रयो येषां तेषु द्रव्याश्रयेष्वपि अयुतसिद्धत्वात् , द्रव्यसमवेतत्वाच्च । द्रव्याधीनसत्ताकेषु सत्स्वपीत्यर्थः । पृथग्गतः जलमजनभयात् , स्वाश्रयपरिहारेण स्थितो नीलो वर्णों नीलरूपं गजस्य नीलिमेव रराज । 'गुणे शुक्लादयः पुंसि' इत्यमरः । अत्रालिगणे सादृश्याद्गजनीलत्वाश्रयादन्यत उपलब्धिनिर्वाहाय पृथक्स्थितिविशिष्टत्वमुत्प्रेक्षते ॥ संसर्पिभिः पयसि गैरिकरेणुरागै रम्भोजगर्भरजसाङ्गनिषङ्गिणा च । क्रीडोपभोगमनुभूय सरिन्महेभा वन्योन्यवनपरिवर्तमिव व्यधत्ताम् ॥ ३९ ॥ संसर्पिभिरिति ॥ सरिच्च महेभश्च सरिन्महेभौ पयसि संसर्पिभिः गजात्सरिजले विसृत्वरैः गैरिकरेणवो धातव एव रागास्तैः। करणे घञ् । अङ्गनिषङ्गिणा गजाङ्गसङ्गिना अम्भोजगर्भरजसा पद्मान्तःपरागेण च निमित्तेन क्रीडया लीलया उपभोगं संभोगमनुभूयान्योन्यं मिथो वस्त्रयोः परिवर्तं विनिमयं व्यधत्तामकुरुतामिव । दधातेर्लङि परस्मैपदे तसस्तामादेशः । अत्र सरिन्महेभयोः प्रतीयमाननायिकादेरभेदाध्यवसायेन वस्त्रविनिमयोत्प्रेक्षा ॥ यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः । तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रैः॥ ४० ॥ यामिति ॥ गजेन्द्राः विकसतः समन्तात्पयसि तैलबिन्दुवत्प्रसरतो मदजलस्य चन्द्रकैश्चन्द्राकारैर्मण्डलैर्महानदीनां यां नेत्रश्रियं विदधुः चक्रुस्तां नेत्रश्रिय Page #142 -------------------------------------------------------------------------- ________________ १३० शिशुपालवधे मुत्तरन्तो जलान्निर्गच्छन्तो धौतेषु क्षालितेष्वङ्गेषु लग्नैः सक्तैर्नवनीलपयोजपत्रैर्नवनीलोत्पलदलैरविलम्बितं क्षिप्रमेव प्रत्यवापुः प्रतिभेजिरे । अत्र गजानां नदीनां च समनेत्रश्रीविनिमयोक्त्या समपरिवृत्तिरलंकारः । 'समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥ प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निषादी | रोद्धुं महेभमपरित्रढिमानमागा दाक्रान्तितो न वशमेति महान्परस्य ॥ ४१ ॥ प्रतीति ॥ अन्यदन्तिनं प्रति प्रत्यन्यदन्ति । प्रतिगजाभिमुखमित्यर्थः । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । चलितं धावन्तमत एव निशितेनाशेन दूरं गाढं यथा तथा भिन्नं यन्निर्याणमपाङ्गदेशः । ' अपाङ्गदेशो निर्याणम्' इत्यमरः । तस्मान्निर्यत् निःसरदसृग्यस्य तं महेभं रोद्धुं ग्रहीतुं निषादी यन्ता परिबृंहते प्रभवतीति परिवृढः प्रभुः । बृहतेर्बृहेर्वा कर्तरि क्तप्रत्यये 'प्रभौ परिवृढः ' इति नकारहकारयोर्लोपः निष्ठातकरस्य ढत्वं च निपात्यते । अन्यथा ढलोपस्य सर्वनासिद्धेरिष्टन्नादिषु ' र ऋतो हलादेर्लघोः' इति रेफादेशो न स्यात् । तस्मादिमनिचि रेफादेशे परिवढिमा ततो नञ्समासः । तमपरिव्रढिमानमसामर्थ्य मागात्प्राप । 'इणो गा लुङि' इति गादेशः । तथाहि महान्बलवान् आक्रान्तितो बलात्कारात्परस्य वशं नैति । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः ॥ सेव्योऽपि सानुनयमाकलनाय यत्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभृतः सहन्ते ।। ४२ ।। सेव्य इति ॥ यत्रा निषादिना आकलनाय बन्धनाय सानुनयं ससान्त्वं नीतेन समीपं प्रापितेन गजेन वन्यगजदानैः कृतोऽधिवासो वासना यस्य सः । तद्गन्धीत्यर्थः । शाखी वृक्षः । व्रीह्यादित्वाणिनिः । सेव्योऽपि सन्नाभाजि नासेवि । 'भज सेवायाम् ' कर्मणि लुङि चिणो लुग्वृद्धिश्च । किंतु केवलमभाजि । अभञ्जी - त्यर्थः । 'भञ्जो आमर्दने' । 'भञ्जेश्व चिणि' इति विभाषानलोपः । शेषं पूर्ववत् । तथा हि मानभृतोऽहङ्कारिणोऽन्यस्य गन्धमपि न सहन्ते । परं किमुतेति भावः । अतो वृक्षभञ्जनं गजस्य युक्तमेवेत्यर्थः । पूर्ववदलंकारः ॥ 1 अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य । सेनागजेन मथितस्य निजप्रसूनै र्मम्ले यथामतमगामि कुलैरलीनाम् ॥ ४३ ॥ Page #143 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १३१ अद्रीन्द्रेति ॥ अद्रीन्द्रस्य रैवतकस्य कुशेषु चरति यस्तस्य कुञ्जचरस्य कुञ्जरस्य गण्डकाषेण कपोलसंघर्षणेन संक्रान्तं दानपयो मदाम्बु यस्य तस्यात एव सेनागजेन मथितस्य भग्नस्य वनपादपस्य निजैरात्मीयैः प्रसूनैः पुष्पैः । 'निजमात्मीयानात्मीययोर्भेदे' इति वैजयन्ती। मम्ले म्लानम् । म्लायतेर्भावे लिद । अलीनां कुलैस्तु यथागतमामामि गतम् । आगतक्रमेणैव गतं न तु म्लानमित्यर्थः । 'आपद्यात्मीयनित्ययोः' इति भावः । गमेर्गत्यर्थस्याकर्मकत्वविवक्षणाद्भावे लुङ् । इभवनपादपादीनां विशेषणसाम्यादापन्नाद्यौपम्यप्रतीतेः कथंचित्समासोक्तिरुन्नेया ॥ नोचैर्यदा तरुतलेषु ममुस्तदानी माधोरणैरभिहिताः पृथुमूलशाखाः । बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ॥४४॥ नेति ॥ इभा यदा उच्चैरुन्नतेषु तरुतलेषु न ममुर्नावर्तन्त तदानीमाधोरणैर्नियन्तृभिरभिहिता इमांश्छिन्तेत्युपदिष्टाः पृथुमूलशाखाः बन्धाय स्वबन्धनायैव तरसा बलेनात्मना स्वयमेव चिच्छिदुः । न चैतद्युक्तमिति भावः । यद्वा मूढानां युक्तमेवेत्याह-अथवेति । अथवा मदान्धैरात्मनीनमात्मने हितं न क्रियत एव । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' इति खप्रत्ययः । 'आत्माध्वानी खे' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपो न पूर्ववदर्थान्तरन्यासः ॥ उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्त रुत्फुल्लनीलनलिनोदरतुल्यभासः । एकान्विशालशिरसो हरिचन्दनेषु नागान्वबन्धुरपरान्मनुजा निरासुः ॥४५॥ उष्णोणेति ॥ मनुजा नरा उष्णोप्णा उप्णप्रकाराः । 'प्रकारे गुणवचनस्य' इति द्विवचनम् । कर्मधारयवद्भावात्सुपो लुक् । तान् शीकरान्सृजन्ति मुञ्चन्तीति तथोक्तान् । क्विप् । अन्तः प्रबलोप्मणः प्रवृद्धतापान् । उत्फुल्लं विकचम् । 'उत्फुलसंफुल्लयोरुपसंख्यानम्' इत्युपसर्गेऽपि फुल्लेनिष्ठानत्वम् । तस्य नीलनलिनस्य नीलोत्पलस्योदरेण तुल्यभासः समानकान्तीन् । कृष्णवर्णानित्यर्थः । विशालशिरसो विपुलमस्तकानेकान्कतिचिन्नागान् । गजानित्यर्थः । हरिचन्दनेषु चन्दनविशेषेषु । 'तैलपर्णिकगोशीचे हरिचन्दनमस्त्रियाम्' इत्यमरः । बबन्धुः । अपरान्नागानहीनित्यर्थः । 'दुष्टाभ्राहिगजा नागाः' इत्युभयत्रापि वैजयन्ती। निरासुर्निष्कासयामासुः । अस्यतेर्लिट् । अत्रोभयेषामपि नागानां प्रकृतत्वात्केवलप्रकृतश्लेषः ॥ कण्डूयतः कटभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य । Page #144 -------------------------------------------------------------------------- ________________ १३२ शिशुपालवधे स्थूलेन्द्रनीलशकलावलिकोमलेन ___ कण्ठेगुणत्वमलिनां वलयेन भेजे ॥ ४६ ॥ कण्डूयत इति ॥ कटभुवं गण्डस्थलं कण्डूयतः कषतः । 'कण्ड्वादिभ्यो यक्' ततः शतृप्रत्ययः । कण्डूयतेर्जिद्धातुप्रकृतित्वादुभयपदित्वम् । करिणो मदेन सुगन्धि शोभनगन्धम् । गन्धस्येत्वे तदेकान्तग्रहणं नाद्रियन्ते कवयः। नगस्य वृक्षस्य स्कन्धं प्रकाण्डम् । अनुलीनवता । तत्र संश्लिष्टेनेत्यर्थः । लीयतेर्निष्ठेति क्तवतुप्रत्ययः । 'ल्वादिभ्यः' इति निष्ठानत्वम् । स्थूलानामिन्द्रनीलशकलानामावलिवत्कोमलेन मनोहरेणालिनां वलयेन कण्टेगुणत्वं कण्ठवलयत्वम् । 'अमूर्धमस्तकात्स्वाङ्गादकामे' इत्यलुक् । भेजे प्राप्तम् । कर्मणि लिट् । अत्रालिवलये इन्द्रनीलमयकण्ठभूषणत्वारोपाद्रूपकालंकारः ॥ निर्धूतवीतमपि बालकमुल्ललन्तं ___ यन्ता क्रमेण परिसान्त्वनतर्जनाभिः। शिक्षावशेन शनकैर्वशमानिनाय शास्त्रं हि निश्चितधियां क न सिद्धिमेति ॥४७॥ निर्धूतेति ॥ यन्ता निषादी निधूतं निरस्तं वीतं पादघाताङ्कुशवारणं यस्मिकर्मणि तद्यथा तथा उल्ललन्तमुत्प्लवमानमपि । 'पादकर्म यतं प्रोक्तं यतमङ्कुशवारणम् । उभयं वीतमाख्यातम्' इति हलायुधः । बालकं पञ्चवर्षगजम् । ‘पञ्चवर्षों गजो बालः पोतस्तु दशवार्षिकः' इति वैजयन्ती । शिक्षावशेन स्वकीयेन गजशास्त्राभ्यासबलेन क्रमेण परिपाट्या परिसान्त्वनान्युपलालनानि तर्जना भर्त्सनाश्च ताभिः शनैरेव शनकैः । 'अव्ययसर्वनाम्नामकच् प्राक्टेः' इति स्वार्थेऽकच् प्रत्ययः । शमं शान्तिमानिनाय । तथा हि-सुष्टु निश्चितार्था धीरेषां तेषाम् । पुंसामित्यर्थः । शास्त्रं व सिद्धिं नैति । स्वभ्यस्तं शास्त्रं सर्वत्र फलतीत्यर्थः । विभक्तधना भ्रातरो विभत्ता इतिवद्विनिश्चितार्था धीनिश्चितेत्युपचर्यते । अत एवात्र गम्यमानार्थत्वादुत्तरपदस्याप्रयोगलक्षणो लोप इत्याहुः ॥ स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः । बद्धापराणि परितो निगडान्यलावी त्स्वातत्र्यमुज्वलमवाप करेणुराजः ॥४८॥ स्तम्भमिति ॥ करेणुश्चासौ राजा च करेणुराजो गजश्रेष्ठः । करेणूनां राजेति गजपतिः, राजा च ध्वन्यते । उभयत्रापि ‘राजाहःसखिभ्यः-' इति टच् । उज्ज्वलमुच्छृङ्खलं स्वातत्र्यं स्वेच्छाचारित्वमवाप । तदेवाह-उचितं चिरपरिचितं महान्तं स्तम्भमालानं जाड्यं च सहसा मुमोच । 'स्तम्भः स्थूणाजडत्वयोः' इति Page #145 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः । १३३ I विश्वः । सरस आद्रोऽग्रहस्तः पुष्करं, पाणिश्च यस्य स सन् दानं मदं, दीयत इति दानं धनं चातितरामतिमात्रम् । अव्ययादामुप्रत्ययः । ददौ । ववर्षेत्यर्थः । परितो बद्ध पराणि बद्धपश्चिमपादानि बद्धान्यानि च । 'अपरः पश्चिमः पादः' इति गजप्रकरणे वैजयन्ती । निगडानि शृङ्खलानि । 'अथ शृङ्खले । अन्दुको निगsisar स्यात्' इत्यमरः । अलावीत् लुनाति स्म । 'लूज् छेदने' लुङ् 'अस्ति सिचोऽपृक्ते' इतीट् 'ईट ईटि' इति सलोपः । अत्र करेणुराजपदसाधर्म्यध्वनिः । विशेष्यस्यापि श्लिष्टत्वान्न श्लेष इत्युक्तम् ॥ जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरचोदनाभिः । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोsपि नाम न महानवगृह्य साध्यः ॥ ४९ ॥ जज्ञ इति ॥ गम्भीरं मन्दं वेतीति गम्भीरवेदी । 'स्वग्भेदाच्छोणितस्रावामांसस्य च्यवनादपि । आत्मानं यो न जानाति तस्य गम्भीरवेदिता ॥' इति राजपुत्रीये । 'चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः ॥' इति मृगचर्मीये । तस्मिन्गम्भीरवेदिनि करीन्द्रे संरब्धः कुपितः हस्तिनं पातीति हस्तिपः स एव हस्तिपको निषादी । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः' इत्यमरः । तस्य निष्ठुराभिश्चोदनाभिस्तर्जनाभिरपि मुकुलिताक्षं निमीलितनेत्रं यथा तथा पुरः कवलं ग्रासं अनाददाने सति । मन्दो मूढोऽपि । 'मूढाल्पापटुनिर्भाग्या' इत्यमरः । गजभेदोऽपि । 'भद्रो मन्दो मृगचैव विज्ञेयास्त्रिविधा गजाः' इति । महान् बलाधिकोऽवगृह्य निगृह्य साध्यो न नाम न खल्विति जनैर्जज्ञे ज्ञातम् । जानातेः कर्मणि लिट् । मन्दोऽपीत्यादिवाक्यार्थः कर्म ॥ क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् । सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम् ॥ ५० ॥ क्षिप्तमिति ॥ वारणपतिः करिवरो मुहुः पुरः क्षिप्तमग्रे न्यस्तमिक्षुकाण्ड - दण्डं न जगृहे न स्वीचकार । निकटोपगतां समीपस्थां करेणुं करिणीं च नापेक्षते स्म नेच्छति स्म । 'लट् स्मे' इति भूतार्थे लट् । किंतु परिमीलिताक्षं यथा तथेति स्मृत्यनुभावः । इच्छया विहारा येषु ते वनवासा एव महोत्सवास्तेषां सस्मार । तानेव चिन्तयामासेत्यर्थः । ' अधीगर्थदयेशां कर्मणि' इति शेषत्वविवक्षायां षष्ठी । न स्वच्छन्दचारिणां निर्बन्धे भोगेषु मनः प्रवर्तत इति भावः । वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ शिशु० १२ Page #146 -------------------------------------------------------------------------- ________________ १३४ शिशुपालवधे दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण । उत्क्षिप्तहस्ततलदत्तविधानपिण्ड स्नेहसुतिस्तपितवाहुरिभाधिराजम् ॥५१॥ दुःखेनेति ॥ उत्क्षिप्ते उद्यते हस्ततले दत्तो निहितो यः विधानस्य गजग्रासस्य पिण्डः । 'विधानं हस्तिकवलः' इति वैजयन्ती । तस्य स्नेहस्रुत्या घृतादिनिःस्यन्दनेन स्नपितबाहुराप्लुतभुजः । नातेय॑न्ताकर्मणि क्तः । 'अर्तिही-' इत्यादिना पुगागमः मित्वाद्रस्वः। आशयिता भोजयिता । अशेय॑न्तात्तृच् । तुङ्गाग्रकायं स्वभावत एवोन्नतोर्ध्वकायम् । अनादरेणामनन्तं कवलग्रहणाय नतिमकुर्वाणमिभाधिराजम् । 'गतिबुद्धि-' इत्यादिना अणि कर्तुझे कर्मत्वम् । दुःखेन कृच्छ्रेण भोजयितुं शशाक । स्वभावोन्नतानां तत्राप्यहङ्कारग्रस्तानां को नमयितेति भावः ।। शुक्लांशुकोपरचितानि निरन्तराभि वेश्मनि रश्मिविततानि नराधिपानाम् । चन्द्राकृतीनि गजमण्डलिकाभिरुच्चै 8लाभ्रपतिपरिवेषमिवाधिजग्मुः ॥५२॥ शुक्लेति ॥ शुक्लांशुकैः शुक्लपटैरुपरचितान्युपकल्पितानि, अन्यत्र तु अल्पा अंशवोंऽशुकाः सूक्ष्मास्तेजोऽवयवाः । अल्पे इत्यल्पार्थे कन्प्रत्ययः। शुक्लस्तैरुपरचितानि व्याप्तानि रश्मिभिः प्रग्रहैः, किरणैश्च विततानि विस्तृतानि । 'किरणप्रग्रहौ रश्मी' इत्यमरः । चन्द्रस्येवाकृतिर्येषां तानि चन्द्राकृतीनि । चन्द्रमण्डलनिभानीत्यर्थः । नराधिपानां वेश्मानि दूष्याणि निरन्तराभिर्नीरन्ध्राभिरुच्चैर्गजमण्डलिकाभिर्गजपरिधिभिः। स्वाथै कप्रत्ययः । कात्पूर्वस्येकारः । नीलाभ्रपतिभिः परिवेषं परिधिम् । परिवेष्टनमिति यावत् । 'परिवेषस्तु परिधिः' इत्यमरः । अधि. जग्मुरिवेत्युत्प्रेक्षा ॥ गत्यूनमार्गगतयोऽपि गतोरुमार्गाः खैर समाचकृषिरे भुवि वेल्लनाय । दर्पोदयोल्लसितफेनजलानुसार संलक्ष्यपल्ययनवर्धपदास्तुरङ्गाः ॥ ५३॥ गत्यूनेति ॥ गत्यूना विशिष्टगमनहीना मार्गगतयोऽध्वगमनानि येषां ते तथापि गतोरुमार्गाः प्रस्थितदूराध्वान इति विरोधः। अपिर्विरोधे । गत्यूना मार्गी मृगसंबन्धिनी गतिर्येषां त इति विरोधपरिहारः । अतएव विरोधाभासोऽलंकारः । दर्पस्य तेजसोऽन्तःसारस्योदयेनौत्कट्येनोल्लसितस्योद्धृतस्य फेनजलस्य फेनीभूतोद्धतस्वेदोदकस्यानुसारेण प्रसारण संलक्ष्याणि पल्ययनवर्धाणामासनबन्धचर्मवरत्राणां पदानि तन्नोदनानिम्नीभूतस्थलानि येषां ते तथोक्ताः । तुरङ्गा Page #147 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १३५ भुवि वेल्लनायाङ्गपरिवर्तनाय वैरं मन्दं समाचकृषिरे समाकृष्टाः। अध्वश्रमाप. नोदनार्थमिति भावः। वर्धते दृढबन्धनाद्दी/भवतीति वर्धम् । 'वृधिवपिभ्यां रन्' इत्यौणादिके रन्प्रत्यये लघूपधगुणो रपरः । 'वधं त्रपुवरत्रयोः' इति विश्वः । अमरस्तु 'नधी वर्धी वरना स्यात्' इत्याह । तदा 'ष्ट्रन्' इत्यौणादिके ष्ट्रन्प्रत्यये पूर्व वद्गुणो रपरः प्रत्ययतकारस्य 'झपस्तथो|ऽथः' इति धत्वे वित्त्वात्स्त्रीलिङ्गे ङीष् ॥ आजिघ्रति प्रणतमूर्धनि बाह्निजेऽश्वे तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः। नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः॥ ५४॥ आजिघ्रतीति ॥ बाहिरश्वयोनिर्देशविशेषः तजे बाहिजेऽश्वे । 'बाह्निदेश्ये' इति पाठे विशेष्याप्रयोगो गम्यमानत्वादित्युक्तम् । 'दिगादिभ्यो यत्' इति भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः । प्रणतमूर्धनि नम्रशिरसि कृतप्रणामे च आजिघ्रति गन्धं गृह्णति चुम्बति च सति । स्वभावात्कामाच्चेति भावः । नासाविरोकं नासारन्धं तस्य पवनो निःश्वासस्तेनोल्लसितमुद्धृतं तनीयस्तनुतरं रजस्तस्याश्वस्याङ्गसङ्गमेन वेल्लनप्रयुक्तेन यत्सुखं तस्यानुभवे उत्सुकाया उत्कण्ठितायाः पृथिव्या रोमाञ्चतां जगामेवेत्युत्प्रेक्षा । सा च भूतुरङ्गमयोः प्रतीयमानचेतननायकाद्यभेदाध्यवसायादित्यवधेयम् । विरोचतेऽनेनेति विरोकम् । घञ्प्रत्ययः। 'चजोः कु घिण्यतोः' इति कुत्वम् । 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति नपुंसकत्वाविरोधः । अत एव 'छिद्रं निय॑थनं रोकम्' इत्यमरः । 'रोको रश्मौ बिले न पुम्' इति वैजयन्ती । 'रोको दीप्तौ बिले रोकम्' इति विश्वः । ये तु केनाप्यभिप्रायेण 'विरेकपवन' इति पठन्ति तेषां परोत्सगैंकजीविनामितिवधपानीयपवनप्रतीतेरश्ली. लाख्यो दोषः । 'अश्लीलं तदमङ्गल्यजुगुप्सानीडधीरकम्' इति लक्षणात् ॥ हेम्नः स्थलीषु परितः परिवृत्त्य वाजी धुन्वन्वपुः प्रविततायतकेशपतिः। ज्वालाकणारुणरुचा निकरेण रेणोः शेषेण तेजस इवोल्लसता रराज ॥ ५५ ॥ हेम्न इति ॥ हेम्नः स्थलीषु स्वर्णभूमिषु । 'जानपद-' इत्यादिनाकृत्रिमार्थ ङीष्प्रत्ययः । परितः परिवृत्त्य परिवृत्तिं कृत्वा वपुर्धन्वन् धूलि निर्गमाय कम्पयन अत एव प्रवितता विश्लिष्टा आयता च केशपङ्की रोमसंघातो यस्य स वाजी ज्वालाकणाः स्फुलिङ्गास्तद्वदरुणरुचा रक्तवर्णन रेणोनिकरेणोल्लसता अत्युत्कटतया बहिरुद्वच्छता तेजसोऽन्तःसारस्य दर्पस्य शेषेणातिरेकेणेव रराज । उत्प्रेक्षालंकारः ॥ १ 'बाह्निदेश्ये' इति पाठः. २ 'प्रकरण' इति पाठः. Page #148 -------------------------------------------------------------------------- ________________ शिशुपालवधे दन्तालिकाधरणनिश्चलपाणियुग्म मोदितो हरिरिवोदयशैलमूर्तीः । , स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमितानकायः ॥५६॥ दन्तालिकेति ॥ पुरुषकोऽश्वानां स्थानकभेदः । तदुक्तम्-'पश्चिमेनाग्रपादेन भुवि स्थित्वाप्रपादयोः । ऊर्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥' इति । पुरुष एव पुरुषकः तेन पुरुषकेण स्थानकेनोन्नमित ऊर्ध्वावस्थितोऽग्रकायः पूर्वकायो यस्य स तथोक्तः अत एवोदयशैलस्य मूर्धा मस्तकादर्धमुदितोऽोदितो हरिरिव । सूर्य इव स्थित इत्यर्थः । अर्घोदितविशेषणादुच्चैरुन्नतः श्रीवृक्ष एव श्रीवृक्षकः आवर्तविशेषस्तद्वानश्वः श्रीवृक्षकी । 'वक्षोभवावर्तचतुष्टयं च कण्ठे भवेद्यस्य च रोचमानः । श्रीवृक्षकी नाम हयः स भर्तुः श्रीपुत्रपौत्रादिविवृद्धये स्यात् ॥' इति लक्षणात् । 'श्रीवृक्षकी वक्षसि चेद्रोमावर्ती मुखेऽपि च' इति तु वैजयन्ती । दन्तालिका मुखरज्जुः । 'मुखरज्जुश्च दन्ताली राणिका रक्षणीति च' इति वैजयन्ती। तस्या धरणे ग्रहणे निश्चलं स्थिरं पाणियुग्मं यस्य तम् । पाणिभ्यां दृढं गृहीतोभयवलगमित्यर्थः । वल्लभपालमुत्तमाश्वपालम् । 'वल्लभो दयितेऽध्यक्षे कुलीनेऽश्वेऽपि वल्लभः' इति विश्वः । स्तोकेन नाक्रमत । वल्गाग्रहणदाात्स्तोकेनाप्यभिभवितुं न शक्तोऽभूदित्यर्थः । इह 'श्लथयितुं क्षणमक्षमताङ्गनाद्वन्द्वदुःखमिह किंचित्' इत्यादिवदप्यर्थस्य सामर्थ्यलभ्यत्वादपेरप्रयोगः। अन्यथा स्तोकेन नाक्रमत किंतु भूय इति व्याख्याने निश्चलपाणियुग्मत्वादिविशेषणावगतवाहकौशल्यप्रकाशनतात्पर्यभङ्गप्रसङ्गात् । 'करणे च स्तोका-' इत्यादिना विकल्पात्तृतीया, 'अनुपसर्ग' इति विकल्पादात्मनेपदम् । उपमालंकारः ॥ रेजे जनैः सपनसान्द्रतरार्द्रमूर्ति वैरिवानिमिषदृष्टिभिरीक्ष्यमाणः । श्रीसंनिधानरमणीयतरोऽश्व उच्चै रुच्चैःश्रवा जलनिधेरिव जातमात्रः ॥५७॥ रेज इति ॥ स्नपनेनाभिषेचनेन सान्द्रतराईमूर्तिः अनिमिषदृष्टिभिर्विस्मयादनिमिषार्जनर्देवैरिव ताग्भिरीक्ष्यमाणः श्रियः शोभायाः, देव्याश्च संनिधानेन रमणीयतरः । तत्र संनिहिता लक्ष्मीः सन्ति यत्रोत्तमा हयाः' इत्यागमादिति भावः। उच्चैरुजतोऽश्वो जलनिधेः समुद्राजात एव जातमात्रः। सद्योजात इत्यर्थः। अन्यथोक्तसाधासंभवादिति भावः। 'मानं कात्सर्येऽवधारणे' इत्यमरः। उच्चैरुबतं श्रवः कीर्तिरुनते श्रवसी कौँ वा यस्य स उच्चैःश्रवाः शक्राश्व इव रेजे। उपमालंकारः॥ अश्रावि भूमिपतिभिः क्षणवीतनिद्रै रश्नन्पुरो हरितकं मुदमादधानः। Page #149 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। ग्रीवाग्रलोलकलकिङ्किणिकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ ५८॥ अश्रावीति ॥ पुरोऽग्रे हरितकं हरिततृणमश्नन् अत एव ग्रीवाग्रे लोलाश्रलाः कला अव्यक्तमधुराः किङ्किणिकाः क्षुद्रघण्टिकास्तासां निनादेन मिश्रं दशनानां दन्तानां चचुरशब्दं चर्चुरध्वनि दधत् अत एव मुदमादधान उत्पादयन्नश्वः । जातावेकवचनम् । क्षणेन वीतनिद्रैः । 'अल्पनिद्रोऽल्पभुग्वामी मितभाष्यनसूयकः' इति सौभाग्यलक्षणादिति भावः । भूमिपतिभिरश्रावि श्रुतः । अश्वस्य शब्दोऽश्रावीत्यर्थः। वीणाः श्रूयन्ते भेर्यः श्रूयन्त इत्यादिवच्छब्दधर्मः शब्दिखूपचर्यते । स्वभावोक्तिरलंकारः ॥ उत्खाय दर्पचलितेन सहैव रज्या कीलं प्रयत्नपरमानवदुर्ग्रहेण । आकुल्यकारि कटकस्तुरगेण तूर्ण __मश्वेति विद्रुतमनुद्रवताश्वमन्यम् ॥ ५९॥ उत्खायेति ॥ दर्पाञ्चलितेनोच्चलितेन अत एव रज्वा पाशेन सह कोलं शङ्कम् । 'शङ्कावपि द्वयोः कीलः' इत्यमरः । उत्खाय उत्पाट्य तूर्ण विद्रुतं धावन्तम् । अन्यमश्वम् अश्वेत्यनुगवता वडवेति भ्रान्त्यानुधावता प्रयत्नपरैग्रहीतुं प्रयतमानैरपि मानवैर्मनुष्यैर्दुग्रहेण तुरंगेण कटकः शिबिरमाकुल्यकारि आकुली. कृतः । आकुलशब्दादभूततद्भावे चिः 'अस्य च्वौ' इतीकारः। करोतेः कर्मणि लुङि चिणो लुक् ॥ अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुमव्यतिकीर्णरूपाः। सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांवभूव ॥६॥ अव्याकुलमिति ॥ वलगा मुखरज्जुः सा चोरिक्षप्तादिभेदेन चतुर्दशविधा । तदुक्तं हयलीलावत्याम्-'उत्क्षिप्ता शिथिला तथोत्तरवती मन्दा च वैहायसी विक्षिप्तैककरार्धकंधरसमाकीर्णा विभक्ता तथा । अत्युत्क्षिप्ततलोद्भुते खलु तथा व्यागूढगोकर्णिके वाहानां कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी ॥' इति । तल्लक्षणानि तु तत्रैव द्रष्टव्यानि विस्तरभयान लिख्यन्ते । तस्या विभागो विविच्य प्रयोगः तत्र कुशलो वल्गाविभागकुशल इति । षड्विधप्रेरणाभिज्ञ इत्यर्थः । वलगा. ग्रहणस्य रागाद्युपलक्षणत्वात् । यथाह भोजः-'वाहनं प्रतिवाहानां षड्विधं प्रेरणं विदुः । रागावल्गाकशापार्णिप्रतोदरवभेदतः ॥' इति । कश्चित् कश्चन वाहकः अव्याकुलं अव्यग्रम् । अनस्तमिति यावत् । प्रकर्षेण कृतं प्रकृतम् । सजितमित्यर्थः । मुखे मुखकर्मणि सिद्धं सिद्धिमन्तमश्वं चतुष्काख्ये गतिविशेषे मुखे । संस्थानविशे Page #150 -------------------------------------------------------------------------- ________________ १३८ शिशुपालवधे षादिविशेषणविशिष्टमश्वमित्यर्थः । तदुक्तं रेवतोत्तरे- 'सृकाधरोष्ठसितफेनलवाभिरामफूत्कारवायुपदमुन्नतकंधरापम् । नीत्वोपकुञ्चितमुखं नवलोहसाम्यमश्वं चतुष्कसमये मुखसिद्धमाहुः ॥' उत्तरधेयकर्म युद्धाधुत्तरकाले धेयं विधेयं प्रयोज्यं यत्कर्म क्रिया तद्रूपा इत्यर्थः । अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गतिभेदाः । 'अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरितकं रेचितं वलिगतं प्लुतम् ॥' इति वैजयन्ती । 'गतयोऽमूः पञ्च धाराः' इत्यमरश्च । अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः । 'गतिः पुला चतुष्का च तद्वन्मध्यजवा परा । पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः ॥'एकैका त्रिविधा धारा हयशिक्षाविधौ मता। लध्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत्क्रमात् ॥' इति । तथाच पञ्चदश स्वभेदा भवन्ति । ताः पञ्च धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु संचारस्थानेषु गमयांबभूव । वीथयो नवाश्वानां सर्वत्र धारादाार्थाः परिमिताः प्रचारदेशाः । ताश्च तिस्त्र इत्येके नवेत्यन्ये । तत्रोत्तरपक्षमाश्रित्योक्तं कविना नवस्विति । यथाह भोजः-'वीथ्यस्तिस्रोऽथ धाराणां लघ्वीमध्योत्तमाः क्रमात् । तासां स्याद्धनुषां मानमशीतिर्नवतिः शतम् ॥ लध्वीमध्योत्तमानां तु वाजिनां वीथिकाः स्मृताः । नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्ये. षामपि सर्वत्र गतिदाढार्थमीरिताः ॥ समोन्नता सा विषमाम्बुकीर्णा शुद्धा नताना तृणवीरुदाढ्या । स्थाणुप्रकीर्णोपलसंप्रकीर्णा पाश्र्धोन्नताख्या नवधेति वीथ्यः ॥ सर्ववीथीषु यो वाजी दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृगयायां मुदं ब्रजेत् ॥' इति । अन्ये तु उरसाल्यादयो गतिविशेषा वीथय इत्याहुः । 'उरसाली वरवाली पृथुलो मध्मनामकः । आलीढः शोभनैरङ्गैः प्रत्यालीढस्तथापरः । उपधेनव उक्तं च पादचाली च सर्वगः । निर्दिष्टा वीथयस्त्वेताः' इति ॥ मुक्तास्तृणानि परितः कटकं चरन्त• घुट्यद्वितानतनिकाव्यतिषङ्गभाजः। सत्रुः सरोषपरिचारकवार्यमाणा दामाञ्चलस्खलितलोलपदं तुरंगाः ॥ ६१॥ मुक्ता इति ॥ मुक्ता विहारार्थमुत्सृष्टा अत एव कटकं शिबिरं परितः । 'भ. भितःपरितः-' इत्यादिना द्वितीया । तृणानि चरन्तो भक्षयन्तः त्रुट्यन्तीषु छिनासु वितानत निकासु पटमण्डपरजषु व्यतिषङ्ग सङ्गं भजन्तीति तथोक्ताः । अत एव सरोषैः परिचारकैः किंकरैर्वार्यमाणा अपसार्यमाणास्तुरङ्गा दामाञ्चलानि पादपाशः । 'दामाञ्चलं पादपाशः' इति वैजयन्ती। दूष्यवरत्राबन्धनशङ्कव इति के. चित् । तेषु स्खलितेन लोलानि पदानि यस्मिन्कर्मणि तद्यथा तथा सस्रुरपसस्नुः॥ उत्तीर्णभारलघुनाप्यलघूलपौघ सौहित्यनिःसहतरेण तरोरधस्तात् । रोमन्थमन्थरचलद्गुरुसास्त्रमासां चक्रे निमीलदलसेक्षणमौक्षकेण ॥ ६२ ॥ Page #151 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १३९ उत्तीर्णेति ॥ उत्तीर्णभारमवरोपितावपनम् अत एव लघु तेन तथोक्तेन तथाप्यलघुना उलपानां बल्वजतृणानामोधेन यत्सौहित्यं पूर्तिः । 'पयाप्तमुपसंपन्नं पूर्तिः सौहित्यमुच्यते' इति हलायुधः। तेन निःसहतरेणात्यन्तमसहतरेण बाह्यभारावतारेऽप्यन्तरतिभोजनाद्गुरूभवतेत्यर्थः । सहेनिःपूर्वापचाद्यजन्तात्तरप् प्रत्ययः । 'उलपा बल्वजाः प्रोक्ताः' इति विश्वः । औक्षकेण उक्ष्णां समूहेन । 'गोत्रोक्ष-' इत्यादिना वुञ् प्रत्ययः। तरोरधस्तात्तरुतले रोमन्थः पशूनां चर्वितचर्वणं तेन मन्थरं मन्दं चलन्त्यो गुव्यः साना गलकम्बलानि यस्मिन्कर्मणि तद्यथा तथा । 'रास्ना तु गलकम्बलः' इत्यमरः। किंच निमीलन्ति सुखान्मु. कुलीभवन्ति अलसानि चेक्षणानि यस्मिन्कर्मणि तद्यथा तथा आसांचक्रे आसि. तम् । 'आस उपवेशने' भावे लिट् । 'दयायासश्च' इत्याम्प्रत्ययः । 'कृञ्चानुप्रयुज्यते लिटि' इति कृजोऽनुप्रयोगः । इतःप्रभृत्याचतुष्टयात्स्वभावोक्तिः । मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गैः शिखाग्रगतलक्ष्ममलं हसद्भिः। उच्छृङ्गितान्यवृषभाः सरितां नदन्तो रोधांसि धीरमपचस्करिरे महोक्षाः ॥ ६३ ॥ मृत्पिण्डेति ॥ मृत्पिण्डैर्वप्रक्रीडालग्नैर्मृत्खण्डैः शेखरिताः संजातशेखराः कोटयोऽग्राणि येषां तैरत एव शिखाग्रगतमुभयकोट्यन्तर्गतं लक्ष्मैव मलं यस्य स एवंभूतं श्वेतमर्धचन्द्रं हसद्भिरित्यतिशयोक्तिभेद इत्युक्तम् । अभूतोपमेति मतान्तरम् । शृङ्गैर्विषाणैरुच्छृङ्गा उत्पतितशृङ्गाः कृता उच्छृङ्गिता अन्यवृषभाः प्रतिवृषभा यैस्ते अत एव धीरं गम्भीरं नदन्तो गर्जन्तः महान्त उक्षाणो महोक्षाः । 'अचतुर-' इत्यादिना निपातात्साधुः । सरितां रोधांसि अवचस्करिरे आलिलिखुः । हर्षागुरुजुरित्यर्थः । अवपूर्वाकिरतेः कर्तरि लिट् । 'किरतेर्हर्षजी. विकाकुलायकरणेष्विति वक्तव्यम्' इत्यात्मनेपदम् । 'ऋच्छत्य॒ताम्' इति गुणः, 'अपाच्चतुष्पाच्छकुनिप्वालेखने' इति सुडागमः ॥ मेदखिनः सरभसोपगतानभीका न्भक्त्वा पराननडुहो मुहुराहवेन । ऊर्जस्वलेन सुरभीरनु निःसपत्नं जग्मे जयो रविशालविषाणमुक्ष्णा ॥ ६४॥ मेदस्विन इति ॥ ऊर्जी बलमस्यास्तीति तेन ऊर्जस्वलेन बलिना । 'ज्योत्स्नातमिस्रा-' इत्यादिना निपातः। उक्षणा वृषभेण मेदस्विनो मांसलान् । 'अस्मायामेधास्रजो विनिः' । अत एव सरभसं सत्वरमुपगतान् अभिकामयन्त इत्यभी. कान्कामुकान् । 'कम्रः कामयिताभीकः' इत्यमरः । 'अनुकाभिकाभीकः कमिता' इति निपातः। पराननडुहो बलीवन्मुिहुराहवेन युद्धेन भङ्क्त्वा निर्जित्य जयेनोदुरे निर्भरे । 'ऋक्पूर्-' इत्यादिना समासान्तः। विशाले च विषाणे यस्सिन्क Page #152 -------------------------------------------------------------------------- ________________ १४० शिशुपालवधे मंणि तद्यथा तथा निःसपत्नमप्रतिपक्षं सुरभीरनु गवां पृष्ठतः । 'कर्मप्रवचनीययुक्त द्वितीया' । जग्मे गतम् । भावे लिट् ॥ बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति । लोलोष्ठमौष्ट्रकमुदग्रमुखं तरूणा __म_लिहानि लिलिहे नवपल्लवानि ॥६५॥ बिभ्राणमिति ॥ आयतिमती दैर्ध्यवतीम् । न च वृथा दै_मित्याह-अवृ. थेति । उच्चैस्तरपल्लवग्रहणात्सफलामित्यर्थः । शिरो धीयतेऽस्यामिति शिरोधि श्रीवाम् । 'शिरोधिः कंधरेत्यपि' इत्यमरः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । बिभ्राणं दधानम् । उदग्रमुखं पल्लवग्रहणार्थमूवॉक्षिप्ततुण्डमौष्ट्रकमुष्ट्रसमूहः । 'गोत्रोक्ष-' इत्यादिना वुन् । अधिकमतिशयितो रसः स्वादो यस्यां तामतिरसां प्रत्यग्रतामभिनवत्वं दधन्ति दधति । 'वा नपुंसकस्य-' इति वैकल्पिको नुमागमः । अभ्रं लिहन्तीत्यभ्रंलिहान्युच्चतराणि । 'वहाभ्रे लिहः' इति खश्प्रत्ययः । 'अरुर्द्विषत्-' इत्यादिना मुमागमः । तरूणां नवपल्लवानि । 'पल्लवोऽस्त्री किसल. यम्' इत्यमरः । लोलोष्टं यथा तथा । 'ओत्वोष्ठयोः समासे वा' इति पररूपं वक्तव्यम् । लिलिहे आस्वादयामास । जघासेत्यर्थः ॥ सार्धं कथंचिदुचितैः पिचुमर्दपत्र रास्यान्तरालगतमाम्रदलं म्रदीयः। दासेरकः सपदि संवलितं निषादै विगं पुरा पतगराडिव निर्जगार ॥६६॥ सार्धमिति ॥ उचितैरभ्यस्तैः । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । पिचुमर्दपत्रैर्निम्बदलैः सार्धम् । 'पिचुमर्दश्च निम्बेऽथ' इत्यमरः । कथंचित्प्रमादादास्यान्तरालगतं मुखान्तर्गतं म्रदीयो मृदुतरमाम्रदलं चूतपल्लवं दासेरक उष्ट्रः पुरा निषादैर्लेच्छैः संवलितं युक्तं विप्रं पतगराद गरुत्मानिव निर्जगार उद्गीर्णवान् । पुरा किल कुतश्चित्कारणान्म्लेच्छभक्षणे तैः सहान्तः प्रविश्य गलं दहन्तं विप्रं गरुड उज्जगारेति पौराणिकी कथात्रानुसंधेया ॥ स्पष्टं बहिः स्थितवतेऽपि निवेदयन्त श्चेष्टाविशेषमनुजीविजनाय राज्ञाम् । वैतालिकाः स्फुटपदप्रकटार्थमुच्चै भॊगावलीः कलगिरोऽवसरेषु पेठुः ॥ ६७ ॥ स्पष्टमिति ॥ बहिः स्थितवतेऽप्यनुजीविजनाय । राज्ञोऽवसरकाङ्किण इति भावः । राज्ञां चेष्टाविशेषं तत्कालोचितचरित्र विशेष स्पष्टं निवेदयन्तः। तब्यञ्जक प्रबन्धपाठैरिति भावः । कलगिरो मधुरवाचो वैतालिका मङ्गलपाठकाः अवसरेषु Page #153 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः। १४१ तद्वेलासु स्फुटैः प्रसिद्धैः पदैः प्रकटः प्रकाशोऽर्थोऽभिधेयं यस्मिन्कर्मणि तद्यथा तथा उच्चैर्भोगावलीः प्रबन्धान्पेठुः पठन्ति स्म । 'अत एकहल्मध्येऽनादेशादेलिटि' इत्येत्वाभ्यासलोपौ ॥ उन्नम्रताम्रपटमण्डपमण्डितं त दानीलनागकुलसंकुलमावभासे । संध्यांशुभिन्नघनकर्बुरितान्तरीक्ष लक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ॥ ६८॥ उन्नमेति ॥ उन्ननैरुन्नतैस्तानैर्धातुरक्तैः पटमण्डपैर्दूष्यैर्मण्डितं भासमन्तानीलैर्नागकुलैर्गजसबैः संकुलं अत एव संध्यांशुभिन्नैः संध्यारागसंभिन्नैर्घनैर्मेधैः कर्बुरितस्य चित्रीकृतस्यान्तरीक्षस्य लक्ष्मी विडम्बयत्यनुकरोतीति तत्तथोक्तं शिवकीर्तनस्य मङ्गलकीर्तेः कृष्णस्य तच्छिबिरं कटकमावभासे । मनोहरमभूदित्यर्थः । उपमालंकारः॥ धरस्योद्धर्ताऽसि त्वमिति ननु सर्वत्र जगति प्रतीतस्तत्कि मामतिभरमधः प्रापिपयिषुः । उपालब्धेवोचर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रीडद्विरदमथितोर्वीरुहरवैः ॥ ६९ ।। इति श्रीमाधकृतौ शिशुपालवधे महाकाव्ये यङ्के पञ्चमः सर्गः ॥५॥ धरस्येति ॥ बलैः सैन्यैराक्रान्तो गिरिपती रैवतकः क्रीडद्भिर्विहरमाणैर्द्विरदैर्मथितानां भग्नानामुर्वीरुहाणां वृक्षाणां रवैः शब्दैनिमित्तेन श्रीपति हरिम् । नन्वङ्ग त्वं धरस्य पर्वतस्योद्धर्ता उद्धारकोऽसीति सर्वत्र जगति प्रतीतः प्रसिद्धः १ गोवर्धनोद्धारणादिति भावः । तत्तर्हि किं किमर्थमतिभरमतिभारवन्तं मामधः प्रापिपयिषुः प्रापयितुमिच्छुरसि । प्रापयतेः सन्नन्तादुप्रत्ययः । इत्युच्चैरुपालब्धेव आक्रुक्षदिवेत्युत्प्रेक्षा । उपापर्वाल्लभेर्लुङ् 'एकाच उपदेशे-' इति नेट् । 'झेषस्त. थो?ऽधः' इति तकारस्य धकारः । 'धि च' इति सिचः सकारलोपः । शिखरिणक वृत्तम् । 'रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध काव्यव्याख्याने सर्वकषाख्ये पञ्चमः सर्गः ॥ ५॥ का १ अत्र मल्लिनाथोऽप्युपालम्भयोग्य एव । सिचः सत्वे 'झषस्तथोः-' इत्यस्याप्राप्तेः । तस्मात् 'झलो झलि' इति सलोपे 'झषस्तथोः-' इति धः॥ Page #154 -------------------------------------------------------------------------- ________________ १४२ शिशुपालवधे षष्ठः सर्गः। अथ ऋतुवर्णनं प्रस्तौतिअथ रिम्सुममुं युगपद्रौि कृतयथावतरुप्रसवश्रिया । ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सताम् ॥१॥ अथेति ॥ तथ सेनानिवेशानन्तरं गिरौ रैवतके रिरंसु रन्तुमिच्छुम् । रभेः समन्तादुप्रत्ययः । एतेन ऋतुवर्णनप्रवृत्तेः प्रभुचित्तवृत्तिज्ञानपूर्वकत्वमुक्तम् । सतां साधूनां विपदामन्तं करोतीति विपदन्तकृत् । विप् । तं विपदन्तकृतम् । सेव्य. मिति भावः । अमुं हरिं निषेवितुं स्वतरून्स्वस्वनियतवृक्षाननतिक्रम्य यथास्वतरु। यथार्थेऽव्ययीभावः । यथा स्वतरुस्थिता प्रसवश्रीः पुष्पफलसंपत्तिः यथास्वतरुप्रसवश्रीः । 'प्रसवस्तु फले पुष्पे' इत्यमरः । शाकपार्थिवादिषु द्रष्टव्यः । सा कृता येन तेन कृतयथास्वतस्पसवश्रिया । यथास्वतस्कृतप्रसवश्रियेत्यर्थः। ऋतुगणेन युगपद्भुवि पदमादधे आहितम् । युगपतुगणः प्रादुरभूदित्यर्थः। नाक्सरं सेवकाः क्षिपन्तीति भावः । अत्र सर्गे सर्वत्र यमकं शब्दालंकारः । तल्लक्षणं तूक्तं चतुर्थे । अर्थालंकारस्तु यथासंभवमूह्यः । अस्मिन्सगै द्रुतविलम्बितं वृत्तम् । 'दुतविलम्बि. तमाह नभौ भरौ' इति लक्षणात् ॥ अथ लोकवेदयोः प्राथम्येन व्यवहाराद्वसन्तमादौ वर्णयतिनवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥२॥ नवेति ॥ स हरिः पुरोऽग्रे प्रथमं वा नवपलाशानि नूतनपर्णानि पलाशवनानि किंशुककाननानि यस्मिंस्तं नवपलाशपलाशवनम् । बहुव्रीहिपूर्वपदो बहुव्रीहिः। 'पलाशः किंशुके पत्रे पलाशम्' इति विश्वः । स्फुटानि विकचानि परागैः रजोभिः परागतानि व्याप्तानि च पङ्कजानि यस्मिंस्तं स्फुटपरागपरागतपङ्कजं । मृदुलाः कोमला अतएव तान्ताः आतपसमये किंचिन्मालां लतान्ताः पल्लवा यस्मिंस्तं मृदुलतान्तलतान्तं सुमनोभरैः पुष्पसमृद्धिभिः सुरभि सुगन्धि सुरभि वसन्तमलोकयदपश्यत् । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । सुगन्धौ च मनोज्ञे च वाच्यवत्' इति विश्वः। इह प्रतिपादं प्रथमाक्षरद्वयात्पर. तोऽक्षरत्रयावृत्तिरूपयमकप्रक्रमाच्चतुर्थपादेऽपि तदेव यमकम् । एकस्मादप्यपरमिति सजातीयसंसृष्टिः॥ विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥३॥ विलुलितेति ॥ विलुलितालकसंहतिर्विधुतचिकुरनिकुरः सन्मृगदृशां ललाटजं श्रमवारि स्वेदमामृशन्परिमृजन् । मन्द इति भावः । सरसां तनुतरङ्गततिं Page #155 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १४३ दलन्ति विकसन्ति कुवलयानि यस्मिन्कर्मणि तद्यथा तथा वलयंश्चालयन् । शीतल इति भावः । मरुद्वसन्तवायुराववौ आवाति स्म ॥ तुलयति स विलोचनतारकाः कुरबकस्तवकव्यतिषङ्गिणि । गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ४ तुलयतीति ॥ कुरबकस्तबके व्यतिषणिणि लग्ने अत एव गुणवतः शुक्लगु. णस्य कुरबकस्तबकस्याश्रयेणाश्रयणेन लब्धो गुणोदयो निजनीलिमगुणोत्कर्षों येन तस्मिन् । धवले नीलस्य स्फुरणादिति भावः । अलिनि भ्रमरे मलिनस्य भावो मलिनिमा कृष्णत्वं माधवयोषितां अरिवधूनां विलोचनानां तारकाः कनी. निकाः । 'तारकाक्ष्णः कनीनिका' इत्यमरः । तुलयति स्म समीचकार । तद्वद्धभावित्यर्थः । तुलाशब्दात्सदृशपर्यायात् 'तत्करोति-' इति ण्यन्तात् 'लट् स्से' इति भूते लट् । उपमालंकारः॥ स्फुटमिवोज्वलकाश्चनकान्तिभिर्युतमशोकमशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ५ स्फुटमिति ॥ उज्ज्वलकाञ्चनकान्तिभिः शुद्धसुवर्णप्रभैश्चम्पकैयुतम् । चम्पकसमूहमध्यगतमित्यर्थः । स्फुटं विकत्रमशोकपुप्पं भिदा भेदः। 'पिद्भिदादिभ्योऽङ्' । तां विभर्ति यत्तस्य भिदाभृतो भिन्नस्य विरहिणां हृदयस्य हृदयपिण्डस्य संबन्धि मदनाग्निना कपिशितं कपिशीकृतं पिशितं मांसमिवाशोभतेत्युत्प्रेक्षा ॥ स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः। निपतिताः परितः पथिकवजानुपरि ते परितेपुरतो भृशम् ॥६॥ स्मरेति ॥ आम्रवणस्य चूतवनस्य । 'भाम्रश्भूतो रसालोऽसौ' इत्यमरः । 'प्रनिरन्तःशर-' इत्यादिना वननकारस्य णत्वम् । रजःकणाः परागचूर्णाः सरहु. ताशनः कामाग्निः स एव मुर्मुरस्तुपाग्निः 'मुर्मुरस्तु तुषानलः' इति वैजयन्ती । तस्य चूर्णतां दधुरिवेत्युत्प्रेक्षा । अतो मुर्मुरचूर्णत्वादेव परित उपरि निपतितास्ते रजःकणाः पन्थानं गच्छन्तीति पथिकाः । 'पथः कन्' इति कन्प्रत्ययः । तेषां बजान्भृशं परितेपुः परितापयामासुः । अतो मुर्मुरचूर्णत्वोत्प्रेक्षणमिति भावः ॥ रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका। बकुलपुष्परसासवपेशलध्वनिरगानिरगान्मधुपावलिः ॥ ७॥ रतिपतीति ॥ प्रियतमेषु विषये कृतयुधः कृतरुषः । 'प्रतिघा रुद्रुधौ स्त्रियाम्' इत्यमरः । वधूरनुनायिका कुपितस्वीरनुनेष्यन्ती । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति भविष्यदर्थे ण्वुल प्रत्ययः । 'अकेनोभविष्यदाधमर्ययोः' इति षष्टीप्रतिषेधाद्वधूरिति द्वितीया । रतिपतिना कामेन प्रहिता प्रेषितेव तद्वाणीश्रवणानन्तरमेव तासां कोपत्यागदर्शनादियमुत्प्रेक्षा । बकुलपुष्पाणां रसो मकरन्दः स एवासवस्तेन तत्पानेन पेशलध्वनिर्मधुरस्वरा मधुपावलिः की न गच्छतीत्यगादृक्षानिर्गता । 'इणो गा लुङि' इति गादेशः ॥ Page #156 -------------------------------------------------------------------------- ________________ १४४ शिशुपालवधे प्रियसखीसदृशं प्रतबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्णरुमत्सरच्छिदुरयाऽदुरनाचितमङ्गनाः॥८॥ प्रियसखीति ॥ गुरोर्महतो मत्सरस्य द्वेषस्य छिदुरया छत्र्या । 'विदिभिदिच्छिदेः कुरच्' । काम्यगिरा ग्राह्यवाचा परपुष्टया कोकिलया प्रियसख्या सदृशं यथा तथा किमपि परैर्दुबौधं रहस्यं हितं प्रतिबोधिता उपदिष्टा अङ्गनाः प्रियत. माय अयाचितमप्रार्थितमेव वपुर्निजाङ्गमदुरर्पयामासुः । ददातेलुंङि 'गातिस्था-' इत्यादिना सिचो लुक् । कोकिलाकूजितश्रवणानन्तरमेवाङ्गार्पणादौत्सुक्यहेतुकाछनन्तरन्यायेन तथा किमपि बोधिता इत्युत्प्रेक्षा ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वरजिता रजिता वशमाययुः॥९॥ मधुकरैति ॥ मधुकरैः कर्तृभिः। अपवादं मृगवञ्चनाय घण्टादिकुत्सितवाद्यं कुर्वन्तीत्यपवादकरा व्याधास्तैरिव पथिका हरिणा इव परिवादिनीस्वर. जिता वीणाविशेषध्वनिजयिन्या । 'सप्तभिः परिवादिनी' इत्यमरः । जेः क्विपि नुक् । वचसो गीतस्य कलतया माधुर्येण करणेन रजिताः। आकृष्टाः सन्त इत्यर्थः । रञ्जय॑न्तात्कर्मणि क्तः । 'रओौँ मृगरमणे-' इति उपधानकारलोपः। इहोपमानमृगसादृश्यादौपचारिकं मृगत्वम् उपमेयेषु पथिकेष्वस्तीत्यविरोधः । स्मृतिभुवः स्मरस्य मृगपातचिन्ताविषयत्वान्मृगग्रहणगर्त देशस्य च वशमाययुः । यथा व्याधगानासत्या गर्ते मृगाः पतन्ति तद्वन्मधुकरहुंकाराकृष्टाः पान्थाः स्मरपारवश्यं भेजुरित्यर्थः । अनेकवेयमुपमा ॥ समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीपया । अविनमन्न रराज वृथोचकैरनृतया नृतया वनपादपः ॥१०॥ समभिसृत्येति ॥ प्रमदया का कुसुमानामवचिचीषयावचेतुमिच्छया । रिरंसयेति भावः । चिनोतेः सन्नन्तात् 'अप्रत्ययात्' इति स्त्रियामकारप्रत्ययः । 'विभाषा चेः' इति विकल्पात्कुत्वाभावः। रसादागात्समभिसृस्य समागत्यावलम्बितो हस्तेन गृहीतस्तथाप्यविनमन्वशमगच्छन् अत एव वृथोच्चकैर्व्यर्थमुन्नतो बनपादपः । न तु नागरिक इति भावः । न तेत्यनृता असत्या तया अनृतया नुभोवो नृता तया नृतया पुंस्त्वेन रराज । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । यः कान्ताकरगृहीतोऽपि न द्रवति स नपुंसक एव, लौकिकस्तु पुंस्त्वव्यपदेशो मिथ्यैवेति भावः ॥ अथ कश्चित्स्वयंग्रहाश्लेषसुखार्थं प्रियामलिपातेन भीषयंत्रिभिः कुलकेनाहइदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः। स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥ ११ ॥ इदमित्यादि ॥ स्तनभरेण साधनेन जिताभ्यां स्तबकाभ्यामानमन्ती नवलता यथा सा तथोक्ता तस्याः संबुद्धिर्जितस्तबकानमन्नवलते स्तबकानमन्नवलतोपमे Page #157 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १४५ इत्यर्थः । अत एवेदं विरागि विरक्तिमदलिकदम्बकं परागिणीः घरागवतीरिति विरक्तिहेतूक्तिः । अम्बुरुहां ततीरपास्य तवाभिमुखं वलते चलति । विशिष्टलताभ्रमादिति भावः । तथा च भ्रान्तिमदलंकारो व्यज्यते ॥ अथालेस्तदभिमुखागमने कारणमाहसुरभिणि श्वसिते दधतस्तृपं नवसुधामधुरे च तवाधरे । अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥१२॥ सुरभीति ॥ तव सुरभिणि श्वसिते निश्वासमारुते नवसुधावन्मधुरे अधरे च तृपं तृष्णां दधतो दधानस्यालेभ्रमरस्य ममेवामू उपलभ्यमानौ सुमनसां पुष्पाणां संबन्धिनौ सौमनसौ गन्धरसौ सौरभमाधुर्ये मनसोऽन्तःकरणस्य मुदे नालं न पर्याप्तौ । अतस्त्वद्वदनरसगन्धलोभादागच्छतीत्यर्थः । 'नमःस्वस्ति-' इत्यादिना चतुर्थी । अत्र कान्ताकर्तृकस्वयंग्रहाश्लेषसुखार्थिनः प्रियस्य तद्भयहे. तोरलेरेवागमनहेतुत्वेनात्र दृष्टान्तेन मुखसौरभरसलोभभरकुसुमवैराग्ययोर्वर्णयितुमौचित्याद्यमकानुसारेण विप्रकृष्टेनापि ममशब्देनेवशब्दस्यान्वयः। 'वलतेऽभिमुखं तव अलिभयादिव सस्वज' इत्युपक्रमोपसंहाराभ्यामलेः प्रकृतत्वेनोपमेयत्वावगमात् । अन्यथा मध्ये तद्वैपरीत्ये तद्विरोधादित्यलमहिचलनाध्वमार्गणेन । अत्रोपमानुप्रासयमकानां तावद्विजातीयानां संसृष्टिः स्पष्टैव । तथा यमकानां त्रयाणां चतुर्थपादादावेकरमादक्षरात्, द्वाभ्यां त्रिभ्यश्च परतोऽक्षरत्रयात्तिलक्षणानां स्थितत्वात्सजातीयसंसृष्टिश्चेष्टा ॥ इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोचतरस्तनी । प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सखजे ॥१३॥ इतीति ॥ इतीत्थं गदन्तं प्रणयिनं अनन्तरं भुजयुगस्योन्नमनेनोच्चतरावन्युनतौ स्तनौ यस्याः सा । 'स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' इति ङीष् । वलिभया वलयो विद्यन्ते यस्यास्तया वलिमत्या । 'तुन्दिवलिवटेर्भः' इति भप्रत्ययः । उदरश्रिया मध्यशोभया उपलक्षिता अङ्गना अलिभयादिव रभसात्सस्वजे आलिलिङ्ग । वस्तुतस्तु रागादेवेति भावः । 'प्वा परिष्वङ्गे' इति धातोः कतरि लिट् । 'लजामन्मथमध्यस्था मध्येयं नायिका मता' इति ॥ वदनसौरभलोभपरिभ्रमद्धमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया १४ वदनेति ॥ वदनस्य सौरभे सौगन्ध्ये लोभेन परिभ्रमता भ्रमरेण हेतुना यः संभ्रमस्तेन संभृतशोभया संपादितश्रिया चलितया अलिसंभ्रमात्प्रस्थितया अत एवालकैरलकपातैलॊलदृशा चञ्चलाक्ष्या अन्यया स्यन्तरेण कलो मेखलायाः कलकलः कोलाहलो विदधे विहितः । अलिभयादपसरन्त्याः काञ्चीगुणध्वनिरजनीत्यर्थः । एतेन चकितत्वमुक्तम् । चकितं भयसंभ्रमः । अनुप्रासयमकयोः सजातीयशब्दालंकारयोः संसृष्टिः स्पष्टैव तावत् । तथा यमकयोश्च द्वयोः सजातीययोः शिशु० १३ Page #158 -------------------------------------------------------------------------- ________________ १४६ शिशुपालवधे चतुर्थपादादावेकस्मादक्षराष्ट्राभ्यां च परतोऽक्षरत्रयावृत्तिलक्षणयोः स्थितत्वात्सजातीययोः संसृष्टिः ॥ अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः। सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः १५ अजगणन्निति ॥ याः कुकुरस्त्रियो यादवाङ्गनाः गणशो बहुशः। 'बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' इति शस् प्रत्ययः । अग्रतः प्रणतमपि प्रियम् । जासावेकवचनम् । प्रियानित्यर्थः । अभिमानिनीनां भावोऽभिमानिता तया । 'त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः' । नाजगणन्न गणयन्ति स्म । गणेश्चौरादिकाण्णौ चडि 'ई च गणः' इत्यभ्यासस्य पाक्षिक इत्वाभावः। ताः कुकुरस्त्रियो मधौ वसन्ते सति प्रवर्तमाने । 'मधुश्चैत्रे वसन्ते च' इति विश्वः । मदनव्यथाविधुरिता विह्वलिताः सत्यः धुरि अग्रेऽभवन्नवर्तन्त । स्वयमेव पुरः प्रवृत्ता इत्यर्थः ।। कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुमुहुर्गतभर्तकाः॥१६॥ कुसुमेति ॥ गतभर्तृका वियोगिन्यः । 'नवृतश्च' इति कप् । अपराः काश्चिदङ्गनाः कुसुमकार्मुकस्य कामस्य कार्मुके संहितैः दुतैर्जवनैः शिलीमुखैः शरैः खण्डितविग्रहाः पाटितशरीराः सत्यो मरणमपि प्रतिपेदिरे। मुहुः पुनःपुनः मुमुहुर्मुमूच्छुरिति किमु वक्तव्यमित्यर्थः ॥ अथ कस्याश्चित्प्रोषितभर्तृकाया बन्धुजनसमाश्वासनं विशेषकेणाहरुरुदिषा वदनाम्बुरुहश्रियः सुतनु सत्यमलंकरणाय ते । तदपि संप्रति संनिहिते मधावधिगमं धिगमङ्गलमश्रुणः॥१७॥ रुरुदिषेति ॥ हे सुतनु शुभाङ्गि, 'अम्बार्थनद्योर्हस्वः' इति हस्वत्वम् । दीर्घोत्तरपदो बहुव्रीहिः अन्यथा गुणः स्यात् । रुरुदिपा रोदनेच्छा । अश्रुविमोचनमित्यर्थः । रुदः सन्नन्तादप्रत्यये टाप् । ते तव वदनाम्बुरुहश्रियोऽलंकरणाय सत्यम् । 'रम्याणां विकृतिरपि श्रियं तनोति' इति न्यायादिति भावः । गम्यमानक्रियापेक्षत्वाच्चतुर्थी । तदपि तथापि संप्रति मधौ वसन्ते संनिहिते संनिहितोत्सवे सति अश्रुणोऽधिगमं प्राप्तिममङ्गलं धिक् निन्दतीत्यर्थः । 'घि निर्भर्त्सननिन्दयोः' इत्यमरः । 'धिगुपर्यादिषु त्रिपु' इति द्वितीया । अतो मा रुद इत्यर्थः ॥ त्यजति कष्टमसावचिरादमुन्विरहवेदनयेत्यघशङ्किभिः । प्रियतया गदितास्त्वयि वान्धवैरवितथा वितथाः सखि मा गिरः त्यजतीति ॥ प्रियतया इष्टतया अघशङ्किभिरनर्थोत्प्रेक्षिभिः। 'प्रेम पश्यति भयान्यपदेऽपि' इति भावः । बान्धवैस्त्वयि विषये गदिता उच्चारिताः कष्टं बत असौ बाला विरहवेदनया अचिरादसून्प्राणांस्त्यजति त्यक्ष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । इत्येवंविधा गिर उक्तीः हे सखि, विगतं तथात्वं यासां ता वितथा अनृताः । 'वितथं त्वनृतं वचः' इत्यमरः । बहुव्रीहौ विशेष्य Page #159 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १४७. लिङ्गता । ब्राह्मणादित्वाद्रस्वः । ततो नसमासः । अवितथाः सत्यः मा वितथा मा कृथाः । वृथातिशोकेन मा मृथा इत्यर्थः । विपूर्वोत्तनोते ङि थास् 'तनादिभ्यस्तथासोः' इति विभाषा सिचो लुक् 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः 'न माङयोगे' इत्यडागमप्रतिषेधः ॥ न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः । प्रणयिनो निशमय्य वधूर्वहिः स्वरमृतैरमृतैरिव निर्ववौ ॥१९॥ नेति ॥ किं चासौ ते प्रणयी दूरगतो दूरस्थोऽपि महं वसन्तोत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । नातिवर्तते नातिकामति खलु इति बन्धुतया बन्धुसमूहेन । 'ग्रामजनबन्धुसहायेभ्यस्तल्' इति तत्प्रत्ययः । उदितैरुक्कैः । वदेः कर्मणि क्तः । ऋतैः सत्यवचनैः । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । बहिः प्रणयिनस्तदैव दैवादागतस्य प्रियस्य स्वरं कण्ठगतं शब्दं निशमय्य श्रुत्वा । 'शमु अदर्शने' इति चौरादिकाट्यप्' 'मित्त्वाद्रस्वः' 'ल्यपि लघुपूर्वात्' इत्ययादेशः । वधूरमृतैः सुधाभिरिव निर्ववौ निर्ववार । वातेर्लिट् । 'निर्वाणं निर्वृतिः सुखम्' इति ॥ ॥ विशेषकम् ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुजगे ॥२०॥ मधुरयेति ॥ मधुरया मनोहरया मधुना वसन्तेन बोधिताः विकासिताश्च ता माधव्यश्च । पुष्पधर्मः पुष्पितासूपचर्यते । तासां माधवीनामतिमुक्तलतानाम् । 'अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता' इत्यमरः। मधुसमृद्ध्या मकरन्दसंपदा समेधितमेधया संवर्धितप्रतिभया अत एवोन्मदयतीत्युन्मदो मदकरः। पचाद्यच् । तं ध्वनि बिभर्तीत्युन्मदध्वनिभृत् तया मधुकराङ्गनया मुहुर्निभृताक्षरम् । लक्षणयास्थिरनादं यथा तथेत्यर्थः । अथवा सर्वः शब्दो वर्णात्मक एव व्यञ्जकविशेषाभावादस्फुट इति मतमाश्रित्योक्तं सर्वपथीनाः कवय इति । उज्जगे उच्चैर्गीतम् । गायतेरविवक्षितकर्मकाद्भावे लिट् । 'बन्धवैपम्यराहित्यं समता पदगुम्फने' इति लक्षणात्समताख्यो गुणः ॥ अरुणिताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः। विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २१॥ अरुणितेति ॥ अरुणितान्यरुणीकृतान्यखिलानि शैलवनानि यया सा मुहुः पथिकानध्वगान् , विरहिणश्च परितापिनः संतापवतो विदधती उच्चैरेवोच्चकैरुबता । 'अव्ययसर्वनाम्नामकच्याक्टेः' इत्यकच् प्रत्ययः। विकचा विकसिता या किंशुकसंहतिः पलाशकुसुमराशिः सा दवहव्यवहश्रियं दवाग्निशोभामुदवहत् । निदर्शनालंकारः ॥ इति वसन्तवर्णनम् ॥ १ व्याख्यासुधायां तु 'अजिति योगविभागेन समासान्तेऽचि जाते 'यस्येति च' इति आकारलोपः इत्युक्तम् । Page #160 -------------------------------------------------------------------------- ________________ १४८ शिशुपालवधे अथ ग्रीष्मवर्णनमारभतेरवितुरंगतनूरुहतुल्यतां दधति यत्र शिरीपरजोरुचः। उपययौ विदधन्नवमल्लिकाः शुचिरसो चिरसौरभसंपदः॥२२॥ रवीत्यादि ॥ यत्र शुचौ शिरीपरजसां रुचः कान्तयो रवितुरंगतनूरुहतुल्यता सूर्याश्वरोमसावयं दधति । हरिद्वर्णा भवन्तीत्यर्थः । असौ शुचिर्गीप्मः। 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोस्तथा । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः । नवमल्लिकाः । 'पुष्पे जातीप्रभृतयः स्वलिङ्गाः' इत्यमरः । 'पुष्पमूलेषु बहुलम्' इति बहुलग्रहणाल्लुप् । लुपि युक्तवद्ध्यक्तिवचने भवतः । चिरं चिरावस्थायिनी सौरभसंपद्यासां ताः । स्थिरगन्धा इत्यर्थः । विदधत्कुर्वन्नुपययौ प्राप्तः ।। दलितकोमलपाटलकुमले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलो मदलौल्यमुपाददे॥२३॥ दलितेति ॥ पाटलाया अवयवाः पाटलाः । लुक्प्रकरणे 'पुष्पमूलेषु बहुलम्' इति बहुलग्रहणादलुक् । ते च ते कुङालाश्च । दलिता विभिन्नाः कोमलाः पाटलकुमला येन तस्मिन् निजवधूनां श्वसितं निःश्वासमनुविधत्तेऽनुकरोतीति तथोक्ते । तादृशीत्यर्थः । उन्मदा भ्रमन्तश्चालयो यस्मिंस्तस्मिन् उन्मदभ्रमदलो मरुति ग्रीष्मानिले वाति वहति सति । वातेर्लटः शत्रादेशः। विलासिभिर्विलसनशीलैः कामिभिः । 'वो कषलसकत्थस्त्रम्भः' इति घिनुण्प्रत्ययः । मदेन लौल्यं चापल्यमुपाददे । मत्तैर्जातमित्यर्थः ॥ निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः । सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥२४॥ निदधिर इति ॥ वरोरुभिः स्त्रीभिः तत्क्षणस्नपनेन सद्यः सेकेन वारितुषारभृतः । जलशीकरधारिण इत्यर्थः। 'तुषारौ हिमशीकरौ' इति शाश्वतः। स्तना दयितोरसि निदधिरे निहिताः । तेषां संतापशान्तये स्नानार्द्राङ्गा एव आलिङ्गन्नित्यर्थः । किंच करेण पाणिना सरस आर्द्रश्चन्दनरेणुः घृष्टचन्दनपश्चानुक्षणं विचकरे विकीर्णः। किरतेः कर्मणि लिद । 'ऋच्छत्यताम्' इति गुणः । करेणुकरोरुभिरिति पाठस्तु 'ऊरूत्तरपदादौपम्ये' इत्यूप्रसङ्गाद्धेयः ॥ इति ग्रीष्मवर्णनम् ॥ अथ वर्षावतारमाहस्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितस्वसमया समयाजगतीधरम् ॥२५॥ स्फुरदिति ॥ स्फुरन्ती अधीरे चञ्चले तडितौ नयने इव तडिन्नयने यस्याः सा अगलिता अरिक्ता ऊरुपयोधरा मेघाः यस्याम् , अन्यत्र ऊरू च पयोधरौ च ऊरुपयोधरम् । प्राण्यङ्गत्वावन्द्वैकवद्भावः:। न गलितं न पतितं यस्यां सा जलधरावलिर्मेघपङ्क्तिः । अत्र जलधरावलेः पयोधराणां चावयवावयविभावात्पृथङ्गिदेशः । अप्रतिपालितस्वसमया अनपेक्षितानिजवेला सती। एकत्र योगपद्यादन्य Page #161 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १४९ बाधैर्याच्चैति भावः । जगतीधरं रैवतकं भूधरं प्रियमिव समयात्समागच्छत् । यातेर्लङ् । पयोजगतीशब्दयोः पचाद्यजन्तेन धरशब्देन षष्ठीसमासः। अत्र विशेषणमहिम्ना जलधरावलौ नायिकात्यप्रतीतेः समासोक्तिः, सा तु प्रियमिवेत्युपमयाङ्गेन संकीर्यते ॥ गजकदम्बकमेचकमुच्चकैनभसि वीक्ष्य नवाम्बुदमम्बरे। अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥२६॥ गजेति ॥ नभसि श्रावणमासे । 'नभाः श्रावणिकश्च सः' इत्यमरः । अम्बरे व्योनि गजकदम्बकमिव मेचकं श्यामलम् । 'कालश्यामलमेचकाः' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं नवाम्बुदं वीक्ष्य अङ्गना एक एकायनो रसो रागो यस्य तमेकरसम् । तिरस्कृतरसान्तरमित्यर्थः । कं वल्लभं प्रियं रह एकान्ते न चमके न कामयते स्म, तथा नाभिससार च । सर्ववल्लभं सर्वापि तत्तदङ्गाना चमके अभिससार चेति । नवाम्बुदस्योद्दीपकत्वादतिशयोक्तिः । इह कामनापूर्वकत्वादभिसरणस्य तयोरर्थक्रमबलीयस्त्वन्यायेन यमकवशायातपाठक्रमबाधेन योजना न्याय्यैव ॥ अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् । धृतधनुर्वलयस्य पयोमुचः शवलिमा बलिमानमुषो वपुः ॥२७॥ अनुययाविति ॥ धृतधनुर्वलयस्य धृतेन्द्रचापमण्डलस्य पयोमुचो मेघस्य संबन्धी शबलस्य भावः शबलिमा विचित्रता । 'पृथ्वादिभ्य इमनिज्वा' । विविधा नानावर्णा उपला मणयो ययोस्तयोः कुण्डलयोद्युतिवितानकेन कान्तिपुञ्जेन संवलिता मिलिता अंशवो निजनीलभासो यस्य तत्तथोक्तम् । 'शेषाद्विभाषा' इति कप्प्रत्ययः । बलिमानमुषो बल्यसुराहंकारापहारकस्य हरेर्वपुरनुययावनुचचार । तद्वद्वभावित्यर्थः । उपमालंकारः॥ द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी । नवतमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥२८॥ द्रुतेति ॥ द्रुतसमीरेण शीघ्रमारुतेन चलैरिदैः क्षणं लक्षिता च व्यवहिता च सा क्षणलक्षितव्यवहिता। क्षणिकाविर्भावतिरोधानेत्यर्थः । स्नातानुलिप्तवत् 'पूर्वकालैक-' इत्यादिना समासः । अचिरं रोचिर्यस्याः सा अचिररोचिर्विद्युत् द्रुतसमीरचलैर्विटपैः शाखाभिः क्षणलक्षितव्यवहिता नवतमालनिभस्य नवतमालेन सदृशस्य । तद्वन्नीलस्येत्यर्थः । नित्यसमासः । नभस्तरुरिव तस्य नभस्तरोर्मञ्जरी गुच्छ इवारोचत । उपमालंकारः । अत्र नभस्तरोनभःश्रेष्ठस्येति व्याख्याने तरुशब्दस्य व्याघ्रादिवच्छ्रेष्ठार्थगोचरत्वात्तमालशब्देन विशेषवाचिना तन्नीलसामान्येन पौनरुक्त्यमिति वल्लभः। तमालशब्दस्येन्द्रनीलवन्नैल्यमानोपमानत्वात्तरशब्दस्य स्वार्थवृत्तित्वेऽपि न पौनरुक्त्यमित्यन्ये ॥ पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती । सनयनाम्बुसखीजनसंभ्रमाद्विधुरबन्धुरवन्धुरमैक्षत ॥ २९ ॥ Page #162 -------------------------------------------------------------------------- ________________ शिशुपालवधे पटलमिति ॥ पथिकाङ्गना काचित्प्रोषितभर्तृका अत एव सपदि जीवितसंशयं मरणमेष्यती । निश्चितमरणेत्यर्थः । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । अत एव सनयनाम्बोः सबाप्पस्य सखीजनस्य संभ्रमात्क्षोभाद्विधुरबन्धुः संभ्रमदर्शनाह्विलबन्धुजना सती अम्बुमुचां पटलमबन्धुरमशोभनम् । सदैन्यरोषमिति यावत् । ऐक्षत । ईक्षतेर्लङ् 'आटच' इति वृद्धिः । इह विरहवेदनाक्षमाया नायिकाया मरणसाधनमेघपटलावेक्षणवर्णनायां तदुद्योगलक्षणा मरणावस्थोक्ता । सा हि द्विविधा तदुद्योगस्तद्योगश्चेत्याहुः । ' दृङ्मनः सङ्गसंकल्पा जागरः कृशतारतिः । . ही या गोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ॥' इत्यवस्थासंग्रहः ॥ १५० प्रवसतः सुतरामुदकम्पयद्विदलकन्दलकम्पनलालितः । नमयति स्म वनानि मनस्विनीजनमनो नमनो घनमारुतः ३० प्रवसत इति ॥ कन्दली भूकन्दली । 'द्रोणपर्णी स्निग्धकन्दा कन्दली भूमिकन्दली' इति शब्दार्णवः । तस्याः पुष्पाणि कन्दलानि । 'फले लुक्' इत्यणो लुक् । विदलानां विकचानां कन्दलानां कम्पनेनावधूननेन लालित उपस्कृतो मनस्विनीजनस्य मनसां नमनो नमयिता । मानिनी मानभञ्जन इत्यर्थः । कर्तरि ल्युट् | घनमारुतो मेघवायुः वनानि नमयति स्म । प्रवसतः प्रोषितान्सुतरामुदकम्पयदुद्वेजितवान् । मनस्विनी मानमर्दनस्य वननमनं प्रोषितकम्पनं वा कियदिति भावः ॥ जलदपङ्किरनर्तयदुन्मदं कलविलापिकलापिकदम्बकम् । कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ||३१|| जलदेति ॥ निजया आत्मीयया स्वनसंपदा कृतः समार्जनस्य मार्जनाख्यसंस्कारसहितस्य मर्दलमण्डलस्य ध्वनेर्जयो यया सा तथोक्ता । मार्जनं नाम मर्द - लानां ध्वननार्थं भस्ममृदिताम्भः पुष्करलेपनम् । जलदपङ्क्तिरुन्मदमुत्कटमदं कलबिलापि मधुरालापि कलापिकदम्बकं मयूरवृन्दमनर्तयत् ॥ नवकदम्बरजोरुणिताम्बरैरधिपुरंधि शिलीन्धसुगन्धिभिः । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३२ ॥ नवेति ॥ नवकदम्बरजोभिररुणितमरुणीकृत मम्वरमाकाशं यैस्तैः शिलीभ्राणां कन्दलीकुसुमानां यः सुगन्धः स एषामस्तीति शिलीन्ध्रसुगन्धिनस्तैः गन्धस्येत्वे तदेकान्तग्रहणादिन्प्रत्ययाश्रयणम् । 'कदल्यां च शिलीन्ध्रः स्यात् ' इति शब्दार्णवे । वनवायुभिः पुरंध्रीषु स्त्रीषु विषये अधिपुरंधि । विभक्तयर्थेsव्ययीभावः । रागवतां कामिनां मनसि नवनवा नवप्रकारा । ' प्रकारे गुणवच'नस्य' इति द्विर्भावः । कर्मधारयवद्भावात्सुपो लुक् । अनुरागिता आदधे । अनुराग उत्पादित इत्यर्थः ॥ Page #163 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। शमिततापमपोढमहीरजः प्रथमविन्दुभिरम्बुमुचोऽम्भसाम् । प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥३३॥ शमितेति ॥ अम्बुमुचो मेवाः प्रविरलैरम्भसां प्रथमबिन्दुभिः शमिततापमपोढमहीरजो निरस्तधूलिकम् । न तु पङ्कितमिति भावः । सुगन्धि संतप्तसेकादुद्भूतसौरभम् । इह तदेकान्तत्वाद्गन्धस्येत्वन् । अचलाङ्गनं रैवतकाङ्गनम् । 'अङ्गन चत्वराजिरे' इत्यमरः । अङ्गनाजनस्य सुखेन गच्छत्यस्मिन्निति सुगम् । सुखसंचारमित्यर्थः । 'सुदुरोरधिकरणे' इति गमेर्डप्रत्यये टिलोपः । न न चक्रिरे। चक्रिरे इत्यर्थः । द्वौ नौ प्रकृतमर्थं गमयतः ॥ द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । घनघनौघविघट्टनया दिवः कृशशिखं शशिखण्डमिव च्युतम् ३४ द्विरदेति ॥ द्विरददन्तवलक्षं गजदन्तधवलम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । भृङ्गो मृग इव भृङ्गमृगः तस्य छविः सा स्फुरिता यस्मिंस्तत्तथोक्तं केतक्याः पुष्पं केतकम् । 'पुप्पमूलेषु बहुलम्' इत्यणो लुकि नादिवृद्धिः । 'लुक् तद्धितलुकि' इति स्त्रीप्रत्ययस्यापि लुक् । घनघनौघविघटनया निबिडमेघसङ्घोपघातेन दिवोऽन्तरिक्षाच्युतं कृशशिखं सूक्ष्माग्रं शशिखण्डमिवालक्ष्यतेत्युत्प्रेक्षा ॥ दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः । कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ३५ दलितेति ॥ दलितमौक्तिकानां निष्पिष्टमुक्ताफलानां चूर्ण इव विपाण्डवोऽतिशुभ्राः स्फुरिता ये निर्झराणां शीकराः कणास्त इव चारवः कुटजपुष्पपरागकणाः स्फुटं दधिरेणुविडम्बना दधिचूर्णानुकारं विदधिरे चक्रिरे । तद्वद्धभुरित्यर्थः । पूर्वोपमानद्वयानुप्राणितेयमुपमेति संकरः॥ नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः। प्रचलितोडुनिभैः परिपाण्डिमा शुभरजोभरजोलिभिराददे ३६ नवेति ॥ नवपयःकणवन्नवोदकबिन्दुवत्कोमलानां मालतीकुसुमानां जातीपुष्पाणां संततिषु संततसङ्गिभिर्निरन्तरासक्तैः । 'सुमना मालती जातिः' इत्यमरः । अत एव प्रचलितोडुनिभैः परागभूषणात्संचरनक्षत्रकल्पैरिवेत्युत्प्रेक्षा । अलिभिः शुभानजोभरात्परागपुनाजातः शुभरजोभरजः परिपाण्डिमा धवलिमा आददे स्वीकृतः ॥ निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशाम् । प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥ ३७॥ निजेति ॥ प्रियवियुक्तवधूजनचेतसाम् । कर्मणि षष्टी । अनवनी अरक्षणी । किंतु हन्त्रीत्यर्थः । अवतः कर्तरि ल्युटि ङीप् । नवनीपवनावलिः नवकदम्बकाननपतिः । धृताः पटोपमाः पटकल्पा वारिमुचो मेघा याभिस्ताः। मेघपटावृता Page #164 -------------------------------------------------------------------------- ________________ १५२ शिशुपालवधे इत्यर्थः । तासां दिशां निजरजः स्वपरागं पटवासं पिधानमिवेत्युत्प्रेक्षा । अकिरदक्षिपत् । सखीवदिति भावः ॥ प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरावभीरवः । प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ३८ प्रणयेति ॥ प्रणयकोपभृतः अत एव पराङ्मुखा विमुखा अपि । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' इति विकल्पादाकारः । सपदि वारिधरारवेभ्यो गर्जितेभ्यो भीरवो भीताः। स्त्रिय इति शेषः । अथ अनन्तरं गर्जिताकर्णनानन्तरमेव प्रणयिनः प्रियान्परिरब्धुमालिङ्गितुं वलिरेचितान्यालिङ्गनार्थमङ्गप्रसारणात्रिवलिरिक्तीकृतानि मध्यमान्यवलग्नानि यासां ताः सत्यो ववलिरे प्रवृत्ताः । वलतेर्वकारादित्वात् 'न शसददवादिगुणानाम्' इत्येत्वाभ्यासलोपप्रतिषेधः ॥ विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभवति । अभिहितेलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥३९॥ विगतेति ॥ पयोदनभस्वति मेघमारुते वाति वहति सति । वातेर्लटः शत्रादेशः । विगतरागगुणो विरक्तोऽपि को नरो न चलति । सर्वोऽपि चलत्येवेत्यर्थः । एवमलिभिरुच्चकैरुच्चैस्तरामनृतमसत्यं न भवतीत्यननृतं तस्मिन्नननृते सत्यवचनेऽऽभिहिते सति नवपल्लवैर्ननृत इव नृत्यं कृतमिवेत्युत्प्रेक्षा । नृतेर्भावे लिट् ॥ अरमयन्भवनादचिरद्युतेः किल भयादपयातुमनिच्छवः । यदुनरेन्द्रगणं तरुणीगणास्तमथ मन्मथमन्थरभाषिणः ॥४०॥ अरमयनिति ॥ अचिरघुतेर्विद्युतो भयात्किल भयादिव न तु तथा । किंतु रागादेवेति भावः। किलेत्यलीके । भवनाद्रमणगृहादपयातुं निर्गन्तुमनिच्छवः । भयव्याजात्तत्रैव स्थिता इति भावः । 'विन्दुरिच्छुः' इत्युप्रत्ययान्तो निपातः । मन्मथेन मन्थरमलसं भाषन्त इति मन्मथमन्थरभाषिणः। कामवशा इत्यर्थः । तरुणीगणास्तं प्रकृतं यदव एव नरेन्द्रास्तेषां गणमरमयरमयन्ति स्म । अत्र भयेन रागनिगृहनान्मीलनालंकारः। 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् । सोऽप्यागन्तुकेन भयेन सहजरागतिरोधानादागन्तुकेन सहजतिरोधानरूपः ॥ इति वर्षावर्णनम् ॥ अथ शरद्वर्णनमारभतेददतमन्तरिताहिमदीधिति खगकुलाय कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपरथाप रथावयवायुधः ॥४१॥ दद्तमिति ॥ रथावयवायुधश्चक्रायुधो हरिरन्तरिताहिमदीधितिं तिरोहितोष्णांशुं तथा खगकुलाय पक्षिसङ्घाय । कुलायेषु नीडेषु निलीयन्त इति कुलायनिलायिनः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । तेषां भावस्तत्ता तां ददतं प्रयच्छन्तम् । पक्षिसंचारं प्रतिबध्नन्तमित्यर्थः । 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । दिशामिति कर्मणि षष्टी । अबोधकृतमबोधकारिणम् । मेघावरणेन प्राच्यादि Page #165 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १५३ विवेकं लुम्पन्तमित्यर्थः । जलदकालं प्रावृट्कालमपरथा प्रकारान्तरेण आप प्राप। मेघोदयोपाधिना प्रावृड्व्यवहारभाजं तमेव कालं मेघात्ययोपाधिना शरत्संज्ञयोपलेभे इत्यर्थः । कालो हि एक एव सन्ननेकोपाधिसंबन्धानानात्वेनोपचर्यत इति तद्विदः॥ स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगतां दयितामिव । शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ॥ ४२ ॥ स इति ॥ अघानां नाशनं निवर्तनं कीर्तनं यस्य सोऽधनाशनकीर्तनः स हरिर्विकचमुत्पलमेव चक्षुर्यस्यास्तामच्छं शुभं गलत्स्रंसमानं यद्वसनं तस्योपमा सादृश्यं तस्याः क्षमा योग्या घना मेघा यस्यां सा ताम् । अत एव क्षितिभृतोऽङ्कगतामुत्सङ्गगतां दयितामिवेत्युत्प्रेक्षा । शरदमैक्षत ॥ जगति नशमशीतकरः करैवियति वारिदवृन्दमयं तमः। जलजराजिषु नैद्रमदिद्रवन्न महतामहताः क्वच नारयः ॥४३॥ जगतीति ॥ अशीतकर उष्णांशुः करैः स्वांशुभिर्जगति लोके निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' इति विकल्पादण् प्रत्ययः। तमस्तिमिरमदिद्रवद्रावयति स्म । निरस्तवानित्यर्थः । 'दु गतौ' । णौ चङि उपधाहस्वः । सन्वदावः । 'स्रवतिशृणोतिद्वतिप्लवतिच्यवतीनां वा' इत्यभ्यासस्य विकल्पावित्वम् । वियत्याकाशे वारिदवृन्दमयं मेघसङ्घरूपम् । स्वार्थे मयट् । तमः अदिद्रवत् । जलजराजिषु निद्रामेव नैदें निमीलनं तदेव तमः अदिगवत् । तथा हि-महतां महात्मनां अरयः क्वच क वा न नाहताः अहता न । किंतु सर्वत्र हता भवन्तीत्यर्थः। द्वितीयनिषेधप्रापितस्य प्रकृतार्थस्य हननस्य तृतीयेन निषेधः । पुनः केति कशब्दसामर्थ्यात्प्रकृतार्थपर्यवसानम् । वैधय॒ण सामान्याद्विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ४४ ॥ समय इति ॥ समयः काल एव शरीरिणां बलाबलं बलाबले । 'विप्रतिषिद्धं चानधिकरणवाचि' इति विकल्पावन्द्वैकवद्भावः । करोतीति प्रणिगदन्तः प्रतिपादयन्त इवेत्युत्प्रेक्षा । 'नेर्गदनद-' इत्यादिना णत्वम् । शरदि हंसरवाः परुषीकृतस्वरा निष्ठुरीकृतनादा मयूरा यस्मिन्कर्मणि तत्परुषीकृतस्वरमयूरं यथा तथा रमणीयतामयुः प्राप्ताः । यातेर्लङि 'लङः शाकटायनस्यैव' इति झे सादेशः 'उस्यपदान्तात्' इति पररूपं संहितायां 'ठूलोपे पूर्वस्य दीर्घोऽणः' शरत्प्रावृषोहसमयूरकूजिते माधुर्यामाधुर्यविपर्ययदर्शनात्काल एव प्राणिनां बलाबलनिदानं व्यक्तमभूदित्यर्थः ॥ तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहंगमकूजितैः। जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ४५ Page #166 -------------------------------------------------------------------------- ________________ शिशुपालवधे तनुरुहाणीति ॥ पुरोऽग्रे धवलपक्षविहंगमा हंसपक्षिणः । 'हंसास्तु श्वेतगरुतः' इत्यमरः । तेषां कूजितैर्विजितध्वनेः शिखण्डिनो मयूरस्य तनौ रुहाणि रूढानि तनुरुहाणि बर्हाणि । इगुपधलक्षणः कप्रत्ययः । अक्षमया हंसकूजिते १५४ येव जगलुर्गलन्ति स्म । कालप्रयुक्तस्य बगलनस्याक्षमा हेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतुप्रेक्षा । युक्तं चैतदित्याह - अरिभवः परिभवः सुदुःसहोऽत्यसह्यो हि । पराजयदुःखितस्याङ्गसादो युज्यत इति भावः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । स चाक्षमोत्प्रेक्षया संकीर्यते ॥ 1 अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि । विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ४६ ॥ अनुवनमिति || अनुवनं प्रतिवनं वहलो रागो यस्याः सा चासौ जवा च । 'औण्डुपुष्पं जवा' इत्यमरः । पुष्पेषु जातीप्रभृतित्वात्स्वलिङ्गता । सैत्राधरस्तेन चारुणि रम्ये वनराजिरेव वधूस्तस्या मुखं प्राग्भागस्तदेव मुखं वक्रमिति श्लिष्टरूपकम् । तस्मिन्रुचिराणामीक्षणानां विभ्रमः शोभा यासां ताः विकचबाणदलावलयो नीलझिण्टीपत्रपङ्कयः । 'बाणोऽस्त्री नीलझिण्ट्यां च' इति वैजयन्ती । अधिकं रुरुचिरे शुशुभिरे । उपमारूपकयोः संकरः ॥ कनकभङ्गपिशङ्गलैर्दधे सरजसारुणकेशरचारुभिः । प्रियविमानितमानवतीरुपां निरसनैरसनैरवृथार्थता ॥ ४७ ॥ कनकेति ॥ कनकभङ्गाः स्वर्णखण्डा इव पिशङ्गानि दलानि येषां तैः सह रजसा सरजसम् । 'अचतुर -' इत्यादिना साकल्यार्थेऽव्ययीभावे समासान्तो निपातः । बहुव्रीह्यर्थे लक्षणया तु सरजस्क इत्यर्थः । अत एव न सरजसमित्यनव्ययीभाव इति वामनः । अथवा महाकविप्रयोगप्राचुर्यदर्शनादव्ययीभावदर्शनं प्रायिकमिति पक्षाश्रयणाद्बहुव्रीह्यर्थोऽपि साधुरेव । तथा च सरजसं सरजसा वा ये अरुणकेशरास्तैश्चारुभिः तथा प्रियैर्विमानिता अवमानिता मानवत्यो मानिन्यस्तासां या रुपो रोषास्तासां निरसनैर्निरासकैः । अस्यतेः कर्तरि ल्युट् । असनैः प्रियकसूनैः । 'सर्जकासनबन्धूकपुष्प प्रियकजीवकाः' इत्यमरः । अवृथार्थता माननिरास - कत्वादस्यन्तीत्यसनानीत्यन्वर्थनामकत्वं दधे दधे । दधातेः कर्मणि लिट् ॥ मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः । धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ||१८|| मुखेति ॥ धृतो नवातपो येन तद्धृतनवातपम् । बालातपत्रामित्यर्थः । अम्भसि कमलं अम्भःस्थं कमलम् । अम्भोग्रहणं स्थलकमलनिवृत्यर्थम्, अम्लानताद्योतनार्थं वा । यतो मदपाटलां चकोरहशां स्त्रीणां मुखसरोजरुचं मुखारविन्दशोभामनुचकार । 'अनुपराभ्यां कृञः' इति परस्मैपदनियमः । अतोऽनुकरणाद्धेतोः कं पुमांसमुत्सुकतां प्रेयसीमुखावलोकन कौतुकितां नालम्भयन्नागमयत् । सर्वं चालम्भयदेव । तत्स्मारकत्वादित्यर्थः । एतेनौत्सुक्यवस्तुना कार्येण कारण Page #167 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १५५ भूता कमलदर्शनोत्था मुखस्मृतिय॑ज्यत इति वस्तुनालंकारध्वनिः । एतेन स्त्रीमुखसादृश्यात्कमलं स्वाधाराम्भसि पुंस उत्सुकतामलम्भयदिति रङ्गराजव्याख्यानं 'काकस्य कार्पोद्धवलः प्रासादः' इतिवदसंगतं मन्तव्यमिति । अलम्भयदिति लभेय॑न्ताल्लङ् 'लभेश्च' इति नुमागमः । लभेश्चात्र प्राप्त्युपसर्जनकगत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना अणिकर्तुः कर्मत्वे द्विकर्मकता । गत्युपसर्जनकप्राप्त्यर्थत्वे तु वैपरीत्यमित्युक्तं 'सितं सितिम्ना' इत्यत्र ॥ विगतसस्सजिघत्समघट्टयत्कलमगोपवधून मृगव्रजम् । श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः॥४९॥ विगतेति ॥ इषे आश्वयुजमासे । 'स्थादाश्विन इषोऽप्याश्वयुजः' इत्यमरः । कलमगोपी शालिगोप्त्री सा चासौ वधूश्च कलमगोपवधूः । 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः । श्रुत आकर्णितस्तया वध्वा ईरितस्यालापितस्य कोमल. गीतकस्य मधुरगानस्य ध्वनियेन तं श्रुततदीरितकोमलगीतकध्वनिम् । अत एवाअतोऽग्रे न निमिपति विस्मयानन्दाभ्यामित्यनिमिषम् । इगुपधलक्षणः कप्रत्ययः । तदीक्षणं यस्य तमनिमिषेक्षणम् । घस्तुमत्तं वेच्छा जिघत्सा । घसेरदादेशाद्वा सन्नन्तात् 'अप्रत्ययात्' इति स्त्रियामप्रत्ययः। विगता सस्यस्य जिघत्सा यस्य तं विगतसस्यजिघत्सम् । उपसर्जनान्द्रस्वः । मृगव्रजं नाघट्टयन्नाताडयत् । सिद्धे साधनाप्रयोगादिति भावः । अत्र दण्डसाध्ये मृगनिवारणे काकतालीयन्यायेन सुखार्थस्य गानस्य कारणत्वकथनात्समाधिरलंकारः। 'कारणान्तरयोगात्कार्यसुकरत्वं समाधिः' इति सूत्रात् ॥ कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् । वरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ५० कृतेति ॥ अयुजो विषमाश्छदा येषां ते अयुक्छदाः सप्तपर्णास्तेषां गुच्छैः स्तबकैः सुगन्धयः शोभनगन्धाः । गजमदगन्धिन इति भावः। अलिभिभृङ्गैस्तता विस्तृता गानगिरो येषां ते। अलिभिर्गीयमाना इत्यर्थः । सततं गच्छन्तीति सततगाः सदागतयः। वायव इति यावत् । कृतमदं जनितमदं अत एवाकुलीकृतजगत्रयम् । ऊर्जः कार्तिकः । 'बाहुलोजौं कार्तिकिकः' इत्यमरः । स एव मतङ्गज इति रूपकम् । तं निगदन्त इव अयमागच्छतीत्यावेदयन्त इव ववुर्वान्ति स्म । मत्तमातङ्गगमनेऽप्येवंविधवायुवहनसंभवादियमुत्प्रेक्षा । रूपकं त्वङ्गमस्याः ॥ विगतवारिधरावरणाः क्वचिद्ददृशुरुल्लसितासिलतासिताः। क्वचिदिवेन्द्रगजाजिनकञ्चकाः शरदि नीरदिनीर्यदवो दिश:५१ विगतेति ॥ शरदि यदवो यादवाः । यदुशब्देन रघुशब्दवत्तदपत्ये लक्षणा । जनपदशब्दानामेव 'तद्वाजस्य बहुपु-' इति लुक्संभवादिति । क्वचिद्विगतवारिधरावरणा निवृत्तमेवावरणाः अत एवोल्लसिता कोशादुद्धृता । असिलतेवासिलता तद्वदसिताः श्यामा इत्युपमा । क्वचिन्नीरदिनी ववतीः । शुभ्राभ्रपटलच्छन्ना Page #168 -------------------------------------------------------------------------- ________________ शिशुपालवधे इत्यर्थः । अत एवेन्द्रगजाजिनमैरावतचर्म तदेव कञ्चकः कूर्पासको यास ता इव स्थिता इत्युत्प्रेक्षा । दिशो ददृशुः । उक्तालंकारयोः संसृष्टिः ॥ विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसंभवाम् । विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुदक्षिपत्।।५२॥ विलुलितामिति ॥ शरदेवाङ्गना इति रूपकम् । अनिलैर्विलुलितां विक्षोभितां नवसरोरुहकेशरसंभवां धूलिं परागं परिहासविधिन्सया नर्मरीतिचिकीपया। दधातेः सन्नन्तास्त्रियामप्रत्यये टाप् । हरिवधूः विकरितुं विक्षेप्तुमिव । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति तुमुन्प्रत्ययः । उदाक्षिपत्प्रेरितवती । रूपकोजीवितेयमुत्प्रेक्षा । किरतिरयं कीर्यमाणकर्मा । यथा रजः किरति मारुतः । क्वचित्तत्कारकोद्देश्यकर्मा यथात्रैवेति विवेकः ॥ हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा । मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ५३ हरितेति ॥ अभिताम्रमुख्यरुणमुखी । 'स्वाङ्गाञ्चोपसर्जनात्-' इत्यादिना विकल्यान्डीए । शुकावलिमरुद्गणैः सुमनोगणैर्दिवि तता हरिप्रियाधमाकाशे वितता हरितानां हरिद्वर्णानां पत्राणां विकारो हरितपत्रमयी। "दिवाणञ्-' इत्यादिना ङीप् । तयावनवा प्रथिता मनोरमाः पल्लवा यस्यां सा सगिवेत्युप्रेक्षा । मधुरिपोः कृष्णस्य मुदं विततान ॥ स्मितसरोरुहनेत्रसरोजलामतिसिताङ्गविहंगहसद्दिवम् । अकलयन्मुदितामिव सर्वतः स शरदं शरदन्तुरदिझुखाम् ५४ स्मितेति ॥ स हरिः स्मितानि विकसितानि सरोरुहाण्येव नेत्राणि येषु तानि सरोजलानि यस्यां तां तथोक्तामतिसिताङ्गा धवलपक्षा ये विहङ्गा हंसास्तैर्हसन्ती सयमानेव स्थिता द्यौर्यस्यां तां तथोक्तां शरैस्तृणविशेपैर्दन्तुराण्युन्नतदन्तानि । हासा.प्रकाशदशनानीति यावत् । 'दन्त उन्नत उरच्' इत्युरच्प्रत्ययो मत्वर्थीयः। तानि दिङ्मुखानि यस्यां तां शरदन्तुरदिङ्मुखां शरदं सर्वतो मुदितामिवाकलयत् । सर्वत्र नेत्रविकासादिलिङ्गैर्हृष्टामिवामन्यतेत्यर्थः । अत्र सरोजहंसशरेपु नेत्रहासहन्तत्वारोपणाद्रूपकालंकारः । तद्वशात्प्रतीयमानाङ्गनाभेदाध्यवसायाच्छरदि मुदितत्वोत्प्रेक्षेति संकरः ॥ इति शरद्वर्णनम् ॥ अथ हेमन्तं वर्णयतिगजपतिद्वयसीरपि हैमनस्तुहिनयत्सरितः पृपतां पतिः । सलिलसंततिमध्वगयोषितामतनुतातनुतापकृतं दृशाम् ॥५५॥ गजपतीति ॥ गजपतिः प्रमाणमासां गजपतिद्वयसीमहागजप्रमाणाः । 'प्रमाणे द्वयसज्दन्नम्मावचः' इति प्रमाणार्थे यसच् प्रत्ययः । 'टिड्डाणञ्-' इत्यादिना ङीप् । ता अपि सरितस्तुहिनयन्हिमीकुर्वन् । 'तत्करोति-' इति ण्यन्ताल्टः शनादेशः । हेमन्ते भवो हैमनः । सर्वत्राच तलोपश्च' इति हेमन्तशब्दाच्छैपि Page #169 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः । १५७ षताः ' कोण् प्रत्ययः तकारलोपश्च । पृषतां बिन्दूनां पतिर्वायुः | 'पृषन्ति बिन्दुटइत्यमरः । अध्वानं गच्छन्तीत्यध्वगाः पथिकाः । ' अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ' । तद्योषितां प्रोषितभर्तृकाणां दृशामतनुतापकृतं महासंतापकारिणीं सलिलसंततिमतनुत । उष्णमश्रूत्पादयामासेत्यर्थः । हेमन्तमारुतो विरहि - णीदुःसहोऽजनीति भावः ॥ सर्वदापि वियोगिनामुद्दीपकवायोर्हेमन्ते वैशिष्ट्यमाचष्टे - इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा । स्मृतसयौवन सोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः ५६ इदमिति || अनिलो वायुरन्यदान्यस्मिन्काले । ग्रीष्मादावित्यर्थः । 'सर्वैकान्य-' इत्यादिना दाप्रत्ययः । वियोगिनो वियुक्तान् । 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वम् । वरतनोः । वरतनुमित्यर्थः । ' अधीगर्थ -' इत्यादिना कर्मणि शेषे षष्ठी । स्मरयतीति स्मरतेराध्याने मित्वाद्भस्वत्वम् । इदं स्मारकत्वमपि महदत्यन्तमयुक्तमेव । सहकारिविरहादिति भावः । अहो अत्यन्ताकिंचित्करत्वाद्विस्मयः । हेमन्ते तु हन्तृत्वमप्यस्य संभवतीत्याह - सतुहिनस्तुहिनसहितस्तु सयौवना यौवनयुक्ताः अत एव सोप्माणो ये पयोधराः कुचास्ते स्मृता यैस्तान्स्मृतसयौवन सोष्मपयोधरान्वियोगिनो वियुक्तान् । ' तथायुक्तं चानीप्सितम्' इति कर्म - त्वम् । हिनस्तु हन्तु । संभावनायां लोट् । हेमन्ते हि हिमसहकारात्कुचोष्मैकसाध्यदुःखोत्पादनसामर्थ्याद्वियोगिमारकत्वमपि संभाव्यते । ग्रीष्मादौ तु तादृक्सहकारिविरहात्स्मारकत्वमप्ययुक्तमित्यर्थः । अमारके मारकसंबन्धोक्तेरतिशयोक्तिभेदः । इह सहजकविप्रौढोक्तिसिद्धयोरभेदाध्यवसाय इति रहस्यम् ॥ 1 1 प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् । श्लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा कृतवेपथुः ॥५७॥ प्रियतमेति ॥ अत्राद्यपर्याये न सह सा इति त्रेधा विभागः । अन्यन्त्र सहसेत्येकं पदम् । सरुषा सरोषया यया स्त्रिया कर्त्या प्रियतमेन सह न स्थितम् । नपुंसके भावे क्तः । सा अङ्गना स्त्री सहसा मार्गशीर्षमासेन । 'मार्गशीर्षे सहा मार्गः' इत्यमरः । कृतवेपथुर्जनितकम्पा सती । 'द्वितोऽथुच्' इत्यथुच्प्रत्ययः । तं पूर्वमगणितमेव प्रियं हसेन सह वर्तत इति सहसा सहास्या सती । 'अथो हसः । हासो हास्यं च' इत्यमरः । 'स्वनहसोर्वा' इति विकल्पादप्प्रत्ययः । सहसा शीघ्रम् । स्वरादिपाठादव्ययत्वम् । परिरभ्याश्लिष्य क्षणम् । क्षणमपीत्यर्थः । अन्यथा वैरस्यात् । अत एव सामर्थ्यलभ्यार्थत्वादपेरप्रयोगः । श्रथयितुं नाक्षमत । शिथिलीकर्तुं नोत्सहते स्मेत्यर्थः । मानिनीमानभञ्जनक्षमोऽयं मास इति भावः । कलहान्तरितेयं नायिका । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥ शिशु० १४ Page #170 -------------------------------------------------------------------------- ________________ १५८ शिशुपालवधे भृशमयत याधरपल्लवक्षतिरनावरणा हिममारुतैः । दशनरश्मिपटेन च सीत्कृतैर्निवसितेव सितेन सुनिर्ववौ ॥५८॥ भृशमिति ॥ अनावरणा आवरणरहिता या अधरपल्लवस्य क्षतिव्रणो हिममारुतै शमदूयतातप्यत । दूङो देवादिकात्कर्तरि लङ् । सा क्षतिः । यत्तदोनित्यसंबन्धात् । सीत्कृतैः सीत्कारैः कर्तृभिः सितेन शुभ्रेण दशनरश्मय एव पटस्तेन करणेन निवसितेवाच्छादितेवेत्युत्प्रेक्षा । वसेराच्छादनार्थात्कर्मणि क्तस्येडागमः । सुनिर्ववौ सुष्ठ निर्ववार । शीतालुराच्छाद्यत इति भावः । हिमहताधरनिर्वाणस्य सीत्कारकारणकस्य दशनरश्मिपटाच्छादने हेतुत्वोत्प्रेक्षणाद्रूपकोत्प्रे. क्षयोः संकरः ॥ उक्तमेवार्थ भङ्गयन्तरेणाहव्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे । स्फुटमिवावरणं हिममारुतैमृदुतया दुतयाधरलेखया ॥ ५९॥ व्रणेति ॥ मृदुतया मार्दवेन हेतुना हिममारुतैर्दुतया पीडितया । 'टुदु उपतापे' इति धातोः भौवादिकात्कर्मणि क्तः । व्रणभृता दन्तव्रणवत्या सुतनोः स्त्रिया अधरो लेखेव तया अधरलेखया का सुतनोः कामिन्याः कलेन सीत्कृतेन हेतुना स्फुरिताः प्रकाशिता ये दन्तमरीचयस्तन्मयं तद्रूपं स्फुटमावरणमाच्छा. दनं दध इव पृतमिवेत्युत्प्रेक्षा । दधातेः कर्मणि लिद ॥ धृततुषारकणय नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः । पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥६०॥ धृतेति ॥ धृतास्तुषारकणास्तुहिनशीकरा येन तस्य नभस्वतः पवनस्य संबन्धिनः तरुलता एवाङ्गुलयस्ताद्भिर्यानि तर्जनानि तान्येव विभ्रमा विलासाः पृथु विशालमिष्टस्य दयितस्य भुजान्तरं भुजमध्यं वक्षःस्थलं निरन्तरमनितया अप्रातया । गाढालिङ्गनमलभमानयेत्यर्थः । इणः कर्तरि क्तः । वनितया स्त्रिया न विषेहिरे न सोढाः । विरहिण्यस्तर्जिता इव नभस्त्रतो बिभ्यतीति भावः ॥ हिमऋतावपि ताः स भृशस्विदो युवतयः सुतरामुपकारिणि । प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः॥६१॥ हिमेति ॥ स्मरमयं सरादागतम् । सरप्रयुक्तमित्यर्थः । 'तत आगतः' इति मयद । अकृत्रिममनुरागं सहजं प्रेम प्रकटयति प्रकटीकुर्वाणे । तत्कार्येण स्वेदेनेति भावः । अत एव सुतरामुपकारिणि पुंसां रिरंसाजननात्तेभ्यः स्वानुरागप्रकाशनाच्चात्यन्तोपकर्तरीत्यर्थः । एवंभूते हिमऋतौ हेमन्तेऽपि । स्वेदसंभावनारहितकालेऽपीत्यर्थः । साहितः 'ऋत्यकः' इति प्रकृतिभावः । भृशं स्विद्यन्ति रागो. प्मणा भृशस्विद इति सात्त्विकोक्तिः । विप् । हेमन्तोऽपि रागिणां स्वेदहेतुरेव । तद्धेतुरागहेतुत्वादिति भावः । तास्तथा धीरा युवतयो विलासिनः प्रियान्रमयन्ति Page #171 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः : । १५९ स्म | हेमन्तस्योद्दीपकत्वादिति पीडाक्षमत्वात् दीर्घरात्रित्वाच्चो भयेच्छासदृशमरमन्तेत्यर्थः ॥ इति हेमन्तवर्णनम् ॥ अथ शिशिरं वर्णयति 1 कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुंकृतिः । उपवनं निरभर्त्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ६२ कुसुमयन्नित्यादिना || उपवनम् । वन इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' इति विकल्पादम्भावः । फलिनीः प्रियङ्गुलताः । 'प्रियङ्गुः फलिनी फली' इत्यमरः । कुसुमयन्कुसुमवतीः कुर्वन् इत्युद्दीपनसामग्रीवर्णनम् । कुसुमयतेर्मत्वन्तप्रकृतिकात् ' तत्करोति-' इति ण्यन्तालटः शत्रादेशः । णाविष्टवद्भावे विन्मतोर्लुक् । मदविकासिभिर्मदेन विजृम्भमाणैरलिनीरवैः भृङ्गीहुंकारैराहितहुं कृतिः कृत हुंकारः । माधुर्याद्युद्दीपकत्वातिशयद्योतनार्थमलिनीति स्त्रीलिङ्गनिर्देशः । शिशिरानिलः प्रियान्वियुवतीः कोपाद्वियुञ्जानाः । यौतेः शतरि धातोरुवङादेशः 'उगितश्च' इति ङीप् । युवतीर्वधूः । 'यूनस्तिः' इति तिप्रत्ययः । निरभर्त्सयतातर्जयत । तर्जिभत्स्यश्चौरादिकयोरनुदात्तेत्त्वादात्मनेपदम् । अत्र वाय अचेतने चेतनधर्मो निर्भर्त्सनमुत्प्रेक्ष्यते । सा चालिनी हुंकार झङ्काराज्जीवितेति रूपसंकीर्ण व्यञ्जकाप्रयोगाद्गम्या च ॥ उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि । तपसि मन्दगभस्तिरभीषुमान्न हि महाहिमहानिकरोऽभवत् ६३ उपचितेष्विति ॥ कालवशाद्बलवानपि परेषु शत्रुषूपचितेषु प्रवृद्धेषु सत्सु असमर्थतां दौर्बल्यं व्रजति । हि यस्मात्तपसि माघमासे । 'तपा माघे' इत्यमरः । मन्दगभस्तिर्मृदुरश्मिरभीषुमानंशुमान् । 'अभीषुः प्रग्रहे रश्मौ' इत्यमरः । महत उपचितस्य हिमस्य हानिं नाशं करोतीति महाहिमहानिकर स्तद्धेतुर्नाभवत् । 'कृञो हेतु -' इत्यादिना हेत्वर्थे टप्रत्ययः । विशेषेण सामान्यसमर्थनरूपोऽर्था न्तरन्यासः ॥ अभिषिषेणयितुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुदभूद्दिशः ॥ ६४ ॥ अभीति ॥ क्षुभित उद्धृतो यः सैन्यपरागः सेनारजः स इव विपाण्डुरद्युतिः शुभ्रवर्णो यो लोधरजश्चयः भुवनान्यभिषिषेणयितुं सेनयाभियातुमिच्छन्तम् । 'यत्सेनयाभिगमनमरौ तदभिषेणनम्' इत्यमरः । ' सत्यापपाश - ' इत्यादिना सेनाशब्दाणिचि सनि 'सनाशंसभिक्ष उ:' इत्युप्रत्ययः । 'स्थादिष्वभ्यासेन -' इति धात्वभ्याससकारयोः पत्वम् । स्मरमाख्यतेव ख्यातवानित्युत्प्रेक्षा । चक्षिङः ख्याञ् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरङादेशः । अयं लोध्ररजश्चयो दिशस्रियन् तिरस्कुर्वन् । तिरःशब्दात् ' तत्करोति -' इति ण्यन्तालटः शत्रादेशः । णाविष्टवद्भावे टिलोपः । उदभूत् ॥ Page #172 -------------------------------------------------------------------------- ________________ शिशुपालवधे. शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः। इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान्प्रियाः ६५ शिशिरेति ॥ शिशिरमासमपास्यापहाय शीतं हरतीति शीतहरस्य । 'हरतेरनुद्यमनेऽच्' इत्यच्प्रत्ययः । नोऽस्माकमस्य कुचोष्णस्य क इव गुणः । किं फलं संपाद्यत इति शेषः । गम्यमानक्रियापेक्षया क्त्वानिर्देशः(?)। इवशब्दो वाक्या. लंकारे । इति धिया। अतोऽस्मिन् शिशिरमासे । सार्वविभक्तिकस्तसिः । प्रियाः कान्ता अस्तरुषो निरस्तरोषाः सत्यो नमतः प्रणताननुमतान्स्वप्रियान्घनं निबिडं परिरेभिर आश्लिष्टवत्यः । इति धियेति सुखार्थस्य परिरम्भस्य कुचोष्मसाफल्यार्थत्वमुत्प्रेक्ष्यते व्यञ्जकाप्रयोगाद्गम्यत्वं च ॥ अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ६६ अधीति ॥ लवङ्गेष्वधिलवङ्गम् । विभक्त्यर्थेऽव्ययीभावः । सुमनसां पुष्पाणां दलेषु तालयन्ति प्रतितिष्ठन्तीति सुमनोदलतालिनः । ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । अमी अलिनो मधुपाः रजसा परागेणार्तवेन चाधिकं मलिना मलीमसाः पापिनश्च कृता मलिनिता इति हेतोः पुरोऽग्रे सपदि कुन्दलता माध्यवल्ली। 'माध्यं कुन्दम्' इत्यमरः । दलता विकसता प्रसवेन निजकुसुमेनाहसजहास । स्फुटमित्युत्प्रेक्षायाम् । रजस्वलां गन्तारं कामिनं सपल्यो हसन्तीति भावः । कुन्दकुसुमस्य धावल्याद्धासत्वेनोत्प्रेक्षा ॥ इति शिशिरवर्णनम् ॥ अथ यमकविशेषकौतुकितया कविः पुनादशभिर्ऋतून्वर्णयन्नाद्यैश्चतुर्भिर्वसन्तं वर्णयति अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव संतानकः । तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥६७॥ अतिसुरभिरिति ॥ अतिसुरभिरत्यन्तसुगन्धिः संतानकः कल्पवृक्षः पुष्पश्रियां पुष्पसंपदामतनुतरतया महत्तरत्वेन । अतनुशब्दात्तरबन्तात्तलप्रत्ययः । अभाजीवाभञ्जीवेत्युत्प्रेक्षा। तथा नम्र इत्यर्थः । 'भजेश्च चिणि' इति विभाषा नलोपे उपधावृद्धिः । चिणो लुक् । किंच वसन्तस्यानको वसन्तानकः । दुन्दुभिरिति रूपकम् । तरुणपरभृतस्तरुणकोकिलो रागिणां कामिनां रतये रागवर्धनाय स्वनमतनुत । मधुरं चुकूजेत्यर्थः । प्रभावृत्तम् । 'स्वरशरविरतिर्ननो रौ प्रभा' इति लक्षणात् ॥ नोज्झितुं युवतिमाननिरासे दक्षमिष्टमधुवासरसारम् । चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६८॥ नोज्झितुमिति ॥ अरमत्यन्तमिष्टेप्वीप्सितेषु मधुषु मकरन्देषु वासे वसतो रसो रागो यस्याः सा इष्टमधुवासरसा। मधुपानप्रियेत्यर्थः । अत एवालिनामा. लिभृङ्गश्रेणियुवतिमाननिरासे दक्षं कुशलम् । उद्दीपकत्वादिति भावः । मधुवास Page #173 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। १६१ रेषु वसन्तड़िनेषु सारं श्रेष्ठं मधुवासरसारम् । तत्काललाध्यमित्यर्थः । चूतं सहकारमतिरागादतिलौल्यादुज्झितुं हातुं नाक्षमिष्ट । क्षमौवादिकालुङ् । स्वागता वृत्तम् । ‘स्वागतेति रनभाद्गुरुयुग्मम्' इति लक्षणात् ॥ जगदशीकर्तुमिमाः सरस्य प्रभावनीके तनवै जयन्तीः । इत्यस्य तेने कदलीमधुश्रीः प्रभावनी केतनवैजयन्तीः ॥६९।। जगदिति ॥ प्रभावयतीति प्रभावनी संपादयित्री । कर्तरि ल्युटि डीप् । मधुश्रीः कर्ती जगदशीकर्तुं प्रभौ समर्थे अस्य स्मरस्यानीके सैन्ये जयन्तीर्जित्वरीः केतनवैजयन्तीर्घजपताकास्तनवै करवाणि । तनोतेः प्राप्तकाले लोट् । टेरेत्वमित्येकारः 'एत ऐ' 'आडुत्तमस्य पिच्च' इति आटि 'आटश्च' इति वृद्धिः । इति मनीषयेति शेषः । इमाः कदली रम्भातरूंस्तेने वितस्तार । 'कदली वारणबुसा रम्भा मोचांशुमत्फला' इत्यमरः । कदलीषु कामवैजयन्तीत्वोत्प्रेक्षा । वृत्तमुपजातिः ॥ स्मररागमयी वपुस्तमिस्रा परितस्तार रखेरसत्यवश्यम् । प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवें रसत्यवश्यम् ७० स्मरेति ॥ असती दुष्टा स्मरेण कामेन निमित्तेन यो रागो रमणेच्छा स एव तन्मयी तमिस्रा तमस्तोमः । 'तमिस्रा तिमिरे रोगे तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च' इति विश्वः। रवेर्वपुर्मण्डलं परितस्तार आवत्रे । अहनि रजनीधियं जनयामासेत्यर्थः । परिपूर्वात्स्तृणातेलिट् । अवश्यम् । सत्यमित्यर्थः । कुतः। परितः समन्तात्ताररव उच्चतरध्वनौ कोकिले रसति कूजति सति इत्युद्दीपकोक्तिः । स्त्री इत्यर्थः । जातावेकवचनम् । दिवेति सप्तम्यर्थेऽव्ययम् । वशं गतो वश्यः । 'वशं गतः' इति यत्प्रत्ययः । न वश्यस्तमवश्यम् । अवशं गतमपीत्यर्थः । प्रियमाप । स्वयमभिससारेत्यर्थः । यदवगणयन्तमपि प्रियं दिवापि मानमवगणय्य निषेधं चोल्लङ्घय समगच्छंस्तत्सत्यम् । रागतिमिरतिरोहितमानभानुमण्डला मानिन्य इति रूपकानुप्राणिता प्रियाप्तिक्रियानिमित्ता परिस्तरणक्रियास्वरूपोप्रेक्षा अवश्यमिति व्यञ्जकाप्रयोगाद्वाच्या । औपच्छन्दसिकं वृत्तम् । 'विषमे ससजा गुरू समे चेतू स्मर तच्छन्दसिकं तदीपपूर्वम्' इति लक्षणात् ॥ अथैकेन ग्रीप्ममाहवपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरा गमिता । रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥७१॥ वपुरिति ॥ शुचिना ग्रीष्मेण प्रयोजकका अम्बुविहारेण जलक्रीडया हिमं शीतलमत एव रुचिरमुज्वलं वपुर्देहं गमिता प्रापिता। 'गतिबुद्धि-' इत्यादिना अणिकर्तुः कर्मत्वम् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इत्यभिहितत्वं च । अत एव कमनीयतरा रमणीयतरा अचिरांशुलतेवाचिरांशुलता विद्युल्लता तस्या रुचिर्यस्याः सा अचिरांशुलतारचिः इत्युपमाद्वयम् । रागमनुरागमिता प्राप्ता । इणः कर्तरि क्तः । रमणी रमणेन प्रियेणाङ्कमुत्सङ्गमनीयत नीता । Page #174 -------------------------------------------------------------------------- ________________ १६२ शिशुपालवधे 'नीहकृष्वहाम्' इति नयतेर्द्विकर्मकता । शेपं पूर्ववत् । तोटकं वृत्तम् । 'वद तोटकमब्धिसकारयुतम्' इति लक्षणात् ॥ अथ द्वाभ्यां वर्षतु वर्णयतिमुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे । अलिना रमतालिनी शिलीन्धे सह सायन्तनदीपपाटलाभे ७२ मुदमित्यादि ॥ अब्दभुवां मेघप्रभवानामपां लाभे। मेघे वर्पति सतीत्यर्थः । सहसा मयूरा मुदमानन्दमायन्तालभन्त । 'अय गतौ' लङि 'आडजादीनाम्' इत्याडागमे वृद्धिः। नदी पपाट । नद्यः प्रावहन्नित्यर्थः । 'अट पट गतौ' लिट् । जातावेकवचनम् । अलिना भृङ्गेण सह सायंतनः सायंभवः । 'सायंचिरम्-' इत्यादिना ट्युप्रत्ययः तुडागमश्च । स चासौ दीपश्च तद्वत्पाटलाभे पाटलप्रभे इत्युपमालंकारः । तस्मिन्शिलीन्धे कन्दलीकुसुमे अलिन्यरमत । अत्र मयूरमोदप्राया. द्यनेककर्तृकक्रियायोगपद्याद्भिन्नाधिकरणक्रियासमुच्चयरूपः समुच्चयालंकारभेदः । 'गुणक्रियायोगपद्यं समुच्चयः' इति सामान्यलक्षणम् । औपच्छन्दसिकं वृत्तम् ॥ कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि। गगनं च गीतनिनदस्य गिरोच्चैः समया वनौषनमदभ्रमराणि ७३ कुटजानीति ॥ शिखरीन्द्रं समया रैवतकाद्रेः समीपे । 'अभितःपरितःसमया-' इत्यादिना द्वितीया । अवनौ प्रदेशे घनमदा भ्रमरा येषु तानि धनमभ्रमराणि कुटजानि कुटजकुसुमानि वनौघेन पयःपूरेण नमन्त्यभ्राणि मेघा यस्मिंस्तद्वनौघनमदभ्रम् । 'पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । गगनं च वीक्ष्य शिखिभिर्मयूरैर्गीतनिनदस्य गानध्वनेः समया तुल्यया । 'तुल्याथैः-' इत्यादिना वैकल्पिकी षष्ठी । गिरा वाचा । केकयेत्यर्थः । उच्चैरराणि रणितम् । 'रण शब्दे' भावे लुङ् । चिणो लुक् । कुटजा वृत्तम् । 'सजसा भवेदिह सगौ कुटजाख्यम्' इति लक्षणात् ॥ अथ त्रिभिः शरदं वर्णयतिअभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे । योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥ ७४ ॥ अभीष्टमित्यादि ॥ कामयत इति कमनी कामयित्री । 'कम्रः कामयिताभीकः कमनः कामनोऽभिकः' इत्यमरः। कमेः कर्तरि ल्युटि ङीप् । योषित् । जातावेकवचनम् । अनीचा उन्नताः काशा अश्ववाला यस्मिन्ननीचकाशे काले । शरदीत्यर्थः । मनोजन्मसुखोदयेषु कामसुखाविर्भावेषु धृता आशा अभिलाषो येन तमभीष्टं प्रियं चिराय चिरकालेन । 'चिराय चिररात्राय' इत्यमरः । सम्यगुद्धृता उत्सृष्टा आशङ्का संकोचो यस्मिन्कर्मणि तत्समुद्धताशकं विस्रब्धं यथा तथा आसाद्य प्राप्य मुदा सह वर्तत इति समुत्सानन्दा सती चकाशे। विललासेत्यर्थः । अत्र समुच्चकाश इति योषितः प्रियप्राप्तिनिमित्तहर्षाख्यभावनिबन्धनात्प्रेयोऽलंकारः । Page #175 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः। रसभावतदाभासतत्प्रकाशसमानानां निबन्धे रसवत्प्रेय उर्जविसमाहितानीति लक्षणात् । वृत्तमुपजातिः। स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन । परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥७५ ।। स्तनयोरिति ॥ रसमानाः कूजनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानशू' इति ताच्छील्ये चानश्प्रत्ययः। रसतेः परस्मैपदित्वान्न शानच्प्रत्ययः। ते सारसाः पक्षिविशेषाः यस्मिंस्तेन रसमानसारसेन समयेन । शरत्कालेनेत्यर्थः । सारसानां तत्रैव संभवात् । 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः' इति यादवः । अङ्गनानां स्तनयोर्या जलानां ततिः शारदोष्मजन्मा स्वेदोदबिन्दुसंदोहः अभितो नद्धाभिनद्धा । नातेरभिपूर्वात्कर्मणि क्तः । 'नहो धः' इति धत्वम् । हारसमा मुक्ताहारतुल्या । कुचमण्डलमण्डनायमानेति भावः । सा जलानां तती रसेन रागेण हेतुना । बलीयसेति भावः। परिरम्भरुचिमालिङ्गनेच्छां नाभिनत् न विभेद । शारदस्वेदस्याप्यलंकारतया उद्दीपकस्याजुगुप्सितत्वान्निःसपत्नशझारा विजयन्त इत्यर्थः । अत एव रसनिबन्धनाद्सवदलंकारः । लक्षणमुक्तं पूर्व. श्लोके । औपच्छन्दसिकं वृत्तम् ॥ जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकाकुंरुतेन । तत्संपर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥ ७६ ॥ जातेति ॥ या स्त्री अनुवनान्तम् । विभक्त्यर्थेऽव्ययीभावः । मधुरेण श्राव्येण सारसिकाकाकुरुतेन सारस्य एव सारसिकाः सारसाङ्गनाः । कात्पूर्वस्येत्वम् । तासां काकुरुतेन विकृतशब्देन । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्वनेः' इत्यमरः । काकुश्च तद्रुतं च तेन । कामे कामकल्पे । 'सिंहो देवदत्त' इतिवद्गौणप्रयोगः । कान्ते प्रिये जातप्रीतिर्जातस्नेहाभूत् । रसिका रसवती । रागवतीत्यर्थः । 'अत इनिठनौ' इतीठन्प्रत्ययः। सा का स्त्री एकान्ते रहसि तस्य कान्तस्य संपर्क प्राप्य पुरा पुरुषप्रेरणात्पूर्वमेव कां मोहनलीलां सुरतक्रीडां न कुरुते । सर्वापि स्त्री सर्वानपि सुरतविशेषान्कामतन्त्रप्रसिद्धान्विस्त्रब्धं चकारेत्यर्थः । तेन शृङ्गारस्य पराकाष्ठा प्राप्तेत्युक्तम् । मत्तमयूरं वृत्तम् ॥ अथैकेन हेमन्तमाह कान्ताजनेन रहसि प्रसभं गृहीत केशे रते सरसहासवतोषितेन । प्रेम्णा मनःसु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन ॥ ७७॥ Page #176 -------------------------------------------------------------------------- ________________ शिशुपालवधे कान्तेति ॥ सहत इति सहः । पचाद्यच् । सरस्य सहः । कामोद्दीपक इत्यर्थः । तेनासवेन तोषितः तेन स्मरसहासवतोषितेन अत एव रसहासावस्य स्त इति रसहाखवता रागहास्यवता अत एव प्रेम्णा मनस्सु पुंसां चित्तेपूषितेन वसता । वसतेः कर्तरि क्तः । 'वसतिक्षुधोरिद' इतीडागमः ‘गतिबुद्धि-' इत्यादिसूत्रे चकाराद्वर्तमानार्थता । कान्तैव जनस्तेन कान्ताजनेन । जातावेकवचनम् । प्रसभं रहसि बलाद्गृहीतकेशे आकृष्टशिरोरुहे रते सुरते हेमन्ते भवा हैमन्यस्तासु हैमनीष्वपि । दाधीयसीप्वपीति भावः। 'सर्वत्राण् च तलोपश्च' इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च 'टिड्ढाणञ्-' इत्यादिना ङीप् । रजनीषु के युवानः शेरते स्म स्वपन्ति स्म । न केऽपीत्यर्थः । 'लट् स्मे' इति भूते लद । एतेनानिभूमिं गतः शृङ्गार इति व्यज्यते । वसन्ततिलका वृत्तम् ॥ अथैकेन शिशिरं वर्णयति गतवतामिव विस्मयमुच्चकैरसकलामलपल्लवलीलया । मधुकृतामसकृगिरमावली रसकलामलपल्लवलीलया ॥७८॥ गतवतामिति ॥ असकलामलपल्लवलीलया असकला असमग्रविकासिनोऽ. सला निर्मलाश्च ये पल्लवास्तेषां लीला तया । नृत्यरूपयेत्यर्थः । चिन्मयं गतवतासिव स्थितानामित्युत्प्रेक्षा। मधुकृतां मधुकराणां संबन्धिनी लवलीषु लताविशेषेषु लयो लयनं स्थितिर्यस्याः सा लवलीलया आवलिः पतिः रसकलां रसेन मध्धास्वादेन कलामव्यक्तमधुराम् । 'ध्वनौ तु मधुरास्फुटे । कलः' इत्यमरः । गिरं वाचमसकृदुच्चैरलपत् । मधुमदहेतुकस्य मधुकरालापस्य पल्लवलीलया जनितविस्मबहेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतूत्प्रेक्षा । द्रुतविलम्बितं वृत्तम् ॥ कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः। श्रीमान्समस्तमनुसानु गिरौ विहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ७९ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के ऋतुवर्णनं नाम षष्ठः सर्गः ॥ ६ ॥ कुर्वन्तमिति ॥ इतीत्थं पुष्पैरेवातिभरेण महाभरेण तत्कृतेन वा गौरवेण नगान्वृक्षानवाञ्चन्तीत्यवाचो नम्रान् । अञ्चेरवपूर्वात् 'ऋत्विक्-' इत्यादिना क्विन्प्रत्ययः । कुर्वन्तमलिनां गानवाचो गीतध्वनेझंकारस्य च न विराममविराममसमाप्ति कुर्वन्तं समस्तमृतुं सर्वानृतूननुसानु । सानुष्वित्यर्थः। विभक्त्यर्थेऽव्ययीभावः । विभ्रति बिभ्राणे इह गिरौ रैवतकाद्रौ विहाँ क्रीडितुं श्रीमान्स हरिर्मयूरगिरा केकया अचोदि प्रेरितः। भगवन्निह विहर ऋतुगणमनुगृहाणेति प्रार्थित इवेत्युस्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । वृत्तमुक्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध. काव्यव्याख्याने सर्वकषाख्ये षष्ठः सर्गः ॥ ६ ॥ Page #177 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। सप्तमः सर्गः। इत्थमृतुगुणप्रादुर्भावमभिधाय तत्फलतया भगवतः सानुचरस्य वनविहारलीलावर्णनमारभतेअनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदभिराद्धमादृतानां भवति महत्सु न निष्फलः प्रयासः ॥१॥ __ अनुगिरमिति ॥ अथर्तुप्रादुर्भावानन्तरं स हरिः गिरावित्यनुगिरम् । विभत्यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य' इति समासान्तः । ऋतुभिर्वितायमानां वितन्यमानाम् । तनोतेः कर्मणि लटः शानजादेशः । 'तनोतेर्यकि' इति वैभाषिक आकारादेशः । वनान्तलक्ष्मी विलोकयितुं निरगमन्निर्गतः । 'पुषादि-' इत्यादिना गमेर्लुङि च्लेरङादेशः । ऋतुगणभक्तिं स्वीकर्तुमिति भावः। तथाहिअभिरा माराधयितुमादृतानामादरं कुर्वताम् । आस्थावतामित्यर्थः । कर्तरि तः । प्रयासः सेवायासो महत्सु विषये निष्फलो न भवति । न हि भक्तानुकम्पिनो महान्तस्तत्सेवां व्यर्थयन्तीति भावः । अतो हरेरप्यतुगणानुग्रहणार्थे निर्गमो युक्त इति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । 'सामान्यविशेपकार्यकारणभावाभ्यां निर्दिष्टप्रकृतार्थसमर्थनादर्थान्तरन्यासः' इति सर्वस्वसूत्रम् । अत्र सर्गे पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ दधति सुमनसो वनानि बहीर्युवतियुता यदवः प्रयातुमीषुः । मनसिशयमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम्॥२॥ दधतीति ॥ यदवो यादवाः । व्याख्यातं चैतत् । बह्वीबहूः । बहुविधा इत्यर्थः । 'बह्वादिभ्यश्च' इति विकल्पादीकारः । सुमनसः पुष्पाणि । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । दधति दधन्ति । 'वा नपुंसकस्य' इति अभ्यस्ताच्छतुर्वैकल्पिको नुम्प्रतिषेधः । वनानि युवतियुताः स्त्रीसमेता एव प्रयातुमीषुरिच्छन्ति स्म । अत्र हेतुमाह-अन्यथा युवतिजनाभावे अमी यदवो मनसि शेते इति मनसिशयः कामः । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः। 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक् । तस्य महास्त्रभूतं कुसुमपञ्चकमपि । पञ्चापि कुसुमानीत्यर्थः । पञ्चानां सङ्घः पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति कप्रत्ययः । वि. सोढुं नालं न शक्ताः । सकलसुमनसां सामर्थ्य तत्रारविन्दादीनामेव पञ्चबाणबाणत्वस्य संभवप्रमाणसिद्धत्वादिति भावः। अतो युवतिभिः सह प्रयाणं युक्तमिति वाक्यार्थेन वाक्यार्थसमर्थनाद्वाक्यार्थसमर्थनरूपकाव्यलिङ्गमलंकारः। 'अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः' ॥ Page #178 -------------------------------------------------------------------------- ________________ शिशुपालवधे अवसरमधिगम्य तं हरन्त्यो हृदयमयतकृतोज्वलस्वरूपाः। अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसंपदोऽङ्गनासु ॥३॥ अवसरमिति ॥ तमवसरं सहजिगमिषाकालमधिगम्य हृदयं हरन्त्यो हृदयंगमा भवन्त्यः । सर्वं हि प्रार्थ्यमानमेव प्रियं भवतीत्यर्थः । यत्नेन कृतं न भवतीत्ययनकृतं तथाप्युज्वलं स्वरूपं यासां ताः । स्वभावसुन्दरमूर्तय इत्यर्थः । अङ्गनास्तदानीं तस्मिन्नवसरेऽवनिषु पदं न्यदधत निहितवत्यः । पादचारेणैव चेलुरित्यर्थः । दधातेर्लङि 'आत्मनेपदेष्वनतः' इति झस्यादादेशः । अङ्गनासु विभ्रमसंपदो विलाससंपदः पदं न्यदधत । तदानीं विलासाः प्रवृत्ता इत्यर्थः । अत्राङ्गनानां विलाससंपदां चोभयीनामपि प्रकृतानामेव हृदयहरणादिना वर्णनासाम्येनौपम्यस्य गम्यमानत्वात्केवलप्रकृतविषया तुल्ययोगितालंकारः । वाच्यभेदेनाप्यङ्गनाविलाससंपदामुत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वावगमादेकावलीभेदो व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ न्यदधत विभ्रमसंपदोऽङ्गनास्वित्युक्तं ता एव प्रपञ्चयतिनखरुचिरचितेन्द्रचापलेख ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ४ नखेति.॥ ललितगतेषु मन्दगमनेषु नखानां रुचिभिः प्रभाभी रचिता इन्द्र चापलेखा यस्मिन्कर्मणि तद्यथा तथा गतागतं यातायाते । 'विप्रतिषिद्धं चान धिकरणवाचि' इति वैभाषिको द्वन्द्वैकवद्भावः । दधाना तरुण्याः भुजलतिका मुखराः कृता इति मुखरिताः ध्वनिता वलया यस्मिन्कर्मणि तद्यथा तथा। 'कटको वलयोऽस्त्रियाम्' इत्यमरः । पृथौ नितम्बे मुहुरस्खलच्चस्खाल । अत्र नखरुचीत्यालम्बनगुण उक्तः । गतागतं दधाना अस्खलदिति तच्चेष्टा । मुखरितव. लयमिति तदलंकृतिः । तटस्थास्तूक्ता वसन्तादयः। अन्यत्र विस्तारत इति चतु. विधोऽप्युद्दीपनक्रम उक्तः । उक्तं च-'आलम्बनगुणाश्चैव तच्चेष्टा तदलंकृतिः । तटस्थश्चेति विज्ञेयश्चतुष्कोद्दीपनक्रमः ॥' इति । तत्रालम्बनं रसस्य समवायिकारणं नायिका नायकश्च । तद्गुणो रूपलावण्यादिः । तच्चेष्टा भावहावादिः । अन्यत्सु. गमम् । एवमुत्तरत्रापि ॥ अतिशयपरिणाहवान्वितेने बहुतरमर्पितरनकिङ्किणीकः । अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ५ अतिशयेति ॥ अतिशयेन परिणाहवान् । अतिविशाल इत्यर्थः । अन्यथा तजघनस्य पर्याप्तेरिति भावः । 'परिणाहो विशालता' । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । बहुतरमर्पिता आहिता रत्नानां किङ्किण्यो यस्मिन्सः । 'नवृतश्च' इति कप्प्रत्ययः । कलो मधुरारावी मेखलाकलापोऽपरस्याः स्त्रियः अलघुनि जघनस्थलेऽधिकं ध्वनि वितेने । तदलंकृतिरियम् ॥ Page #179 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १६७ गुरुनिविडनितम्बविम्बभाराक्रमणनिपीडितमङ्गनाजनस्य । चरणयुगमसुनुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥६॥ गुर्विति ॥ गुरु गुरुत्वगुणयुक्तं निविडं दृढं च यन्नितम्बबिम्बं तदेव भारस्तस्याक्रमणेनाधिष्टानेन निपीडितं निष्पीडितमङ्गनाजनस्य चरणयुगं कर्तृ, पदेषु पादन्यासस्थानेप्वलक्तकच्छलेन लाक्षारसमिषेण स्वरसं स्वन्द्वमेव । 'गुणे रागे दवे रसः' इत्यमरः । असक्तमविच्छिन्नं यथा तथासुस्रुवत् स्रवति स्म । स्रवतेः क्षरणााल्लुङि ‘णिश्रि-' इत्यादिना चङि धातोरुवडादेशः । द्रवदव्यकर्तृक एवायमकर्मकः । अन्यकर्तृकत्वे तु सकर्मकः । अत्रालक्तकच्छलेनेत्यलक्तकापहवेन स्वरसत्वारोपाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः ॥ अथ कस्याश्चित्सख्याः कुपितनायिकानुनयवचनं पञ्चभिः कुलकेनाहतव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि । अतिरभसकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ७ तवेत्यादि ॥ तां मत्सखीं सपदि तव समीपमहमानये आनयिष्यामि । वर्तमानसामीप्ये वर्तमानप्रत्ययः । कर्तुरभिप्राये आत्मनेपदम् । इति मया तस्याग्रतोऽभ्यधाय्यभिहितम् । दधातेः कर्मणि लुङ् 'आतो युक् चिण्कृतोः' इति गुगागमः । हे गुणगौरि गुणैः सौभाग्यदाक्षिण्यादिभिगौरि पार्वतीति रूपकम् । अतिरभसेनातित्वरया कृता अलघुर्महती प्रतिज्ञा त्वदानयना यया तां नामनृतगिरमसत्यवाचं मा कृथाः मा कार्षीः । मद्वचनं सर्वथा कर्तव्यमित्यर्थः । करोतेलुङि थास् 'न माङ्योगे' इत्यडागमप्रतिषेधः ॥ ननु मत्प्रतिज्ञापि दुस्त्याज्येति विप्रतिषेधमाशक्क्याहन च सुतनु न वेनि यन्महीयानसुनिरसस्तव निश्चयः परेण । चितथयति न जातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः न चेति ॥ हे सुतनु शुभाङ्गि । दीर्घान्तोत्तरपदात्संबुद्धिः अन्यथा गुणः स्यात् । अहं न वेद्मीति न । किंतु वेन्येवेत्यर्थः । किं तद्वेत्सीत्यत आह-महीयान्महत्तरम्तव निश्चयस्त्वदनैक्ये प्रतिज्ञा परेण जनान्तरेण सुनिरसः सुखमोच्यः । अस्यतेः खलप्रत्ययः । स न भवतीत्यसुनिरस इति यत्तदित्यर्थलभ्यम्। उद्देश्येन विधेयाक्षेपाद्यच्छब्दस्योत्तरवाक्यस्थत्वाच्च न पूर्ववाक्ये तच्छब्दप्रयोग इति निबन्धः । तथापि विदितत्वेऽप्यसौ मत्सखी जातु कदाचिदपि मढचो न वितथयति नानृतीकरोतीति सखीपु मध्ये मेऽभिमानः। स्वप्रतिज्ञाभङ्गेऽपि मत्प्रतिज्ञामेव पालयसीत्यहंकारान्निःशङ्कं प्रतिज्ञातमित्यर्थः ॥ सततमनभिभापणं मया ते परिपणितं भवतीमनानयन्त्या । त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहजनः सकामः ९ सततमिति ॥ भवतीं त्वामनानयन्त्या । आनयितुमशक्नुवत्या इत्यर्थः । Page #180 -------------------------------------------------------------------------- ________________ १६८ . शिशुपालवधे मया सततं सदा ते तव । कर्मणि षष्ठी। अनभिभाषणसंभाषणं परिपणितं भवतीति 'भातेर्डवतुः' इत्यौणादिको डवतुप्रत्ययः । 'उगितश्च' इति ङीए । तस्याः संबुद्धिहें भवति सुभगे, त्वयि तदिति तदसंभाषणमस्त्विति विरोधनिश्चितायां निश्चितविरोधायां सत्याम् । 'वाहिताग्यादिषु' इति विकल्पान्निष्ठायाः परनिपातः । असुहृजनो विपक्षवर्गः सकामः फलितमनोरथो भवतु भवेत् । प्राप्तकाले लोट् । अस्मद्विरोधकाशिणामयमानन्दकालः प्राप्त इत्यर्थः ॥ न केवलमावयोर्विरोधः प्राणहानिरपि मम स्यादित्याहमतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः । प्रणयिनि यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः १० गतेति ॥ गततिरधीराहं भवत्यास्तवानालपनादसंभाषणात् । आलपनं विहायेत्यर्थः । ल्यब्लोपे पञ्चमी । असून्प्राणानवलम्बितुं धारयितुमनलमशक्ता । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । बतेति खेदे । अत एव हे मानिनि, प्रणयिनि प्रिये, प्रसादबुद्धिरनुग्रहबुद्धिर्न यदि नाम्ति चेत्तथापि मम जीविते दयालुभव । 'स्मृहिगृहि-' इत्यादिना आलुच्प्रत्ययः । स धूर्तोऽपि मत्प्राणत्राणार्थमनुग्राह्य इति भावः ॥ प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी । चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयांचकार ॥११॥ प्रियमिति ॥ इतीत्थं नितान्तमागसोऽन्यासङ्गापराधस्य स्मरणेन सरोषे अत एव कषाये लोहिते कृते कषायिते आयते चाक्षिणी यस्याः सा तथोक्ता । 'निर्यासे च कषायोऽथ सौरभे लोहितेऽन्यवत्' इति विश्वः । वनिता नायिका चरणगतायाः पूर्वोक्तवाक्यान्ते प्रणतायाः सख्या वचसोऽनुरोधादनुल्लङ्घनाकिल। किलेत्यपरमार्थे । वस्तुतस्त्वनुरागादेवेति भावः । प्रियं कथमपि कथंचिदनुकूलयांचकाराभिमुखीचकार । अनुजग्राहेत्यर्थः । एषा खण्डिता नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेयांकषायिता' इति दशरूपकलक्षणात् । अत एव कविना आगःस्मरणसरोषकषायिताक्षीयुक्तम् । एषा चासंभाषणचिन्ताखेदाश्रुनिःश्वासाद्यनुभाववती ॥ ___ अथ काचित्सखी कंचिदने शीघ्रगामिनं युग्मेनाहद्रुतपदमिति मा वयस यासीननु सुतनुं परिपालयानुयान्तीम् । नहि न विदितखेदमेतदीयस्तनजघनोद्वहने तवापि चेतः॥१२॥ द्रुतेति ॥ हे वयस्य सखे, इतीत्थं द्रुतपदं शीघ्रपदक्रमं यथा तथा मा यासीर्मा गमः । याते ङि 'न माङयोगे' इत्यदप्रतिषेधः । अनुयान्तीमनुगच्छन्ती सुतनुं शुभाङ्गी प्रियामनुपालय प्रतीक्षस्व । असावपि शीघ्रमायातु तत्राह-नहीति । तव चेतोऽपि एतदीयस्तनजघनोद्वहने विदितखेदमनुभूतखेदं नेति न । किंतु Page #181 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १६९ वेत्येवेत्यर्थः । अतः कथं शीघ्रमायास्यतीति भावः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः ॥ इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य । तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि १३ इतीति ॥ सखीजने इति वदति सति अपरः कश्चिद्दयिततमामनुरागास्नेहाचिरं प्रतीक्ष्य तदनुगमवशात्तस्याः प्रियायाः काः अनुगमः पश्चाद्मनं तस्य वशादनुसारादवनिं मिमानो मानं कुर्वाण इवेत्युत्प्रेक्षा । माङो लटः कर्तरि शानजादेशः । 'श्लौ' इति द्विर्भावः । अनायतान्यनन्तरालानि पदानि न्यधित निहितवान् । धानो लुङि तङ् 'स्थाध्वोरिच्च' इतीकारः। सिचः कित्त्वान्न गुणः 'हस्वादङ्गात्' इति सकारलोपः । एषा च नायिका स्वाधीनपतिका । 'स्वाधीन. पतिका सा तु या न मुञ्चति वल्लभम्' इति लक्षणात् । हृष्टा चेयम् ॥ अथ काचित्पुरः प्रयातप्रियमेलनाय शीघ्रानुधावनं प्रार्थयमानां सखीमाह यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि संप्रतीयम् । . द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि सख्या १४ यदीति ॥ हे सखि, मयि लघिमानमागतायां स्वयं गमनेन लाघवं प्राप्तायां तव तिरस्ति यदि संतोषो भवति चेत् । 'तिः संतोषधैर्ययोः' इत्यमरः । इयमेतदवस्थैव संप्रत्यस्मिन्क्षण एव गतास्मि इति । वदन्तीति शेषः । इतिना गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुत्यादित्यालंकारिकाः । सख्या सह कोपपदेन कोपव्याजेन । वस्तुतस्तु रागादेवेति भावः । 'व्याजोपदेशो लक्ष्यं च', 'निमित्तं व्यञ्जनं पदम्' इति चामरः । काचिन्नायिका द्रुततराः शीघ्रतराः पदपाताः पादन्यासा यस्मिन्कर्मणि तद्यथा तथा प्रियं वल्लभमापपातानुधावति स्म । एषा च स्वयं प्रवृत्ता स्वलाघवशङ्कितया पूर्व निर्वासितप्रिया, अथेदानी स्वयंप्रवृत्तेः पश्चात्तप्ता चेति गम्यते । अतः कलहान्तरिता । 'कोपात्कान्तं पराणुध पश्चात्तापसमन्विता' इति लक्षणात् ॥ अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः । घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार १५ अविरलेति ॥ सह व्रजन्त्याः । पार्श्वमाश्लिष्य गच्छन्त्या इत्यर्थः। तरुण्याः संबन्धी अविरलपुलकः प्रियाङ्गसंगमात्सान्द्ररोमाञ्चः एकतरोऽन्यतरो द्वयोरन्यः । संनिकृष्ट इति भावः । 'एकाच्च प्राचाम्' इति द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययः। स्तनः प्रियस्य वक्षस्तटमिव तस्य भूः प्रदेशस्तस्यां वक्षस्तटभुवि प्रतिपदं घटितवि. वटितः संयुक्तवियुक्तः । पतितोत्पतितः सन्निति यावत् । विशेषणयोरपि मिथो गुणप्रधानभावविवक्षया 'विशेषणं विशेष्येण बहुलम्' इति समासः । कन्दुकविभ्रमं गेन्दुकशोभाम् । 'गेन्दुकः कन्दुकः' इत्यमरः । बभार । अन्यविभ्रमस्यान्य. संबन्धायोगात्सादृश्याक्षेपे निदर्शना । एषा च प्रियपार्श्वगामिनी। इतःप्रभृति १ 'अनिभृतपदयात'. ठिोडा १५ Page #182 -------------------------------------------------------------------------- ________________ १७० शिशुपालवधे 'मदनरस-७।२३' इत्यतः प्राग्वक्ष्यमाणाः षण्नायिकाः स्वाधीनपतिका हृष्टाः प्रगल्भाश्चेत्यनुसंधेयम् ॥ अथापरस्या अपि गतिविशेषं विशेषकेणाहअशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्धहिःस्तनेन । हृषिततनुरुहा भुजेन भर्तुर्मुदुममृदु व्यतिविद्धमेकबाहुम् ॥१६॥ अशिथिलमित्यादि ॥ अपरा स्त्री दृढं परिरब्धो गृहीतो बृहदहिःस्तनो येन तेन हृषितान्युदञ्चितानि तनुरूहि रोमाणि यस्य तेन । पुलकितेनेत्यर्थः । किबन्तोत्तरपदो बहुव्रीहिः । 'हृषेर्लोमसु' इतीडागमः । भुजेन भर्तुर्वामबाहुना अमृदु गाढं यथा तथा व्यतिविद्धं व्यतिषञ्जितं मृदु कोमलमेकबाहुं निजदक्षिणबाहुं भर्तुः कण्ठेऽशिथिलं दृढमवसज्यासज्य जगामेति भाविना संबध्यते ॥ मुहुरसुसममानती नितान्तं प्रणदितकाश्चि नितम्बमण्डलेन । विषमितपृथुहारयष्टि तिर्यकुचमितरं तदुरःस्थले निपीड्य ॥१७॥ मुहरिति ॥ पुनः किं कृत्वा । नितम्बमण्डलेन करणेन नितान्तमतिशयेन प्रणदिता प्रकर्षेण नदन्ती काञ्ची यस्मिन्कर्मणि तद्यथा तथा । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । मुहुरसुसमं प्राणेशमानती ताडयन्ती । हन्तेराङ्पूर्वाल्लटः शत्रादेशे ङीप् । सकर्मकत्वान्न 'आङो यमहनः' इत्यात्मनेपदम् । विषमिता विषमीकृता पृथुहारयष्टिर्यस्मिन्कर्मणि तद्यथा तथा इतरं पूर्वश्लोको. क्तिबहिःस्तनादन्यम् । दक्षिणमित्यर्थः । कुचं तस्य भर्तुरुरःस्थले तिर्यक निपीड्य । पूर्ववत्संबन्धः ॥ गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा । इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥१८॥ गुरुतरेति ॥ पुनर्गुरुतरः सान्द्रतरः कलो मधुरश्च नूपुरस्यानुनादो ध्वनिर्यस्मिन्कर्मणि तद्यथा तथा सललितं सलीलं नर्तितं व्यापारितं वामं सव्यं पादपयया सा इतरदक्षिणं पदमनतिलोलं भर्तुश्चरणस्खलनादनतिचपलं यथा तथा आदधाना निक्षिपन्ती सती मन्मथेन मन्थरमलसं जगाम। एषा च पार्श्वगामिनी ।। ॥ विशेषकम् ॥ अथान्यासामप्येकैकेन गतिविशेषमाहलघुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या । सकठिनकुचचूचुकप्रणोदं प्रियमवला सविलासमन्वियाय॥१९॥ लध्वित्यादि ॥ अन्या अबला स्त्री तस्य प्रियस्यांसौ पीठे इव तयोर्द्वये निहितावुभौ पाणिपल्लवौ यया सा सती । 'उभादुदात्तो नित्यम्' इति पृथक्सूत्रकरणादेव सिद्धे पुनर्नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्थानेऽप्युभयशब्दप्र. योगः । यथाह कैयटः । तत्र 'उभादुदात्तो नित्यम्' इति नित्यग्रहणस्येदं प्रयोजनं Page #183 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः 1 १७१ वृत्तिविषये उभशब्दस्य प्रयोगो माभूत्, उभयशब्दस्यैव यथा स्यादित्युभयत्रेत्यादि भवतीति । लघुनी द्रुते ललिते च पदे यस्मिन्कर्मणि तद्यथा तथा कठिनाभ्यां कुचचूचुकाभ्यां स्तनाग्राभ्यां यः प्रणोदो निपीडनं तेन सह यथा तथा । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । ' तेन सह -' इत्यादिना समासे 'वोपसर्जनस्य' इति सहशब्दस्य सभावः । गोपदेशत्वात्प्रणोद इति णत्वम् । सविलासं च प्रियमन्वियायानुजगाम । एषा पृष्ठगामिनी ॥ जघनमलघुपीवरोरु कृच्छ्रादुरुनिविरीसनितम्बभारखेदि । दयिततमशिरोधरावलम्विस्वभुजलताविभवेन काचिदूहे ॥२०॥ जघनमिति || काचित्खी अलघू गुरू पीवरौ पीनौ चोरू यस्य तत् उरु• महान् निबिरीसो निबिड : । 'निबिडं निबिरीसं च दृढं गाढं प्रचक्षते' इति वैजयन्ती । 'नेर्बिडज्बिरीसचौ' इति निशब्दाद्विरीसच्प्रत्ययः । स च यो नितम्बः स्त्रीकटिपश्चाद्भागः । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीचे तु जघनं पुरः' इत्यमरः । स एव भारस्तेन खिद्यत इति तथोक्तम् । अभीक्ष्ण्ये णिनिः । जघनं कटिपुरोभागं दयिततमस्य शिरोधरायां ग्रीवायामवलम्बिन्योर्लस्त्रमानयोः स्वभुजलतयोर्विभवेन सामर्थ्येन कृच्छ्रादूहे उवाह । यः स्वरित्वात्कर्त्रभिप्राय आत्मने. पदम् । इयंच पृष्टगामिनी प्रियकण्ठावलम्बा | अनुवपुरपरेण बाहुमूलग्रहितभुजाकलितस्तनेन निन्ये । निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या २१ अनुवपुरिति ॥ अन्या स्त्री वपुषः पश्चादनुवपुः स्त्रीपृष्टभागः । 'अव्ययं विभक्ति -' इत्यादिना पश्चादर्थेऽव्ययीभावः । बाहुमूलयोः स्त्रीकक्षयोः प्रहितावधःप्रसारितौ भुजौ ताभ्यामाकलितस्तनेन गृहीतस्तनेन कपोले निहितदशनवाससा न्यस्ताधरेण किंचिदावृतमुख्याः सत्याः कपोलं चुम्बतेत्यर्थः । अपरेण कामिना विषमं प्रियाविच्छिष्टं वितीर्णपदं न्यस्ताङ्गि यथा तथा बलादिव निन्ये नीता | आरोग्य नीयमानेव गमयांचक्र इत्यर्थः । एषां पुरोगामिनी ॥ 1 अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः । उरसि सरसरागपादलेखाप्रतिभतयानुययावसंशयानः ॥ २२ ॥ अनुवनमिति || अपरः कामी अनुवनं वनंप्रति सखीभिः सह पुरोगतायाः असितभ्रुवः स्वकान्तायाः पदवीमुरसि वक्षसि सरस आर्द्रा रागो लाक्षारञ्जनं यस्य तस्य पादस्य या लेखा विन्यासः सा प्रतिमोपमानं यस्याः सा तत्प्रतिमा तस्य भावस्तत्ता तया । तत्सदृशतयेत्यर्थः । असंशयानोऽसंदिहानः । शीङो लटः कर्तरि शानजा देशः । अनुययौ । अत्र पादरेखाप्रतिमतयेति सादृश्यवस्तुना सुर• तकालीनं पादताडनं वस्तु सरागपदार्थमहिम्ना प्रतीयत इति पदगतः स्वतःसिद्धार्थशक्तिमूलो वस्तुध्वनिः संलक्ष्यक्रमध्वनेर्भेदः ॥ Page #184 -------------------------------------------------------------------------- ________________ १७२ शिशुपालवधे मदनरसमहौषपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः। सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥२३॥ मदनेति ॥ मदनस्य रसः शृङ्गारः, अन्यत्र रसो जलं तस्य महोघेन महापू. रेण पूर्णा नाभ्य एव हृदास्तेषां परिवाहाः कृताः परिवाहिता जलोच्छासीकृता रोमराजयो यासां ताः । 'जलोच्छवासाः परीवाहाः' इत्यमरः । सरिजलानि ह्रदानापूर्य परित उच्चसन्तीति प्रसिद्धिः। सविभ्रमैः सविलासैः प्रयातैः प्रकृष्टगमनैः प्रणदिताः शिञ्जिता ये हंसकाः पादकटकाः । 'हंसकः पादकटकः' इत्यमरः । अन्यत्र हंसा एव हंसकाः मरालास्त एव भूषणानि यासां ताः स्त्रिय. सरित इव विरेजुः । मदनरसपूर्णेत्यनेन नाभीनां तदुरोधकत्वं व्यज्यते । 'परिवाहितरोमराजय' इति रोमराजीनां परिवाहत्वनिरूपणान्नाभ्य एव हृदा इति रूपकाश्रयणम् । ताः सरित एवेति श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥ श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः। विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥२४॥ श्रुतिपथेते ॥ अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । 'अव्ययी. भावश्च' इति नपुंसकत्वे द्वस्वत्वम् । ताभिः स्त्रीभिर्जनानां समूहो जनता । 'ग्रामजन' इत्यादिना सामूहिकस्तत्प्रत्ययः । तस्या मनांस्येव शरव्यं लक्ष्यम् । 'लक्ष्य शरव्यं च' इत्यमरः । तस्य व्यधो वेधः। 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः स इति शङ्का भ्रमं विदधति विदधानानि : 'वा नपुंसकस्य' इति वैकल्पिको नुम्प्रतिषेधः। श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः अत्र सारसरते मन्मथचापनादभ्रमाद्धान्तिमदलंकारः । 'कविसंमतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥' इति लक्षणात् ।। मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि । तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङ्गलीभिः ॥२५॥ मध्विति ॥ उत्सुकान्युन्मनांसि भ्रमरकुलानि मधुमथनस्य हरेर्वधूरावयन्त्याकारयन्तीवेत्युत्प्रेक्षा । हूतिराकारणाह्वानम्' इत्यमरः । ‘शपश्यनोनित्यम्' इवि ह्वयतेः शतुर्नुमागमः। जगुरिति गायतेर्लिट् । वनानामावलिनूतनपल्लवा एवाङ्गुल्य इत्येकदेशवर्तिसावयवरूपकम् । अस्यैव वनावलौ नर्तकीत्वरूपगमका त्वादिति । ताभिस्तदभिनयं व्यञ्जकचेष्टामतनुतेव । 'व्यञ्जकाभिनयौ समो' इत्यमरः। 'अङ्गैरालम्बयेद्गीतं हस्तेनार्थ प्रदर्शयेत्' इति वचनात् । गीतार्थ. स्याह्वानस्य व्यञ्जनमङ्गुलिभिरका(दिवेति क्रियास्वरूपोत्प्रेक्षा । पूर्वोक्तरूपकानु. प्राणिता साह्वानोत्प्रेक्षासापेक्षेति सजातीयसंकरोऽपीति ॥ असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् । मरुदवनिरुहां रजो वधूभ्यः समुपहरन्विचकार कोरकाणि ॥२६॥ Page #185 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १७३ असकलेति ॥ मरुदनानिलः असकला असमग्राः । अर्धविकचा इत्यर्थः । ताभिः कलिकाभिः कोरकैराकुलीकृतानां संक्षोभितानामलीनां स्खलनेन विघट्टनेन विकीर्णा विक्षिप्ता विकासिनः केशराः किंजल्का येषां तेषामवनिरुहाम् । क्विप् । रजः परागं वधूभ्यः समुपहरन्प्रयच्छन् । यथा कश्चित्कामीति भावः । धनमर्जयन्वसतीतिवत् , 'लक्षणहेत्वोः क्रियायाः' इति हेत्वर्थे शतृप्रत्ययः । कोरकाणि कुड्मलानि । 'कलिका कोरकः पुमान्' इत्यमरकोशे पुंस्त्वाभिधानं प्रायिकाभिप्रायम् । 'कोरकं कुड्मलेऽपि स्यात्कक्कोलकमृणालयोः' इति विश्वप्रकाशादौ नपुंसकत्वस्याभिधानात् । विचकार । विकासयामासेत्यर्थः । विपूर्वाकिरतेः करोतेर्वा लिद । अत्र कोरकविकासकरणस्य समुपहरन्निति हेत्वर्थेन वधूसंप्रदानकपरागोपहरणार्थत्वावगमात्फलोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य । परिमलविषयस्तदुन्नतानामनुगमने खलु संपदोऽग्रतःस्थाः २७ उपवनेति ॥ वने इत्युपवनम् । विभक्त्यर्थेऽव्ययीभावः । तत्र यः पवनस्तस्यानुपातेनानुसारेण दक्षैर्विचक्षणैरलिभिर्यद्यतः कारणादङ्गनाजनस्य संबन्धी परिमलो गन्धविशेषः । 'विमदोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः । स एव विषयो भोग्यार्थः। 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इति । अलाभि लब्धः । लभेः कर्मणि लुङ् 'विभाषा चिण्णमुलोः' इति विकल्पान्नुमभावः ‘अत उपधायाः' इति वृद्धिः । तस्मादुन्नतानां महतानुगमने पश्चाद्धावने, अनुवृत्तौ च संपदोऽग्रतःस्थाः पुरोवर्तिन्यः खलु । 'सुपि स्थः' इति कप्रत्ययः । अत्रानुगमनयोयोरभेदाध्यवसायाच्छेषोत्थापितातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः सामान्येन विशेषसमर्थनरूपः ॥ रथचरणधराङ्गनाकराजव्यतिकरसंपदुपात्तसौमनस्याः । जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् २८ रथेति ॥ सुमनसः पुष्पाणि रथचरणं चक्रं तस्य धरो धारयिता हरिः । पचाद्यच् । तस्याङ्गनास्तासां कराय॑तिकरः संपर्कः स एव संपत्तयोपात्तं लब्धं सौमनस्यं सुमनस्कत्वं संतुष्टचित्तत्वं याभिस्ताः सत्यः अत एव सौमनस्यलाभ आदिर्यस्मिन्कर्मणि तत्तदादि । ततः प्रभृतीत्यर्थः । अर्थतः पूर्वोक्तावयवार्थात्परिस्फुटं प्रसिद्धावयवार्थमभिधानं सुमनस इति नामधेयं दधति । पूर्व विश्वकर्णकादिवद्रूढमिति भावः । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । स्त्रियः। पुष्पाण्यवचेतुं प्रवृत्ता इति फलितोऽर्थः । नूनमित्युत्प्रेक्षायाम् । अत्रोपात्तसौमनस्या इति सौमनस्योपादानस्य पदार्थस्य विशेषणगत्या सुमनःपदान्वर्थताहेतुकत्वोक्त्या काव्यलिङ्गम् । तदुत्थापिता चेयं तदादित्वोत्प्रेक्षेति संकरः। तेन चाङ्गनाकराणामतिलाध्यत्वं व्यज्यते ॥ अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानः। तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥२९॥ Page #186 -------------------------------------------------------------------------- ________________ १७४ शिशुपालवधे अभिमुखेति ॥ अभिमुखपतितैर्भञ्जनार्थमभिमुखमागतैः उज्वलामुस्कृष्टामुद्वतिमुपरिप्रसारमौद्धत्यं च दधानैरङ्गनानामग्राणि च ते हस्ताश्चेति समानाधिकरणसमासः । अत एव 'हस्ताग्रागहस्तयोर्गुणगुणीनोरभेदात्' इति वामनः । तैरन. हस्तैः कर्तृभिः गुणप्रकर्षाद्धेतोरवजितमवधीरितं तरुकिसलयजालं प्रसभं बलाद्भङ्गं छेदं पराजयं चानीयत नीतम् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति किसलयजालस्य प्राधान्यादभिधानम् । अत्राग्रहस्तेषु विशेषणमहिम्ना जिगीषुत्वस्य किसलयजाले जेतव्यत्वस्य च प्रतीतेः समासोक्तिरलंकारः ॥ मुदितमधुमुजो मुजेन शाखाश्चलितविशृङ्खलशङ्ख धुवत्याः। तरुरतिशयितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ३० मुदितेति ॥ मुदिता हृष्टा मधुभुजो मधुपा यासु ताः शाखा भुजेन हस्तेन चलितानि विशृङ्खलान्यप्रतिहतरवाणि शङ्खकानि वलयानि यस्मिन्कर्मणि तद्यथा तथा धुवत्याः कम्पयन्त्याः । 'धू विधूनने' इति धातोस्तौदादिकाच्छतरि ङीप् । 'क्विति च' इति गुणवृद्धिप्रतिषेधादुवङादेशः । अतिशयिता सौन्दर्येणातिक्रान्ता अपराङ्गना यया सा तस्याः शिरसि तरुर्मुदेव तदभिसरणसंतोषेणेवेति गुणहेतू. प्रेक्षा । पुष्पवर्ष पुष्पवृष्टिं मुमोच ॥ अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन । सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ३१ अनवरतेति ॥ अनवरतसेनानवच्छिन्नद्रवेण, अन्यत्रानुबद्ध शृङ्गारेण राग. भाजा रक्तेन, प्रीतिभाजा च करजपरिक्षतिषु नखक्षतेषु लब्धसंस्तवेन प्राप्तपरिचयेन । 'संस्तवः स्यात्परिचयः' इत्यमरः । वध्वा विगतदयं निर्दयं यथा तथा खण्डितेन छिन्नेन निराकृतेन च तरुणपल्लवेन नवकिसलयेन युवविटेन च । 'पल्लव: किसलये विटे' इति विश्वः । सपदि मम्ले म्लानम् । खलु प्रसिद्धौ । म्लायते वे लिट् । अत्राभिधायाः प्रकृतार्थे नियन्त्रितत्वादप्रकृतार्थप्रतीतेः शब्दशक्तिमूलो ध्वनिः । न श्लेषः । तेन चोभयोः पल्लवयोरौपम्यं गम्यते ॥ अथासां पुष्पावचये शृङ्गारचेष्टा वर्णयन्कस्याश्चिच्चेष्टाविशेषमेकेनाहप्रियमभि कुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या । मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेशुकेन ॥३२॥ प्रियमिति ॥ अन्या स्त्री प्रियमभि । प्रियस्याग्रत इत्यर्थः । 'अभिरभागे' इत्यभेलक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । कुसुमेषूद्यतः कुसुमोद्यतः । कुसुमग्रहणार्थमुत्क्षिप्त इत्यर्थः । प्रकृति विकारभावाभावान्न तादर्थं चतुर्थीसमासः । तस्य बाहोर्नवं यन्नखं नखक्षतं तदेव मण्डनं तेन चारु सुन्दरं मूलम् । कक्षभागमित्यर्थः । मुहुरितरकरेण सव्यपाणिना आहितेन निहितेनांशुकेनोत्तरीयेण पीनं स्तनतटं रुणद्धीति पीनस्तनतटरोधि तदावरणं यथा तथा तिरोदधे तिरश्चकार । अयं चापलाख्यः संचारिभावः। 'आत्मप्रकाशिनी चेष्टा रागादेश्वापलं मतम्' इति लक्षणात् । प्रौढा चेयम् ॥ Page #187 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १७५ अथापरस्याश्चेष्टाविशेषं षभिः कुलकेनाहविततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीनरोमराजिः। कृशमपि कृशतां पुनर्नयन्ती विपुलवरोन्मुखलोचनावलग्नम् ॥३३॥ विततेत्यादि ॥ काचिद्वितताभित्रोन्नमनाद्विश्लिष्टाभिर्वलिभित्रिवलिभिविभाव्याः संलक्ष्याः पाण्डुलेखा रेखाकारा वलित्रयान्तरालभागास्ताभिः कृतपरभागा जनितवर्णोत्कर्षाः अत एव विशेषेण लीना विलीना रोमराजियस्याः सा तथोक्ता । कृशमपि । स्वभावत एवेति भावः । भवलग्नं मध्यम् । 'मध्यमं चाव. लग्नं च मध्योऽस्त्री' इत्यमरः । पुनः कृशतां नयन्ती । अग्रपुष्पग्रहणाय गानविजृम्भणादिति भावः । तथा विपुलतरे उन्मुखे ऊर्ध्वमुखे च लोचने यस्याः सा । अग्रपुष्पग्रहणार्थमिति भावः ॥ प्रसकलकुचबन्धुरो रोरःप्रसभविभिन्नतनूत्तरीयबन्धा । अवनमदुदरोच्छ्सद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला ॥ ३४ ॥ प्रसकलेति ॥ प्रसकलाभ्यामतिसमग्राभ्यां कुचाभ्यां बन्धुरमुन्नतानतम् । 'बन्धुरं तून्नतानतम्' इत्यमरः । उद्धुरं निर्भरम् । दृढमिति यावत् । 'ऋक्पूर्-' इत्यादिना समासान्तः । तस्मादुरसः प्रसभाद्वलात्काराद्विभिन्नो विश्लिष्टस्तनूत्तरीयबन्धो यस्याः सा। गात्रविजृम्भणाद्विसस्तकुचावरणेत्यर्थः। किंच अवनमतोऽन्तीयमानादुदरादुच्छसद्विश्लिष्यदुकूलं यस्य तत् अत एव स्फुटतरं यथा तथा लक्ष्यं गभीरमगाधं नाभेर्मूलमन्तरालं यस्याः सा ॥ व्यवहितमविजानती किलान्तर्वणभुवि वल्लभमाभिमुख्यभाजम् । अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ३५ व्यवहितमिति ॥ काचित्पूर्वोक्तविशेषणविशिष्टाङ्गना अन्तर्वणभुवि वनाभ्य. न्तरप्रदेशे । 'प्रनिरन्तः-' इत्यादिना वननकारस्य णत्वम् । व्यवहितं तिरोहितमा. भिमुख्यभाजम् । अभिमुखावस्थितमित्यर्थः । तं वल्लभं प्रियमविजानती किल जानानाप्यजानानेव अधिविटपि विटपिनि वृक्षे। विभक्त्यर्थे ऽव्ययीभावः । सलीलं यथा तथाग्रे वृक्षाग्रे यानि पुष्पाणि तेषां ग्रहणस्य पदेन मिषेण चिरं विलम्ब्य । प्रियाय स्वाङ्गप्रकाशनार्थमिति भावः ॥ अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती । शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी॥३६॥ अथेति ॥ अथ विलम्बानन्तरमत्रास्मिन्प्रिये सखीभिः कथिते सति किलायमत्रैवास्त इति निवेदिते सति क्षणं ससंभ्रमा अपरेव पूर्वविपरीतव्यापारकरणादन्येव भवन्ती । बुद्धिपूर्वकारित्वमज्ञाननाटनेन वञ्चयन्तीत्यर्थः । शिथिलितः पुष्पग्रहणानिवर्तितः कुसुमाकुलः कुसुमव्यापृतोऽग्रपाणिर्यया सा तथोक्ता प्रतिपदं १ 'मिव' इति पाठः. Page #188 -------------------------------------------------------------------------- ________________ १७६ शिशुपालवधे प्रतिस्थानं संयमितेन नियमितेनांशुकेन । 'अंशुकं सूक्ष्मवस्ने स्यात्' इति विश्वः । वस्त्रेणावृतमङ्गं यस्याः सा तथोक्ता सती ॥ कृतभयपरितोषसंनिपातं सचकितसस्मितवक्रवारिजश्रीः । मनसिजगुरुतत्क्षणोपदिष्टं किमपि रसेन रसान्तरं भजन्ती ॥३७॥ कृतभयेति ॥ किंच कृतः भयपरितोपयोर्भर्तृदर्शनोत्थसाध्वसहर्षयोः संनिपातः संकरो येन तत् । मनसि जातो मनसिजः सरः। 'सप्तम्यां जनेर्डः' । 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक् । स एव गुरुराचार्यस्तेन तत्क्षण उपदिष्टम् । तदेकहेतुकमित्यर्थः। किमप्यनिर्वाच्यं रसान्तरं लक्षणया भावान्तरं तच्चेह किलकिंचिताख्यं विवक्षितम् । कृतभयैत्यादीविशेषणेन क्रोधाश्रुहर्षभी. त्यादेः संकरः। किलकिंचितमिति लक्षणार्थस्य प्रतीतेः। रसेन रागेण हेतुना भजन्ती अत एव सचकिता सभयसंभ्रमा। 'चकितं भयसंभ्रमः' इत्यमरः । सस्मिता हर्षात्समन्दहासा वक्रवारिजश्रीर्यस्याः सा सती । अन्न चकितस्मितयोः पूर्वोक्तभयहर्षानुभावत्वेनोक्तिः ॥ अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै । अहरत सुतरामतोऽस्स चेतः स्फुटमभिभूपयति स्त्रियस्वपैव ॥३८॥ पभिः कुलकम् । अवनतेति ॥ अवनतवदनेन्दुः । लज्जया नम्रमुखीत्यर्थः । अधीरतया अष्टतया व्यवधिं किंचिद्व्यवधानम् । 'उपसर्ग घोः किः' इति किप्रत्ययः। इच्छतीव वान्छन्तीव । तथा व्याकुला सतीत्यर्थः । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । अस्मै प्रियाय अस्थित । आत्मानं प्रकाशयन्ती स्थितेत्यर्थः । तिष्ठतेः कर्तरि लुङ् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदं 'स्थाचोरिच' इति सिचः कित्त्वमिकारश्च धातोरन्तादेशः कित्त्वान्न गुणः । इति यदतो हेतोरस्य प्रियस्य चेतः सुतरामहरत । तथाहि पैव स्त्रियोऽभिभूषयति स्फुटम् । प्रसिद्धमित्यर्थः । अतोऽस्या अपि त्रपाभूषितत्वादतिमनोहरत्वं युक्तमिति भावः । कुलकार्थान्तरन्यासौ । मध्या चेयं नायिका । 'लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ॥ किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गके निधेयाः । नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः॥३९।। किसलयेति ॥ किसलयशकलेषु । वर्तमाना इति शेषः । अवाचनीयाः प्रसिद्धलिपिवैलक्षण्याद्वाचयितुमनींः किंतु केवलं पुलकिनि दयितस्पृष्टत्वात्तत्स्पर्शादेव रोमाञ्चवत्यङ्गके वपुषि निधेया विरहतापशान्त्यर्थमर्पणीयाः। कुतः । नखपदानि नखाङ्का एव लिपयोऽक्षराणि येषु ते न तु प्रसिद्धाक्षराः । अतोऽवाचनीया इत्यर्थः । नैतावतानुतापकारित्वं चेत्याह-तथापि दीपितार्थाः संकेतितसंनिवेशवशादेव द्योतिताभिधेया लिख्यन्त इति लेखाः । कर्मणि घञ्प्रत्ययः । अन Page #189 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १७७ इस्य लेखाः । तत्प्रयुक्ता इत्यर्थः । दयितैः दयिताभिः दयितैश्च । 'पुमान्स्त्रिया' इत्येकशेषः । प्रणिदधिरे प्रणिहिताः। लिखिता इत्यर्थः । दधातेः कर्मणि लिद । 'नेर्गदनद-' इत्यादिना नकारस्य णत्वम् । लोकप्रसिद्धलेख्यवैलक्षण्यायतिरे. कालंकारः॥ कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव । अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ४० कृतेति॥ कृतकृतकरुपा कृतकृत्रिमरोषया कयाचिन्नायिकया त्वमकुशला माल्यग्रथने कुशला नासीति सखीमपास्य निरस्यात्मना स्वयमेवाभिमतमभिप्रायाभिमुखं साभिलाषमाविष्कृतभुजमूलं प्रकाशितकक्षप्रदेशं यथा तथा मूर्ध्नि माला अबन्धि बद्धा । अयं च स्वाभिप्रायव्यञ्जकचेष्टारूपश्चापलाख्यः संचारिविशेषः । नायिका प्रौढैव । 'स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना' इति लक्षणात् ॥ अथ कांचिन्नायिका प्रति सखीवचनं विशेषकेणाहअभिमुखमुपयाति मा स किंचित्त्वमभिदधाः पटले मधुव्रतानाम् । मधुसुरभिमुखाजगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥४०॥ ___ अभिमुखमिति ॥ मधु मकरन्दं व्रतयन्ति भुञ्जत इति मधुव्रता मधुपाः । कर्मण्यण्प्रत्ययः। तेषां पटले अभिमुखमुपयाति आगते सति त्वं किंचिन्मा स्माभिदधा न किंचिदालप । मौनं भजेत्यर्थः। 'स्नोत्तरे लङ्च' 'न माङयोगे' इत्यदप्रतिषेधः । मौनस्य मधुकरबाधानिवृत्तिरेव फलमित्याह-मध्विति । मधुना मद्येन सुरभेर्मुखाजस्य यो गन्धस्तस्य लब्धाभात् । 'स्त्रियां क्तिन्'। अनेन मधुव्रतपटलेन अधित्वत् त्वयि । विभक्त्यर्थेऽव्ययीभावः। 'त्वमावेकवचने' इत्यत्रै. कवचन इत्यर्थनिर्देशादिह विभक्त्यभावेऽप्येकार्थवृत्तेयुष्मदो मपर्यन्तस्य त्वादेशः । अत एव विभक्त्यभावाञ्च त्वादेशोऽत्र चिन्त्य इति वल्लभवचनं चिन्त्यम् । अधि. कमत्यन्तं सर्वत्रेत्यर्थः । मा निपाति मा निपत्यताम् । भावे लुङि चिण्वदृद्धिः । अत्र निपातासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरलंकारः॥ सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः। ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥४१॥ सरजसेति ॥ किंच मधु पिबतीति मधुपो मधुलिद, मद्यपश्च। 'आतोऽनुपसर्ग कः' । भुवि रोहन्ति जायन्त इति भूरुहां भूरुहाणां भौमानां च देहिनां संबन्धिनीषु सह रजसा सरजसम् । 'अन्यय'मित्यादिना साकल्यार्थेऽव्ययीभावः । 'अचतुर-' इति समासान्तनिपातः । तेन सरजस्क इति बहुव्रीह्यर्थो लक्ष्यः मुख्यो वा। १ अर्थनिर्देशस्यातित्वानित्याद्यर्थमङ्गीकारेऽपि 'प्रत्ययोत्तरपदयोश्च' इत्यत्रोत्तरपदग्रहणसामर्थ्याद्विभक्तिपरकत्वस्यापि निमित्तत्वेनात्राव्ययीभावत्वेनाव्ययत्वाद्विभक्तेलुका लुप्तत्वेन 'न लुमता-' इत्यनेन प्रत्ययेन प्रत्ययलक्षणप्रतिषेधाद्विभक्तिपरत्वाभावेनादेशश्चिन्त्य एवातो वल्ल. भोक्ती रम्यैव । कविना तु विभक्तिप्रतिरूपकत्वच्छब्देन युष्मत्समानार्थकेन समासोऽङ्गीकृत इति प्रतिभाति । Page #190 -------------------------------------------------------------------------- ________________ १७८ शिशुपालवधे महाकविप्रयोगबाहुल्यात् । अव्ययीभावदर्शनं तु प्रायिकमित्युक्तं प्राक् । तथा च सरजसं सरजसो वा यो मकरन्दस्तेन निर्भरासु पूर्णासु । न तु त्वदधरामृतेन नाप्यरजस्केनेति भावः । अन्यत्र रजः स्त्रीपुष्पम् 'स्याद्रजःपुष्पमार्तवम्' इत्यमरः। तत्साहचर्यान्मकरन्दशब्देन शुक्रप्रतीतिः । तेन शुक्रशोणितसंनिपातप्रायास्वित्यर्थः । प्रसवविभूतिषु पुष्पसमृद्धिषु जन्मपरम्परासु च विरक्तः निस्पृहः सन् अमृतं पिब. तीति अमृतप इति नानो वाञ्छयासावमुं तवाधरमोष्टं प्रति आजिहीते आग. च्छति । ध्रुवं सत्यमित्युत्प्रेक्षायाम् । अन्यत्र तु अमृतपो देव इति नामवाञ्छया। देवभूयापेक्षयेत्यर्थः । अथवा । निःश्रेयसप्राप्तीच्छयेत्यर्थः । 'श्रेयो निःश्रेयसामृतम्' इत्यमरः । ध्रुवं शाश्वतं अधरं धरासंबन्धरहितममुं परलोकपथम् । शुभमिह चामुत्र चान्वेतीत्यादौ लोके वेदे चेदमदसोर्लोकद्वये रूढिप्रदर्शनात् । आजि. हीते अन्विष्यतीत्यर्थः । 'ओहाङ् गतौ इति धातोर्लटि श्लो' इति द्विर्भावः । 'ई हल्यघोः' इतीकारः । इह नायिकावदनसौरभहेतुकस्य मधुपानामागमनस्यामृतपनामवाञ्छाहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा । साच ध्रुवमिति व्यञ्जकाप्रयोगाद्वाच्या सती मधुपस्याधरोद्देशस्यासंबन्धेऽपि संबन्धाभिधानादतिशयोक्त्युत्थापि. तेति संकरः । पूर्वोक्ताप्रकृतार्थप्रतीतिस्तु मधुपादिशब्दानामभिधया प्रकृतार्थनियत्रितत्वाच्छब्दशक्तिमूलो ध्वनिरेव न श्लेष इत्यलं विस्तरेणेति ॥ ॥विशेषकम् ॥ इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपश्ममाला । अपतदलिभयेनं भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानाम् ४३ इतीति ॥ इतीत्थं सख्येव जनस्तस्मिन्सखीजने वदति सति निमीलन्त्यौ भया. न्मुकुलीभवन्त्यौ अत एव द्वे आवृत्ती ययोस्ते द्विगुणे द्विरावृत्ते । 'गुणस्त्वावृत्ति. शब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती। कृते द्विगुणिते अत एव सान्द्रतरे अक्षिपक्षममाले नेवलोमपङ्की यस्याः सा। काचिदिति शेषः । अक्षिग्रहणस्य पक्ष्मद्वयद्वैगुण्यलक्ष्मीरक्ष्णोरेवेति द्योतनार्थत्वान्न पौनरुक्त्यम् । अलिभयेन भर्तुरङ्कमुत्सङ्गमपतत्प्राप्तवती । अहो महत्कष्टं यत्कीटकादपि भयमित्याशङ्कयाह-अङ्गनानाम् । न तु पुंसामिति भावः। विक्लवता भीरुता गुणो भवति हि । न तु दोष इति भावः । अत एव जनसमक्षं भर्तुरङ्कारोहणमपि न दोषः । पार्श्वस्थाल. म्बनादीनां भयानुभावत्वात् । कुलकेऽलंकारोऽयमर्थान्तरन्यासः ॥ मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि । तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या ४४ मुखेति ॥ यूना अभिनवोढवधूर्नवोढाङ्गनापि बलाबलात्कारात् । मुखं कमलमिवेत्युपमितसमासः । तदल्पं मुखकमलकम् । अल्पार्थे कन्प्रत्ययः। उन्नमय्योधम्य । 'ल्यपि लघुपूर्वोत्' इत्ययादेशः । अचुम्बि चुम्बितेति यत् तच्चुम्बनं विदग्धसख्या चतुरसख्या बालपल्लवाग्राणां ग्रहो ग्रहणम् । 'ग्रहवृदृनिश्चिगमश्च' इत्य Page #191 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १७९ प्रत्ययः । तत्परया तदासक्तया सत्या । कंचिद्यासङ्गं कल्पयन्त्येत्यर्थः । न विविदे अपि किल । न प्रकाशितमिति किमुत वक्तव्यमित्यपिशब्दार्थः । किलेत्यलीके । वस्तुतो विदित्वाप्यविदित्वेव स्थितं वैदग्ध्यात् । अन्यथा तयोर्विश्रम्भविहारवि. घातादिति भावः। मुग्धेयं नायिका । 'उदयद्यौवना मुग्धा लजापिहितमन्मथा' इति लक्षणात् ॥ व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः। यदधयदधरावलोपनृत्यत्करवलयस्खनितेन तद्विवत्रे ॥४५॥ व्रततीति ॥ प्रतिकूला युवतिः प्रतियुवतिः सपत्नी तस्यां व्रततिविततयो लताजालानि । 'वल्ली तु व्रततिलता' इत्यमरः । ताभिस्तिरोहितायां सत्यां प्रियः प्रियाया वदनमधयदपिबदिति यत् । धेटो भौवादिकाल्लङ् । तद्वदजपानमधरावलोपेनाधरखण्डनेन । तजनितव्यथयेत्यर्थः। नृत्यतोश्चलतोः करयोर्वलयानां कङ्कणानां स्वनितेन ध्वनिना विववे विवृतम् । तदेव तस्यास्तदनुमापकमभूदित्यर्थः । अत्रैका हृष्टा अपरा त्वीया॑निर्वेदवतीत्यनुसंधेयम् ॥ विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूलतायाः। रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥४६॥ विलसितमिति ॥ वधूः काचित्स्त्री पुरस्तादने धरणिरुहमधिरोहतीति धरणिरहाधिरुट वृक्षाधिरूढा । रुहेः विप् । तस्या लताया विलसितं चेष्टितम् । भावे तः । अनुकुर्वती एवमित्याश्लेषप्रकारमभिनयन्ती ऋजुतया अकुटिलबुद्धितया सखीनां पुरोऽग्रे अकलितोऽविचारितश्चापलमनुचितकरणमेव दोषो यस्मिन्कर्मणि तद्यथा तथा रमणं प्रियमालिलिङ्ग । एषा हौत्सुक्यवती प्रौढा च ॥ सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयान्या । सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ४७ सललितमिति ॥ अन्या स्त्री उच्छ्रितगुच्छवाञ्छया उन्नतस्तबकजिघृक्षया सललितं सविलासं यथा तथा सहचरं प्रियं पाणिना। औचित्याद्वामेनेति शेषः । अंसेऽवलम्ब्यावष्टभ्य सकलयोः समग्रयोः कलभकुम्भयोः करिकुम्भयोर्विभ्रम इव विभ्रमः सौन्दर्य ययोस्ताभ्यां स्तनाभ्यां रसादागादुरस्यवतस्तरे आच्छादयामास । सहचरमित्यनुषङ्गः। अभिमुखावस्थानादिति भावः । स्तृणातेः कर्तरि लिट् । 'ऋतश्च संयोगादेर्गुणः' 'शपूर्वाः खयः' इत्यभ्याससकारलोपश्च । इयं च प्रौदैव ॥ मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरि निरवलम्बनं प्रियस्य न्यपतदथोचतरोचिचीपयान्या ॥४८॥ मृद्विति ॥ अन्या स्त्री उच्चतराणामत्युन्नतकुसुमानामुच्चेतुमवचेतुमिच्छया उच्चतरोच्चिचीषया । चिनोतेः सन्नन्तास्त्रियामप्रत्यये टाप् । 'विभाषा चेः' इति कुत्वविकल्पः । मृदुचरणतलाग्रेण दुःस्थितत्वाद्दुःखेन स्थितत्वात्कुचकुम्भयोर्भरस्य Page #192 -------------------------------------------------------------------------- ________________ १८० शिशुपालवधे 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः । न सहतेऽत्यन्तमित्यसहतरा । सहेः पचाद्यजन्तान्नन्समासात्तरप्रत्ययः। भरमसहमानेत्यर्थः । कृद्योगात्कर्मणि षष्ठी। अथास्मिन्नवसरे निरवलम्बनं यथा तथा प्रियस्योपरि न्यपतत् । निरवलम्बनत्वानिपपातेत्यर्थः । एषा च प्रौढा । स्वभावोक्तिरलंकारः ॥ उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोाम् ४९ उपरिजेति ॥ उपरिजान्युपरि जातानि तरोर्जातानि तरुजानि कुसुमानि तानि याचमानां अपचित्य देहीति प्रार्थयमानां प्रथितपृथुपयोधरां प्रशस्तपीवरकुचां मुग्धवधूमकुटिलधियं स्त्रियं परिरम्भलोलुप आश्लेषलालसोऽन्यः कुशलतया वञ्चनापटुतया स्वयं गृहाण । त्वमेवाचिनुष्वेत्यर्थः । इति गम्यमानार्थत्वादुक्त्वेति न प्रयुक्तं पौनरुक्त्यात् । दोामुदासोद्यच्छति स्म । अयं चैकायत्तत्वादनुकूलनायकः । नायिका तु स्वाधीनपतिका प्रौढा च ॥ इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या । अनुरहममनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥५०॥ इदमिदमिति ॥ अन्या स्त्री इदमिदमिति । इदं ग्राह्यमिदं ग्राह्यमित्युक्त्वेत्यर्थः । भूरुहां वृक्षाणां प्रसूनैः पुष्पैः पुरःपुरो मुहुरतिलोभयता प्रलोभयता नाय. केन रहोऽनु अनुरहसमेकान्तम् । 'अन्ववतप्तात्-' इत्यव्ययीभावः समासान्तः । अनायि नीता । तथा हि मनोभूः कामो जनं रन्तुं त्वरयति । देशकालानपेक्षयेति भावः । अत एवाश्चर्यमहो इति । पूर्ववन्नायिकानायकविवेकः । अर्थान्तरन्यासः ।। विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकेऽन्या। अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी ॥५१॥ विजनमिति ॥ अन्या स्त्री विजनमेकान्तमिति हेतोरमुंवल्लभं क्षणं बलाद्गृहीत्वा आकृष्य अथान्तिके विपक्षं सपत्नीजनं वीक्ष्य लघुत्वभीतेस्तुच्छत्वभयादभिपतितुं मनो यस्याः सा अभिपतितुमनाः । 'तुं काममनसोरपि' इति मकारलोपः । अपसर्तुकामेत्यर्थः । वल्लभे अमुञ्चत्यत्यजति सति । तस्य विपक्षानवेक्षणादिति भावः । अतिगुर्व्यतिगौरववत्यभवत् । स्वयंग्रहलाघवतिरोधानाद्भर्तृवल्लभत्वप्रकाशनाच्चेति भावः । भाग्यवतां सर्व श्रेयसे भवतीति रहस्यम् । एषा त्वतिप्रगल्भव ॥ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा सजावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ५२ __ अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । तस्याः । सपल्या इत्यर्थः । बुद्धिस्थत्वान्नामग्रहणासहत्वाच्च तच्छब्देन निर्देशः। धाम गृहं जगामेति रुषा हेतुना प्रियतमया का स्रजा करणेनावनद्धो युवा पदमपि । अत्यन्तसंयोगे द्वितीया। चलितुं न सेहे न शशाक । तथा हि ससाध्वसानां भयग्रस्तानां किमिव किंवा । इवशब्दो वाक्यालंकारे। इवेतीषदर्थोपमोत्प्रेक्षावाक्यालंकारेष्विति गण. Page #193 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १८१ व्याख्याने । शक्ति हरतीति शक्तिहरम् । 'हरतेरनुद्यमनेऽच्' इत्यच्प्रत्ययः । न भवतीति शेषः । अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति वचनात् । भवन्तीति लटः पूर्वाचार्याणां संज्ञा । सर्वस्यापि भीरूणां शक्तिहरत्वादबलाकृतः स्रग्बन्धोऽपि यूनः शक्तिहर इति युक्तमिति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । खण्डितेयं नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेाकषायिता' इति लक्षणात् । नायकस्तु 'दक्षिणो भयसंबन्धसहनादिभिस्तुल्यो नैकन दक्षिणः' इति लक्षणार्थप्रतीतेरिति ॥ अथ काचित्खण्डिता निजकान्तमागस्कारिणं पल्लवदानेन प्रसादयन्तं चतुर्भिभर्त्सयितुमारभतेन खलु वयममुष्य दानयोग्याः पिबति च पाति च यासको रहस्त्वां । व्रज विटपममुं ददस्य तस्यै भवतु यतः सदृशोश्चिराय योगः ॥५३॥ नेत्यादि ॥ वयममुष्य दानयोग्या न भवामः खलु, किंतु या असावेवासको त्वत्प्रिया । 'अव्ययसर्वनाम्नामकच्याक्टेः' इत्यकच् । रहो रहसि । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । त्वां पिबति पानं करोति । 'पा पाने' भौवादिकात्कर्तरि लट् । 'पाघ्रा-' इत्यादिना पिबादेशः। पाति रक्षति च । अन्यतो वारयति चेत्यर्थः । 'पा रक्षणे' अदादित्वाच्छपो लुक् । तस्यै अमुं विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्रयच्छ । 'दद दाने' इति भौवादिकाल्लोट । बज गच्छ । यतो दानाच्चिराय चिरकालात् । चिरार्थेऽव्ययम् । सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः । समालंकारोऽयम् । 'सा समालंकृतियोंगो वस्तुनोरनुरूपयोः' इति लक्षणात् ॥ तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः। ननु जनविदितैर्भवयलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५४॥ तवेति ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथासिद्धत्वादेति भावः। तव संबन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्ण पूरयन्तीति कर्णपूराः कर्णावतंसाः । कर्मण्यण् । तैर्नोऽस्माकं किं तत्साध्यम् । न किंचिदस्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया कर्णपूराणां करणत्वात्तृतीया । उक्तं च न्यासोढ्योते-'न केवलं श्रूयमाणैव क्रिया निमित्तं कारकभावस्य अपि तु गम्यमानापि' इति । किंतु नन्वङ्ग जनविदितैर्जनेष्वतिप्रसिद्धैः । जनेषु विदितैरिति सप्तमीसमासः । 'क्तस्य च वर्तमाने' इति कृद्योगे षष्ठीप्रतिप्रसवत्वेऽपि 'क्तेन च पूजायाम्' इति षष्ठीसमासनिषेधाजनानामाधारत्वविवक्षायां तदप्राप्तेः। भवयलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव । अतः परिपूरितस्य पूरणायोगादलमेवैभिरित्यर्थः । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ । मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ५५ शिशु० १६ Page #194 -------------------------------------------------------------------------- ________________ १८२ शिशुपालवधे . मुहुरिति ॥ अलिनादैर्मुहुरुपहसितां प्रतारणार्थेति प्रहस्यमानामिव स्थिता. मेनां कलिकां कोरकं अल्पं कलिं, कलहं च । 'कलहे च युगे कलिः' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे। नोऽस्माकं किमर्थं वितरसि । हे शठ गूढविप्रियकारिन् , तस्यास्त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन त्वयाद्यैष वर्तमानो महान्कलिः कलहो दत्तः । स्वदत्त एव महति कलौ स्थिते किं कल्यन्तरेणेत्यर्थः । अत्रापि पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । कलिकामिति श्लेषोत्थापितया कोरककलहयोर्भेदे अभेदरूपातिशयोक्त्यानुप्राणितमिति संकरः ॥ इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥१६॥ कलापकम् । इतीति ॥ इतीत्थं गदितवत्युक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्वलानि मनोरमाणि च पक्ष्माणीव केशराणि, अन्यत्र केशराणीव पक्ष्माणि यस्य तेन श्रवणनियमितेन श्रोत्रे धृतेन, निरुद्धेन च असिताम्बुरुहेण नीलोत्पलेन, चक्षुषा च समं युगपजघान ताडयामास । एषा खण्डिता । नायकस्तु पृष्टः । 'व्यक्ताङ्गो निर्भयो पृष्टः' इति लक्षणात् । अत्र स्फुरितेत्यादितुल्यधर्मगम्योपमानयोरसिताम्बुरुह चक्षुषोरुभयोरपि ताडनसाधनतयोपात्तत्वेन प्रकृतत्वात्केवलप्रकृता. स्पदा तुल्ययोगिता । लक्षणं तूक्तम् ॥ विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोपरजोभिरापुपूरे ॥ ५७ ॥ विनयतीति ॥ प्रणयिनि प्रिये सुदृशः प्रियायाः दृशो लोचनात् । एकस्मादेवेति भावः । कुसुमेषु भवं कौसुमं परागं रजःकणम् । तच्चैकमेवेति भावः । आननानिलेन निजमुखफूत्कारेण विनयत्यपनयति सति तदहितयुवतेः तत्सपल्याः अक्ष्णोईयमपि । न त्वेकमेवेति भावः। रोषा एव रजांसि तैरभीक्ष्णमापुपूरे। नैकेन रजःकणेन किंचित्स्पृष्टमात्रमिति भावः । पूरयतेः कर्मणि लिट् । पूर्णमित्यर्थः । अत्र रजोविनयस्यान्यत्र रजःपूरणकारणत्वायोगादकारणत्वमेव पूरणमिति विभावनालंकारो रूपकानुप्राणित इति संकरः ॥ स्फुटमिदमभिचारमत्र एव प्रतियुक्तेरभिधानमङ्गनानाम् । वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ।। ५८ ॥ स्फुटमिति ॥ इदं प्रतियुवतेः सपत्या अभिधानं नामधेयं अङ्गनानामभिचारः परमारणकर्म । यथा श्येनेनाभिचरन्यजेतेति । तस्य मन्त्रोऽभिचारमन्त्रः स एव स्फुटमित्युत्प्रेक्षा । यद्यस्माद्वरतनुः स्त्री पत्या भर्ना अमुना सपत्नीनामधेयेनोपहूय मृदुकुसुमेन । मृदुग्रहणमचिरावचितत्वं द्योतयन्देवताभिचारमन्त्राणामनादि Page #195 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः 1 1 १८३ संस्कारभावं द्योतयति । तेनाप्याहता अमूर्च्छत् । यदुच्चारणपूर्वकं कुसुमताडनमपि मारकं सोऽभिचारमन्त्र एव सत्यम् । अन्यथा केवलकुसुमेऽपि तत्प्रसङ्गादित्यर्थः ॥ समदनमवतंसितेऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः । व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ५९ समदनमिति ॥ प्रणयवता प्रियेण सुमध्यमायाः प्रियाया अधिक कर्णे । विभक्त्यर्थेऽव्ययीभावः । कुसुमे समदनं यथा तथा अवतंसितेऽवतंसीकृते सति सपदि लघुतां हीनतामगुरुत्वं च व्रजदपि समान एकः पतिर्यस्यास्तस्याः सपत्याः ॥ 'नित्यं सपल्यादिषु' इति ङीप् नकारश्च । तस्मादेव निर्देशात्समानशब्दस्य सभावनिपातः । हिरण्यस्य विकारो हिरण्मयम् । ' दाण्डिनायन -' इत्यादिना निपातः । तन्मण्डनं भारो बभूव । यत्किंचिदपि प्रेम्णा कान्तेन स्वहस्तदत्तं श्राव्यं मण्डनं भवति अन्यन्महार्घमपि हीनं भारश्च । न तु मण्डनमित्यर्थः । लघुगुरुत्वगुणविरोधस्य हीनार्थत्वेन परिहाराद्विरोधाभासभेदः ॥ अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव । श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ६० ॥ अवजितमिति ॥ विलासवत्याः स्त्रियः श्रवणकुवलयं श्रवणोत्पलं कर्तृ अहधुना तवाक्ष्णो रुचिरतया रुचिरस्य भावो रुचिरता । भावे तल । तया सौन्दयेणावजितमिति वक्तव्यानुवादः । अत एव लज्जयावनम्य भ्रमररुतैः । तन्मिषेणेत्यर्थः । उपकर्ण कर्णे । विभक्त्यर्थेऽव्ययीभावः । आचचक्ष इवेत्युत्प्रेक्षा ॥ अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु । पदमुपदधिरे कुलान्यलीनां न परिचय मलिनात्मनां प्रधानम् ६१ अवचितेति ॥ अलीनां कुलानि अवचितानि युवतिभिरुपात्तानि कुसुमानि यासां ताः । रिक्ता इत्यर्थः । वल्ली: पुष्पलता विहाय । कोमलानि माल्यानि मलन्ते धारयन्तीति तासु कोमलमाल्यमालिनीषु । 'मल मल्ल धारणे' इति धातोर्णिनिः 'ऋनेभ्यो ङीप् । युवतिषु पदमुपदधिरे निदधुः । तथा हि मलिनात्मनां कृष्णदेहानां दुष्टचित्तानां च परिचयश्चिरकालसाहचर्यं न प्रधानं न प्रयोजकं, किंतु भुक्तिरेवेति भावः । अतः परिचितलतात्यागो नाश्चर्यमित्यर्थः । अत्र मलिनात्मनामिति कृष्णाङ्गत्वस्य दुष्टचित्तत्वेन सहाभेदाध्यवसायेनार्थान्तरन्यासस्योत्थापनाच्छ्रेपप्रतिभोत्थापितातिशयोक्त्यनुप्राणितोऽयमिति संकरः ॥ अथोत्तरसर्गे जलक्रीडावर्णनाय तदुपोद्वातत्वेनासां वनविहारोद्भवं श्रमातिरेकं सप्तभिः कुलकेन दर्शयतिश्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरंसभागैः । मुकुलितनयनैर्मुखारविन्दैर्घन महतामित्र पक्ष्मणां भरेण ॥ ६२ ॥ लथेत्यादि ॥ शिरसि जाताः शिरोरुहाः । 'सप्तम्यां जनेर्ड :' । 'हलदन्तात् - ' Page #196 -------------------------------------------------------------------------- ________________ १८४ शिशुपालवधे इत्यादिना सप्तम्या अलुक् । तेषां पाशः कलापः श्लथस्य तस्य यः पातस्तस्य भारा. दिवेति हेतूत्प्रेक्षा। 'न पादादौ खल्वादयः' इति वामनीयनिषेधेऽपि इवशब्दस्य पादादौ प्रयोगः कवेरौद्दण्ड्यात् । नितरामतिशयेन । अव्ययादामुप्रत्ययः । नतिमद्भिरंसभागैरुपलक्षिताभिनितम्विनीभिरिति भाविना संबन्धः। एवमुत्तरत्रापि योज्यम् । नतांसत्वमुत्तमस्त्रीलक्षणम् । पुनर्घनमहतां सान्द्रदीर्घाणां पक्ष्मणां भरेणेवेति पूर्ववद्धेतूटोक्षा । मुकुलितनयनैर्मुखारविन्दैः । अत्रोत्प्रेक्षयोः संसृष्टिः ।। अधिकमरुणिमानमुद्वहद्भिविकसदशीतमरीचिरश्मिजालैः । परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥६३ अधिकमिति ॥ पुनः परिचितानां प्रणयिनां परिचुम्बनैरभियोगान्मर्दनादपगतकुङ्कुमरेणुभिः अत एव विकसन्ति वैमल्यात्प्रतिफलन्ति अशीतमरीचेरुप्णांशो रश्मिजालानि येषु तैः। असंबन्धे संबन्धोक्त्यातिशयोक्तिः । अत एवाधिकमरुणिमा. नमुट्ठहद्भिः । कुङ्कुमापायेऽप्यातपलङ्घनादतिलोहितैरित्यर्थः । कपोलैर्गण्डस्थलैः ।। अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन । सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तरक्तभाभिः ॥६४॥ अवसितेति॥ पुनरवसिताः श्रमेण परिसमाप्ता ललिताः क्रियाः सुकुमारचेष्टा अपि यस्य तेन ललिततरेण मृदुतरेण तनीयसा तनुतरेण बाह्वोर्युगेन पुनः सरसैराः किसलयैरनुरञ्जितैर्वा अनुरञ्जनं प्रापितैरिव पुनरुक्ता द्विगुणा रक्ता भासो येषां तैः पुनरुक्तरक्तभाभिः । 'हलि सर्वेपाम्' इति यकारलोपः । करकमलैः पाणिपङ्कजैः । अत्रेतरजनकरापेक्षया पुनरुक्तरक्तत्वं स्वाभाविकमेव । तत्र किसल. यरञ्जनहेतुकत्वमुत्प्रेक्ष्यते । इवार्थे वाशब्दस्तदुत्प्रेक्षायां प्रयुक्तः ॥ सरसरसमुरःस्थलेन पत्युविनिमयसंक्रमिताङ्गरागरागैः । भृशमतिशयखेदसंपदेव स्तनयुगलैरितरेतरं निपण्णैः ॥ ६५ ॥ स्मरेति ॥ पुनः स्मरेण सरसं सानुरागं यथा तथा पत्युरुरःस्थलेन का विनिमयेन व्यतिहारेण संक्रमितोऽङ्गरागोऽनुलेपनं तेन रागो रञ्जनं येषु तः अतिशयो. ऽतिशयितो यः खेदस्तस्य संपदा महिम्नेवेत्युत्प्रेक्षा । भृशमितरेतरं निपणः परस्परं संश्रितैः स्तनयुगलैः ॥ अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकैण ।। अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरुभिर्दधानः ॥६६॥ अतन्विति ॥ पुनः अतनुना महता कुचभरेणाननेन नम्रेण। प्रागेवेति भावः । भूयः पुनश्च श्रमजनिता आनतिर्यस्य तेन शरीरकेण सुकुमारशरीरेण । किंच अनुचितानभ्यस्ता । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । तया गत्या पादचारेण यः सादः कार्यं तेन यन्निःसहत्वमक्षमत्वं तद्दधानैः । गन्तुमक्षमैरित्यर्थः । १ 'विलसित' इति पाठः. Page #197 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः। १८५ न लहन्त इति निःसहाः । पचाद्यजन्तेनोपसर्गस्य समासे त्वप्रत्ययः। कलभकराः करिहस्ता इवोरवो महान्तस्तैरूरुभिः सक्थिभिः। 'सक्थि क्लीवे पुमानूरुः' इत्यमरः ॥ अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः । कथमपि चरणोत्पलैश्चलद्भि{शविनिवेशवशात्परस्परस्य ॥ ६७ ॥ अपगतेति ॥ पुनश्चिराय चिरं क्षितिगमनेनापगतो नवयावको नवलाक्षारागो येषां तैः पुनस्तेनैव वितीर्णरागैः सौकुमार्यादुत्पादितरागैः परस्परस्य भृशविनिवेशवशास्थिरन्यासबलात् एकं स्थिरं निवेश्य तदवष्टम्भेन । इतरचालनकमेणेत्यर्थः । कथमपि महता प्रयत्नेन । 'कथमादि तथाप्यन्तं यत्नगौरवभेदयोः' इन्युत्पलः । चलद्भिश्चरणोत्पलैः ॥ मुहुरिति बनविभ्रमाभिपङ्गादतमि तदा नितरां नितम्बिनीभिः । मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासमाजः ६८ मुहरिति ॥ नितम्बिनीभिरुक्तधर्मोपलक्षिताभिः स्त्रीभिर्मुहुरित्येवं वनविनमाभिषङ्गानभ्रमणासङ्गात्तदा नितरामतमि तान्तम् । तमेय॑न्ताद्भावे लुङ् 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति वृद्धिप्रतिषेधः । युक्तं चैतदित्याहमृदुतरतनवोऽतिकोमलाङ्गयस्ताः स्त्रियः प्रकृया अलसा जडाः, अथ चिरमपि प्रयासमाजश्चेकिमुत । सुतरामलसाः स्युरित्यर्थः । अत्राप्रकृतनैसर्गिकालस्य कथनेनागन्तुकस्य कैमुत्यन्यायतः सिद्धत्ववर्णनादर्थापत्तिरलंकारः । 'एकस्य वस्तुनो नावाद्यत्र वस्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति लक्षणात् । श्रमश्चात्र संचारी वाच्यः । 'श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन्मदेनादयः' इति लक्षणात ॥ अथ श्रमानुभावं स्वेदं वर्णयतिप्रथममलघुमौक्तिकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु । कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् ॥६९॥ प्रथममिति ॥ अथ तासां स्त्रीणां श्रमजलं प्रथममुज्वलगण्डमण्डलेपूजवलडस्थलेषु अलघुमौक्तिकाभं स्थूलमुक्ताफलसदृशमासीत् । पश्चात्कठिनतरकुचानपाति सत् अथ पतनानन्तरं शतं शर्कराः शतशर्करम् । 'समाहारे द्विगुरेकवचनं वा टाबन्ते' इति नपुंसकत्वम् । तस्य भावस्तत्ता तां शतशर्करतां शतशकलत्वं जगाम । अत्रैकस्य श्रमजलस्य क्रमेणानेकाश्रयसंबन्धनिबन्धनात्पर्यायालंकारभेदः । 'कमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथवानेकं पर्यायालंकृतिर्मता ॥' इति लक्षणात् ॥ अमेऽपि कुचमण्डलमविकृतशोभमित्याहविपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे । परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेवकामिनी नाम् ७० विपुलकमिति ॥ यौवनोद्धतानां कामिनीनां कुचयुगं विपुलकं पुलकरहित Page #198 -------------------------------------------------------------------------- ________________ १८६ शिशुपालवधे मपि घनपुलकोदयेन सान्द्ररोमोद्गमेन कोमलं सदिति विरोधः । विपुलं विस्तृतं तदेव विपुलकमित्यविरोधः । प्रियैः प्रकामं परितो मलमस्येति परिमलं तत्कृतं परिमलितं मलिनीकृतं तथाप्युज्वलं विमलमेव चकाश इति विरोधः । परिमलवत्कृतं परिमलितमित्यविरोधः । मत्वन्तात् 'तत्करोति-' इति णिचि कर्मणि क्तः । णाविष्टवद्भावे विन्मतोलृक् । अपिविरोधे । विरोधाभासालंकारयोः संसृष्टिः ॥ अथैकस्याः प्रियकण्ठावलम्बने श्रमानुभावमेकेनाहअविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । विपुलतरनिरन्तरावलमस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७१ ॥ अविरतेति ॥ अविरतो यः कुसुमानावचायो हस्तेन लवनम् । 'हस्तादाने चेरस्तेये' इति घञ् । तेन यः खेदस्तस्माद्भर्तुरुपकण्ठं कण्ठे। विभक्त्यर्थेऽव्ययीभावः । निहिते भुजालते यया तया । 'दोः प्रकोष्ठो भुजो बाहुर्भुजा च मर्यते बुधैः' इति वैजयन्ती । विपुलतरौ निरन्तरमवलग्नौ संश्लिष्टौ च यो स्तनौ ताभ्यां पिहितं छादितं प्रियस्य वक्षो यया तयैकया स्त्रियाललम्बे लम्बितम् । भावे लिट् । अथापरस्या अङ्गभङ्गाख्यमपरमनुभावमाहअभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य । तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ ७२ ।। अभिमतमिति ॥ तनुः काचित्तन्धी । 'वोतो गुणवचनात्' इति विकल्पादनीकारः। अभिमतमभितः । प्रियमभीत्यर्थः । उन्नतिवित्तं औन्नत्येन प्रतीतम् । विदेर्भावार्थात् 'वित्तो भोगप्रत्यययोः' इति प्रत्ययार्थे निष्ठानत्वाभावनिपातः । कुचयुगमुन्नमय्योत्तुङ्गीकृत्य कृतोऽङ्गभङ्गो गात्रविजृम्भणं यया सा । तथा वेल्लिते मिथोवेष्टिते बाहुवल्लयौं भुजलते यया सा । 'नवृतश्च' इति कप् । क्लमच्छलेन। श्रमापनोदकचेष्टाव्याजेनेत्यर्थः । अभिलषितमालिङ्गनाद्यभिलषितं व्यवृणुत प्रकटितवती । वृणोतेर्लङ् । प्रौढेयमुत्सुका च ॥ __ अथ कस्याश्चिन्मुग्धायाः प्रियचापलोक्तिद्वारा स्वेदोद्गमं प्रकटयतिहिमलवसदृशः श्रमोदविन्दूनपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरको कथंचित्तरलतया तरुणेन पस्पृशाते ॥७३॥ हिमेति ॥ हिमलवसदृशो हिमकणनिभाश्रमोदबिन्दून् । स्वेदबिन्दूनित्यर्थः । 'मन्थौदन-' इत्यादिना उदकस्योदादेशः । अपनयता किल प्रमार्जतेव न तु तत्र तात्पर्यमिति भावः । तरुणेन यूना नूतनोढवध्वाः कुचौ कलशाविव तौ च किशोरकाविव । उल्लसनसाम्यादश्वशावाविव । 'अश्वशावः किशोरकः' इत्यमरः । तौ कुचकलशकिशोरको । उभयत्राप्युपमितसमासः । कथंचित्क्लेशेन । सप्रतिषेधमेवेत्यर्थः । तरलतया चपलतया । उत्सुकतयेत्यर्थः । पस्पृशाते स्पृष्टौ । स्पृशेः कर्मणि लिट् । मुग्धेयम् ॥ । Page #199 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः 1 अथ सर्वासामेव स्वेदोद्रेकं वर्णयतिगत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेश: क्रामन्नूरुदुमभुजलताः पूर्णनाभीहदान्तः । उल्लङ्घ्योः कुचतटभुवं प्लावयन्रोमकूपा वेदापूरो युवतिसरितां व्याप गण्डस्थलानि ॥ ७४ ॥ १८७ गत्वेति ॥ युवतय एव सरितस्तासां स्वेद एवापूरः प्रवाहः जघनमेव पुलिनं तत्रोकं गत्वा रुद्ध आवृतो मध्यप्रदेशोऽवलग्नभागः, प्रवाहदेशश्च येन स पूर्णनाभीहृदान्तः । रेफान्तमकारान्तं वा । पूर्णेति पूरेर्ण्यन्तात्कर्मणि क्तः । ' वा दान्त- ' इत्यादिना णिलुगिप्रतिषेधनिपातः । उच्चैरुन्नतौ कुचावेव तटौ तयोर्भुवं प्रदेशमुल्लङ्घय रोमकूपान्रोमाणि रोमरन्ध्राणि तान्येव कूपान्प्लावयन्पूरयन् गण्डस्थलानि कपोलभागान्, उन्नतभूभागांश्च प्राप । अत्र युवतिषु सरित्त्वस्य तदवयवेष्ववयवानां च निरूपणात्समवस्तुविषय सावयवरूपकं श्लेषानुप्राणितम् । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैम्भौं नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ एवमध्वश्रमानुभावं स्वेदोद्वेकं वर्णयित्वा तत्फलभूतां जलविहारेच्छामासां दर्शयति प्रियकरपरिमार्गादङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः । अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुवनविहरणखेदम्लानमम्लानशोभाः ।। ७५ ।। इति श्रीमाकृतौ शिशुपालवधे महाकाव्ये य वनविहारो नाम सप्तमः सर्गः ॥ ७ ॥ प्रियेति ॥ यदा अङ्गनानां प्रियकरपरिमार्गात्प्रियकरस्पर्शात् । मृजेर्घञ् प्रत्ययः । स्वेदतोयोदयश्रीः स्वेदोद्गमसंपत् पुनर्भूयोऽप्यधिकतरैवाभूत्तदा अग्लानशोभा अक्षीणकान्तयः । वपुषि म्लानेऽपीति भावः । ता अङ्गना वनविहरखेदेन म्लानम् । म्लायतेः कर्तरि क्तः । 'संयोगादेरातो धातोर्यण्वतः' इति निष्टानत्वम् । वपुरङ्गम् । अथ कात्सूर्येन । 'मङ्गलानन्तरारम्भप्रश्नकात्सूर्येष्वथो अर्थ' इत्यमरः । अम्भोभिरभिषेक्तुमीषुरिच्छन्ति स्म । इषेर्लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थनहेतुकत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । मालिनी वृत्तम् ॥ 1 इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध - काव्यव्याख्याने सर्वंकषाख्ये सप्तमः सर्गः ॥ ७ ॥ Page #200 -------------------------------------------------------------------------- ________________ शिशुपालवधे अष्टमः सर्गः । अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुरित्युक्तं तदेव वर्णयितुमारभते आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः । अभ्यम्भः कथमपि योषितां समूहैस्तैरुवनिहितचलत्पदं प्रचेले ॥ १ ॥ १८८ आयासादिति ॥ अलघुतरस्तनैः पृथुतरकुचैरिति मान्य हेतूक्तिः । स्वनद्भिभूषाभिः श्रमश्वासैर्वा शब्दायमानैः । 'स्वन शब्दे' इति धातोर्लटः शत्रादेशः । अविकचलोचनारविन्दैः श्रमनिमीलिताक्षिपद्मैरायासाद्वनविहारखेदाच्छ्रान्तानां क्लान्तानां योषितां तैः समूहैः कर्तृभिः उर्व्यां निहितानि निक्षिप्तानि । 'हुधान् धारणे' इति धातोः कर्मणि क्तः । तथैव चलन्ति पदानि यस्मिन्कर्मणि यद्यथा तथा । उत्क्षेपणाशक्त्या भुवि बलादाकृष्यमाणचरणमित्यर्थः । अभ्यम्भोऽम्भःप्रति कथमपि प्रचेले प्रचलितम् । भावे लिट् । स्वभावोक्तिरलंकारः । ' स्वभावोक्तरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् । अस्मिन्सर्गे प्रहर्षिणी वृत्तम् | 'नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ॥ यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि । संसक्तैर्विपुलतया मिथो नितम्बैः संबाधं बृहदपि तद्बभूववर्त्म ॥ २ ॥ यान्तीनामिति ॥ समं पकिशो यान्तीनाम् । 'आच्छी नद्योर्लुम्' इति वैकfeपको नुमागमः । असितभ्रुवां स्त्रीणामंसानां नतत्वाद्धेतोर्नितान्तं महत्यन्तरे अवकाशे सत्यपि विपुलतया हेतुना मिथः संसक्तैरन्योन्यश्लिष्टैर्नितम्बैर्बृहद्विस्तृतमपि संबाध्यत इति संबाधः संकटम् । 'संकटं ना तु संबाधः' इत्यमरः । घञन्तस्यापि विशेष्यलिङ्गत्वं संबाधमनुवर्तत इति भाष्यकारादिप्रयोगादिष्यते । बभूव । नतांसत्वनितम्बवैपुल्योक्त्या सौन्दर्यातिशय उक्तः । असंत्रा - धेsपि संबाधाभिधानादतिशयोक्तिः ॥ नीरन्धमशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः । पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥ ३ ॥ Page #201 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः 1 १८९ नीरन्ध्रेति ॥ नीरन्यैः सान्द्रैर्दुमैः शिशिरां भुवं व्रजन्तीर्गच्छन्तीस्ताः स्त्रीरतुहिनरश्मिरुष्णांशुः क्षणमनिलेनाकुलीकृतानां चालितानां शाखानामन्तरालैनरन्ध्रत्वेऽपि मुहुरनिलचालनजनितैरवकाशैर्मुहुः कौतुकादौत्सुक्यादिव साशङ्कम् । परदारत्वात्सभयमित्यर्थः । करैः पस्पर्श स्पृष्टवान् । अन चलच्छाखा हेतुकस्य तपनकरस्पर्शस्यौत्सुक्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतुप्रेक्षा ॥ अथ कस्याश्चित् श्वेतातपत्रं चन्द्रत्वेनोत्प्रेक्षते - एकस्यास्तपनकरैः करालिताया विभ्राणः सपदि सितोष्णवारणत्वम् । सेवायै वदनसरोजनिर्जितश्री रागत्य प्रियमिव चन्द्रमाश्चकार ॥ ४ ॥ एकस्या इति ॥ वदनसरोजेन स्त्रीमुखपङ्कजेन निर्जितश्रीश्चन्द्रमाः । एतेन वदनसरोजस्य चन्द्रविजयात्सरोजान्तरवैलक्षण्यं चन्द्रस्य निकृष्टत्वं चोक्तम् । अत एव सेवायै तत्सेवनार्थमागत्य तपनकरैः करालिताया भीषितायाः । पीडिताया इत्यर्थः । ' करालो भीपणेऽन्यवत्' इति विश्वः । एतेन सेवावकाशो दर्शितः । एकस्याः कस्याश्चिदङ्गनायाः सपदि आतपक्षण एव सितोष्णवारणत्वं स्वयमेव श्वेतातपत्रत्वं बिभ्राणः सन्प्रियं चकारेव । इति क्रियास्वरूपोत्प्रेक्षा । पराजितः कयाचित्सेवनया जेतुश्चित्तसंतोषमुपार्जयतीति भावः ॥ स्वं रागादुपरि वितन्त्रतोत्तरीयं कान्तेन प्रतिपदवारितातपायाः । सच्छत्रादपरविलासिनीसमूहा च्छायासीदधिकतरा तदा परस्याः ॥ ५ ॥ स्वमिति ॥ रागाद्धेतोरुपरि प्रियाया मूर्धनि स्वं स्वकीयमुत्तरीयं वितन्वता विस्तारयता कान्तेन प्रियेण प्रतिपदं पदेपदे वारित आतपो यस्यास्तस्या अपरस्याः कस्याश्चिदङ्गनायाः सच्छत्रात् छत्रयुक्तादपरविलासिनीसमूहात्सकाशात् । 'पञ्चमी त्रिभक्तेः' इति पञ्चमी । अधिकतरा छाया अनातपः कान्तिश्च तदा आसीत् । छत्रच्छायातोऽपि कान्तस्वहस्तधृतोत्तरीयच्छायैवानन्यसाधारणी ज्यायसी । मुखकातिरपि तस्या एव भूयसीति भावः । 'छाया वनातपे कान्तौ ' इत्यमरः । एतेन सच्छत्रादच्छत्रस्याधिकच्छायेति विरोधोऽपि निरस्त इति विरोधाभासोऽलंकारः ॥ संस्पर्शप्रभवसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः । कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः || ६ || संस्पर्शेति ॥ करतले लग्नो वल्लभो यस्यास्तस्याः । स्वहस्तेन तद्वस्तं गृहीत्वा Page #202 -------------------------------------------------------------------------- ________________ शिशुपालवधे गच्छन्त्या इत्यर्थः । अत एव नीरजाक्ष्याः सर्वाङ्गे संस्पर्शप्रभवेन प्रियाङ्गप्रभवेन सुखेनोपचीयमाने पोषं गमिते सति अत एव गाढतां दृढत्वं व्रजदपि विगलित. नीवि सुखपारवश्याद्विश्लिष्टग्रन्थि कौशेयं दुकूलमजस्रं सत्रंसे सस्तम् । एषा हृष्टा हर्षितरोमा च ॥ गच्छन्तीरलसमवेक्ष्य विसयिन्य स्तास्तन्वीन विदधिरे गतानि हंसः । बुद्धा वा जितमपरेण काममावि __कुर्वीत स्वगुणमपत्रपः क एव ॥७॥ गच्छन्तीरिति ॥ हंस्यो हंसाङ्गना अलसं मन्दं गच्छन्तीस्तास्तन्वीः स्त्रीरवेक्ष्य विसयिन्यो गतिसौष्ठवाद्विस्मयवत्यः सत्यो गतानि स्वयं लीलागमनानि न विदधिरे न चक्रः । लजयेति भावः । तथा हि परेण जितं स्वगुणं बुद्धवा वा । बुद्धा. पीत्यर्थः । क एव को वा अपत्रपः सन्काममाविष्कुर्वीत प्रकाशयेत् । न कश्चिदपी. त्यर्थः । 'इदुदुपधस्य चाप्रत्ययस्य' इति विसर्जनीयस्य पत्वम् । अत्र तिरश्वां विवे. कित्वातिशयोक्त्या गतिकरणनिषेधसमर्थनार्थोऽयमर्थान्तरन्यासः ॥ श्रीमद्भिर्जितपुलिनानि माधवीना मारोहैर्निबिडबृहनितम्ब बिम्बैः । पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ ८॥ श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिः निबिडा बृहन्तश्च नितम्बबिम्बाः कटिपश्चाद्भागा येषां तैः माधवस्येमा माधव्यस्तासां हरिवधूनां आरुह्यन्त इत्यारोहैः कटिपुरोभागैर्जघनैः जितपुलिनानि जितसैकतानि सिन्धोरवरोधनानि समुद्रमहिष्यः । नद्य इत्यर्थः । वैलक्ष्यात्पराजयकृतमनःसंकोचाद्धेतोः पाषाणेषु स्खलने. नाभिघातेन विलोलं यथा तथा आशु ययुः अगुः नूनम् । नदीनां स्वाभाविक्याः पाषाणस्खलिताशुगते_लक्ष्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा ॥ मुक्ताभिः सलिलरयास्तशुक्तिपेशी मुक्ताभिः कृतरुचि सैकतं नदीनाम् । स्त्रीलोकः परिकलयांचकार तुल्यं पल्य१विगलितहारचारुभिः स्वैः ॥९॥ मुक्ताभिरिति ॥ स्त्रीलोकः स्त्रीजनः कर्ता । सलिलरयेणास्ता नुन्नाः शुक्तयो मुक्तास्फोटास्त एव पेश्यः कोशाः । पुटा इति यावत् । 'मुक्तास्फोटः स्त्रियां शुक्तिः-' इति, 'पेशी कोशो द्विहीने' इति चामरः । ताभिर्मुक्ताभिर्विमुक्ताभिमौंक्तिकैः । 'अथ मौक्तिकं मुक्ता' इत्यमरः । कृतरुचि कृतशोभं नदीनां सिकतामयं Page #203 -------------------------------------------------------------------------- ________________ १९१ . अष्टमः सर्गः। सैकतं पुलिनम् । 'तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । 'सिकताशर्कराभ्यां च' इत्यण् प्रत्ययः । विगलितैर्विशीर्णेीरैश्चारुभिः स्वैः पल्यकैः शयनैः । ‘शयनं मञ्चपर्यङ्कपल्यङ्काः खट्या समाः' इत्यमरः । तुल्यं सदृशं परिवलयांचकार मेने । पूर्णोपमेयम् ॥ आघ्राय श्रमजमनिन्धगन्धबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् । आरण्याः सुमनस ईपिरे न भृङ्गै रौचित्यं गणयति को विशेषकामः ॥१०॥ आघायेति ॥ भृङ्गैः कर्तृभिः श्रमजमध्वश्रमोत्थम् । अनिन्द्यगन्धस्य श्ाध्यगन्धस्य बन्धुं सहचरम् । तद्वन्तमित्यर्थः । अङ्गनानां निश्वासश्वसनं निश्वासमारुतम् । असक्तमप्रतिषिद्धमाघ्राय अरण्ये भवा आरण्याः सुमनसः पुष्पाणि नेषिरे नेष्टाः । 'इषु इच्छायाम्' कर्मणि लिट् । अनुचितोऽयमकाण्डे परिचितपरित्याग इत्याह । विशेष कामयते इति विशेषकामः । 'शीलिकामिभिक्षाचरिभ्यो णः' इति णप्रत्ययः । क औचित्यं गणयति । न कोऽपीत्यर्थः । अर्थान्तरन्यासः ॥ आयान्त्यां निजयुवतौ वनात्सशङ्क वर्हाणामपरशिखण्डिनीं भरेण । आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥ ११॥ आयान्त्यामिति ॥ निजयुवतौ वनादायान्त्यामागच्छन्त्यां सत्यां सशङ्क सभयमपरशिखण्डिनी जारिणी बर्हाणां भरेण व्यवदधतं छादयन्तं मयूरं पुर आलोक्य कामिन्यः प्रियेप्वनार्जवं कौटिल्यं श्रदधुर्विश्वस्तवत्यः । कुटिलाः पुरुषा इति निश्चिक्युरित्यर्थः । दधातेलुंङि 'गातिस्था-' इत्यादिना सिचो लुक् । 'आतः' इति झेर्जुसादेशः । 'श्रदन्तरोरुपसर्गवद्वत्तिर्वक्तव्या' इति श्रच्छब्दस्य धातोः प्राक् प्रयोगः ॥ आलापैस्तुलितरवाणि माधवीनां माधुर्यादसलपतत्रिणां कुलानि । अन्तर्धामुपययुरुत्पलावलीषु । प्रादुःष्यात्क इव जितः पुरः परेण ॥ १२ ॥ आलापैरिति ॥ माधवीनां हरिवधूनामालापैः कर्तृभिः माधुर्याद्धेतोस्तुलितरवाणि तिरस्कृतरुतानि अमलपतत्रिणां हंसानां कुलानि उत्पलावलीप्वन्तर्धानम् । १ 'आयत्याम्' इति पाठः. २ 'मयूरमाराद्भामिन्यः' इति पाठः. ३ 'विजित' इत्रि पाठः. ४ 'वाणिनीनां' इति पाठः. Page #204 -------------------------------------------------------------------------- ________________ १९२ शिशुपालवधे . 'अन्तःशब्दस्यातिविधिणत्वेषूपसर्गत्वं वाच्यम्' इति अन्तःशब्दस्योपसर्गत्वात् 'आतश्चोपसर्गे' इत्यङ् प्रत्ययः । उपययुः । युक्तं चैतदित्याह-तथाहि । परेण जितः कः । इवशब्दो वाक्यालंकारे। पुरो जेतुरग्रे प्रादुःष्यात्प्रादुर्भवेत् । 'उपसर्गप्रादुर्ध्यामस्तिर्यच्परः' इति षत्वम् । अर्थान्तरन्यासः ॥ मुग्धायाः सरललितेषु चक्रवाक्या निःशकं दयिततमेन चुम्बितायाः। प्राणेशानभि विदधुर्विधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥ १३ ॥ मुग्धाया इति ॥ दयिततमेन निःशङ्क निर्विचारं चुम्बिताया दष्टायाः स्मरललितेषु चुम्बनाद्यनन्तरकृत्येषु सीत्कारादिकामचेष्टितेषु मुग्धाया मूढायाश्चक्रवाक्याः समुचितं योग्यं सीत्कारं सीत्काररूपमुत्तरं कृत्यं तरुण्यः स्वयं प्राणेशानभि विधूतहस्ताः सत्यो विदधुः । तादात्म्यभावनया स्वयं दष्टा इव सीचक्रुरिति सीत्कारासंबन्धे तत्संबन्धातिशयोक्त्या तत्रासामुद्दीपकमासीदित्युक्तम् ॥ उत्क्षिप्तस्फुटितसरोरुहार्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्ती । नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पायमूर्मिहस्तैः ॥ १४ ॥ उत्क्षिप्तेति ॥ अथानन्तरमुरिक्षतं स्फुटितसरोरुहं विकचारविन्दमेवाय॑मर्यद्रव्यं यस्मिंस्तत्तथा सस्नेह विहगरुतैरालपन्ती स्वागतादिवचनं व्याहरन्तीव स्थिता इत्युत्प्रेक्षा । फेन इव हासस्तेन सहिता सफेनहासा । स्मितपूर्वाभिभा. षिणीत्यर्थः । सरसी पुष्करिणी नारीणामूर्मिभिरेव हस्तैः पाद्यं पादोदकम् । 'पादााभ्यां च' इति यत्प्रत्ययः । प्रीत्येवेत्युत्प्रेक्षा । व्यतनुत । रूपकानुप्राणितोप्रेक्षाद्वयस्य सापेक्षत्वात्संसृष्टिः ॥ नित्याया निजवसतेर्निरासिरे य द्रागेण श्रियमरविन्दतः करात्रैः । व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्यं क्षितिसुतविद्विषो महिष्यः ॥ १५ ॥ नित्याया इति ॥ क्षितिसुतविद्विषो नरकद्विषो हरेर्महिष्यः कराग्रैः पाणिपल्लवैः करणे रागेण रक्तवर्णेन, इच्छया च श्रियं शोभाम् , रमां च नित्यायाः सदातन्याः निजवसतेः स्ववासादरविन्दतोऽरविन्दाग्निरासिरे निष्कासयांचक्रुः । निश्चक्रुश्चेति यावत् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' इति विकल्पादात्मनेपदम् । अनेन निरासेनास्याः श्रियः सापत्न्यं सपत्नीत्वम् । ब्राह्मणादित्वात्व्यञ् प्रत्ययः । व्यक्तत्वं निन्युः । व्यक्तीचक्रुरित्यर्थः । अत्र श्रीशब्देन रमाशोभयोरभेदाध्यवसायेन Page #205 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः । श्रीनिवासस्य सापत्यव्यक्तीकरणार्थत्वोत्प्रेक्षणाच्छ्रेषप्रतिभोत्थापितातिशयोक्त्यनुप्राणितेयं फलोत्प्रेक्षेति संकरः ॥ आस्कन्दन्कथमपि योषितो न याव - श्रीमत्यः प्रियकरधार्यमाणहस्ताः । औत्सुक्याच्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ।। १६ ।। आस्कन्दन्निति ॥ भीमत्यः प्रवेशभीरवो योषितः प्रियकरैर्धार्यमाणहस्ताः प्रियकरावलम्बाः सत्यः यावत्कथमपि नास्कन्दन्न प्राविशन् तावत्संक्रान्तप्रतिमतया संक्रान्तप्रतिबिम्बतया तदम्बु कर्तृ औत्सुक्यादुत्कण्ठया त्वरितममूरन्तर्दधाविव । अन्तः प्रावेशयदिवेत्यर्थः । प्रतिबिम्ब संक्रमणादन्तर्धानोत्प्रेक्षणात्क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा ॥ ताः पूर्व सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः । कामिन्यो मन इव कामिनः सरागै १९३ रङ्गैस्तज्जलमनुरञ्जयांबभूवुः ॥ १७ ॥ ता इति ॥ ताः कामिन्यः कामिनः कामुकस्य मन इव तज्जलं पूर्वं प्रथमं सचकितं सभयं यथा तथा गाधमुत्तानमागमय्य गमनेन ज्ञात्वा । पुरः प्रविष्टपुरुषमुखेन गाधं तदिति परामृश्येत्यर्थः । अन्यत्र दूतमुखेन ज्ञात्वेत्यर्थः । अथोऽनन्तरं मृदु मन्दं पदं कृत्वा पदं न्यस्य । अन्यत्र तु स्वयं संभाषणादिकं कृत्वेत्यर्थः । अन्तरमभ्यन्तरमाविशन्त्यः प्रविष्टाः सत्यः । अन्यत्र रहस्यकर्मणि प्रवृत्ता इत्यर्थः । सरागैः साङ्गरागैः, सानुरागैश्चाङ्गैर्गात्रैरनुरञ्जयांबभूवुस्तद्वर्णाक्रान्तं चक्रुः । अन्यत्र वनुरक्तं चक्रुरित्यर्थः । श्लेषसंकीर्णेयमुपमा ॥ संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषाम् १८ संक्षोभमिति ॥ महेभकुम्भश्री भाजा । तत्सदृशश्री भाजेत्यर्थः । अत एवासंभवस्तुसंबन्धो निदर्शनालंकारः । कुचयुगलेन । उल्लसितेनेति भावः । पयसि मुहुः संक्षोभं नीयमाने प्राप्यमाणे सति रथाङ्गनाम्नोर्युगं चक्रवाकयुगलं विश्लेषं वियोगमगमत् । वियोगासहमपीति भावः । तथाहि उद्वृत्त उन्नतो वृत्तश्च, उद्द तेनं यस्येति वा उद्वृत्तः । अन्यत्रोद्वृत्तः । उन्मार्गवर्तीति यावत् । स क इव को वा परेषां स्वेतरेषां सुखावहः सुखकरः । न कोऽपीत्यर्थः । अयं च श्लेषमूलातिशयो तिजीवितोऽर्थान्तरन्यासः ॥ 1 आसीना तटभुवि सस्मितेन भत्र रम्भोरूरवतरितुं सरस्यनिच्छुः । शिशु० १७ Page #206 -------------------------------------------------------------------------- ________________ शिशुपालवधे धुन्वाना करयुगमीक्षितुं विलासाशीतालुः सलिलगतेन सिच्यते स्म ॥ १९ ॥ आसीनेति ॥ शीतं न सहत इति शीतालुः शीतभीरुः । 'शीतोष्णाभ्यां `तदसहने आलुज्वक्तव्यः' । अत एव सरसि अवतरितुं प्रवेष्टुमनिच्छुरनभिलाका । अत एव भुवि आसीना उपविष्टा । आसेः कर्तरि शानच् । 'ईदासः ' इतीकारः । रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' इत्यूप्रत्ययः । सलिलगतेन स्वयं सलिलं प्रविष्टेन सम्मितेन भर्त्रा विलासानीक्षितुं करयुगं धुन्वाना कम्पयन्ती । धुनोतेः कर्तरि शानच् प्रत्ययः । सिच्यते स्म सिक्ता ॥ नेच्छन्ती समममुना सरोऽवगाढुं १९४ रोधस्तः प्रतिजलमीरिता सखीभिः । आश्लिक्षचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ॥ २० ॥ नेच्छन्तीति ॥ अमुना सममनेन भर्त्रा सह सरोऽवगादुमवगाहितुम् । 'स्वरतिसूतिसूयतिधूनूदितो वा' इति विकल्पान्नेडागमः । नेच्छन्ती लज्जयानिच्छन्ती । - नञर्थस्य शब्दस्य सुप्सुपेति समासः । अनञ्समासो वा । अथ सखीभिः प्रतिजलं जलं प्रति रोधस्तो रोधसः । पञ्चम्यास्तसिल् । ईरिता नुन्ना नवोढा नववधूः भयेन चकितेक्षणं संभ्रान्तदृष्टि यथा तथा वोढारं भर्तारमाश्लिक्षदालिङ्गितवती । ‘श्लिष आलिङ्गने' इति धातोर्लुङि च्ले: क्सादेशः । न च धार्श्वदोषापत्तिरित्याह । विपदि विपत्तौ अतिक्रान्ता भूमिरतिभूमिरमर्यादा न दूषिता । ' आपत्काले नास्ति मर्यादा' इति न्यायादिति भावः । अर्थान्तरन्यासालंकारः ॥ तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दनं तदवयती किलात्मनोऽपि । अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमञ्जतीति ॥ २१ ॥ तिष्ठन्तमिति ॥ सुतनुः शुभाङ्गी स्त्री अंसः प्रमाणमस्येति अंसमात्रे अंसप्रमाणे । ' प्रमाणे सज्दन्नन् मात्रचः' इति मात्रच्प्रत्ययः । पयसि जले तिष्ठन्तं मांसम् । वीक्ष्येति शेषः । आत्मनोऽपि तत्पयः तद्दघ्नं तावन्मात्रमंसमात्रं अवयती जानती किल । तथा संभावयन्तीत्यर्थः । ' वार्ता संभाव्ययोः किल' इत्यमरः । अवपूर्वादिणः शतरि 'इणो यण' इति यणादेशः । 'उगितश्च' इति ङीप् । किलशब्दस्यालीकार्थत्वे मौग्ध्यविरोधः । अत एव मौग्ध्यादविवेकादभीर्निर्भीका सती अभ्येतुं पुमांसमभिगन्तुमियेष इच्छति स्म । अमुना पुंसा निमज्जतीति द्रुतमाश्लेषि आश्लिष्टा ॥ Page #207 -------------------------------------------------------------------------- ________________ १९५ अष्टमः सर्गः। आनाभेः सरसि नतभ्रवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः। उच्छ्रायि स्तनयुगमध्यरोहि लब्ध स्पर्शानां भवति कुतोऽथवा व्यवस्था ॥ २२ ॥ आनामेरिति ॥ नतभ्रुवा स्त्रिया सरसि आनाभेर्नाभिपर्यन्तम् । 'आङ् मर्यादाभिविध्योः' इति विकल्पादसमासः। अवगाढे प्रविष्टे सति । गाहेः कर्मणि क्तः । अथ पयसश्चापल्यालोल्यात् । ब्राह्मणादिषु पाठात्व्यञ्प्रत्ययः । तरङ्गैरेव हस्तैस्तरङ्गहस्तैरुच्छ्रायोऽस्यास्तीत्युच्छ्रायि उन्नतिमत् स्तनयुगमध्यरोहि अधिरूढम् । भिक्षुकपादप्रसारणन्यायादिति भावः। रोहतेः कर्मणि लुङ् । अथवा तथाहीत्यर्थः । लब्धस्पर्शानाम् । लब्धप्रवेशानामित्यर्थः। कुतः कुत्र वा। सार्वविभक्तिकस्तसिल । व्यवस्था मर्यादा भवति । न कुत्रापीति भावः । प्रायेण सर्वेऽप्यसंभवब्रह्मचारिण एवेति भावः । अत्र चापल्यादिति द्वयोरपि लौल्ययोरभेदाध्यवसायमूलातिशयोक्त्या तरङ्गहस्तैरिति रूपकेण च पयसि कामित्वप्रतीतेः समासोक्तिः । तदुपजीवी चार्थान्तरन्यास इति संकरः ॥ कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव । संहर्षादलिविरुतैरितीव गाय ल्लोलोर्मों पयसि महोत्पलं ननर्त ॥ २३ ॥ कान्तानामिति ॥ लोलोमौ चपलोर्मिणि । 'तृतीयादिषु भाषितपुंस्कं पुंववालवस्य' इति विकल्पात्पुंवद्भावः । पयसि महोत्पलमरविन्दं कर्तृ । 'अरविन्द महोत्पलम्' इत्यमरः । कान्तानां मुखरुचाहमेकमेव नापास्तं, किंतु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तमिति संहर्षात्संतोषाद्धेतोरलिविरुतैर्गायत् । अलिरुतरूपं गानं कुर्वदिति रूपकम् । 'इत्थंभूतलक्षणे' इति तृतीया । ननर्तेव । न 'दुःखं पञ्चभिः सह' इति न्यायान्नत्यति स्म । अत्रोमिचलनहेतुके महोत्पलचलने अलिनादसंहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणाक्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा वाच्या ॥ - त्रस्यन्ती चलशफरीविघट्टितोरू मोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसंभमहो विनापि हेतो __ लीलाभिः किमु सति कारणे रमण्यः ॥ २४ ॥ त्रस्यन्तीति ॥ चलाः शर्यः यातुकामा मत्स्यः । 'प्रोष्टी तु शफरी द्वयोः' इत्यमरः । ताभिर्विघट्टितौ विद्धावूरू यस्याः सा अत एव त्रस्यन्ती बिभ्यती। 'वा भ्राश-' इत्यादिना विकल्पात् श्यनि शतरि ङीप् । वामौ सुन्दरावूरू यस्याः सा वामोरूः स्त्री। 'संहितशफलक्षणवामादेश्व' इत्यूप्रत्ययः । विभ्रमस्य विला. Page #208 -------------------------------------------------------------------------- ________________ १९६ शिशुपालवधे सस्यातिशयमाप । तथा हि रमण्यो हेतोर्विनापि कारणं विनापि । 'पृथग्विना-' इत्यादिना विकल्पात्पञ्चमी । लीलाभिर्विलासैः प्रसभं प्रकामं क्षुभ्यन्ति । अहो निष्कारणक्षोभादाश्चर्यमित्यर्थः । कारणे सति किमु वक्तव्यम् । अत्राप्रकृतनिष्कारणक्षोभकथनात्सकारणक्षोभस्य कैमुत्यन्यायलब्धत्ववर्णनादर्थापत्तिरलंकारः । 'दण्डापूपिकयार्थान्तरस्यापतनमर्थापत्तिः' इति सूत्रम् ॥ .. आकृष्टप्रतनुवपुलतैस्तरद्भि स्तस्याम्भस्तदथ सरो महार्णवस्य । अक्षोभि प्रसृतविलोलबाहुपक्ष र्योषाणामुरुभिरुरोजगण्डशैलैः ॥ २५ ॥ आकृष्टेति ॥ अथानन्तरमाकृष्टाः प्रतनवो वपूंष्येव लता यैस्तैस्तरन्दिः प्लवमानैः प्रसृता आयता विलोलाश्चला बाहव एव पक्षा गरुन्ति येषां तैः। गिरिधर्मस्य पक्षवत्वस्य तदवयवेषूपचारः । उरुभिर्महद्भिर्योषाणां स्त्रीणामुरोजैरेव गण्डशैलैर्गि: रिच्युतैः स्थूलोपलैस्तस्य सर एव महार्णवस्य तदम्भः अशोभि । क्षुभितेय॑न्तादण्यन्ताद्वा कर्मणि लुङ् । समस्तवस्तुविषयकं सावयवरूपकम् ॥ गाम्भीर्यं दधदपि रन्तुमङ्गनाभिः संक्षोभं जघनविघट्टनेन नीतः। अम्भोधिर्विकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ॥ २६ ॥ गाम्भीर्यमिति ॥ गाम्भीर्यमगाधत्वं, अविकारिचित्तत्वं च दधदपि गभीरः सन्न रन्तुं विहर्तुं संगन्तुं चाङ्गनाभिर्जघनस्य विघट्टनेन संघर्षेण संक्षोभं चलनं, चित्तविकारं च नीतः, अत एव विकसितं वारिजमाननमिव वारिजमिव चाननं यस्य सः अम्भांसि धीयन्तेऽस्मिन्निति अम्भोधिजलाशयः, असौ कश्चित्पुमांच तत्तुल्यो गम्यते । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । सपदि मर्यादा सीमानं औचिती च विलवयांबभूव लजितवान् । धीरोऽपि स्त्रीसंनिकर्षाद्विक्रियत इति भावः । अन गाम्भीर्यादिप्रकृताम्भोधिविशेषणसाम्यादप्रकृतविशेष्यपुरुषप्रतीतेः समासोक्तिरलंकारः । सा च प्रतीयमानाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणितेति संकरः॥ आदातुं दयितमिवावगाढमारा दुर्मीणां ततिभिरभिप्रसार्यमाणः । कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान्सरसि रराज केशहस्तः ॥ २७॥ आदातुमिति ॥ सरसि वितताः प्रसारिताश्चलन्त्यश्च शिखा अग्राण्येवाङ्गुल्यो यस्य सः। 'नवृतश्च' इति कप् । लक्ष्मीवाशोभावान् । 'मादुपधायाश्च मतो. Page #209 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। १९७ वोऽयवादिभ्यः' इति मतुपो मकारस्य वत्वम् । कस्याश्चित्केशहस्तः केशपाशः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । हस्त इति करश्च ध्वन्यते। आरात्समीपे । 'आराहूरसमीपयोः' इत्यमरः । अवगाढमन्तर्मग्नं दयितमादातुं ग्रहीतुमिव ऊर्मीणां ततिभिः समूहैरभिप्रसार्यमाणोऽभितो व्यापार्यमाणः सन् रराज । अनादातुमिव प्रसार्यमाण इति प्रसारणस्यादानार्थत्वोत्प्रेक्षणादियं क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । सा च चलच्छिखाडलीक इति रूपकानुप्राणितया हस्त इति श्लेषमूलया वाच्यस्य केशकलापस्य प्रतीयमानात्करानेदे अभेदरूपातिशयोक्त्या नियूंढेति संकरः ॥ उनिद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव । युक्तानां विमलतया तिरस्क्रियायै नाकामन्नपि हि भवत्यलं जलौघः ॥ २८ ॥ उन्निद्रेति ॥ उन्निद्रं यत्प्रियकमसनकुसुमम् । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । तदिव मनोरमम् । कनकगौरमित्यर्थः । रमण्या वपुः सरसि प्रकाशमेव जलमग्नमपि वैमल्याल्लक्ष्यमेव संरेजे । तथाहि-जलौघो जलपूरो, जडौघो मूर्खजनौघश्च डलयोरभेदात् । आक्रामन्नावृण्वन्नपि, अन्यत्र अधिक्षिपन्नपि विमलतया वैमल्येन युक्तानां शुद्धानां तिरस्क्रियायै तिरोधानाय, परिभवाय च अलं समर्थो न भवति हि । श्लेषमूलया भेदेऽभेदरूपातिशयोक्त्यानुप्राणितोऽयमर्थान्तरन्यासः॥ किं तावत्सरसि सरोजमेतदारा दाहोविन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चि द्विव्वोकैकसहवासिनां परोक्षैः ॥ २९ ॥ किमिति ॥ सरस्यारा इरादेतत्पुरोवर्ति तावत्सरोज किम्, आहोस्वित् उत युवत्या मुखमवभासत इति क्षणं संशय्य संदिह्य । शीङः क्त्वो ल्यए। 'अय यि विति' इत्ययङादेशः । कश्चिद्विलासी बफसहवासिनां बकसहचारिणाम् । पद्मानामित्यर्थः । विलासशून्यताद्योतनार्थमित्थं निर्देशः। परोक्षरप्रत्यक्षैरनुभूतचरैः । अविद्यमानैरिति यावत् । विश्वोकैः । विलासैरित्यर्थः । यद्यपि 'विन्योकोऽनादरक्रिया' इत्युक्तम् , तथापि विशेषवाचिनां सामान्य लक्षणेत्यदोषः । निश्चिकाय । विशेषदर्शनान्मुखमेवेति निश्चितवानित्यर्थः । संदेहालंकारोऽयम् । 'विषयो विषयी यत्र सादृश्यात्कविसंमतात् । संदेहगोचरौ स्यातां संदेहालंकृतिश्च सा ॥' इति लक्षणात् । सोऽप्यन्ते निश्चयोक्तेनिश्चयान्तः ॥ Page #210 -------------------------------------------------------------------------- ________________ १९८ शिशुपालवधे अथ जलक्रीडासंभारानाहशृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथु कुचकुम्भसङ्गि वासः । मार्दीकं प्रियतमसंनिधानमास नारीणामिति जलकेलिसाधनानि ॥ ३० ॥ शृङ्गाणीति ॥ द्रुतेन तप्तनिषिक्तेन कनकेनोज्वलानि । लिप्सानीत्यर्थः । शृङ्गाणि क्रीडाम्बुयन्त्राणि । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके' इति विश्वः । गन्धाश्चन्दनकुङ्कुमादिगन्धद्रव्याणि अत एव पुंसि बहुत्वं च । 'गन्धस्तु सौरभे योगे गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥' इत्यभिधानात् । पृथु विशालं कुचकुम्भसङ्गि कुचावरणं कुसुम्भेन रक्तं कौसुम्भम् । 'तेन रक्तं रागात्' इत्यण् प्रत्ययः । वासो वस्त्रं मृद्वीकाया विकारो मार्दीक द्राक्षामद्यम् । 'मृद्धीका गोस्तनी द्राक्षा' इत्यमरः । किंच प्रियतमसंनिधानम् । सर्वसाफल्यकारणमिति भावः। इत्येतानि नारीणां जलकेलिसाधनानि जलक्रीडोपाया आसन् । उद्दीपकसंपत्तिरुक्ता । अत्र शृङ्गादीनां केलिसाधनत्वस्वरूपतुल्यधर्मयोगात्प्रकृतत्वाच्च केवलप्रकृतगोचरा तुल्ययोगिता ॥ ..... उत्तुङ्गादनिलचलांशुकास्तटान्ता.... चेतोभिः सह भयदर्शिनां प्रियाणाम् । श्रोणीभिगुरुभिरतूर्णमुत्पतन्त्य- स्तोयेषु द्रुततरमङ्गना निपेतुः ॥३१॥ उत्तुङ्गादिति ॥ अनिलेन वेगानिलेन चलांशुकाश्चलद्वसना अङ्गनाः उत्तु. गात्तटान्ताद्भयदर्शिनां भयोत्प्रेक्षिणाम् । अनर्थाशतिनामित्यर्थः । प्रियाणां चेतोभिः सह । तेषां तत्रैवावधानादिति भावः । गुरुभिणुर्वीभिः। 'वोतो गुणवचनात्' इति विकल्पादनीकारः । श्रोणीभिर्हेतुना अतूर्णं मन्दमुत्पतन्त्यस्तोयेषु द्रुततरं निपेतुः । गुरुत्वस्य पतनहेतुत्वादुत्पतनविरोधित्वाच्च शीघ्रपातो मन्दोत्पतनं चेति भावः । अत्र प्रियचेतःपाताङ्गनापातयोः कार्यकारणयोरसहभाविनोः सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविध्वंसनरूपातिशयोक्त्युपजीविता सहो. क्तिरलंकारः । 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेष्यते ॥' इति लक्षणात् । चेतोवत्पेतुरित्यौपम्यकल्पनया कार्यगताशुभावप्रतीतेश्चमत्कार इति रहस्यम् । तात्कालिकांशुकचलनादिसूक्ष्मस्वभावविशेषप्रकाशनात्स्वभावोक्तिश्चेति संकरः ॥ मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः । Page #211 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। १९९ ताः कान्तैः सह करपुष्करेरिताम्बु व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ ३२ ॥ मुग्धत्वादिति ॥ मुग्धत्वान्मूढत्वादविदिताः कैतवप्रयोगा मुखसेचनादिकपटाचरणानि याभिस्ताः, अत एव सपदि पराजयं गच्छन्त्यस्तास्तरुण्यः कान्तैः सहाभिसरणं स्वयमभिगमनं ग्लहो द्यूतं पणो यस्यास्ताम् । 'पणोऽक्षेषु ग्लहः' इत्यमरः । 'अक्षेपु ग्लहः' इति ग्रहेरेवाक्षपणे लत्वनिपातः। अपूप्रत्ययस्तु 'गृहवृदृनिश्चिगमश्च' इत्येव सिद्ध इति केचित् । अन्ये तु ग्लहिं प्रकृत्यन्तरमङ्गीकृत्याप्प्रत्ययस्यैव निपातो घनपवादीत्याहुः। करपुष्करैः करकमलैरीरितैरम्बुभिया व्यात्युक्षी व्यतिहारेणोक्षणम् । परस्पराभ्युक्षणमित्यर्थः । 'कर्मव्यतिहारे णच् स्त्रियाम्' इति णच्प्रत्ययः । ‘णचः स्त्रियामञ्' इति स्वार्थिकोऽप्रत्ययः । 'टिड्डाणञ्-' इत्यादिना डीयू । तां व्यात्युक्षीनदीव्यन् । तया अक्रीडन्नित्यर्थः । 'दिवः कर्म च' इति विकल्पात्कर्मत्वम् । अत्राविदितकैतवप्रयोगस्य विशेषणगत्या पराजयहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः॥ योग्यस्य त्रिनयनलोचनानलार्चि निर्दग्धस्सरपृतनाधिराज्यलक्ष्म्याः । कान्तायाः करकलशोधतैः पयोभि क्रन्दोरकृत महाभिषेकमेकः ॥ ३३ ॥ योग्यस्येति ॥ त्रिनयनस्यम्बकः । 'शुभ्नादिषु च' इति निषेधात् 'पूर्वपदासंज्ञायाम्' इति णत्वाभावः। तस्य लोचनानलार्चिषा निर्दग्धस्य स्मरस्य याः. गृतनास्तासामाधिराज्यमाधिपत्यं तदेव लक्ष्मीस्तस्या योग्यस्याहस्य । त्रैलोक्यविजयिनः स्थाने तादृशस्यैव स्थाप्यत्वादिति भावः। कान्ताया वक्रेन्दोः। स्मरसखत्वादस्येति भावः । करावञ्जलिरेव कलशस्तनोद्यतैरुत्क्षिप्तैः पयोभिर्महाभिषेकमेकः कश्चिन्कामी अकृत कृतवान् । करोते ङि तङ् । 'तनादिभ्यस्तथासोः' इति सिचो लुक् । अत्र जलक्रीडासेके महाभिषेकत्वोत्प्रेक्षा प्रतीयमानकरकलशेति रूपकानुप्राणितेति संकरः ॥ सिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्बलायाः । सौवर्णं वलयमवागलत्कराग्रा__लावण्यश्रिय इव शेषमङ्गनायाः ॥ ३४ ॥ सिञ्चन्त्या इति ॥ मनसिजदुःखेन स्मरपीडया दुर्बलाया अत एव कथमपि बाहुमुन्नमय्योद्यम्य प्रेयांसं प्रियतमम् । 'प्रियस्थिर-' इत्यादिना प्रादेशः । सिञ्चन्त्याः स्नपयन्त्या अङ्गनायाः कराग्रात्सौवर्ण हिरण्मयं वलयं कंकणम् । 'कंकणं वलयोऽस्त्रियाम्' इत्यमरः । लवणैव लावण्यं कान्तिविशेषः । चातुर्वर्ण्यादित्वा Page #212 -------------------------------------------------------------------------- ________________ २०० शिशुपालवधे स्वार्थे ष्यन्प्रत्ययः । 'लवणो रसरक्षोब्धिभेदेषु लवणा विषि' इति विश्वः । यद्वा-'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' तस्य श्रीः संपत्तस्याः शेषमतिरिक्तम् । शरीरसंपदवशिष्टमिति यावत् । 'शेषः संकर्षणेऽनन्त उपयुक्तेतरेऽन्यवत्' इति विश्वः । तदिवावागलदपतत् । शेषमिति गुणनिमित्तजातिस्वरूपोत्प्रेक्षा ॥ स्निह्यन्ती दृशमपरा निधाय पूर्ण मूर्तेन प्रणयरसेन वारिणेव । कंदर्पप्रवणमनाः सखीसिसिक्षा लक्ष्येण प्रतियुवमञ्जलिं चकार ॥ ३५ ॥ स्त्रिान्तीति ॥ कंदर्पप्रवणमनाः स्मरपरवशचित्ता अत एव दृशं निधाय पुंस्येव दृष्टिं कृत्वा नियन्ती । दृष्टिविशेषेण स्नेहं प्रकाशयन्तीत्यर्थः । अपरा स्त्री सख्याः सिसिक्षा सेक्तुमिच्छा तस्या लक्ष्येण व्याजेन बद्धाञ्जलिरेव तिष्ठन्ती न तु सिञ्चन्तीति द्योतनाय सिसिक्षेतीच्छायां सनः प्रयोगः । प्रतियुवं युवानं प्रति । 'अनश्च' इत्यव्ययीभाव समासान्तः । मूर्तेन मूर्तिमता प्रणयरसेनेत्युस्प्रेक्षा । पाठादर्थस्य बलीयस्त्वादिवशब्दस्य व्यवहितेनान्वयः । वारिणा पूर्णम अलिं चकार । प्रार्थयामासेत्यर्थः ॥ आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने । ईर्ण्यन्त्या वदनमसिक्तमप्यनल्प खेदाम्बुस्लपितमजायतेतरस्याः॥ ३६ ॥ आनन्दमिति ॥ आनन्दं दधति प्रियसंभावनया हर्ष दधाने श्यामाया मध्य. मयौवनायाः स्त्रियः । 'श्यामा यौवनमध्यस्था' इत्युत्पलः । मुखे वदने दयिततमेन अतिशयेन दयितः प्रियः । अतिशये तमप्प्रत्ययः । तेन का करोदकेनाञ्जलिजलेन सिच्यमाने इति ईय॑न्त्या असहमानायाः। 'परोत्कर्षाक्षमा स्यात्' इति लक्षणात् । इतरस्याः सपल्या वदनमसिक्तमपि । प्रियेणेति शेषः । अनल्पेन स्वेदाम्बुना नपितं सिक्तमजायताभवत् । ईर्ष्याकृतकोपकार्यत्वात्स्वेदादीनामिति भावः । असिक्तमपि सिक्तमिति विरोधः । तस्य स्वेदाख्यकारणोक्तेराभासत्वम् ॥ उद्वीक्ष्य प्रियकरकुमलापविद्धै वक्षोजद्वयमभिषिक्तमन्यनार्याः। अम्भोभिर्मुहुरसिचद्वधूरमां दात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ॥ ३७॥ उद्वीक्ष्येति ॥ प्रियस्य करकुड्मलाभ्यां पाणिपुटाभ्यामपविद्धैः सिक्तैरम्भोभि. रभिषिक्तम् । अन्यनार्याः सपत्न्या वक्षोजद्वयमुद्रीक्ष्य वधूर्नायिका अमर्षादीर्ध्या Page #213 -------------------------------------------------------------------------- ________________ सर्गः । अष्टमः कृतकोपादात्मीयं वक्षोजद्वयं पृथुतरेण नेत्रयुग्मेन मुक्तैरम्भोभिर्वाप्पैर्मुहुरसिचदभिferent | तन्मत्सरादिवेति भावः । अतो वस्तुनालंकारध्वनिः । 'लिपिसिचिह्नश्व' इति सिञ्चतेर्लुङि चलेरङादेशः ॥ कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं यस्तोयैरसिचत वल्लभां विलासी । तैरेव प्रतियुतेरकारि दूराकालुष्यं शशधरदीधितिच्छाच्छैः ॥ ३८ ॥ २०१ कुर्वद्भिरिति ॥ मुखचं मुखकान्ति उज्वलां कुर्वद्भिर्यैस्तोयैर्विलासी विलसनशीलः कामी । 'वौ कपलस-' इत्यादिना घिनुण् प्रत्ययः । वल्लभामजस्रमसि - चत सिक्तवान् । स्वरितेत्त्वादात्मनेपदम् । 'आत्मनेपदेष्वन्यतरस्याम्' इति सिञ्चतेलुङि च्लेरङादेशः । शशधरदीधितिच्छटाच्छैः शशिकरनिकरस्वच्छैस्तैरेव तोयैर्दूराप्रतियुतेः सपत्न्याः कालुष्यमाविलत्वं वैवर्ण्यं चाकारि । स्वच्छतोयैः कालुष्यं कृतमिति विरुद्धकार्योत्पत्तिरूपो विषमभेदः । तच्चान्यत्रेत्यसंगतिः वैवर्ण्यकालुष्ययोरभेदाध्यवसायादतिशयोक्तिस्तदुत्यापित संकरः ॥ 1 रागान्धीकृतनयनेन नामधेय - व्यत्यासादभिमुखमीरितः प्रियेण । मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ।। ३९ ।। रागेति ॥ रागेण विपक्षानुरागेणान्धीकृतनयनेन प्रियेण नामधेयव्यत्यासाद्विपक्षनामपूर्वकमभिमुखमीरितः क्षिप्तो वपुषि पतन्निसर्गमन्दः स्वभावजडः तथापि हृदयं भिन्दानो विदारयन्नुदकमेव वज्रोऽशनिरुद्रवज्रः । 'मन्थौदन -' इत्यादिना विकल्पदादेशः । मानिन्या विपक्षनामग्रहणजनितकोपवत्या नायिकया नासाहि न सोढः । नीक्ष्णयोगादतीक्ष्णमपि तीक्ष्णं भवतीति भावः । उदवज्र इति केवलनिरवयवरूपकम् ॥ प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा । उद्भूताः कठिनकुचस्थलाभिघाता दासन्नां भृशमपराङ्गनामधाक्षुः ॥ ४० ॥ प्रेम्णेति ॥ प्रणयिनि प्रेम्णा प्रियाया उरः सिञ्चति सति कठिनकुचस्थलाभिबातादुद्धूता उत्पतिता नवजलस्य विप्रुपो बिन्दवः । 'पृपन्तिविन्दु पृषताः पुमांसो विषः स्त्रियाम्' इत्यमरः । तस्याः सिन्तायाः संतापं गृहीत्वा आदायासन्नां समीपस्थामपराङ्गनां सपत्नीं भृशमधाक्षुः संतापयन्ति स्म । दहतेलुङि Page #214 -------------------------------------------------------------------------- ________________ २०२ शिशुपालवधे 'वदव्रज-' इत्यादिना सिचि वृद्धिः घत्वादिकार्यम् । तत्सेकादेवापरस्यास्तापोदया. तत्तापस्यैवात्राधानमुत्प्रेक्ष्यते । सा च व्यञ्जकाप्रयोगाद्गम्या ॥ संक्रान्तं प्रियतमवक्षसोऽङ्गरागं साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः । तुष्दैवं सपदि हृतेऽपि तत्र तेपे कस्याश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥४१॥ संक्रान्तमिति ॥ प्रियतमवक्षसः सकाशात्संक्रान्तं गाढालिङ्गनात्कुचतटलग्नमस्याः सिक्ताया अङ्गरागमधुनैव सरसि अम्भः कर्तृ । साधु निःशेषं हरिष्यते प्रमा यति एवं तुष्ट्वा इति बुवा सपदि तत्र तस्मिन्नङ्गरागे हृतेऽपि स्फुटनखलक्ष्मणो व्यक्तनखचिह्नायाः कस्याश्चिन्नायिकायाः संबन्धिनि सपन्या तेपे तप्तम् । भावे लिट् । तदिदमातपातस्य छायामन्विष्यतो दारुणदवदहनवेष्टनं यदङ्गरागमेव द्रष्टुमक्षमाया नखक्षतसाक्षात्कार इति । अत्र संतापशान्त्यर्थेन विपक्षाङ्गनाङ्गरागक्षालनेन तद्विरुद्धसंतापोत्पादनाद्विरुद्धकार्योत्पत्तिरूपो विषमालंकारः ॥ हूतायाः प्रतिसखि कामिनान्यनाम्ना हीमत्याः सरसि गलन्मुखेन्दुकान्तेः । अन्तर्धिं द्रुतमिव कर्तुमश्रुवर्षे भूमानं गमयितुमीषिरे पयांसि ॥ ४२ ॥ हूताया इति ॥ प्रतिसखि सख्याः समीपे । सखीसमक्षमित्यर्थः । समीपार्थेऽव्ययीभावे नपुंसकहस्वत्वे । कामिना प्रियेणान्यस्याः सपल्याः नाम्ना अन्यनाम्ना । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । हूतायाः अत एव गलन्मुखेन्दुकान्तेः हीमत्या लज्जितायाश्च । कस्याश्चिदिति शेषः । सरसि द्रुतं शीघ्रमन्तर्धिमन्तर्धानम् । श्रदन्तरोरुपसर्गवत्तिवचनात् 'उपसर्गे घोः किः' इति किप्रत्ययः । कर्तु. मश्रुवर्षेः कर्तृभिः । पयांसि सरोजलानि भूमानं गमयितुं वृद्धि प्रापयितुम् । 'गतिबुद्धि-' इत्यादिना अणिकर्तुः कर्मत्वं प्राधान्यादभिधानं च। ईपिरे इव इष्टानि किमु इत्युत्प्रेक्षेयमश्रुपातनिमित्ता। तथा मरणदुःखादपि दुःसहं सपत्या दुःखमिति वस्तुध्वनिः ॥ सिक्तायाः क्षणमभिषिच्य पूर्वमन्या मन्यस्याः प्रणयवता बताबलायाः । कालिम्ना समधित मन्युरेव वक्र प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥४३॥ सिक्ताया इति ॥ प्रणयवता प्रियेण क्षणं पूर्वमन्यां सपनीमभिषिच्य पश्चासिक्ताया अन्यस्या अबलायाः स्त्रिया वक्त्रं कर्म मन्युः कोप एव कर्ता । कालिम्ना Page #215 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः 1 २०३ 1 काण्यैन । वैवयेन सहेति यावत् । समधित संदधे । बतेति खेदे | संपूर्वाह वातेः कर्तरि लुङि त 'स्थाध्वोरिच' इतीकारः । सिचः कित्त्वान्न गुणः । 'हस्वादङ्गात्' इति सकारलोपः । गलत्ववदक्ष्णोः संबन्धि अञ्जनाम्भः कज्जलोदकमपशब्द वर्णस्यापवादं प्राप । कोपकालिमतिरोधानेन स्वकालिन एव प्रकाशनादिति भावः । पूर्वेण वाक्यार्थेनोत्तरवाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ उद्घोढुं कनकविभूषणान्यशक्तः सनीचा वलयितपद्मनालसूत्रः । आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुरभवद्भुजस्तरुण्याः ॥ ४४ ॥ उद्वोदुमिति ॥ कनकविभूषणान्युद्वोढुमशक्तः । सौकुमार्यादिति भावः । अत एव सहाञ्चतीति सध्र्यङ् तेन सहचरेण कर्त्रा । ऋत्विगादिना क्विन्प्रत्ययः । 'सहस्य सधिः' इति सहशब्दस्य सध्यादेशः 'अनिदिताम् -' इति नकारलोपः 'अ:' इत्यकारलोपे 'चौ' इति दीर्घः । वलयितानि वलयीकृतानि पद्मनालसूत्राणि मृणालतन्तवो यस्य सः । मृणालकृतकङ्कण इत्यर्थः । तथापि आरूढः आरूढवान् प्रतिवनितायाः सपत्याः कटाक्ष एव भारो यस्य सः । तया सासूयं दृष्ट इत्यर्थः । अत एव तरुण्या भुजो बाहुः साधीयो बाढतरमिति क्रियाविशेपणम् । 'अन्तिकबादयोर्नेदसाधौ' इति बाढशब्दस्य साधादेशः । गुरुर्भीरवान्, श्लाध्यश्चाभवत् । अत्र कनकभूषणाभावेऽपि तत्कार्यगुरुत्ववर्णनाद्विभावना सा च गुरुरिति श्लेपप्रतिभोत्थापिता तिशयोक्त्यनुप्राणितेति संकरः ॥ आबद्धप्रचुरपरार्ध्यकिंकिणीको रामाणामनवरतोदगाह भाजाम् । नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणो गिरां पटुत्वम् ।। ४५ ।। आवद्धेति ॥ उदकस्य गाहोऽवगाहनं उदगाहः । ' मन्थौदन -' इत्यादिनोदादेशः । तमनवरतं भजन्ति यास्तासामनवरतोदगाहभाजां रामाणां स्त्रीणां संबन्धी आबद्धाः प्रोता: प्रचुरा भूयिष्ठाः परार्थ्याः श्रेष्ठाश्च किंकिण्यो यस्मिन्स तथोक्तः । ‘नद्युतश्च' इति कप् । मेखलाकलाप आरावं ध्वनिं न व्यतनुत । तथा हि । जलेन सह सजलो जलाद्वौ गुणः सूत्रं यस्य सः । तथा डलयोरभेदाजडगुणो जडधमों जाड्यं तेन सहेति सजगुणो जश्च तस्मिन् कस्मिन्वा मेखलाकलापे पुंसि वा गिरां वाचां ध्वनीनां च पटुत्वं सामर्थ्यम् । न कुत्रापीत्यर्थः । श्लेपमूलाभेदातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ पर्यच्छे सरसि हतेंऽशुके पयोभिलीलाक्षे सुरतगुरावपत्रपिष्णोः । Page #216 -------------------------------------------------------------------------- ________________ २०४ शिशुपालवधे सुश्रोण्या दलवसनेन वीचिहस्त न्यस्तेन द्रुतमकृताजिनी सखीत्वम् ॥ ४६ ॥ पर्यच्छ इति ॥ परि परितोऽच्छं स्वच्छम् । अन्तर्गतवस्त्वतिरोधायकमित्यर्थः । तस्मिन्सरसि पयोभिरंशुके स्त्रीपरिधाने हृते स्थानादपसारिते सति सुरतगुरौ रमणे च लोलाक्षे । श्रोण्यासक्तदृष्टौ सतीत्यर्थः । 'लोलश्चलसतृष्णयोः' इत्यमरः । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्' । अपत्रपिष्णोरपत्रपमाणायाः। 'लजा सापजपान्यतः' इत्यमरः । 'अलंकृञ्-' इत्यादिना इष्णुप्रत्ययः । सुश्रोण्याः प्रियायाः प्रस्तुतोचितनिर्देशोऽयम् । अजिनी नलिनी द्रुतं वीचिरेव हस्तस्तेन न्यस्तेन दलं पर्णमेव वसनं तेन । तदानेनेत्यर्थः । सखीत्वमकृत । सखीकृत्यं चकारेत्यर्थः । अनाजिन्यादिषु सखीत्वाद्यारोपात्समस्तवस्तुवृत्ति सावयवरूपकम् ॥ नारीभिर्गुरुजघनस्थलाहताना मास्यश्रीविजितविकासिवारिजानाम् । लोलत्वादपहरतां तदङ्गरागं संजज्ञे स कलुष आशयो जलानाम् ॥ ४७ ॥ नारीभिरिति ॥ नारीभिः कर्तीभिः गुरुजघनस्थलैराहतानाम् आस्यश्रीभिमुखशोभाभिर्विजितानि विकासीनि वारिजानि पद्मानि येषां तेषां लोलत्वाञ्चलत्वात्सतृष्णत्वाच्च । 'लोलश्चलसतृष्णयोः' इत्यमरः । तासामङ्गरागमपहरतां क्षाल. यतां च जलानां तोयानां जडानां च स आशयो हृदो हृदयं च कलुषोऽप्रसन्नः क्षुभितश्च संजज्ञे संजातः । अपहर्तुस्ताडनस्वहरणादिभिराशयः कलुषो भवतीति ध्वनिः । अभिधायाः प्रकृतार्थे नियन्त्रणान्न श्लेषः ॥ सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम् । नेदीयो जितमिति लजयेव तासा मालोले पयसि महोत्पलं ममज ॥४८॥ सौगन्ध्यमिति ॥ कामं पर्याप्तं सौगन्ध्यं सुरभिगन्धित्वं संबन्धित्वं च। गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः' इति विश्वः । दधदपि अहं दूरत्वात्पूर्वं . दूरस्थत्वादङ्गनानामाननोपमानं मुखसादृश्यं गतम् । 'दूरस्थाः पर्वता रम्याः' इतिवदिति भावः । संप्रति पुनस्तासां नेदीयो नेदिष्ठमन्तिकतमं सत् । 'अन्तिकबाढ. योर्नेदसाधौ' इत्यन्तिकशब्दस्य नेदादेशः । जितं परिभूतमभूवमिति लजयेव महो. त्पलमरविन्दमालोले. चले पयसि ममज । यथा 'दूरे साम्येन दृश्यमानः संबन्धी संनिधाववमानितः क्वचिल्लज्जया निलीयते तद्वदिति । अत्र पयश्चलनकृतेऽब्लमजने लजाहेतुकत्वमुत्प्रेक्ष्यत इति श्लेषमूलातिशयोक्तिहेतूत्प्रेक्षयोः संसृष्टिः ॥ Page #217 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। २०५ प्रभ्रष्टैः सरभसमम्भसोऽवगाह क्रीडाभिर्विदलितयूथिकापिशङ्गैः । आकल्पैः सरसि हिरण्मयैर्वधूना ___ मौर्वाग्निद्युतिशकलैरिव व्यराजि ॥४९॥ प्रभ्रष्टैरिति ॥ सरभसं ससस्वरम् अम्भसोऽवगाहा एव क्रीडास्ताभिः प्रभ्र. ष्टैर्जलावगाहक्षोभादम्भसि च्युतैर्विदलिता विकसिता यूथिकाः पीतयूथिका हेमपुष्पिकापर्याया विवक्षिताः, अन्यथा पिशङ्गत्वायोगात् । 'गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका' इत्यमरः । तद्वपिशङ्गैर्हिरण्मयैः सौवर्णैः । 'दाण्डिनायन-' इत्यादिना निपातः । वधूनामाकल्पैर्भूषणैः सरसि और्वाग्निद्युतिशकलैर्जलाशयत्वादत्रापि संनिहितैर्वडवानलज्वालाखण्डैरिवेत्युत्प्रेक्षा । व्यराजि विराजितम् । भावे लुङ् ॥ आसाकी युवतिदृशामसौ तनोति ___ छायैव श्रियमनपायिनी किमेभिः । मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि ॥ ५० ॥ आस्माकीति ॥ अस्माकमियमास्माकी अस्मदीया । अस्मत्कारितेत्यर्थः । 'युष्मदस्मदोरन्यतरस्यां खञ्च' इवि चकारादण्प्रत्ययः। 'तस्मिन्नणि च युष्माकास्माकौ' इति प्रकृतेरमाकादेशः 'टिड्डाणञ्-' इत्यादिना ङीप् । असौ छाया कान्तिः । विमलेति यावत् । सैव युवतिदृशामनपायिनी स्थायिनीं श्रियं तनोति एभिरञ्जनैः किमेतत्साध्यम् । न किंचिदस्तीत्यर्थः। गम्यमानसाधनापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । एवं मत्वा । उक्तप्रकारेणाञ्जनवैफल्यं निश्चितेत्यर्थः । अत एव गम्योत्प्रेक्षेयम् । स्वगुणस्य स्वाविष्कृतदृनैर्मल्यगुणस्य पिधानम् । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । तेन साभ्यसूयैः सेयः पातुमर्हः पानीयैः । 'अम्भो. ऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्' इत्यमरः । 'तव्यत्तव्यानीयरः' इति पिबतेरनीयर् प्रत्ययः । अञ्जनानि कजलानि इति अनेन स्वगुणप्रकाशनयोग्यतया विवक्षितेन प्रकारेण । निःशेषत्वरूपेणेत्यर्थः । विदधाविरे विधौतानि । क्षालितानीत्यर्थः । 'धावु गतिशुद्ध्योः' इति धातोः कर्मणि लिट् ॥ निधौते सति हरिचन्दने जलौधै रापाण्डोर्गतपरभागयाङ्गनायाः। अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ॥ ५१ ॥ शिशु० १८ Page #218 -------------------------------------------------------------------------- ________________ २०६ शिशुपालवधे निधौते इति ॥ हरिचन्दने रक्तचन्दने जलौधैर्निधौते क्षालिते सति । धावेः कर्मणि क्तः । 'छोः शूडनुनासिके च' इति वकारस्योठादेशः। 'एत्येधत्यम्स' इति वृद्धिरौकारः । आपाण्डोः पाण्डुवर्णादङ्गनायाः स्तनकलशद्वयात् गतपरभा. गया सावाद्विगतवर्णोत्कर्षया । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । हारयष्ट्या का सहृदयया सचित्तये. वेत्युत्प्रेक्षा । निजपरभागहानिपरिज्ञानवत्येवेत्यर्थः । अह्राय सपदि । 'साक् झटित्यासाहाय दाङ् मंच सपदि द्रुते' इत्यमरः । विच्छेदस्फुटनमुपेये प्राप्तः । हीन. जीवनादजीवनमेव वरमिति भावः । उपपूर्वादिणः कर्मणि लिट् । विक्षोभहेतुकस्य हारविच्छेदस्य सहृदयहेतुकत्वोत्प्रेक्षा सा चोक्तसामान्योत्थापितेति संकरः ॥ अन्यून गुणममृतस्य धारयन्ती संफुल्लस्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ॥५२॥ अन्यनमिति ॥ अन्यून समग्रममृतस्य पीयूषस्य गुणं माधुर्यादिकं धारयन्ती। अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते ॥' इति उक्तोदकगुणं च धारयन्ती सरसी। पक्षे 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले ध्रुवम्' इति विश्वः । संफुल्लानि विकचानि । उत्फुल्लसंफुल्लयोरुपसंख्यानान्निष्टातस्य लत्वम् । स्फुरितान्युज्वलानि च यानि सरोरुहाण्येकत्र सहजानि, अन्यत्र संस्कारार्थ क्षिप्तानि तान्यवतंसो भूषणं यस्याः सा तथोक्ता । प्रेयोभिः सह निषेव्यमाणा । स्नानपानाभ्यामिति भावः । सरसी पुष्करिणी वधूदृशां रक्तत्वमारुण्यं व्यधित विधत्ते स्म । तथा सुरा च । व्यधितेति धाजः कर्तरि लुङि तङ् । इहोत्साहवर्धनाय मुहुः सेव्यत्वाच्छृङ्गाणीति श्लोके सलिलक्रीडासंभारेषु माकमिति परिगणनाच्च सरसीवत्सुराया अपि प्रकृतत्वविवक्षायां तुल्ययोगिता तदविवक्षायां तु दीपकम् । सुरेवेति पाठे स्वप्रकृतविवक्षैव कार्या । अन्यथा उपमानुपमा स्यात् । न च तुल्ययोगितावकाशः । इवशब्देन गम्यौपज्यलक्षणभङ्गादिति ॥ नान्तीनां बृहदमलोदविन्दुचित्रौ रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणां मणिभिरुपाश्रितौ समन्ता दुत्सूत्रैर्गुणवदुपनकाम्ययेव ॥ ५३॥ स्मान्तीनामिति ॥ स्नान्तीनां जलमवगाहमानानां रुचिरदृशां सुदृशां संबनिधनौ बृहद्भिरमलैश्चोदबिन्दुभिश्चित्रौ । 'मन्थौदन-' इत्यादिनोदकशब्दस्योदा. देशः । उरोजकुम्भौ उत्सूत्रैहीराणां मुक्ताहाराणां मणिभिर्गुटिकाभिरुपहन्यते उपगम्यते, पीड्यते वा। 'उपन्न आश्रये' इति हन्तेरप्प्रत्ययान्त उपधालोपीति निपातः। गुणवत औदार्यादिगुणवतः, सूत्रवतश्च उपनस्य काम्या आत्मन इच्छा गुणवदुपन. Page #219 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। २०७ काम्या तया गुणवदुपनकाम्यया । आत्मनो गुणवदाश्रयाकाङ्क्षयेत्यर्थः । 'काम्यच्च' इति काम्यच्प्रत्यये प्रत्ययान्तधातुत्वात् 'अप्प्रत्ययात्' इति स्त्रियामप्प्रत्यये टाप् । समन्तादुपाश्रितौ संश्रिताविव रेजाते राजेते स्म । 'फणां च सप्तानाम्' इति विकल्पादेकाराभ्यासलोपौ। गुणवच्छब्देन सूत्रशब्देन च सूत्रभेदे सूत्रान्तरमशिश्रियदिति प्रतीतेः श्लेषानुप्राणितयातिशयोक्त्यानुप्राणितेयमुत्प्रेक्षा ॥ आरूढः पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यनिरासुरापः॥५४॥ आरूढ इति ॥ स्वसंभवोऽप्यात्मसंभवोऽपि आरूढ उच्चस्थानगत उत्तमाश्रयश्च पतितस्तथा भ्रष्ट इति हेतोः। आरूढपतितत्वादित्यर्थः । स्वच्छानां निर्मलानां परिहरणीयतां त्याज्यत्वमुपैति । 'प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः' इति स्मरणादिति भावः । वीचीभिस्तटमनु तटंप्रति निरासुश्चिक्षिपुः । कुतः । यस्मादापः वधूनां कर्णेभ्यश्युतमसितोत्पलम् । स्वसंभवमपीति भावः । विशेषेण सामान्यस. मर्थनरूपोऽर्थान्तरन्यासः समर्थनवाक्यगतश्लेषमूलातिशयोक्त्या संकीर्णः ॥ दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपना नखाङ्काः। आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ ५५ ॥ दन्तानामिति ॥ तोयेष्वधि अधितोयम् । विभक्त्यर्थेऽव्ययीभावः । अङ्गनानामयावकं प्रक्षालितलाक्षारागमधरं दन्तानां पदानि दन्तक्षतानि । तथा अविले. पनां धौताङ्गरागां तनुं शरीरं प्रत्यग्रा नवा नखाङ्काश्च श्रियमानिन्युः प्रापयामासुः। 'नीवह्योहरतेश्चैव' इति वचनाविकर्मकत्वम् । तथाहि सतः सज्जनान, सुन्दरांश्चाश्रिताः सदाश्रिताः ये केचिदिति शेषः । विपदि विभवाभावकालेऽपि शोभायै वैभवाय भवन्ति । 'क्लपः संपद्यमाने चतुर्थी वक्तव्या' इति क्लुपेरर्थनिर्देशाचतुर्थी । अर्थान्तरन्यासः॥ कस्याश्चिन्मुखमनु धौतपत्रलेखं ___व्यातेने सलिलभरावलम्बिनीभिः । किंजल्कव्यतिकरपिञ्जरान्तराभि श्चित्रश्रीरलमलकारवल्लरीभिः ॥५६॥ कस्याश्चिदिति ॥ धौतपत्रलेखं क्षालितपत्रावलीकं कस्याश्चिन्मुखमनु मुखेन संबद्धं यथा तथा । मुखे इति यावत् । 'तृतीयार्थे-' इत्यनोः कर्मप्रवचनीयत्वाद्वितीया। सलिल भरेणावलम्बिनी मिर्लम्बमानाभिः। आर्जवं गताभिरित्यर्थः । Page #220 -------------------------------------------------------------------------- ________________ २०८ शिशुपालवधे किंजल्कव्यतिकरण केशरमिश्रणेन पिञ्जराण्यन्तराणि मध्यभागा यास ताभिः । अलकाग्राणि वल्लो मार्य इवेत्युपमितसमासः । 'वल्लरी मञ्जरी स्त्रियाम्' इत्य. मरः । ताभिरलकाग्रवल्लरी भिश्चित्रश्रीर्मकरिकापत्रशोभा अलं व्यातेने संपादिता। तनोतेः कर्मणि लिट् । अत्र चित्रस्य श्रीरिव श्रीरिति निदर्शनाभेदः ॥ अथ श्लोकद्वयेन पुंसामप्यवस्थाभेदं वर्णयति वक्षोभ्यो घनमनुलेपनं यदूना मुत्तंसानहरत वारि मूर्धजेभ्यः। नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलञ्चयः ॥ ५७ ॥ वक्षोभ्य इत्यादि ॥ वारि सरउदकं कर्तृ यदूनां यादवानां वक्षोभ्यो धनं सान्द्रमनुलेपनमगरागमहरत । जित्वात्तङ् । अत्र वधूनामिति क्वाचित्कः पाठो वक्षोजानुपेक्ष्य वक्षोमात्र निर्देशादुत्तरश्लोके तेषामिति पुंलिङ्गपरामर्शाच्च न ग्राह्यः । मूर्धजेभ्यः शिरोरुहेभ्य उत्तंसाञ्शेखरानहरत । नेत्राणां मदरुचिर्मदरागोऽक्षतैव तथैव तस्थौ । वारिविहारस्यापि रागजनकत्वादिति भावः । अत एव रागद्वयस्याप्यभेदाध्यवसायेन तदवस्था निर्देशादतिशयोक्तिः । तथाहि महतां चक्षुषि भवश्वक्षुष्यः प्रियोऽक्षिजश्च । 'प्रियेऽक्षिजे च चक्षुष्यः' इति विश्वः । 'शरीरावयवाच्च' इति यत् । परैरलङ्घयो दुर्धर्षः खलु । चक्षुष्य इति श्लेषमूलातिशयोक्तिः । तया पूर्वोक्तया च संकीर्णोऽयमर्थान्तरन्यासः ॥ यो बाह्यः स खलु जलैर्निरासि रागो - यश्चित्ते स तु तदवस्थ एव तेषाम् । धीराणां व्रजति हि सर्व एव नान्त: ___ पातित्वादभिभवनीयतां परस्य ॥ ५८ ॥ य इति ॥ तेषां यदूनां बहिर्भवो ग्राह्यः । 'बहिषष्टिलोपो यञ्च' इति वचनाद यञ् प्रत्ययः । यो रागोऽङ्गरागः स रागो जलस्तोयैः, जडैश्च निरासि निरस्तः खलु । अस्यतेः कर्मणि लुङ् । चित्ते यो रागः स तु सैवावस्था यस्य स तदवस्थ एव । न निरस्त इत्यर्थः । अत्र रागयोरभेदाध्यवसायादतिशयोक्तिः । तथा हि सर्वोऽपि धीराणां महतामन्तःपातित्वात् । अन्तर्गतत्वादेवेति यावत् । परस्याभिभवनीयता न व्रजति । अन्यथा व्रजत्येवेत्यर्थः । पूर्ववदलंकारः ॥ फेनानामुरसिरुहेषु हारलीला चैलश्रीर्जघनतलेषु शैवलानाम् । गण्डेषु स्फुटरचनाजपत्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ॥ ५९॥ फेनानामिति ॥ वधूनाम् । भ्रष्टभूषणानामपीति भावः । पयसि विभूषणं Page #221 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। २०९ पर्याप्तम् । समग्रमासीदित्यर्थः। कुतः । फेनानां डिण्डीराणामुरसि रहन्तीत्युरसिरहाः स्तनाः । 'सुपि' इति योगविभागात्कप्रत्ययः 'हलदन्तात्' इत्यलुक् । तेषु हारलीला मुक्तावलिश्रीः । जातेति शेषः । शैवलानां जघनतलेषु चैलश्री. वसनशोभा जाता । गण्डेपु कपोलेपु शैवला इति विभक्तिविपरिणामादनुषङ्गः । स्फुटरचना व्यक्तविन्यासाजपत्रवल्ली पमपत्रलता जातेति शेषः । अत्र फेनानां हारलीलेव लीला शैवलानां चेलश्रीरिव श्रीरिति निदर्शनाभ्यां शैवलाः पत्रव. लीति रूपकेण च वाक्याथै श्चतुर्थवाक्यार्थसमर्थनात्तैरेवाङ्गाङ्गिभावेन संकीर्णवाक्यार्थहेतुकं काव्यलिङ्गम् ॥ भ्रश्यद्भिर्जलमभि भूषणैर्वधूना___ मङ्गेभ्यो गुरुभिरमजि लजयेव । निर्माल्यैरथ ननृतेऽवधीरिताना मप्युच्चैर्भवति लघीयसां हि धार्ध्वम् ॥६०॥ भ्रश्यद्भिरिति ॥ वधूनामङ्गेभ्यो भ्रश्यद्भिः पतद्भिर्गुरुभिः सौवाद्गुरुत्वयुक्तेभूषणैर्लजया भ्रंशप्रयुक्तया ह्रियेवेत्युत्प्रेक्षा । जलमभि अमजि जले मग्नम् । भावे लुङ् । अथानन्तरमेव न तु विलम्बेनेति भावः। निर्माल्यैर्मुक्तोज्झितमाल्यैननृते जलेऽनर्ति । भ्रंशेऽपि निर्लजैरिति भावः । तथा हि । अवधीरितानां तिरस्कृतानामपि लघीयसां तुच्छानामुच्चैर्धाष्ट्यं निर्लजत्वमेवाधिकं भवतीत्यर्थान्तरन्यासः । महान्तः पदभ्रंशे लजिताः क्वचिनिलीयन्ते, तुच्छास्तु निर्लज्जा विजृ. म्भन्त इति भावः । अप्सु गुरूणि मजन्ति लघूनि प्लवन्त इति परमार्थः ॥ आमृष्टास्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोऽङ्गरागः। कामः स्त्रीरनुशयवानिव स्वपक्ष __ व्याघातादिति सुतरां चकार चारूः॥ ६१॥ आमृष्टा इति ॥ तिलकरुचः पत्रशोभा आमृष्टाः । जो माला निरस्ताः । वसनं कौसुम्भं वासो नीरक्तमरक्तम् । निरस्तरागमित्यर्थः। कृतमिति शेषः । अङ्गरागोऽपाकृतः । सर्वत्र जलैरित्यर्थः । इतीत्थं स्वपक्षव्याघातात्स्ववर्गक्षयादनुशयवाननुतापवानिवेत्युत्प्रेक्षा । कामः स्त्रीः स्त्रियः। 'वाम्शसोः' इतीयङादेशविकल्पात्पक्षे पूर्वसवर्णदीर्घः । सुतरां चारूः पूर्वतोऽपि रमणीयाश्चकार । स्त्रीणां काम एव भूषणमन्यद्वैरूप्यमेवेति भावः ॥ शीताति बलवदुपेयुषेव नीरै रासेकाच्छिशिरसमीरकम्पितेन । रामाणामभिनवयौवनोष्मभाजो राश्लेषि स्तनतटयोर्नवांशुकेन ॥ ६२॥ Page #222 -------------------------------------------------------------------------- ________________ २१० शिशुपालवधे शीतेति ॥ नीरैतोयैरासेकादासेचनाच्छीताति शीतव्यथां बलवत्सु उपे. युषेव प्राप्तवतेवेत्युत्प्रेक्षा । अत एव शिशिरसमीरकम्पितेन शीतवातवेपितेन नवांशुकेन का अभिनवो यो यौवनोष्मा उष्णत्वं तद्भाजोः रामाणां स्तनतटयोराधारयोराश्लेषि आश्लिष्टं संसक्तम् । भावे लुङ् । सेकहेतुकस्यांशुकश्लेषस्य शीतार्तिहेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतूत्प्रेक्षा ॥ इत्थमासां जलक्रीडामुक्त्वा जलादुत्तरणं वर्णयति योतद्भिः समधिकमात्तमङ्गसङ्गा लावण्यं तनुमदिवाम्बु वाससोऽन्तः । उत्तेरे तरलतरङ्गरङ्गलीला निष्णातैरथ सरसः प्रियासमूहैः ॥ ६३ ॥ श्योतद्भिरिति ॥ अथ जलक्रीडानन्तरमङ्गसङ्गागात्रसंपर्कादात्तमुपात्तम् । संसक्तमिति यावत् । समधिकमतिरिक्तं तनुमन्मूर्तिमत् लावण्यमिव कान्तिसार. मिवेत्युत्प्रेक्षा । अम्बु श्योतद्भिः क्षरद्भिः । भौवादिकत्वाल्लघूपधगुणः । तरलाश्वप. लास्तरङ्गा एव रङ्गा नृत्यस्थानानि तेषु लीला नर्तितानि तासु निष्णातैः कुशलैः । 'निनदीभ्यां स्नातेः कौशले' इति षत्वम् । वाससोऽन्तैर्वस्त्रस्याञ्चलैरुपलक्षितः प्रि. यासमूहैः स्त्रीसङ्घः सरसो हदादुत्तेरे उत्तीर्णम् । निर्गतमित्यर्थः। तरते वे लिट् ॥ दिव्यानामपि कृतविसयां पुरस्ता दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । . उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती मसाजिलनिधिमन्थनस्य शौरिः॥६४ ॥ दिव्यानामिति ॥ दिवि भवा दिव्यास्तेषामपि कृतविस्मयां सौन्दर्यातिरेकेण जनिताद्भुतरसां स्फुरदरविन्दाभ्यां चारू हस्तौ यस्यास्ताम् । पद्महस्तामित्यर्थः । पुरस्तादग्रतः अम्भस्तो जलात् । पञ्चम्यास्तसिल । उत्तरन्तीं निष्क्रामन्तीं कांचिस्त्रियं मथ्यमानात्समुद्रात्सद्यः प्रादुर्भवन्तीं श्रियमिव लक्ष्मी मिवोद्वीक्ष्य जलनिधिमन्थनस्य । समुद्रमन्थनमित्यर्थः । मन्थेभीवादिकरयेदित्त्वान्नुमागमः 'अधीग. र्थ-' इत्यादिना कर्मणि षष्ठी । अस्मात्स्मृितवान् । अन्न समुद्रमन्थनस्मारिकया श्रियमिवेत्युपमया सादृश्याच्छ्रीः स्मृतेति स्मरणालंकारप्रतीतेरलंकारध्वनिः ॥ श्लक्ष्णं यत्परिहितमेतयोः किलान्त___ानार्थं तदुदकसेकसक्तमूर्वोः। नारीणां विमलतरौ समुल्लसन्त्या भासान्तर्दधतुरुरू दुकूलमेव ॥६५॥ श्लक्ष्णमिति ॥ एतयोरूवोरन्तर्धानार्थ किल छादनार्थ श्लक्ष्णं स्निग्धं यदुकूलं परिहितमाच्छादितमुदकसेकेन संसक्तं संसृष्टं तत् दुकूलं कर्म । विमलतरौ नारीणा Page #223 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः। २११ मुरू पीवरावूरू एव कर्तारौ समुल्लसन्त्या भासा स्फुरन्त्या निजकान्त्यान्तर्दधतु. श्छादितवन्तौ । तदेतद्भूषणमिति भावः । अत्र दुकूलस्योरूच्छादकत्वेऽपि तदभावोक्तेरसंबन्धेऽपि संबन्धरूपातिशयोक्तिः । तदपेक्षया चोवोर्दुकुलानाच्छादकयोराच्छादकत्वोक्तरसंबन्धे संबन्धरूपातिशयोक्त्यनुप्राणितेति सजातीयसंकरः, तदनुप्राणितश्च विषमालंकार इति विजातीयसंकरः । तेन चोर्वोलोकोत्तरं लावण्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैमुदेव । अत्याक्षुः स्नपनगलजलानि यानि स्थूलाश्रुतिभिररोदि तैः शुचेव ॥६६॥ वासांसीति ॥ ताः योषितो यानि वासांसि न्यवसत निवसितवत्यः । 'वस आच्छादने' इति धातोः कर्तरि लङ् । शुभ्राभ्राणां द्युतिरिव द्युतिर्येषां तैासोभिर्मुदा नारीनिवसनानन्देनाहासीव हसितमिव । भावे लुङ् । स्नपनेन गल. जलानि स्रवत्तोयानि यानि वासांसि अत्याक्षुस्त्यक्तवत्यः तैः शुचा स्थूला अश्रुस्रुतिर्येषां तैररोदीव रोदनं कृतमिव । भावे लुङ् । अत्र धावल्यगुणजलगलनक्रियानिमित्तयोर्हासरोदनक्रिययोः सजातीयोत्प्रेक्षयोः संकरः ॥ आर्द्रत्वादतिशयिनीमुपेयिवद्भिः संसक्तिं भृशममि भूरिशोऽवधूतैः । अङ्गेभ्यः कथमपि वामलोचनानां विश्लेषो बत नवरक्तकैः प्रपेदे ॥ ६७॥ आर्द्रत्वादिति ॥ आर्द्रत्वाजलेन प्रेम्णा च सरसत्वादतिशयिनीमतिशयवतीं संसक्तिं संश्लेषं, परिचयं चोपेयिवद्भिः प्राप्तवद्भिः अत एव भृशं भूरिशो बहुशोऽवधूतैर्निरस्तैरपि, अन्यत्र निष्कासितैरपि नवरक्तरेव नवरक्तकैः नूतनरक्तवस्त्रैः, नवानुरागिभिश्च वामलोचनानां सुदृशामङ्गेभ्यो विश्लेषः बत खेदे कथमपि प्रपेदे प्राप्तः । एकत्रातिश्लेषादन्यत्रातिपरिचयाचेति भावः । अत्यासक्ताः कामिनो धनपरायणाभिर्वेश्याभिरवधूताः कथंचिन्मुञ्चन्तीत्यर्थान्तरप्रतीतिः । इह विशेष्यस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो ध्वनिरेव ॥ प्रत्यंसं विलुलितमूर्धजा चिराय __ स्नानार्द्र वपुरुदवापयत्किलैका । नाजानादभिमतमन्तिकेभिवीक्ष्य खेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ ६८ ॥ प्रत्यंसमिति ॥ एका स्त्री प्रत्यंसमंसयोः । विभक्त्यर्थेऽव्ययीभावः । विलुलितमूर्धजा विकीर्णकेशा सती स्नानाद्रं वपुः चिराय चिरमुदवापयन्निरवापयत् । Page #224 -------------------------------------------------------------------------- ________________ २१२ शिशुपालवधे अशोषयदिति यावत् । वयतेय॑न्ताल्लङ् । 'अतिहीं-' इत्यादिना पुगागमः । किल खलु । पुनस्तद्वपुरभिमतं प्रियमन्तिकेऽभिवीक्ष्य स्वेदाम्बुनो द्वम् । दवशब्दः शुक्लादिवद्गुणे पुंसि, गुणिनि भेद्यलिङ्गः ! 'आपो द्रवाः सर्वाणि द्रवाणि तृदङ्मु. खेन जुहोति' इत्यादिप्रयोगात् । अभवत्तराम् । अतिशयेनाभवदित्यर्थः। 'तिङश्व' इति तरप् 'किमेत्तिक-' इत्यादिना तिडास्तादामुप्रत्ययः । 'तद्धितश्चासर्ववि. भक्तिः' इत्यव्ययत्वम् ! नाजानात् । वाक्यार्थः कर्म । तद्रवभवनं नाज्ञासीदित्यर्थः । अविरतस्नेहातामजानती स्नानाद्रमेवेति मन्यमाना पुनः पुनर्वपुरुद्वापयन्त्येवास्तेति तात्पर्यार्थः । अत्र वपुष्मत्कर्तृकस्य वीक्षणस्य वपुष्युपचारात् द्रवण. क्रियायाः समानकर्तृकत्वात्पूर्वकालतानिर्वाहः । एषा च गात्सुक्यादिसंचारिसंकीर्णस्वेदोदरोमाञ्चादिसात्विकसंपन्ना स्मिताद्यनुभाववती चेत्य नुसंधेयम् । अत्रो. द्वापनरूपकारणे सति द्रवत्वनिवृत्तिरूपकार्यानुत्पत्तेस्तद्विरुद्धद्वत्प्रतिपादनमुखे. नाभिधानाद्विशेषोक्तिरलंकारः । 'तत्सामग्र्यामनुत्पत्तिविशेपोक्तिर्निगद्यते' इति लक्षणात् ॥ सीमन्तं निजमनुबध्नती कराभ्या मालश्य स्तनतटबाहुमूलभागा। भान्या मुहुरभिलायना निदध्ये नैवाहो विरमनि कौतुकं प्रियेभ्यः । ६९ ।। सीमन्तमिति ॥ निजमात्मीयं सीमन्तं मूर्धजमध्यपद्धतिम् । “सीमन्तम. स्त्रियां स्त्रीणां केशमध्ये तु पद्धतिः' इति वैजयन्ती । कराभ्यामनुबन्नती गृह्णन्ती। विभजन्तीत्यर्थः । अत एव आ समन्तात् लक्ष्या विभाव्याः स्तनतटे बाहुमूले च तेषां भागाः प्रदेशा यस्याः सा अन्या स्त्री अभिलष्यताभिलषता । 'वा भ्राश-' इत्यादिना वैकल्पिकः श्यन्प्रत्ययः । भर्ना मुहुर्निदध्ये ध्याता । तां निरीक्ष्येत्यर्थः । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अहो आश्चर्य । कौतुकमभिलाषः प्रीणन्तीति प्रिया विषयाः । 'इगुपधज्ञाप्रीकिरः कः' इति कः । तेभ्यो न दिरमति उपभोगेऽपि न निवर्तत इत्याश्चर्यम् । 'न जातु कामः कामानामुपभोगेन शाम्यति' इति भावः । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् इति पञ्चमी 'व्यापरिभ्यो रमः' इति परस्मैपदम् । अर्थान्तरन्यासः ॥ स्वच्छाम्भःस्वपन विधौतमङ्गमोष्ठ स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीया नाकल्पो यदि कुसुमेपुणा न शून्यः ॥ ७० ॥ स्वच्छेति ॥ स्वच्छेनाम्भसा नपनेनाभिषेकेण विधीतं विगलितमङ्गं वपुः । ताम्बूलद्युत्या ताम्बूलरागेण विशद उज्ज्वल ओष्ठोऽधरः। प्रतनु सूक्ष्म विविनं विमलं वासश्च, अथवा विविक्तमेकान्तस्थानं च । 'विविक्तौ पूतविजनौ' इत्यमरः। Page #225 -------------------------------------------------------------------------- ________________ नवमः सर्गः। २१३ इत्येवंरूप इयानेतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु किमन्यैरित्यर्थः । कुसुमेषुणा कामेन शून्यो यदि न स्यात् । अन्यथा उद्विजितानामिव कनकभूषणमपि भारायत एवेति भावः । एतेन विच्छित्याख्य आलम्बनचेष्टारूप उद्दीपनविभाव उक्तः । 'स्तोकभूषणयोगेऽपि विच्छित्तिरिति गद्यते' इति लक्षणात् । अत्र स्नानताम्बूलादिपदार्थान्वितविशेषणगत्या अौष्ठादीनामाकल्पत्वप्रतिपादनार्थ हे. तुकं काव्यलिङ्गमलंकारः ॥ अथोत्तरसर्गे सूर्यास्तमयादिवर्णनं प्रस्तौति इति धौतपुरंधिमत्सरान्त्सरसि मजनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः। अवलोक्य तदैव यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपां ततिषु मङ्गुमीपे ॥ ७१ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके जलविहारवर्णनं नामाष्टमः सर्गः ॥८॥ इतीति॥इतीत्थं सरसि मजने न स्नानेन धौतपुरंध्रिमत्सरान्क्षालितमानिनीमा. नान अभीक्ष्णमतिशेतेऽतिशायिनीम् । आभीक्ष्ण्ये णिनिः । श्रियमाप्तवतः अपमलागभासो विमलाङ्गकान्तीन्यादवानवलोक्य तदैव शिशिरेतररोचिषा उष्णांशुना. प्यपरवारिराशेः पश्चिमाब्धेरपां ततिषु पूरेषु मङ्घ प्रवेष्टमीषे इष्टम् । भावे लिट् । परचेष्टासाक्षात्कारो विषयिणां तादृग्विषयाभिलाषमन्तराधत्त इति भावः । अत्र भानोः कालप्राप्तमजनस्य यादवमजनावलोकनहेतुकत्वमुत्प्रेक्ष्यते । अतिशायिनीवृत्तम् । 'ससजा भजतोऽतिशायिनी भवति गौ दिगश्वैः' इति छन्दोलक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरि विरचिते शिशुपालवध. काव्यव्याख्याने सर्वकषाख्येऽष्टमः सर्गः ॥ ८ ॥ नवमः सर्गः। अथ सूर्यास्तमयं वर्णयतिअभितापसंपदमथोष्णरुचिनिजतेजसामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ १॥ अभितापेति ॥ अथ मिमङ्खानन्तरमुष्णरुचिः सूर्यो निजतेजसामभितापसं. पदं संतापातिरेकमसहमान इवापराम्बुनिधेः पश्चिमाब्धेः पयसि प्रपित्सुः पतितुमिच्छुः । पततेः सन्नन्तादुप्रत्ययः 'सनिमीमा-' इत्यादिना इसादेशः 'अत्र लोपो. ऽभ्यासस्य' इत्यभ्यासलोपः। अस्तगिरिमस्ताद्रिम् । 'अस्तस्तु चरमक्ष्माभृत्' इत्य१ 'मविरलाङ्ग' इति पाठः. Page #226 -------------------------------------------------------------------------- ________________ २१४ शिशुपालवधे मरः। अधिरोढुमभ्यपतदभ्यधावत् । अत्रासहमान इवेति कालप्राप्तस्य पयसि प्रपातस्य निजतेजोऽसहनहेतुकत्वमुत्प्रेक्ष्यते । अस्मिन्सर्गे प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् । मुहुरन्तरालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥२॥ गतयेति ॥ रतेन रत्यर्थे । 'प्रसितोत्सुकाभ्यां तृतीया च' इति सप्तम्यर्थे तृतीया । भृशमुत्सुकतां कालाक्षमत्वलक्षणमौत्सुक्यं दधती योषित्पुरोऽग्ने गवा. क्षमुखं गवाक्षद्वारं प्रति गतयापसृतया दृशा अस्तगिरेः सवितुश्चान्तरालभुवं मध्याकाशदेशं मुहुरमिमीत माति स्म । हस्तमात्रमवशिष्टमरनिमात्रमवशिष्टमि. त्यादिमानकरणेनास्तमयं प्रतीक्षितवतीत्यर्थः। माङो लङि 'श्ली' इति द्विर्भावः 'भृजामित्' इत्यभ्यासस्येत्वम् । एतच्चास्तमयप्रतीक्षणभ्रमादौत्सुक्यानुभवान्तरोप. लक्षणम् । अत्रौत्सुक्यभाववचनात्प्रेयोऽलंकारः ॥ विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः। अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः॥३॥ विरलेति ॥ परिणति परिवृत्तिम् , अन्यत्र जरावस्थां च गतः अत एव विरला अल्पा आतपस्य च्छविर्यस्य सः । अन्यत्र क्षीणप्रभः । अनुष्णवपुः अन्यत्र श्लेष्मो. दयादीषदुष्णदेहः । अलवणा यवागूरितिवदल्यार्थ नञ्प्रयोगः । परितो विपाण्डु एकत्र शुभ्राभ्रपटलच्छन्नत्वादपरत्र पलितैश्च पाण्डुरमभ्रमाकाशमेव शिरो दधदु. द्वहत्परिमन्दं प्रशान्तम् , अर्थग्रहणासमर्थ च सूर्य एव नयनं यस्य स दिवसः शिथिलः शिथिलवृत्तिः, शिथिलाङ्गश्चाभवत् । अत्राभ्रशिर इत्याद्यवयवरूपणादिवस एव स्थविर इत्यवयविरूपकसिद्धेस्तदरूपणादेकदेशवृत्तिरूपकं श्लेषानुप्राणितम् ॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गलये। निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः॥४॥ अपराह्नेति ॥ अपरोऽपरभागोहोऽपराह्नो दिनान्तः । 'पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे' इत्येकदेशिसमासः 'राजाहःसखिभ्यष्टच्' 'अहोऽत एतेभ्यः' इत्यहादेशः 'अहोऽदन्तात्' इति णत्वम् । तस्मिन्नपराह्ने शीतलतरेणानिलेन शनैर्लोलिताश्चालिता लता एवाङ्गुलयो यस्य तस्मै, अत एव निलयाय निवासायाह्वयते अङ्गुलिसंज्ञया आह्वानं कुर्वाणायेव स्थितायेत्युत्प्रेक्षा । शाखिने वृक्षाय खगकुलानि पक्षिसङ्घा आकुलास्तुमुला गिर इदमागम्यत इति प्रत्युत्तराणि ददु. रिवेत्यनुषङ्गादुत्प्रेक्षा ॥ उपसंध्यमास्त ननु सानुमतः शिखरेषु तत्क्षणमशीतरुचः। करजालमस्तसमयेऽपि सतामुचितं खलूचतरमेव पदम् ॥५॥ उपसंध्यमिति ॥ उपसंध्यं संध्यायाः समीपे। समीपार्थेऽव्ययीभावे नपुंसक Page #227 -------------------------------------------------------------------------- ________________ नवमः सर्गः । २१५ त्वाद्भस्वत्वम् | अशीतरुच उष्णांशोस्तनु करजालं तत्क्षणं तस्मिन्क्षणे । तत्कालेऽपीत्यर्थः । अत्यन्तसंयोगे द्वितीया । सानुमतोऽद्रेः शिखरेष्वास्तातिष्ठत् । आसेः कर्तरि लङ् । सतामस्तसमये नाशसमयेऽप्युच्चतरमेव पदमुन्नत स्थान मे - वोचितं खलु । अर्थान्तरन्यासः ॥ प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्वना दिनभर्तुरभृन पतिप्यतः करसहस्रमपि ॥ ६ ॥ प्रतिकूलतामिति ॥ विधौ दैवे प्रतिकूलतामुपगते सति बहुसाधनता अनेकसाधनवत्ता विफलत्वमेति । महत्यपि साधनसंपत्तिर्निष्फलैवेत्यर्थः । तथा हि । पतिष्यत आसन्नपातस्य दिनभर्तुः करा अंशवो हस्ताश्च । 'बलिहस्तांशवः करा: ' इत्यमरः । तेषां सहस्रमपि अवलम्बनायावष्टम्भनाय नाभूत् । अतो दैवमेव प्रबलमिति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ नवकुङ्कुमारुणपयोधरया स्वकरवसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ||७|| नवेति ॥ अनुपारकर उष्णांशुः नवकुङ्कुमवदरुणपयोधरया नवसंध्यारुणमेघा अन्यत्र नवकुङ्कुमारुणकुचया स्वकरावसक्तरुचिराम्बरया स्वकिरणाक्रान्तरुचिराकाशया, अन्यत्र स्वहस्तलग्न चास्वत्रया वरुणस्य दिशा । पश्चिम दिशा सहेत्यर्थः । वरुणसंबन्धात्परराङ्गनात्वं च गम्यते । 'वृद्धो यूना-' इति सूत्रादौ सहार्थाप्रयोगात्सहार्थानामप्रयोगेऽपि 'सहयुक्तेऽप्रधाने' इति सहार्थे तृतीया । अतिसक्तिमतिसंनिकर्षं, अत्यासक्तिं च एत्य प्राप्य भृशमन्वरज्यत्, लोहितो रक्तवांश्चाभवत् । रङ्गेर्दैवादिकात्कर्तरि लङ् । 'कुषिरञ्जः प्राचां श्यन् परस्मैपदं च' इति कर्मकर्तरि वा । अत्र वारुणीदिनकरादिविशेषण महिनैव तयोर्जा रभाव. प्रतीतेः समासोक्तिरलंकारः ॥ गतवत्यराजत जपाकुसुमस्तबद्युतौ दिनकरेऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिवद्धमध्यमिव दिग्वलयम् ॥ ८ ॥ गतवतीति ॥ जपाकुसुमस्तबकयुतौ लोहितवर्णे दिनकरेऽवनतिमस्तहां गतवति सति । लम्बमाने सतीत्यर्थः । दिग्वलयं दिजाण्डलं, कंकणं च ध्वन्यते । बहलानुरगैः सान्द्ररागैः कुरुविन्ददलैः पद्मरागशकलैः प्रतिबद्धः प्रत्युतो मध्यो यस्य तदिद्वाराजतेत्युत्प्रेक्षा । 'कुरुविन्दस्तु सुस्तायां कुल्मापव्रीहिभेदयोः । इङ्गुदे पद्मरागे च मुकुलेऽपि समीरितः ॥' इति विश्वः ॥ द्रुतशातकुम्भनिभमंशुमतो वपुर्धमवपुषः पयसि । रुरुचे विरिश्चिनखभिन्नवृहजगदण्डकैकतरखण्डमिव ॥ ९ ॥ द्रुतेति ॥ दुतं तच्छातकुम्भं तपनीयम् । 'तपनीयं शातकुम्भम्' इति सुवर्णपर्यायेध्वमरः । तेन सदृशं तन्निभमिति नित्यसमासः । पयसि समुद्रोदके अर्ध यथा तथा मनं वपुर्यस्य तस्यांशुमतोऽर्कस्य मण्डलं विरिञ्चैर्ब्रह्मणो नखेन विभिन्नस्य द्वेधाविदलितस्य बृहतो महतो जगदण्डकस्य जगदाश्रयकोशस्य ब्रह्मा Page #228 -------------------------------------------------------------------------- ________________ २१६ शिशुपालवधे ण्डकस्यैकतरखण्डमन्यतरदलमिव रुरुचे रराज । अत्रोपमानस्य पुराणप्रसिद्धत्वादुपमालंकारः ॥ अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवमुं वियदालयादपरदिग्गणिका ॥ १०॥ अनुरागवन्तमिति ॥ अपरदिक् पश्चिमा सैव गणिका वेश्या अनुरागो लौहित्यमभिलाषश्च तद्वन्तमपि लोचनयोः सुखयतीति सुखं सुखकरं शान्तत्वा. दाभिरूप्याच्च दर्शनीयं वपुर्दधतमपीति अतापकरमनौष्ण्यादशठत्वाचासंतापकारिणं सुखस्पर्श वा तथाप्यपेतवसुं नीरश्मि निर्धनं च । 'देवभेदेऽनले रश्मौ वसू रत्ने धने वसु' इत्यमरः । रविः सूर्यो विटश्च गम्यते । तं वियदाकाशमेवालयो गृहं तस्मान्निरकासयन्निष्काशितवती । धनपरा हि वेश्या निर्गुणमपि धनिकमासर्वस्वहरणादत्यनुरक्तवदनुवर्तन्ते, गुणवन्तमपि हृतसर्वस्वं निर्वासयन्ति सद्य एवेति भावः । अस्तं गतोऽर्क इति श्लोकार्थः । अत्र वियदालयादपरदिग्गणिकेत्येकदेशरूपणाद्वेविटत्वरूपणावगमादेकदेशवर्ति रूपकं, श्लेषोऽपि तदुत्थापितत्वादनुराग एवानुरागो वसव एव च वसूनीति रूपकपर्यवसित एवेत्यङ्गम् ॥ अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया । विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदजनयनं नलिनी ॥११॥ अभीति ॥ नलिनी अभितिग्मरश्मि सूर्याभिमुखं चिरमाविरमादस्तमयादनिमेषतया अपक्ष्मपाततया । दलसंकोच एवात्र निमेपः । अवधानेनाभिमुखा. वस्थाननिर्बन्धेन खिन्नमलसम् । अत एव विगलनिःसरन्मधुव्रतकुलमेवाश्रुजलं यस्य तदन मेव नयनं न्यमिमीलत् मीलयति स्म । 'भ्राजभास-' इत्यादिना विकल्पादुपधाहस्वः । अत एव नाभ्यासदीर्घः । अनुरक्ता हि कान्ता कान्तमनिमेषं पश्यन्ती तदपाये सति निमीलिताक्षी स्यादिति भावः। अत्राप्यजनयन. मित्याद्यवयवरूपणादवयविनोनलिनीतिग्मरश्स्योर्नायिकानायकत्वरूपकसिद्धेरेकदेशविवर्ति रूपकम् ॥ अविभाव्यतारकमदृष्टहिमद्युतिविम्बमस्तमितभानु नमः । अबसन्नतापमतमिस्रमभादपदोपतैव विगुणस्य गुणः ॥ १२ ॥ अविभाव्येति ॥ अविभाव्यतारकमलक्ष्यनक्षत्रम् । अदृष्टं हिमातेरिन्दोबिम्बं यस्मिंस्तत् । अद्याप्यनुदितचन्द्रतारकमित्यर्थः । अस्तमित्यदर्शनेऽव्ययम् । अस्तमितोऽस्तं गतो भानुर्यस्मिंस्तत् । एतावता निर्गुणत्वमुक्तम् । अथ निर्दोष. त्वमाह-अवसन्नतापमास्तमयात्प्रशान्तसंतापम् । अतमिस्रमनुदितान्धकारं नभोऽन्तरिक्षमभागाति स्म । भातेलङ् । ननु विगुणस्य का शोभेति न वाच्यं, निर्दोषताया अपि गुणत्वादित्यर्थान्तरन्यासेनाह-विगुणस्य गुणहीनस्यापदोषता निर्दोषत्वमेव गुणः अतो गुणवत्वाच्छोभा युक्तेति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १ 'माविषय' इति पाठः. Page #229 -------------------------------------------------------------------------- ________________ नवमः सर्गः। रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः । ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः॥१३॥ ___ रुचीति ॥ रुचिधाम्नि तेजोनिधौ सूर्ये भर्तरि पत्यौ परलोकं देशान्तरमभ्युपगते, मृते च सति विमलाः शुद्धास्त्विषो ज्वलनं विविशुः । 'अग्निं वावादित्यः सायमनु प्रविशति' इति श्रुतेरिति भावः । अन्यत्र 'मृते या म्रियते पत्यौ सा स्त्री ज्ञेया पतिव्रता' इति स्मरणादिति भावः । अग्निप्रवेशफलमाह-इतरथा ज्वलनप्रवेशे अन्यजन्मनि जन्मान्तरे स एव स सूर्य एव पतिः, अन्यत्र तु योऽस्मिञ्जन्मनि पतिः स एव कथं सुलभः । न कथंचिदित्यर्थः । 'उद्यन्तं वावादित्यमग्निरनु समारोहति' इति श्रुतेः । तेनैव सह मोदत इति स्मरणादिति भावः । अतोऽग्निप्रवेशो युक्त इति समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ___ अथ संध्याप्रादुर्भावमाहविहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥१४॥ विहितेति ॥ जनतया जनसमूहेन । 'ग्रामजन-' इत्यादिना समूहाथै तलप्रत्ययः । विहिताञ्जलिः । कृतप्रणामेत्यर्थः । विकसत्कुसुम्भकुसुमवदरुणतां दधती राजसत्वादिति भावः । तदुक्तं 'सर्गाय रक्तं रजसोपबृंहितम्' इति । प्रसूत इति प्रसूर्माता। 'जनयित्री प्रसूर्माता' इत्यमरः । पितॄणां प्रसूः पितृप्रसूः असावियं संध्यारूपिणी आत्मभुवो ब्रह्मणस्तनुर्मूर्तिश्विरमुज्झिता त्यक्तापि प्रकृति स्वभावम् । जगहन्धत्वादिनिजधर्ममित्यर्थः । नौज्झत् न विससर्ज । 'उज्झ विसर्गे' लङ् 'आडजादीनाम्' इत्याडागमः 'आटश्च' इति वृद्धिः। भूतपूर्वोऽपि महाजनपरिग्रहः फलतीति भावः । 'पितामहः पितॄन्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । सा प्रातः सायमागत्य संध्यारूपेण पूज्यते ॥' इत्यादि भविष्यपुराणमत्र प्रमाणम् । अन्न तनुत्यागरूपका. रणसद्भावेऽपि प्रकृतित्यागरूपकार्यानुदयाद्विशेषोक्तिरलंकारः । 'तत्सामग्यामनुपत्तिविशेपोतिर्निगद्यते' इति लक्षणात् ॥ अथ सान्द्र सांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिदलद्धृदयतासृगनुलिप्तमिव ॥१५॥ अथेति ।। अथ संध्योदयानन्तरं सान्द्रा ये सांध्याः संध्यायां भवाः। 'संधिवेलातुनक्षत्रेभ्योऽण्' इत्यण्प्रत्ययः । तैः किरणैररुणितमरुणीकृतमत एव विरहाा विरहवेदनया दलतो दीर्यमाणाद्धृदयात्नुतेन क्षरितेनासृजा रुधिरेणानुलिप्तमिव स्थितमित्युत्प्रेक्षा । हरेर्विष्णोतिरायुधम् । चक्रमित्यर्थः । 'हेतिः शचे तु नृस्त्रियोः' इति केशवः । हरिहेतेहूतिरिव इतिराह्वा यस्य तद्धरिहेतिहूति । चक्राह्वमित्यर्थः । पततोः पत्रिणोः । 'पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः' इत्यमरः । मिथुभम् । चक्रवाकद्वन्द्वमित्यर्थः । पृथक् भेदेनोत्पपात उदडीयत ॥ शिशु० १९ Page #230 -------------------------------------------------------------------------- ________________ २१८ शिशुपालवधे निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥१६॥ निलय इति ॥ यदेव जले जन्म यस्य तजलजन्म जलजमेतदेव सततं श्रियो निलय आलय इति प्रथितं प्रसिद्धम् । 'निकाय्यनिलयालयाः' इत्यमरः । तदपि । नित्यवासभूतमपीत्यर्थः । तया श्रिया दिवसात्यये सायंकाले मुक्तम् । अहो देवानामपि कृतघ्नत्वं यदापदि महोपकारिणस्त्याग इत्याश्चर्यम् । अथवा चपला चापलबती स्त्री, कमला च । 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति विश्वः । सैव जन. अपलाजनः । 'जातेश्व' इति 'संज्ञापूरण्योश्च' इति चोभयत्रापि ध्वद्भावप्रतिषेधः । तं प्रति। तस्मिन्नित्यर्थः । अद इदं कृतघ्नत्वं चोद्यं चोदनीयं कथमित्याक्षेप्यं न । चपलत्वान्नाश्चर्यमेतदिति भावः । श्लेपमूलातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते बत मयाबलया । रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगंमि ॥१७॥ दिवस इति ॥ दिवसो वासरः । पुमानिति भावः । मित्रं सूर्य, सुहृदं चानु । मित्रेण सहेत्यर्थः । तृतीयार्थे' इत्यनोः कर्मप्रवचनीयत्वाद्वितीया । 'मित्रं सुहृदि मित्रोऽ' इति विश्वः । विलयं नाशमगमद्गतः । गमेलङि 'पुषादि-' इति च्लेरङादेशः। अबलया स्त्रिया मया रुचिभर्तुम्लेजोनिधेः प्रेमापदपतेश्चास्य सूर्यस्य विरहाधिगमात् । ल्यब्लोपे पञ्चमी । विरहज्ञानं प्राप्येत्यर्थः । इहारिमल्लोके किमास्यते किमर्थं स्थीयते। आसे वे लिट् । बतेति खेदे । इत्थमालोच्येवेत्यर्थः । अत एव उत्प्रेक्षा। संध्ययापि सपदि व्यगमि । व्यपागामीत्यर्थः । गमेः स्वार्थण्यन्ताद्भावे लुङ्। मित्त्वाद्रस्वः । 'अण्यन्तादुपधावृद्धिर्नायं स्याद्वेतु. मण्णिचि । तस्मात्स्वार्थे णिजुत्पाद्यो मितां ह्रस्वो यतो भवेत् ॥' विगमशब्दात तत्करोति-' इति ण्यन्ताल्लुङिति केचित् ॥ अथान्धकारं वर्णयतिपतिते पतङ्गमृगराजि निजप्रतिविम्बरोपित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ।। १८ ।। पतित इति ।। पतङ्गोऽर्क एव मृगराट् सिंह इति रूपकसमासः। तस्मिन्निजेन प्रतिबिम्बेन रोषिते कोपित इवेत्युत्प्रेक्षा । स्वप्रतिविम्बे प्रतिसिंह भ्रमादिति भावः । अत एवाम्बुनिधौ पतिते सति । तजिघांसयेति भावः । भावलक्षणसप्तमी। अशाप्सु पतनानन्तरं नागयूथानि करिकुलानीव मलिनानि श्यामानि । 'उपमानानि सामान्यवचनैः' इति समासः । तमांसि जगल्लोकं परितः परितम्तरिरे आच्छादया. मासुः । स्तृणातेः कतरि लिट् । 'ऋतश्च संयोगादेर्गुणः' । अत्र यद्यपि नागयूथमलिनानीत्युक्त्यानुशासनसिद्धोपमानुसारात्पतङ्गमृगराजीत्यत्राप्युपमितसमासाश्रयणे १ 'व्यशमि' इति पाठः. Page #231 -------------------------------------------------------------------------- ________________ सर्गः । २१९. नोपमैवोचिता; तथापि तदुत्प्रेक्षायाः पतङ्गेऽसंभवात् सिंहे संभवाच्च रूपकमेव युक्तम् । तथा च रूपकानुप्राणितोत्प्रेक्षेयमुपमेति च संकरः । तत्रोत्प्रेक्षया भ्रान्तिमदुपमया रूपकं च व्यज्यत इत्यलंकारेणालंकारध्वनिरिति संक्षेपः ॥ व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि । दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ १९ ॥ नवमः व्यसरदिति ॥ बहलपङ्करुचि सान्द्रकर्दमच्छवि दिवसावसाने दिनान्ते पटुनः समर्थस्य तमसः पटलं भूधरगुहानामन्तरतोऽभ्यन्तरादेत्यागत्य बहिर्गवाक्षप्रदेशे व्यसन्नु विस्तृतं वा, बहिर्बाह्यदेशादेत्य गुहा अधिकं भृशमभक्त व भजते स्म । किं प्रविष्टं वेत्यर्थः । भजतेर्लुङि तङ् 'झलो झलि' इति सकारलोपः । अत्र व्यापकत्वसादृश्यात्तमसोऽन्तर्बहिरपादानकत्व संदेहात्संदेहालंकारः ॥ किमलम्बताम्बरविलग्नवधः किमवर्धतोर्ध्वमवनीतलतः । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥२०॥ ॥ युग्मम् ॥ किमिति ॥ प्रचुभवहुलीभवत्तमः कर्तृ, किमम्बरविलग्नमाकाशस्थं सत् अधो भूतलं प्रति अलम्बतास्रंसत किमिव अवनीतलतो भूतलादूर्ध्वमुपरिष्टादवर्धत किम् । अथ दिग्भ्यस्तिर्यग्विससार विस्तृतमिति न निरधारि । अधोलम्बनादीनामन्यतमं नावधारितमित्यर्थः । धारयतेः कर्मणि लुङ् । अत्रापि पूर्ववत्संदेहालंकारः ॥ स्थगिताम्बर क्षितितले परितस्तिमिरे जनस्य दृशमन्धयति । दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ २१ ॥ अत्र स्थगितेति ॥ स्थगिते तिरोहिते अम्बरक्षितितले येन तस्मिंस्तिमिरे परितो जनस्य दृशमन्धयति अन्धां कुर्वति सति सुदृशः स्त्रियोऽपूर्वं नूतनं रसाञ्जनं रसं रागमेवाञ्जनं सिद्धाञ्जनं च दधिरे दधुः । अतो हेतोः प्रियवेश्मवर्त्म ददृशुः । रसाञ्जनवाक्यार्थेन प्रियवेश्मदर्शनसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तेन रसः सिद्धाञ्जनमिवेत्युपमाध्वननालंकारेणालंकारध्वनिः ॥ अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसंतमसम् । सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ २२ ॥ अवधायेति ॥ सान्द्रतमं यत्संतमसं व्यापकं तमः । ' विष्वक्संतमसम् -' इत्यमरः । ‘अवसमन्धेभ्यस्तमसः' इति समासान्तोऽच् प्रत्ययः । तत्कर्तुं सुतनोः शुभाया दयितोपगमे प्रियाभिसरणे कार्यगुरुतां संभोगकार्यस्यावश्यकत्वमवधार्य निश्चित्य भयाय नाभवत् । स्तनौ कुचौ च तनुः कृशो यो रोमराजेः पन्थाः रोमराजिपथो मध्यभागस्तस्य वेपथवे कम्पाय | 'द्वितोऽथुच्' इत्यथुच् प्रत्ययः । नाभवतामिति विपरिणामेनानुषङ्गः । कार्यासक्तस्य तत्रापि कामुकस्य कुतो भयं क्लेश Page #232 -------------------------------------------------------------------------- ________________ २२० शिशुपालवधे गणना चेति भावः । अत्र संतमसकुचयोः कामनिमित्ते भयकम्पानुदये कार्यगौर. वावधारणहेतुकत्वोत्प्रेक्षेयमनेन व्यज्यते ॥ ददृशेऽपि भास्कररुचाहि न यः स तमीं तमोभिरभिगम्य तताम् । द्युतिमाहीद्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ २३ ॥ ददृश इति ॥ यो ग्रहगणोऽहनि सवितुस्त्विषा न ददृशे नेक्षितः स ग्रहगणस्तमोभिस्ततां व्याप्तां ताम्यन्त्यस्यामिति तमी रात्रिम् । 'रजनी यामिनी तमी' इत्यमरः । अभिगम्य प्राप्य द्युतिमग्रहीत् । ग्रहे ङि 'ग्रहोऽलिटि' इति इटो दीर्घत्वेऽपि स्थानिवत्त्वेनेट्त्वात्सिचो लोपे सवर्णदीर्घः । तथा हि लघवोऽल्पाः । 'त्रिविष्टेऽल्पे लघुः' इत्यमरः । मलिनाश्रयतो निकृष्टाश्रयणात्प्रकटीभवन्ति ! अर्थान्तरन्यासः॥ अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः। समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ २४ ॥ अनुलेपनानीति ॥ तेन समयेन प्रदोषकालेन का, अनुलेपनानि कुङ्कुमचन्दनादीनि कुसुमानि माल्यादीनि तथा पतिषु कृतमन्यवः कृतकोपा अबलाः स्त्रियः तथा दीपशिखाः दीपज्वालाश्चेत्येतानि सर्वाणि चिरं सुप्तस्य पूर्व स्तब्धस्य मनोभवस्य कामस्य बोधनमुद्दीपनं यस्मिन्कर्मणि तद्यथा तथा । तत्पूर्वकमित्यर्थः । इतरथा अनुलेपनादिबोधकस्य वैफल्यासंभवाच्चेति भावः । समं सहैवाबोधिषत बोधितानि । बुध्यतेय॑न्तात्कर्मणि लुङ् । अत्र गन्धमाल्यसंपादनस्त्रीमनःप्रसाद दीपशिखोत्पादनानामबोधिषतेत्येकेन श्लिष्टशब्देनाभिधानाच्छेषमूलाभेदाध्यवसायरूपातिशयोक्तिरेका। तथा सुप्तमनोभवबोधनमिति क्रियाविशेषणसामर्थ्यात्सममिति यौगपद्याभिधानाञ्च मनोभवबोधनया कार्यकारणभूतयोस्तद्विपर्ययरूपापरा। तदुभयापेक्षया गन्धमाल्यादीनां प्रस्तुतानामवबोधनरूपैकधर्मसंबन्धात्तु. ल्ययोगिताभेदश्चेति संकरः ॥ अथ चन्द्रोदयवर्णनं प्रारभतेवसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥२५॥ वसुधेति ॥ अथ मनःप्रसादानन्तरं वसुधान्तेन भूप्रान्तेन निःसृतं बहिर्निर्गतमहिपतेः शेषस्य फणामणिसहस्राणां रुचां भासां पटलं स्तोम इवेत्युत्प्रेक्षा। शीतरुचश्चन्द्रस्य संबन्धि स्फुरदुल्लसदंशुजालं मघोन इमां माधवनी माहेन्द्रीम् । 'मघवा बहुलम्' इति विकल्पान्न आदेशः। ककुभं दिशं समस्कुरुताभूषयत् । प्राच्यां दिशि चन्द्रकिरणजालमलक्ष्यतेत्यर्थः । 'संपर्युपेभ्यः करोतौ भूषणे' इति संपूर्वस्य सुडागमः 'अडभ्यासव्यवायेऽपि' इति नियमात् ॥ १ दशाः' इति पाठः. Page #233 -------------------------------------------------------------------------- ________________ नवमः सर्गः। २२१ विशदप्रभापरिगतं विवभावुदयाचलव्यवहितेन्दुवपुः । मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः॥२६॥ विशदेति ॥ विशदप्रभापरिगतं शुभ्रकान्तिव्याप्तम् । उदय इति अचलः । उदयः पूर्वपर्वतः' इत्यमरः । तेन व्यवहितमिन्दुवपुरिन्दुमण्डलं यस्मिञ्छक्रदेशः प्राच्या मुखमग्रभागः वक्रं च प्रतीयते तदभेदेनोत्प्रेक्ष्यते । अप्रकाशदशनमलक्ष्यदन्तं सविलासहासं सविलासस्मितमिव शनकैर्मन्दं विबभौ ॥ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । अणमभ्यपद्यत जनैन मृपा गगनं गणाधिपतिमूर्तिरिति ॥ २७ ॥ कलयेति ॥ पुरः प्राच्यमग्रभागे च तुषारकिरणस्येन्दोः कलया किरणेन अन्यत्रोपलक्षितं परिमन्दमल्पं भिन्ना विदलितास्तिमिरौघा एव जटा यस्य तत् गगनं न मृषा सत्यम् । गणाधिपतेः प्रमथपतेरीश्वरस्य । 'गणाः प्रमथसंख्यौघाः' इनि वैजयन्ती। मूर्तिरिति जनैः क्षणमभ्यपद्यत । गगनमष्टानां शिवमूर्तीनामन्यतममिति यत्तत्सत्यमभिपन्नमित्यर्थः । कलामात्रोदितश्चन्द्र इति फलितोऽर्थः । रूपकालंकारः ॥ नवचन्द्रिकाकुसुमकीर्णतमःकवरीभृतो मलयजामिव ।। ददृशे ललाटतटहारि हरेहरितो मुखे तुहिनरश्मिदलम् ॥ २८ ॥ नवेति ॥ नवचन्द्रिकाभिरेव कुसुमैः कीर्णं तम एव कबरी केशपाशः । जानपद-' इत्यादिना ङीप् । तां बिभर्तीति तद्भुतः हरेः शक्रस्य हरितो दिशो मुखेऽग्रभाग एव मुखं वक्रमिति श्लिष्टरूपकम् । तस्यैव ललाटतटवद्धारि मनोहरं हिमरश्मिदलमिन्दुखण्डं मलयजेन चन्दनेनामिव ददृशे । धावल्यादिति भावः । अत्र नवचन्द्रिकाकुसुमेत्यायेकदेशविवर्तिरूपकमहिम्ना हरिवधूत्वप्रतीतौ तत्सहकृतश्लेपावगतवत्राभेदाध्यवसितमुखसंबन्धप्रसादासादितललाटतटोपमोज्जीवनेनेन्दुदलस्यानुपात्तनिजधावल्यगुणनिमित्तमलयजाईत्वगुणस्वरूपोत्प्रेक्षेति संकरः ।। प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः। दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥२९॥ प्रथममिति ॥ हिमदीधितिश्चन्द्रः प्रथमं कला कलामात्रमभवत् । 'कला नु पोडशो भागः' इत्यमरः । अथार्धमात्रमभवत् । अथो अनन्तरम् । 'अथो अथ' इत्यमरः । उदितः साकल्यादुत्थितः सन् अमहान्महान्संपद्यमानोऽभून्महदभूत् । अभूततद्भावे च्विः । हलन्तत्वान्न कार्यान्तरप्राप्तिः । तथा हि द्युतिशालिनस्तेजिष्टा अपि क्रमशः क्रमेणैवोपचयं वृद्धिं दधति, सहसा झटिति तु न दधति ध्रुवम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ उदमजि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनातिना ॥३०॥ Page #234 -------------------------------------------------------------------------- ________________ ૨૨૨ शिशुपालवधे उदमजीति ॥ अपनिद्रपाण्डुरसरोजरुचा विकसितसितपुण्डरीकश्रिया तुहिनातिना चन्द्रेण प्रथमं हरेः पूर्वमेव प्रबुद्धायाः । अन्यथा तन्मुखं न दृश्यतेति भावः । नदराजसुतायाः सिन्धुकन्यायाः श्रियो वदनेन्दुनेवेत्युत्प्रेक्षा । कैटभजितो हरेः शयनात् । समुद्रादित्यर्थः । उत्तोत्प्रेक्षामंभावनार्थमित्थं निर्देशः । उदमजि उन्मन्नम् । उत्थितमित्यर्थः ॥ अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घन्य शशिदाशरथिः । परिवारितः परित ऋक्षगणेस्तिमिरौघराक्षसकुलं विभिदे ।।३१।। अथेति ॥ अथोदयानन्तरं लक्ष्मणा लाञ्छनेन, लक्ष्मणन सौमित्रिणा वनगतमनुसृतं कान्तं वपुर्यस्य सः । लक्ष्मणानुगतकान्तवपुरिति शब्दश्लेपः । वस्तुतः शब्दभेदेनार्थद्वयाभावेऽपि जतुकाष्टवदेकशब्दप्रतीतेः । परितः समन्तादृक्षगणैर्नक्षत्रगणैः, जाम्बवदादिभल्लूकसमूहै श्वेत्यर्थश्लेषः । एकनालावलम्बिफलद्धयवदरखण्डैकशब्दादर्थद्वयप्रतीतेः । 'नक्षत्रमृशं भं तारा' इति । 'ऋक्षाच्छमल्लभल्लका' इति चामरः। परिवारितः शश्येव दाशरथिदशरथपुत्रो रामः । अत इन। जलधिं विलङ्घय तिमिरोध एव राक्षसकुलं तत् बिभिदे विभेदयामास । भिदेः कर्तरि लिट् । पसंकीर्णसमस्तवस्नुवर्तिमावयवरूपकालंकारः ॥ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिबोइपतेः। घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ||३|| उपजीवतीति ॥ अम्भसां निधिः समुद्रो वणिगिव सततं परिमुतां सौन्दर्यम् , अन्यत्र मौढ्यम् । व्यवहारानभिज्ञतामिति यावत् । 'मुग्धः सुन्दरमूढयोः' इति विश्वः । दधतो दधानस्य घनानां वीथिर्घनवीथिरन्तरिक्षं सा वीथि: पण्यवीथिरिवेत्युपमितसमासः । तामवतीर्णवतः प्रविष्टवत उद्धपतेर्नक्षत्रनाथस्य कस्यचिद्धनिकवणिजश्च कलाः पोडशांशान्मूलधनवृद्धीश्च । 'कला स्यान्मूलरैवृद्धी शिल्पादावंशमात्रके । पोडशांशेऽपि चन्द्रस्य' इति विश्वः । उपचयारा स्वाम्बुवृद्धये समृद्धये चोपजीवति स्म सेवते स्म । अन्यत्र लभते म्मेत्यर्थः । यथा क्रियादिकुशलो ह्यकुलान्महान्तं लाभमाप्नोति तद्वदिति भावः । श्लेषसंकीणे. यमुपमा । उपमासंकीर्णः श्लेष इत्यन्ये ॥ रजनीमवाप्य रुचमाप शशी सपदि व्यभूपयदसावपि ताम् । अविलम्बितक्रममहो महतामितरेतरोपकृतिमचरितम् ।। ३३ ।। रजनीमिति ॥ शशी रजनीमवाप्य रुचं शोभामाप । असौ शश्यपि तां रजनी सपदि व्यभूषयत् । महतां सतां चरितमविलम्बितक्रमं यथा तथा इतरे. तरोपकृतिमत् अन्योन्योपकारवत् अहो इत्यविलम्बादाश्चर्यम् । अत्र रजनीशशिनोर्मिथःशोभाकरत्वादन्योन्यालंकारः । तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्' इति लक्षणात् । तत्समर्थकश्वायमर्थान्तरन्यास इत्यङ्गाङ्गिभावेन संकरः ।। Page #235 -------------------------------------------------------------------------- ________________ नवमः सर्गः। २२३ दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः। ... मुहुरामृशन्मृगधरोऽग्रकरैरुदशिश्वसत्कुमुदिनीवनिताम् ॥ ३४ ॥ दिवसमिति ॥ मृगधरश्चन्द्रो दिवसम् । दिवस इत्यर्थः । कालाध्वनोरत्यन्तसंयोगे द्वितीया । भृशमुष्णरुचेरुष्णांशोः पादेन करेण, अडिणा च । 'पादा रश्म्यडिन्तुर्यांशाः' इत्यमरः । हतां ताडिताम् । अत एवानवरतैरविच्छिन्नैरलिरुतै रुदती क्रन्दन्तीमिव स्थितां कुमुदिन्येव वनिता ताम् । अग्राणि च ते कराश्च इत्य. भेदेन समास इति वामनः । तैरग्रकरैरांशुभिरग्रहस्तैर्मुहुरामृशन्स्पृशन् उदशिश्वसदुच्छ्वासयति स्म । परावमृष्टानां पतिभिराश्वासनीयत्वादिति भावः । श्वसधातोः ‘णौ चङयुपधाया ह्रस्वः' । अत्र पाद एव पादस्तेन हतामिति हननसाधितश्लिष्टरूपकोत्थापितेयमलिरुतैरिति व्यधिकरणपरिणामगर्भा रोदनोत्प्रेक्षति विजातीयसंकरः । तथा करैरेव करैः कुमुदिनीवनितेति श्लिष्टाश्लिष्टरूपणान्मृगधरे वल्लभत्वप्रतीतेरेकदेशवर्तिरूपकं तत्सापेक्षेयमुदशिश्वसदिति गम्योत्प्रेक्षेत्यपरो विजातीयसंकरः । रोदनोत्प्रेक्षासापेक्षेयमुच्छासनोत्प्रेक्षेति सजातीयसंकरोऽपि ॥ प्रतिकामिनीति ददृशुश्चकिताः सरजन्मधर्मपयसोपचिताम् । सुदृशोऽभिभ शशिरश्मिगलज्जलविन्दुमिन्दुमणिदारुवधूम् ॥३५॥ प्रतीति ॥ सुदृशोऽङ्गनाः अभिभर्तृ भर्तारमभि । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । शशिरश्मिभिर्गलन्तः स्रवन्तो जलबिन्दवो यस्यास्तामिन्दुमणिश्चन्द्रकान्तशिला सैव दारु तस्य वधूस्तन्मयी वधूः स्त्रीप्रतिमां तां स्मराजन्म यस्य तेन स्मरजन्मना धर्मपयसा स्खेदाम्बुनोपचितां व्याप्ताम् । स्विन्नगात्रामित्यर्थः । प्रतिकूला कामिनी प्रतिकामिनी। सपत्नीति भ्रान्त्येति शेषः । चकिता भीता ददृशुः । अथ चन्द्रशिलापुत्रिकायां सादृश्यनिबन्धनया प्रतिकामिनीभ्रान्त्या भ्रान्तिमदलंकारः ॥ अमृतद्रवैर्विदधदजदृशामपमार्गमोपधिपतिः स्म करैः। परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥३६॥ अमृतेति ॥ ओषधिपतिश्चन्द्र एवौषधिपतिवैद्य इति श्लिष्टरूपकम् । अमृ. तमेवामृतमौषधविशेषः । तेन वैराः करैः किरणैरेव करैर्हस्तरजदृशामपमार्गमङ्गपरिमार्जनं विदधत् कुर्वन् परितो विसर्पि सर्वव्यापि भृशं परितापि संता. पकारि मानः कोप एव विषं तत् वपुषः शरीरादवतारयति स्म अवारोपितवान् । अत्र सावयवरूपकेणौषधलिप्तजाङ्गुलिकहस्तसंस्पर्शाद्विषमिव निशाकरकरस्पर्शादेवाङ्गनानां वपुषि रोषो न स्पृष्ट इत्युपमा व्यज्यते ॥ अमलात्मसु प्रतिफलनभितस्तरुणीकपोलफलकेषु मुहुः। विससार सान्द्रतरमिन्दुरुचामधिकाव भानसितदिशां निकरः॥३७॥ अमलेति ॥ अधिकमवभासिताः प्रकाशिता दिशो याभिस्तासामिन्दुरुचां Page #236 -------------------------------------------------------------------------- ________________ २२४ शिशुपालवधे निकरोऽमलात्मसु निर्मलमूर्तिषु तरुणीनां ये कपोलाः फलकानीव तेप्वभितो मुहुः प्रतिफलन्त्संक्रामन् सान्द्रतरं प्रचुरतरं विससार । दर्पणसंक्रमणादिवेति भावः । अत्रेन्दुरुचां कपोलासंक्रमेऽपि संक्रमोक्तेरसंबन्धे संबन्धोक्तिरूपातिशयोक्तिः ॥ उपगूढवेलमलघूमिभुजैः सरितामचुक्षुभदधीशमपि । रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥३८॥ उपगूढेति ॥ रजनीकरश्चन्द्रः अलघुभिरूमिभिरेव भुजैरुपगूढा वेला येन तम् । सावष्टम्भमिति भावः । सरितामधीशं समुद्रमपि। स्वभावादक्षोभ्यमपीति भावः । अचुक्षुभत्क्षोभयति स्म । क्षुभ्यतेय॑न्ताल्लुङ् ‘णौ चङयुपधाया इस्वः' । अनङ्गेन लघु गतसारं यदव एव रागिणस्तेषां गणमचुक्षुभदित्यदः किमिव चित्रम् । न किंचिदित्यर्थः । अत्राक्षोभ्यमब्धि क्षोभयतश्चन्द्रस्य दण्डापूपिकन्यायादन्यक्षोभकत्वोक्तेरापत्तिरलंकारः॥ भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः। अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥३९॥ भवनेति ॥ परिमन्दतया एकाकित्वादसमर्थतया भवनोदरेषु गृहाभ्यन्तरेषु शयितः सुप्तोऽत एवालसो मदनो जालकमुखोपगतान्गवाक्षविवरप्रविष्टान् अत एव स्फटिकयष्टीनां रुगिव रुक् शोभा येषां तान्स्फटिकदण्डसंनिभानिन्दुकिरणानवलम्ब्यावष्टभ्योदतिष्टदुत्थितः । अत्रोद्बोधोत्थानयोरभेदविवक्षया 'उदोऽनूर्ध्वकर्मणि' इति परस्मैपदसिद्धिः । एतत्पदे चाभेदाध्यवसायमूलातिशयोक्त्या स्फटिकयष्टिरुच इत्युपमया च अवलम्ब्येत्यत्रावलम्ब्येवेत्युत्थानस्यावलम्बनहेतुकत्वोत्प्रेक्षा प्रत्याय्यत इत्येतासां संकरः ॥ अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा। उदिते दिशः प्रकटयत्यमुना यदधर्मधानि धनुराचकृषे ॥ ४० ॥ __ अविभावितेष्विति ॥ मदनोऽपि प्रथमं चन्द्रोदयात्प्राक् तमसा अविभावितोऽलक्षितः इपुविषयो बाणलक्ष्यं येन सोऽभवत् । नूनमित्युत्प्रेक्षा । यद्यस्मादधर्मधाम्नि शीतकरे उदिते दिशः प्रकटयति सति अमुना मदनेन धनुराचकृषे आकृष्टम् । चन्द्र एव महानुद्दीपको मदनस्याभूदिति भावः ॥ युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत । द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ॥४१॥ युगपदिति ॥ पुष्पधनुः पुष्पधन्वा । 'वा संज्ञायाम्' इति विकल्पान्नानडादेशः । तस्य धनुः पुष्पचापं, पुष्पान्तरं च तस्माच्चलितो निःसृतः शिली शल्यं मुखं येषां ते शिलीमुखा बाणाः, अलयश्च । 'अलिबाणौ शिलीमुखौ' इत्यमरः । तेषां गणः शशिन उदयाद्विकासमौत्सुक्यं, उन्मीलनं च युगपदेकदा गमिते प्रापिते अङ्गनानां मनसि हृदये कुमुदे चावसरमवकाशमाश्वासमलभत । उभयत्र प्रवेशं Page #237 -------------------------------------------------------------------------- ________________ नवमः सर्गः। २२५ लब्धवानित्यर्थः । अत्र चन्द्रोदये कुमुदकामिनीहृदययोरपि प्रकृतयोः शिलीमुखप्रवेशलक्षणैकधर्मयोगादौपम्यात्तुल्ययोगिता एकधर्मत्वं चात्र शिलीमुखेति श्लिष्ट पदोपात्तयोरलिबाणयोरेकत्वाध्यवसायमूलातिशयोक्तिप्रसादादिति संकरः ॥ ककुभां मुखानि सहसोज्वलयन्दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेपुमत्रिनयनप्रभवः ॥ ४२ ॥ ककुभामिति ॥ ककुभां दिशां मुखानि सहसा झटित्युज्वलयन्नुद्भासयन् रतये सुरताय अधिकमाकुलत्वमौत्सुक्यं दधत् । यूनामिति शेषः । अन्यत्र रतये कामदेव्यै आकुलत्वं भयविह्वलत्वं दधत् । अत्रेरनिमुनेनयनप्रभवः । 'अत्रिनेत्रसमुद्भवः' इति पुराणात् । त्रिनयनप्रभवो न भवतीत्यत्रिनयनप्रभवः । अपरस्त्रिनयन प्रभवादन्यो दहनोऽग्निरिन्दुः । कुसुमेघु काममदिदीपद्दीपयति स्म । दीप्यतेों चङि 'भ्राज-' इत्यादिना विकल्पान्नोपधाहस्वः। अत्र प्रकृते कुसुमेषोर्दीपनं नाम प्रवर्धनं तस्य तत्र प्रतीयमानेन प्रज्वलनेनाभेदाध्यवसायात्तन्निमित्तमिन्दोर्दिङ्मुखो. द्वासनादिधर्मसंबन्धादपरोऽयं दहन इत्यपरशब्दप्रयोगसामर्थ्यादहनत्वोत्प्रेक्षा न रूपकमिति रहस्यम् । चन्द्रोदयात्कामो ववृधे इति तात्पर्यम् ॥ ___ एवं चन्द्रोदयाख्यमुद्दीपनविभावनमुक्त्वा तत्फलमाह-- इति निश्चितप्रियतमागतयः सितदीधितावुदयवत्यबलाः। प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ४३ ।। इतीति ॥ इत्येवं सितदीधितावुदयवति अबलाः स्त्रियो निश्चिता प्रियतमानामागतिरागमनं याभिस्ताः सत्यः प्रतिकर्म प्रसाधनं कर्तुमुपचक्रमिरे । 'प्रतिकर्म प्रसाधनम्' इत्यमरः । चन्द्रोदयात्प्रियागमनं निश्चित्य अलंकर्तुं प्रक्रान्ता इत्यर्थः । तथा हि-समये कार्यकाले कृतमनुष्टितं सर्वं कर्म उपकार्युपकारकं भवति । अन्यथा विफलमेवेति भावः । अतो निश्चित्य प्रवृत्तिरासां युक्तेत्यर्थान्तरन्यासः ॥ __अथ प्रसाधनमेव प्रपञ्चयतिसममेकमेव दधतुः सुतनोरुरुहारभूषणमुरोजतटो। घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ॥४४॥ सममिति ॥ सुतनोः स्त्रिया उरोजतटौ उरु श्लाध्यमेकमेव भूषणं सममवैषम्येण दधतुः । संहततया संश्लिष्टतया, ऐकमत्येन च जनितां निर्विवरतां निरन्तरालता, नीरन्ध्रत्वं च दधतोरिदं शमभागित्वमेव घटते । अन्तर्भेदान्तराया हि विषयिणां विपयोपभोगाः कुचयोस्तदभावात्ममशोभार्थं हारधारणं युक्तमिति भावः ॥ कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति । रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ४५ ॥ कदलीति ॥ वधूः कदलीप्रकाण्डरुचिरे रम्भास्तम्भसुन्दरे । उरुरेव तरुबन्धनवृक्षो यस्मिन् । अत्र कदलीकाण्डस्य सौन्दर्यमानोपमानत्वान्न बन्धनयोग्यवृक्ष Page #238 -------------------------------------------------------------------------- ________________ २२६ शिशुपालवधे वाचिना तरुशब्देन पुनरुक्तिः । महति जघनस्थल्येव परिसरः प्रदेशस्तस्मिन्रशनाकलापक एव गुणस्तेन मकरध्वजो मदनः स एव द्विरदस्तमाकलयदबध्नात् । रशनाबन्धेन जघनमतीव मदनोद्दीपकमासीदित्यर्थः । समस्तवस्तुवर्ति सावयवरूपकम् ॥ अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोधरजः । नवमञ्जनं नयनपङ्कजयोविभिदे न शङ्कनिहितात्पयसः॥४६॥ __ अधरेष्विति ॥ सुदृशामधरेष्वोष्टेषु अलक्तकरसो लाक्षाद्रवः तथा कपोलभुवि गण्डस्थले विशदं शुभ्रं लोध्ररजः तथा नयनपङ्कजयोनवमञ्जनं च शङ्खनिहितात्पयसः क्षीरान्न बिभिदे भिन्नं नाभूत् । कर्मकर्तरि लिद । अधरादिनिहितं लाक्षारागादिकं शङ्खनिहितक्षीरवत्सावादाश्रयतोऽभेदेन दुर्ग्रहमभूदित्यर्थः । अत्र यदधरालक्तकरसादिकं तच्छङ्घनिहितं क्षीरमित्येकवाक्यतया वाक्यार्थे वाक्यार्थसमारोपादसंभवद्वस्तुसंबन्धो वाक्यार्थनिष्ठो निदर्शनालंकारः । तेनाधरालक्तकादीनां गुणत एकत्वरूपः सामान्यालंकारो गम्यते । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ स्फुरदुज्वलाधरदलैर्विलसद्दशनांशुकेशरभरैः परितः । धृतमुग्धगण्डफलकैर्विवभुर्विकसद्भिरास्सकमलैः प्रमदाः ॥४७॥ स्फुरदिति ॥ प्रमदाः स्त्रियः स्फुरन्तश्चलन्तः उज्वलाश्चामला अधरा ओष्टा एव दलानि पत्राणि येषां तैः परितो विलसन्तो दशनांशवो दन्तकान्तय एव केशरभराः किंजल्कपुञ्जा येषां तैः । तानि मुग्धानि गण्डा एव फलकानि कर्णिका येषां तैर्विकसद्भिरास्यकमलैर्विबभुः । अजास्यकमलैरिति रूपणात्प्रमदा एव सरस्य इति सिद्धेरेकदेशविवर्ति सावयवरूपकम् । 'आस्यकुमुदैः' इति पाठे कुमुदस्य मुखोपमानत्वं कविसमयविरुद्धं ज्ञेयम् ॥ भजते विदेशमधिकेन जितस्तदनुप्रवेशमथ वा कुशलः। मुखमिन्दुरुज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥४८॥ भजत इति ॥ अधिकेन प्रबलेन जितो विदेशं देशान्तरं भजते, अथवा कुशल: कार्यचतुरः तदनुप्रवेशं भजते। तमेव शरणतया प्रविश्य जीवतीत्यर्थः। अतो हेतोरिन्दुरुज्वलौ कपोलौ यस्य तदिति मुखस्य बिम्बग्रहणयोग्यतोक्तेः पदार्थहेतुकं काव्यलिङ्गम् । सुदृशां मुखं प्रतिमाच्छलेन प्रतिबिम्बव्याजेनाविशत्प्रविष्टः । साक्षाचन्द्र एवायं न प्रतिमाचन्द्र इति छलशब्दात्प्रतीतेः छलशब्देनासत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः पूर्वोक्तकाव्यलिङ्गसापेक्ष इति संकरः । तेन कपोलयोर्लोकोत्तरं लावण्यं दर्पणौपम्यं च व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटे महति । इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुताम् ॥ ४९ ॥ Page #239 -------------------------------------------------------------------------- ________________ नवमः सर्गः। २२७ ध्रुवमिति ॥ मदनेषवः कामशराः महति कठिने कुचतटे प्रतिहतिं प्रतिघातमागताः प्राप्ता एव । यद्यस्मादरिम्णा निजभारेण ग्लपितं कर्शितमवलग्नं मध्यं येन तदिदं कुचतटमितराङ्गेन तुल्यमितराङ्गवत् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । तनुतां कार्य नागमन्नाभजत् । पुषादिसूत्रेण च्लेरङादेशः। तदा सदनेपुपातात्कुचातिरिक्तमङ्गनानामङ्गं कृशमासीदित्यर्थः ॥ न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति । गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ ५० ॥ न मनोरमास्विति ॥ प्रियतमे गृहभेष्यति आगमिप्यति सति विशेषविदामपि सुदृशां सम्यग्दर्शनीयानां स्त्रीणां मनः कर्तृ मनोरमास्वपि वसनाङ्गरागसुमनःसु बस्वगन्धमाल्येपु इदमेतदिति इदं पुरोवर्ति वस्त्वेतदिति वसनमिति, अनुलेपनमिति, सुमनस इति, विशेषाकारेण तथा योग्यमस्माकं धारणाहमिति च न निरचेष्ट न निरधारयत् । प्रियागमनहर्षातिरेकादितिकर्तव्यतामूढमभूदित्यर्थः । चिनोतेलुङि तडि च्लेः सिच् 'सार्वधातुकार्धधातुकयोः' इति गुणः । हर्पोऽत्र संचारिभावः । निश्चयसंबन्धेऽप्यसंबन्धोतरतिशयोक्तिः सुमनः सुमन इति यमकविशेषश्चेति संसृष्टिः ॥ वपुरन्वलिप्त परिरम्भसुखव्यवधानमीरुकतया न वधः। क्षममस्य बाहमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥५१॥ वपुरिति ॥ वधूः स्त्री परिरम्भसुखव्यवधानभीरुकतया आलिङ्गनसुखविच्छेदभीरुत्वेन । 'क्रुकन्नपि वक्तव्यः' इति क्रुकन्प्रत्ययः । वपुर्नान्वलिप्त नानुलिसवती । अङ्गरागमात्रव्यवधानमपि न सहत इत्यर्थः । लिम्पतेः कर्तरि लुडि सङ् । तथा हि अदो वपुः प्रियसंगमेषु अनवलेपमचन्दनमगवं चेति यत् । अवलेपस्तु गर्वे स्याल्लेपने भूपणेऽपि च' इति विश्वः । इदमानवलेपनत्वमेवास्य वपुपो बाढं भृशं क्षमं युक्तम् । लेपानुप्राणितोऽयमर्थान्तरन्यासः ॥ निजपाणिपल्लवतलम्खलनादमिनासिकाविवरमुत्पतितैः। अपरा परीक्ष्य शनमुमुद्दे मुखवासमास्यकमलश्वसनैः ॥ ५२ ।। निजेति ॥ अपरा खी निजपाणिपल्लनतलस्य स्खलनाभिघातादभिनासिकाविवरं नासारन्ध्र प्रति उत्पतितैरास्यकमलस्य श्वसनैमुखमारुतैर्मुखवासं मुखबासनां शनकैः परीक्ष्य मुमुदे । इयं वासकसज्जिका नायिका ॥ विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति । हिमधाग्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगशो ददृशुः॥५३।। विधृत इति ॥ दिवा आकाशेन सव्यसा वयस्यथा च पुरोऽग्रे विटते विधारिते परिपूर्णमण्डलविकाशं बिम्बशोभां विभीति तमृत्तस्मिन्हिमधाम्नि चन्द्रे दर्पणतले च मृगदृशः स्त्रियः स्वमुखश्रियम् । पूर्वत्रोपमानभूतामुत्तरत्रोपमेयभूतां Page #240 -------------------------------------------------------------------------- ________________ २२८ शिशुपालवधे चेत्यर्थः । मुहुर्ददृशुः । औपम्यपरीक्षार्थमिति भावः । अत्रान्यश्रियोऽन्यत्रासंभवाचन्द्रे तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना । तथा चन्द्रदर्पणयोद्युसवयसोश्च यथासंख्यमन्वयाद्यथासंख्यालंकारश्च । तदुभयापेक्षया चन्द्रदर्शनयोमुखश्रीदर्शनस्थानत्वेन प्रस्तुतयोरेवौपम्यस्य गम्यत्वात्तुल्ययोगितेति संकरः ॥ अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् । उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयापरया ॥ ५४॥ अधिजान्विति ॥ नमति कपोलार्पणाय प्रवीभवति करपल्लवे अर्पितं निहितं कपोलतलं गण्डस्थलं यस्य तं बाहुमधिजानु जानुनि । विभक्त्यर्थेऽव्ययीभावः । उपधाय निधाय । कूपरेण जानुमवष्टभ्येत्यर्थः । कण्ठे परिवर्तत इति कण्ठपरिवर्ति । न तु मुखोच्चारित इत्यर्थः । कलमव्यक्तमधुरं स्वरशून्यं तारध्वनिहीनम् , षड्जादिस्वराभिव्यक्तिहीनं वा यद्गानं तत्परया तदासक्तया । मन्दकण्ठेनैव गायन्त्येत्यर्थः। कालक्षेपार्थमिति भावः । अयं चोत्कण्ठानुभावः । अपरया स्त्रिया उदकण्ठि उत्कण्ठितम् । प्रियसंगमायोत्सुकया स्थितमित्यर्थः । भावे लुङि चिणो लुक् । अत्र कालक्षेपासहिष्णुत्वलक्षणमौत्सुक्यं संचारि तन्निबन्धनात्प्रेयोलंकारः । परयापरयेति यमकविशेषसंसृष्टिः। नायिका विरहोत्कण्ठिता । 'चिरं पत्युरनालोके विरहोत्कण्ठितोन्मनाः' इति लक्षणात् ।। प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहतः । प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ।।५५।। प्रणयेति ॥ अथ प्रसाधनानन्तरं मुग्धतरोऽत्यन्तकाममोहितस्तरुणीजनः प्रणयप्रकाशनविदः । अनुरागव्यञ्जनचतुरा इत्यर्थः । मधुरा मधुरभाषिणीः, अन्यत्र रन्याकृतीः सुतरामभीष्टजनस्य चित्तहृतो मनोहारिणीः सखीदृश इव कान्तमनु प्रियजनं प्रति प्रजिघाय प्रेषितवान् । हिनोतेर्लिद । इवेन सह समासवचनादृश इवेत्युपमासमासः । तया सखीनामासत्त्यन्तरङ्गत्वकार्यदर्शित्वादिव्यञ्जनादलंकारेण वस्तुध्वनिः ॥ तथा काचिन्नायिका दूतीं वाचिकमनुशास्तिन च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ।। ५६ ।। न चेति ॥ स मे दयितो यथा मयि करुणां कुरुते यथा लघुतामल्पतां च नावगच्छति न मन्यते । एनं दयितमुपगम्य प्राप्य तथा तेन प्रकारेण निपुणं बदेः । विध्यर्थे प्रार्थने वा लिङ् । इतीत्थं काचिन्नायिका अभिदूति दूतीमभि । 'लक्षणेनाभिप्रती-' इत्यव्यवीभावे नपुंसकहस्वत्वम् । संदिदिशे संदिष्टवती । कर्तरि लिट् । स्वरितेत्त्वादात्मनेपदम् । नायिका तु कलहान्तरिता । 'कोपात्कान्तं पराणुच पश्चात्तापसमन्विता' इति लक्षणात् ॥ Page #241 -------------------------------------------------------------------------- ________________ नवमः सर्गः। २२९ दयिताय मानपरयाऽपरया त्वरितं ययावगदितापि सखी। किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां५७ दयितायेति ॥ मानपरया अभिमानवत्या अत एवापरया नायिकया अग. दिता दयितमानयेत्यनुक्ता सखी दयिताय दयितमानेतुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । त्वरितं शीघ्रं ययौ। अन्यथा मरणशङ्केति भावः । तथाहि-सुष्टु शोभनं हृदयं येषां ते सुहृदो मित्राणि । 'सुहृदुईदौ मित्रामित्रयोः, इति निपातः । चोदिताः प्रेरिताः सन्तः सुहृदां प्रियो हृद्यः हितः श्रेयस्करश्च योऽर्थतं कुर्वन्तीति प्रियहितार्थकृतः । कृतमेषामस्तीति कृतिनः कृतकृत्या भवन्ति किमु । किंतु चोदनां विनैवेति भावः । अर्थान्तरन्यासः । नायिका च पूर्ववत् ।। अथ काचित्कलहान्तरिता कान्तं प्रति त्रिभिर्दूतीं संदिशतिप्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया । क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥५८॥ प्रतिभिद्येत्यादि ॥ अपराधकृतमागस्कारिणं कान्तं प्रतिभिद्य निराकृत्य पुनमयैवास्यानुवृत्तिरनुसरणं क्रियते यदि तावदुचितैव । पतिव्रतानां प्राणेश्वरचित्तानुवृत्तेधर्मत्वादिति भावः। किंतु हे सखि, ततोऽनुवृत्तेर्माममानमनसमभिमानहीनचित्तां कलयेन्मन्येत ॥ __तलाघवाय विगृह्मैव स्थीयतां तत्राहअवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह । तव गोप्यते किमिव कर्तुमिदं न सहामि साहसमसाहसिकी ॥१९॥ __ अवधीर्येति ॥ धैर्यकलिता कलितधैर्या सती । 'वाहिताझ्यादिषु' इति निष्ठायाः परनिपातः। दयितमवधीर्य तिरस्कृत्य तेन सह विरोधं विदधे करोमीति चेत् । दधातेः कर्तरि लट् । हे सखि, तव किमिव गोप्यते निगृह्यते । न किंचि. दित्यर्थः । किंतु कथ्यत एवेति कथयति । सहसा बलेन वर्तत इति साहसिकी। 'ओजःसहोम्भसा वर्तते' इति ठक् । सा न भवतीत्यसाहसिकी। अहमिति शेषः । इदं साहसं विरोधं विरोधाचरणरूपं साहसकृत्यं कर्तुम् । 'शकष-' इत्यादिना तुमुन् । सहत इति सहा समर्था । पचाद्यच् । नास्मि । अत्रासाहसिकत्वस्य विशेषणगत्या साहसासहनहेतुत्वोक्तेः पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ तर्हि किमत्र कार्यमत आहतदुपेत्य मा स्म तमुपालभथाः किल दोषमस्य न हि विद्म वयम् । इति संप्रधार्य रमणाय वधूर्विहितागसेपि विससर्ज सखीम् ॥६॥ तदिति ॥ तत्तस्मात्तं वल्लभमुपेत्य मा सोपालभथाः नोपालभस्व । तद्दोष न गणयरित्यर्थः । 'मोत्तरे लङ् च' इत्युपाङ्पूर्वाल्लभेर्लङ् 'न माङयोगे' इत्यदप्रतिषेधः । ननु सापराधः कथं नोपालभ्यस्तत्राह-वयमस्य दोषमपराधं न विद्म शिशु० २० Page #242 -------------------------------------------------------------------------- ________________ २३० शिशुपालवधे किल । अजानाना इव तिष्टामीत्यर्थः । कार्यार्थिनः कुतो गर्व इति भावः । 'विदो लटो वा' इति णलाद्यादेशः । इति संप्रधार्य निश्चित्य वधूर्नायिका विहितागसे कृतापराधायापि रमणाय प्रेयसे । क्रियाग्रहणाचतुर्थी । सखी विससर्ज प्रजिघाय। विरहासहिष्णुतयेति भावः । एषा कलहान्तरिता प्रौढा च ॥ जनु संदिशेति सुदृशोदितया त्रपया न किंचन किलाभिदधे । निजमैक्षि मन्दमनिशं निशितैः ऋशितं शरीरमशरीरशरैः ॥६१ ॥ नन्विति ॥ ननु संदिश संदेशं बृहीत्युदितया दूत्या कथितया सदृशया नायिकया का बृपया हेतुना किंचन नाभिदधे किल नाभिहितं खलु । किंतु निशितैरशरीरशरैरनङ्गबाणैरनिशं ऋशितं कृशीकृतम् । कृशशब्दात् 'तत्करोति' इति ण्यन्तात्कर्मणि क्तः। णाविष्ठवगावे 'र ऋतो हलादेलघोः' इत्युकारस्य रेफादेशः। निजं शरीरं मन्दमैक्षि ईक्षितम् । एषापि कलहान्तरिता मध्यमा च । त्रपया निजहृदयानभिधानानिजशरीरनिरीक्षणेन स्वावस्थातिवेदनाञ्च तुल्यलजास्मरत्वा. वगमादिति । इयं च पञ्चमी कार्याख्या कामावस्था । 'दृड्मनःसङ्गसंकल्पाजागरः कृशताऽरतिः । ह्रीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश ॥' इति । इत्थं नायिकाभिरुपदिष्टा दूत्यः किमकुर्वन्नित्यत आहब्रुवते स दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिगर्भगिरः । सुहृदर्थमीहितमजिह्मधियां प्रकृतेविराजति विरुद्धमपि ।। ६२ ।। वृवत इति ॥ प्रगल्भा पृष्टाः गतिगर्भा प्रतिभासाराश्च गिरो यासां ता दूत्यो लरान्पुरुषानुपसृत्य नरवत् नरैः पुंभिस्तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । ब्रुवते स्म । न चैतावता वैयात्यं दूषणमित्यर्थान्तरन्यासेनाह-सुहृदर्थमिति । तथा हि । अजिह्मधियामकुटिलबुद्धीनां संबन्धि सुहृदे सुहृदर्थम् । 'अर्धेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्'। ईहितं चेष्टित प्रकृतेविरुद्धमपि स्वभावविपरीतमपि विराजति शोभते । तस्मान्न धाष्ट्ये दोष इत्यर्थः॥ ___ अथ काचि डूती कंचित्प्रियं प्रति सप्तभिः प्रार्थयते-- मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रसक्तहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः॥६३॥ ममेत्यादि ॥ यो भुवि मम रूपकीर्ति सौन्दर्य प्रथममहरन् इयं स्वस्निया तदनुप्रविष्टहृदया तस्मिन्नासक्तचित्तेति अतो हेतोस्त्वयि मत्सरादिव मदनो निरस्तदयो निष्कृपः सन् तां त्वप्रियां सुतरां क्षिणोति क्षपयति खलु । एतेन कार्यावस्थोक्ता । अत्र साक्षात्प्रतिपक्षभूतनायकपीडासमर्थस्य मदनस्य तदीयनायिकापीडनोक्त्या प्रत्यनीकालंकारः । स च त्वयि मत्सरादिवेति हेतून्प्रेक्षोत्थापित इति संकरः । 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे। यन्तदीयतिरस्कारः प्रत्यनीक तदुच्यते ॥' इति लक्षणात् । Page #243 -------------------------------------------------------------------------- ________________ नवमः सर्गः । तव सा कथासु परिघट्ट्यति श्रवणं यदङ्गुलिमुखेन मुहुः । घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ६४ ॥ २३१ तवेति ॥ सा त्वत्प्रिया तव कथासु गुणकीर्तनेषु मुहुरङ्गुलिमुखेनाङ्गुल्यग्रेणश्रवणं श्रोत्रविवरं परिघट्टयति स्फालयतीति यत् । यदृच्छयेति शेषः । तेन परिघट्टनेन भवगुणपूगपूरितं श्रवणं अतृप्ततया तावद्गुणग्रहणेना संतुष्टतया घनतां नयति । बहुतण्डुलमानार्थ प्रस्थादिवद्भूयो गुणप्रवेशाय श्लेषयतीत्यर्थः । ध्रुव मित्युत्प्रेक्षायाम् । अत्र कण्डूविनोदनार्थं श्रोत्रघट्टने घनतानयनमुत्प्रेक्ष्यते ॥ उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः । द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदल रागरसः ॥ ६५ ॥ उपेति ॥ अलघुरन्तः संतापोपाधिक उष्णिमा उष्णत्वं येषां तैः श्वसितैर्निःश्वासैरुपताप्यमानं सितेतरसरोजदृशो नीलोत्पलाक्ष्या अधरं नवनागवल्लिदलाना ताम्बूलदलानां रागरसो रञ्जनद्रवो द्रवतामार्द्रतां नेतुं न क्षमते न शक्नोति । एतेन ज्वरावस्थोक्ता । अत्र द्रवत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ दधति स्फुटं रतिपतेरिपवः शिततां यदुत्पलपलाशदृशः । हृदयं निरन्तरबृहत्कठिनस्तन मण्डलावरणमप्यभिदन् ॥ ६६ ॥ दधतीति ॥ रतिपतेरिषवः शिततां नैशित्यं दधति । स्फुटमित्युत्प्रेक्षायाम् । यद्यस्मान्निरन्तरं नीरन्धं बृहत्कठिनं च यत्स्तनमण्डलं तदेवावरणं वर्म यस्य तत्तदपि उत्पलपलाश उत्पलदलाक्ष्याः हृदयमभिदन्भिन्दति स्म । भिदेर्लुङ 'इरितो वा' इति चलेरङादेशः । सावरणमपि भिन्नमिति विरोधोत्थापितेयं स्मरशरनैशित्योत्प्रेक्षा । तया च रन्ध्रान्वेषिणा कामेन निपीड्यमानायास्तस्यास्त्वद्विरहो जीवितसंशयमापादयतीति वस्तु द्योत्यते ॥ कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा । अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः ॥ ६७ ॥ कुसुमादिति ॥ स्मितदृशः स्मेराक्ष्या अङ्गं कुसुमादपि सुतरां सुकुमारं कोम - मितीदमपरथा अन्यथा न । किंतु सत्यमेवेत्यर्थः । यद्यस्मात्कुसुमेषुरकरुणो निष्कृपः सन् निजैर्विशिखैर्बाणै: । 'पृषत्कबाणविशिखाः' इत्यमरः । कुसुमैरेवेत्यर्थः । कष्णं दीनं यथा तथा अनिशं नित्यमुत्तपति । तापयतीत्यर्थः । तपतिरर्यं भौवादिकः र्मकः । कुसुमाधिकसौकुमार्याभावे कुसुमैः पीड्यत इति कुसुमाधिकसौकुमत्प्रेक्षा नापरथेति व्यञ्जकप्रयोगाद्वाच्या ॥ गद्य विषतां निष तमपक्रियया समुपैति सर्वमिति सत्यमदः । अमृतस्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ||६८|| विषतामिति ॥ अपक्रियया विपरीतप्रयोगेण निषेवितमुपयुक्तं सर्वम् । Page #244 -------------------------------------------------------------------------- ________________ २३२ शिशुपालवधे अमृतमपीति भावः । विषतां विषवदहितत्वं समुपैति इत्यद इदं विषत्वं सत्यं ध्रुवम् । यद्यस्मादमृततोऽपि । स्रवतेः विपि तुक् । हिमरश्मिरुचश्चन्द्रपादाः भवतो विरहाद्धेतोस्त्वया विना सेवनादित्यर्थः । अमूं त्वत्प्रियां दहन्ति । याः पूर्व त्वया सह सेवनादालादयन्निति भावः। एतेन विषयद्वेषरूपा रत्यवस्थोक्ता । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ कुलकम् । उदितं प्रियां प्रति सहादमिति श्रदधीयत प्रियतमेन वचः । विदितेऽगिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः॥६९॥ उदितमिति ॥ प्रियां प्रति प्रियामुद्दिश्य हृदयस्येदं हादं प्रेम । 'प्रेमा ना प्रियता हार्द प्रेम स्नेहः' इत्यमरः । 'तस्येदम्' इत्यण्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लासेषु' इति हृदयस्य हृदादेशः । सहाद सस्नेहमित्युदितम् । वदेः कर्मणि तः 'वचिस्वपि-' इत्यादिना संप्रसारणम् । वचो दूतीवाक्यं प्रियतमेन श्रदधी. यत विश्वसितम् । दधातेः कर्मणि लङ् । श्रदन्तरोरुपसर्गवद्वचनाच्छ्रच्छब्दस्य प्राक्प्रयोगः । हि यस्मात्पुरः पूर्वमेव विदितेङ्गिते विदितपराभिप्राये जने । इङ्गितं हृद्गतो भावः । सज्जने समुदीरिता गिरः सपदि लगन्ति सन्जन्ति खलु । स्वयं प्रियाहृदयवेदित्वात् स्वबुद्धेः संवादेन दूतीकथितं प्रियाविरहदुःखं विशश्वासेत्यर्थः । अर्थान्तरन्यासः। एषा कलहान्तरिता । अत एव मानाख्यो विप्रलम्भः शृङ्गारः । 'पूर्वानुरागमानाख्यप्रवासकरुणात्मना । विप्रलम्भाभिधानोऽयं शृङ्गारः स्थाच्चतुर्विधः ॥' इति चतुर्थोऽयमुक्तः ॥ दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् । उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥७०॥ दयितेति ॥ प्रथम चन्द्रोदयात्प्राक्परिमूढतां निजमनोपहर्तृमार्गानभिज्ञतां गतैः ततः पश्चात्क्षणदाकरे चन्द्रे उदिते सति सपदि लब्धपदैर्दष्टचोरपदचिह्नः दयिताभिर्हतस्याकृष्टस्यापहृतस्य च मनसोऽनुपदिभिरन्वेष्टुभिः । अन्विष्यद्भिरिवेत्यर्थः । अत एव गम्योत्प्रेक्षा प्रागवलम्बितधैर्यत्यागनिमित्ता। 'अनुपद्यन्वेष्टा' इति निपातः। 'अन्वेष्टानुपदी प्रोक्ता' इति वैजयन्ती। युवभिः प्रयये प्रयातम् । याते वे लिद । अत्रोक्तपदान्वेषणोत्प्रेक्षया यूना चोरग्राहिरूपकं प्रगम्यत इत्यलंकारेणालंकारध्वनिः ॥ ___ अथ यूनां गृहप्रायनन्तरं वृत्तान्तं वर्णयति- देव निपपात संभ्रमभृतः श्रवणादसितभ्रवः प्रणदितारिणम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम्म्य ७१ ॥ निपपातेति ॥ संभ्रमभृतः प्रत्युत्थानसंभ्रमिण्याः असितभ्रुवोशनायाः प्रण१ 'माख्याय' इति पाठः. Page #245 -------------------------------------------------------------------------- ________________ नवमः सर्गः। २३३ दितालिकुलं गुञ्जदलिपुञ्जम् । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । वारिरुहं श्रवणोत्पलं दयितावलोकेन विकसतो विस्तारं गच्छतो नयनस्य प्रसरेण प्रसारण प्रणुन्नमिव । पूर्ववण्णत्वम्। निपपात । तथा संभ्रान्तमित्यर्थः। अत्र संभ्रमहेतुकस्य कर्णोत्पलपातस्य नयनप्रसारहेतुकत्वमुत्प्रेक्ष्यते । एषा च हृष्टा ॥ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् । रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥ ७२ ।। उपनेतुमिति ॥ सहसोपगतो हठादागतः कश्चन युवा अत एव रसभेनोत्थितामत एवोन्नतिमता कुचयोर्युगेन करणेन दिवमाकाशमुपनेतुमिवोर्ध्वमुत्सेप्लुमिवेति फलोत्प्रेक्षा उत्थाननिमित्तौन्नत्यगुणनिमित्ता । तरसा बलेनाकलितां व्याक्षिप्तां वधू प्रियां परिरभ्याश्लिष्यारुधबुद्धवानुपवेशितवान् । ऊोत्क्षेपानिवारितवानिति चार्थः । रुधेलुङि 'इरितो वा' इति विकल्पात् च्लेरङादेशः। एषा हृष्टा रोमाञ्चिताद्यनुभाववती च ॥ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥७३॥ अनुदेहमिति ॥ अनुदेहं देहस्य पश्चात् । 'अव्ययं विभक्ति-' इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोदुरित्यर्थः । नयतेवुल प्रत्ययः । 'उपसर्गादसमासेऽपि-' इति णत्वम् । गुरुं पूज्यां, भारवती च प्रतिमां प्रतिबिम्बमुद्वहता । पश्चास्थितस्यापि तदाभिमुख्यादिति भावः । मुकुरेण दर्पणेन का । 'दर्पणे मुकुरादशौं' इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अति अतिमात्रो भरो यस्य तस्मादतिभरात् । प्रतिविम्बगुरुमुकुरधारणादिति भावः । वध्वा नवोढायाः करतः पाणितलात् । पञ्चम्यास्तसिल । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः । भावे लुङ् । एपा च मुग्धा । अत्र वधूकरस्य भारासंबन्धेऽपि संबन्धोतरतिशयोक्तिः गुरुमिति श्लेषोत्थापितेति संकरः ॥ अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिंकिणीरवमुदासि वधूः ॥ ७४ ।। अवनम्येति ॥ अवनम्य गाढमुपगूढवता आश्लिष्टवता, अत एव वक्षसि निमग्नकुचद्वितयेन दयितेन तत्क्षणे चलन्नुद्गच्छन्रशनाया कलकिंकिणीरवो यस्मिन्कर्मणि तद्यथा तथा वधूरङ्गना उदासि उत्क्षिप्ता । अस्यतेः कर्मणि लुङ् । एषा च हृष्टा रोमाञ्चाद्यनुभाववती च । स्वभावालंकारः ॥ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदृरुभित्ति वसनं ववसे ॥ ७५ ॥ Page #246 -------------------------------------------------------------------------- ________________ २३४ शिशुपालवधे कररुद्धेति ॥ दयितोपगतौ प्रियागमने सति अत एव त्वरया विरहितं स्यक्तमासनं यया तया । उस्थितयेत्यर्थः । कयाचिदिति शेषः । अत एव गलितं स्वस्तमत एव कररुद्धनीवि करगृहीतबन्धं वसनं क्षणं दृष्टा हाटकशिलाल्पदृशी हेमशिलाप्रतिमा स्फुरन्ती अरुभित्तिरूरुदेशो यस्मिन्कर्मणि तद्यथा तथा । हिरण्यं हेम हाटकम्' इत्यमरः । ववले आच्छादितम् । वसेराच्छादनार्धाकर्मणि लिद । अरु भित्तिरिवेत्युपमितसमासः । अत्रोपमयोः संसृष्टिः ॥ पिदधानमन्वगुपगम्य दृशौ बुवते जनाय वद कोऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूय॑गदत् ।।७६॥ पिदधानमिति ॥ नववधूनवोढा अन्वक्पश्चादुपगम्य दृशौ पिदधानं छादयन्तं प्रियं दृष्टिच्छादकः कः वद इति ब्रुवते पृच्छते जनाय गिरा वाचा अभिधातुं साध्यवससौ नोत्सेहे। लजयेति भावः । अध्यवपूर्वात्स्यतेः कर्तरि लिट् । किंतु पुलकैय॑गदत् । अत्र प्रियज्ञानस्यार्थस्य लजया असंलक्षितस्य पुलकैः प्रकाशनासूक्ष्मालंकारः । 'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते' इति लक्षणात् ॥ उदितोरुमादमतिवेपथुमत्सुदृशोऽभिभ विधुरं त्रपया । वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूहमपि बाढमभूत् ।। ७७ ।। उदितेति ॥ अभिभत भर्नुसमक्षम् । 'लक्षणेनाभिप्रती आभिमुल्ये' इत्यव्ययीभावः । उदित उत्पन्न उरुसादः उर्वोनिश्चेष्टता यस्य तत् अतिवेरधुमदतिकन्यवत् । एतेन विशेषणद्वयेन प्रत्युत्थानालिङ्गनविरोधेन स्तम्भवेपधू सात्विकावुक्तौ । अपया विधुरं विलक्षम् । एतेन लजासंचारिणा प्रियवाकुण्ठत्वमुक्तम् । एवं प्रतिपत्तिमूढमपि इतिकर्तव्यतामूढमपि सुदृशो वपुर्बादं भृशमादरातिशयशंसि मुखरागादिलिङ्गैरादरविशेषव्यञ्जकमभूत् । सत्यादरे किमुपचारैरिति भावः ॥ परिमन्थराभिरलघुरुभरादधिवेश्म पत्युरुपचारविधौ । स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः॥७८॥ परीति ॥ प्रमदा अधिवेश्म निजवेश्मनि पत्युरुपचारविधौ प्रत्युत्थानादिकर्मणि अलधोर्महत अरुभरात्परिमन्थराभिरलसाभिः अनुपदं पदे पदे स्खलिताभिरपि गतिभिः प्रणयातिभूमि प्रेमप्रकर्षमगमन् । परप्रेमास्पदीभूता इत्यर्थः । प्रत्युत्थानादपि स्खलितगमनमेव पत्युः प्रीतिकरमभूदिति भावः । स्त्रीणां स्खलन पन्युः प्रीतिकरमिति विरोधाभासोऽलंकारः ॥ मधुरोन्नतभ्र लसितं च दृशोः सकरप्रयोगचतुरं च वचः । प्रकृतिस्थमेव निपुणागमितं स्फुटनृत्यलीलमभवत्सुतनोः ।। ७९ ॥ मधुरेति ॥ मधुरं मनोहरं यथा तथोन्नते उच्चलिते ध्रुवौ यस्मिंस्तन्मधुरोन्नतभ्रु । 'गोस्त्रियोरुपसर्जनस्य' इति इस्वत्वम् । दृशोर्लसितं नयनचेष्टा च सकर Page #247 -------------------------------------------------------------------------- ________________ नवमः सर्गः । . २३५ प्रयोग हस्ताभिनयसहितं तच्चतुरं च तद्वचश्च सुतनोः स्त्रियाः प्रकृतिस्थमेव स्व. भावसिद्धमेव सदपि निपुणेन निपुणाचार्येणागमितमभ्यासितम् । अत एव स्फुटं प्रथितं यन्नत्यं तस्य लीलेव लीला यस्य तत्तथोक्तमभवदिति निदर्शनालंकारः । तया नर्तक्युपमा गम्यते ॥ ___ अथ कस्याश्चिरसपत्नीनामग्रहेणाहूतायाः कान्तोपालम्भं विशेषकेणाहतदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् । प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताय मयि गोत्रभिदा ॥८॥ तदिति ॥ अङ्गेत्यामन्त्रणे । विश्वसृजा विधात्रा तव ईक्षणसहस्रतयं नेत्रसहस्रसमूहः । 'संख्याया अवयवे तयप्'। न कृतं न सृष्टमिति यत्तदयुक्तम् । कुतः । येन कारणेन मयि विषये स्फुटं प्रत्यक्षमेव गोत्रभिदा नामभेदिनाद्रिभेदिना च । 'गोत्रं नानि कुलेऽप्यगौ' इति यादवः । त्वयेति शेषः । अद्य इन्द्रता जगति प्रकटीकृता खलु । अत्र गोत्रभिदेति श्लेषानुप्राणितं सहस्राक्षत्वमुत्प्रेक्ष्यते ॥ न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया । हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतमाम् ॥८१॥ नेति ॥ अनिशमक्षिगतां चक्षुःसंनिकृष्टामपि, द्वेप्यामिति च गम्यते । 'द्वेष्ये स्वक्षिगतः' इत्यमरः । मामतिसमीपतया भवान्न विभावयति । शेषे प्रथमः' इति प्रथमपुरुषः । इन्द्रियसंनिकृष्टमपि न लक्ष्यत इति विरोधाभासनार्थोऽपिशब्दः। परमार्थस्तु द्वेष्यत्वादतिसामीप्याच्चाविभावनं न चित्रमिति भावः। अभीष्टतमा पुनर्हदयस्थितां हृदयादनपेताम् , अन्तर्हितामिति च गम्यते । अत एव विरोधाभासकोऽपिशब्दः । बहिः पुरतः कथं भवानीक्षते इदं तु चित्रम् । अतिसामीप्यव्यवधानस्यापि दर्शनप्रतिबन्धकत्वादिति भावः । प्रेमास्पदं वस्तु परोक्षमप्यपरोक्षमीक्षते इतरदपरोक्षमपि परोक्षमेवेति तात्पर्यार्थः । विरोधाभासयोः संकरः॥ इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् । वकरावलम्बनविमुक्तगलत्कलकाञ्चि कांचिदरुणतरुणः॥ ८२ ।। इतीति ॥ इत्यभिधाय पुरो गन्तुमिच्छु क्षणं दृष्ट्योः पातेन विकसद्वदनाम् । परस्परदृष्टिपातमात्रगतकोपामित्यर्थः । कांचिन्नायिका तरुणो युवा स्वकरावलम्बनं प्रियकरण ग्रहगं तेन विमुक्ता मुक्तबन्धना अत एव गलन्ती भ्रंशमाना कला मधुरा काञ्ची यस्मिन्कर्मणि तद्यथा तथा अरुणबुद्धवान् । रुधेलङि 'रुधादिभ्यः श्नम्' । एषा च कलहान्तरिता ॥ अपयाति सरोपया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या । कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥८॥ Page #248 -------------------------------------------------------------------------- ________________ शिशुपालवधे अपयातीति ॥ सरोषया मृगाक्ष्या निरस्ते कामिनि भर्तर्यपयाति निर्याते सति कृतकं कृत्रिमं यथा तथा चुक्षुवे । तन्निर्गमनप्रतिबन्धार्थं क्षुतं कृतमित्यर्थः । 'क्षु शब्दे' भावे लिट् । इतरोऽपि नायकोऽपि कलयन्नपि कृतकोऽयमिति जानन्नपि अशकुनेन स्खलितः किल निरुद्ध इव सव्यथः सनिर्वेद इवावतस्थे स्थितः । न त इत्यर्थः । उभावपि समानानुरागाविति भावः । एषा च कलहान्तरिता ॥ आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या । तनूनं पद्मवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ८४ ॥ आलोक्येति ॥ मानवत्या कोपवत्या स्त्रिया । 'स्त्रीणामीकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' । प्रियतममालोक्य । स्थित्यासमानकर्तृकत्वात्क्त्वा निदेशः । अंशुके विनीवौ प्रियावलोकनाद्विगलितबन्धे सति । भाषितपुंस्कत्वात्युं - वद्भावः । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । नमित मुखेन्दु यथा तथा तस्थे स्थितमिति यत्तत्तस्मान्नम्रमुखावस्थानाद्रुतं शीघ्रम् । प्रियावलोकनक्षण एवेत्यर्थः । अपयानमास्थितस्य प्रयाणं गतस्य मानस्य कोपस्य पदं पदचिह्नमवलोकयांबभूवे । अन्वेषितमित्यर्थः । लज्जानिमित्ताया मुखनतेः अन्वेपणार्थत्वमुत्प्रेक्ष्यते नूनमिति । मानगन्धोऽप्यस्तमित इति भावः ॥ सुदृशः सरसव्यलीकतप्तस्तरसाश्लिष्टवतः सयौवनोप्मा । कथमप्यभवत्स्मरानलोष्णः स्तनभारो न नखंपचः प्रियस्य ।। ८५ । 1 सुदृश इति ॥ सरसमा । नूतनमिति यावत् । तेन व्यलीकेन प्रियकृतेनापराधेन तप्तः तथा यौवनोष्मणा सह वर्तत इति सयौवनोष्मा । किंच स्मरानलोष्णः कामाग्निसंतप्तः एवं त्रिविधाग्नितप्तोऽपि सुदृशः स्तनभारस्तरसा वेगेन । अतिदाहदशायामेवेत्यर्थः । आश्लिष्टवत आलिङ्गितवतः प्रियस्य कथमपि कथं वा । कुतो हेतोरित्यर्थः । नखं पचति क्वाथयतीति नखंपचः । पचिरत्र तापवाची | 'मितनखे च' इति खश्प्रत्ययः । 'अरुर्द्विषदजन्तस्य मुम्' इति मुमागमः । नाभवत् । तथोष्ण ईषदुष्णोऽपि नाभूदित्यर्थः । प्रियासङ्गप्रतीकाराः खलु कामिनां संतापा इति भावः । ताद्यगौष्ण्यसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ २३६ दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ८६ दधतीति ॥ उरु महदशीतलं सरयौवनोदमभ्यामुष्णमुरोजद्वयं कुचद्वयं दधती भुवस्तलं गता स्वयं साक्षादुर्वशीच स्थितेत्युत्प्रेक्षा । काचन स्त्री अप्रतिमेन मुखेन बभौ । तां प्रति मेनका मेनकाख्याप्सराश्च श्रिया सौन्दर्येणाधिका नेत्यतिशयोक्तिः । तयोर्यमकेन संसृष्टिः । वंशस्थं वृत्तम् ॥ इत्थं नारीर्घटयितुमलं कामिभिः काममासप्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः । Page #249 -------------------------------------------------------------------------- ________________ दशमः सर्गः। आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ८७ ॥ ___इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके प्रदोषवर्णनं नामाष्टमः सर्गः ॥ ९ ॥ इत्थमिति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' इति थमुप्रत्ययः । सपदि शान्तः शमितो मानः कोप एवान्तरायो याभिस्ताः । 'वा दान्त-' इत्यादिना शमेय॑न्ताच्छान्तेति निपातः । प्रालेयांशोश्चन्द्रस्य रुचयो नारीः कामिभिर्घटयितुम् । 'मितां इस्वः । 'पर्याप्तिवचनेष्वलमर्थेपु' इति तुमुन्प्रत्ययः । कामं प्रकामं समर्था आसन् । दूत्य इवेति भावः । विलसन्तो मन्मथश्रीविलासा भणितसीस्कारादिमदनातिरेकविकारा याभिस्ताः हीरेव प्रत्यूहो विघ्नस्तस्य प्रशमे निवारणे कुशलाः शेरते आभिरिति शीधवो मदिराः। 'शीडो धुक्' इत्यौणादिको धुक्. प्रत्ययः । आसां रतिषु आचार्यत्वमुपदेशं चक्रुः । नर्मसख्य इवेति भावः । अत्र प्रथमार्धे प्रस्तुतचन्द्रभासां मानशमनकामिघटनपाटव विशेषणसाम्यादप्रस्तुतदूतीत्वप्रतीतेः समासोक्तिः । द्वितीयाधं तु शीधुष्वारोपितस्याचार्यत्वस्य प्रकृतोपयोगात्परिणामः । तयोः सापेक्षत्वात्संकरः । तेन च दूतीनमसख्युपमाध्वनिः । उत्तरसगे मधुपानरतोत्सववर्णनायाश्वायमेव प्रस्तावः । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिपडगम्भी नतो तो गुरू चेत्' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध काव्यव्याख्याने सर्वकषाख्ये नवमः सर्गः ॥ ९ ॥ दशमः सर्गः। आचार्यत्वं रतिषु शीधवश्चरित्युक्तं तत्प्रपञ्चनायास्सिन्समें मथुपानं तावदयतिसजितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि । आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥१॥ सजितानीति ॥ अथ पानगोष्टीप्रस्तावानन्तरं सजितानि यावकक्षालनादिना संस्कृतानि सुरभीणि यथायोगं स्वभावसंस्काराभ्यां सुगन्धीनि नयनानि वारिरहाणीव, अन्यत्र नयनानीव वारिरुहाणि वासनार्थ क्षिप्तानि तान्युल्लसन्ति येषु तानि तथोक्तानि सुघटितानि सुष्टु मुखैोजितानि शोभनसंस्थानवत्तया निर्मितानि वा प्रियतमावदनानि यूनां कामिनां सुरायाः पात्रतां पानभाजनतां ययुः । प्रियामुखसंपर्कजनितरसास्वादलोभात्तासां मुखसुरामेव पपुरिति भावः । अत्र वदनेष्वारोप्यमाणायाः पात्रतायास्तादात्म्येन तेषां पानसाधनतापादनेन कृतवद. Page #250 -------------------------------------------------------------------------- ________________ २३८ शिशुपालवधे नोपयोगात्परिणामालंकारः। 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । तेन श्लेषसंकीर्गेनोपमा व्यज्यते । अस्मिन्सर्गे स्वागतः वृत्तम् । 'स्वागतेति रनभा गुरुयुग्मम् । सोपचारमुपशान्तविचारं सानुतर्पमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः॥२॥ सोपचारमिति ॥ अथ पात्रीकरणानन्तरं ते युवानः सोपचार सप्रार्थनमु. पशान्तविचारं निवृत्तशङ्कम् । 'विवादम्' इति पाठे मानमवधूयेति पुनरुक्तिः । चारं चारमित्यनुप्रासक्रमभङ्गश्च स्यात् । सानुतपं सतृष्णं च यथः तथा अनुतर्ष. त्यनेनेत्यनुतर्षो मद्यम् । 'मद्येऽनुतपं तत्पादे पात्रे तृष्णाभिलाषयोः' इत्युभय त्रापि विश्वः। तस्य पदेन छलेन मूत मूर्तिनस्वाः स्त्रीया वधूमुहूर्त क्षणं मानं कोपमवधूयापीप्यन्पाययन्ति स्म । पिबतेण चडि 'लोपः पिबतेरीचाभ्यासस्य' इति धात्वाकारलोपः ईकारोऽभ्यासस्य । 'न पादमि-' इत्यादिना निगरणार्थत्वात्परस्मैपदनिषेधेऽपि 'णिचश्च' इत्यात्मनेपदविकल्पात्याक्षिक परस्मैपदम् । 'गतिबुद्धि-' इत्यादिना वधूरित्यणिकर्तुः कर्मस्वम् । अनुतर्षपदेनेत्यनुतर्षापहवेन मूर्त प्रेमत्वोटप्रेक्षणात् व्यञ्जकाप्रयोगाच्च प्रतीयमाना सापड्लवोत्प्रेक्षा क्रान्तकान्तबदनप्रतिविम्बे भग्नबालसहकारमुगन्धौ । खादुनि प्रणदितालिनि शीले निर्वबार मधुनीन्द्रियवर्गः ॥३॥ क्रान्तेति ॥ क्रान्तं संक्रान्तं कान्तवदनप्रतिबिम्बं यस्मितस्मिन् । नेत्रवृत्तिकर इत्यर्थः । भन्नाः क्षिप्ताः बालसहकाराश्तविशेषपल्लवाः । 'आम्रश्चतो रसा. लोऽसौ सहकारोऽतिसौरभः' इत्यमरः । तैः सुगन्धौ सुरभिणि । ब्राणतर्पण इत्यर्थः । 'तृतीयादिषु भाषितपुंस्कं ध्वगालवस्य' इति पुंवद्भावः । स्वादुनि मधुरे रसनाकर्षिणीत्यर्थः। प्रणदितालिनि गुञ्जन्मधुकरे । श्रुतिसुख इत्यर्थः । शीते । स्पर्शसुखे इत्यर्थः । एवं पञ्चविषयसमष्टौ मधुनि मद्ये इन्द्रियवर्गश्चक्षुरादिपञ्चकं निर्ववार निर्वृतमभूत् । अत्र रूपरसादिपदार्थनई मधुविशेषणभावेन निर्वृतिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं प्रमदानामजचारू चपकं च पडत्रिः ।। ४ ।। कापिशायनेति ॥ उन्मद उद्भिक्तमदः अत एव विपूर्णन्भ्रमन् षडङ्खिः षट्पदः कापिशायनेन सुगन्धि सुरभि : 'कश्यं कल्यं तथा मई मैरेयं कापिशायनम्' इति वैजयन्ती। फुल्लदृष्टि विकसितनेत्रं प्रमदानां वनितानां वदनमधिवासनार्थेऽजेन चार चषकं पानपात्रं च । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । अधिशयितुमधिष्ठातुं समशेत । इदं भजामीदं भजामि वेत्युभयलोभाथै दोलाय. मानमानस आसीदित्यर्थः । अत्र प्रकृतयोरेव बदनचपकयोः षट्पदाभिलाषास्पदत्वरूपैकधर्मयोगादौपम्यस्य गम्यतायां तुल्ययोगिताभेदः ॥ Page #251 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २३९ विम्बितं भृतपरिस्रुति जानन्माजने जलजमित्यबलायाः। घ्रातुमक्षि पतति भ्रमरः स भ्रान्तिभाजि भवति व विवेकः॥५॥ बिम्बितमिति ॥ भृता परित्रुद्वारुणी यस्मिंस्तस्मिन् । 'परिसुदरुणात्मजा' इत्यमरः । भाजने पानपात्रे बिम्बितं प्रतिबिम्बितमबलाया अक्षि जलजमिति जानन् । सादृश्यात्तथा भ्राम्यन्नित्यर्थः । भ्रमरः घ्रातुं पतति स्म । तथा हि भ्रान्तिभ्रंमणं, विपरीतज्ञानं च तद्भाजि विवेको विचारः । क भवति । न कापीत्यर्थः । अत्र भ्रमरस्याक्षिजलजभ्रान्तेर्भ्रान्तिमदलंकारः । तत्समर्थकत्वाच्छेषमूलातिशयोतयुत्थापितोऽर्थान्तरन्यासः । तेन सहाङ्गाङ्गिभावेन संकरः ॥ दत्तमिष्टतमया मधु पत्युढिमाप पिवतो रसवत्ताम् । यत्सुवर्णमुकुटांशुभिरासीचेतनाविरहितैरपि पीतम् ॥ ६॥ दत्तमिति ॥ इष्टतमया दत्तं मधु मयं कर्तृ पिबतः पत्युः रसवत्तां प्रेयसीकरस्पर्शादतिस्वादुतामाप । अतिशायने मतुप् । बाढं ध्रुवमित्युत्प्रेक्षा । कुतः । यद्यमाञ्चेतनाविरहितैरचेतनैः सुवर्णमुकुटांशुभिरपि । मधुनि प्रसृतैरिति भावः । पीतं पीतवर्ण पीतं चासीत् । अत्र पीतमिति श्लेषमूलातिशयोक्त्या पीतिम्नः क्रियाभेदाध्यवसायेनाचेतनांशुकर्तृकपानक्रियानिमित्ता प्रेयसीस्वहस्तदानाहितर. सवत्तोत्प्रेक्षा । तथा च यदचेतनानामपि पेयं तच्चेतनानां किं वक्तव्यमित्यर्थापा त्तिध्वननादलंकारेणालंकारध्वनिः ॥ वादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोज । अन्यमन्यदिव यन्मधु यूनः वादमिष्टमतनिष्ट तदेव ॥७॥ स्वादनेनेति ॥ सुतनोः कर्ष्याः स्वादनेनास्वादनेन ओष्ठतः ओष्ठाद्रसः स्वादोऽत्र मधुनि अविचारादसंशयात्समचरिष्ट संक्रान्तः । संपूर्वाञ्चरतेलुंङ् । 'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । कुतः । यद्यस्मात्तदेव पूर्वमुक्तमेव मधु अन्यदिवापूर्वमिवान्यमपूर्वमिष्टं प्रियं स्वादं रसं यूनोऽतनिष्ट । तनोतेलुङि तङ् । ओष्ठस्पर्शानन्तरमेव रसान्तरप्रादुर्भावादनन्तरन्यायात्तद्रससंक्रमणो. स्प्रेक्षा । सा चाविचारादिति व्यञ्जकाप्रयोगाद्वाच्या ॥ विभ्रतौ मधुरतामतिमात्र रागिभिर्युगपदेव पपाते । आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥ ८॥ विभ्रताविति ॥ रागिभिः कामिभिरतिमात्रं मधुरतां स्वादुतां प्रियत्वं वा बिभ्रती 'मधुरं रसवत्स्वादु प्रियेषु मधुरोऽन्यवत्' इति विश्वः । तस्य भावस्ताम् । विकसद्भिर्विकसन्तीभिश्च विकसद्भिः तृष्णया विजृम्भमाणैः । 'नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम्' इति नपुंसकैकशेषः । आननैः मधुरसो मद्यरसः नासिकाभिणैरसितोपलगन्धश्च युगपदेव पपाते पीतौ । भिन्नेन्द्रियग्राह्यावपि Page #252 -------------------------------------------------------------------------- ________________ २४० शिशुपालवधे गन्धरसौ युगपत्स्वेन्द्रियसंबन्धाद्युगपद्गृहीतावित्यर्थः । अत्र मनस आशुसंचाराariyarभमानः । शतपत्रशरव्यतिभेदवदित्यणुपरिमाणवादिनः । वास्तवमेव यौगपद्यमिति मध्यम परिमाणवादिनः । सार्वपथीनास्तु कवय इत्यलमतिपल्लवितेन । अत्र रसगन्धयोः प्रकृतयोरेकपानक्रिया संबन्धात्तुल्ययोगिताभेदः ॥ पीतवत्यभिमते मधुतुल्यस्वादमोष्टरुचकं विददौ । लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥९॥ पीतवतीति ॥ विददङ्क्षौ विदंष्टुमिच्छौ । उपदंशेच्छावतीत्यर्थः । दंशेः सन्नन्तादुप्रत्ययः । अभिमते वल्लभे मधुना तुल्यस्वादं तुल्यरसं । तुल्यत्वं च हृद्यतामात्रेण नान्यथा विलक्षणरसस्य अनुपदंशत्वात् । ओष्टो रुचकमाभरणमिवेत्युपमितसमासः । ' रोचनायां तु रुचकमश्वाभरणमाल्ययोः' इति विश्वः । तमोष्टरुचकमोष्टश्रेष्ठं पीतवति सति वियता अपगच्छतापि । इणो लटः शत्रादेशे 'इणो यण्' इति यणादेशः । युवत्याः युवतेः । 'ङिति ह्रस्वश्च' इति वा नदीत्वादाडागमः । यावकेनालक्तकेन परिरक्ततया दन्तनिष्पीडनकृतेन रागेण हेतुना आत्मा स्वरूपं लभ्यते स्म लब्धः । पुनरुद्भूतमित्यर्थः । अत्राधरपानादपगतस्यापि याचकस्य रागप्रादुर्भाव निमित्ता विरोधगर्भा पुनरुद्भवोत्प्रेक्षा व्यञ्जकाप्रयो गाद्गस्या च ॥ कस्यचित्समदनं मदनीयं प्रेयसीवदनपानपरस्य । स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभृत् ॥ १०॥ कस्यचिदिति ॥ समदनं यथा तथा मदयतीति मदनीयं मदकारि । 'कृत्यल्युटो बहुलम्' इति कर्तर्यनीयप्रत्ययः । तस्य प्रेयसीवदनस्य पानं परं प्रधानं यस्य तस्य कार्मुकत्वात्प्रिया मुखपानासक्तस्य कस्यचित्कामिनः सकृदिव स्वादितोsबाहुल्येन पीतः । इवशब्दो वाक्यालंकारे । आसव एव । प्रत्युत वैपरीत्ये इति गणव्याख्याने | क्षणं विदंशपदे उपदंशस्थानेऽभूत् । अन्येषां मधुपानलोलुपानामधरास्वाद उपदंशः । अस्य स्वधरपानैकपरस्य मध्येवोपदंश इत्यर्थः । अधरपानस्योपदेशत्व संबन्धेऽप्यसंबन्धः आसवस्य तदसंबन्धेऽपि संबन्ध इत्यतिशयोक्तयोरसापेक्षत्वात्संसृष्टिः ॥ पीतशीधुमधुरैर्मिथुनानामाननैः परिहृतं चपकान्तः । व्रीडया रुददिवालिविरावैनीलनीरजमगच्छदधस्तात् ।। ११ ।। पीतेति ॥ पीतशीधूनि पीतमद्यानि अत एव मधुराणि मनोज्ञानि तैर्मिधुनानां स्त्रीपुंसानामाननैः चपकान्तः पानपात्राभ्यन्तरे । 'चपकोऽस्त्री पानपानम्' इत्यमरः । परिहृतं त्यक्तं नीलनीरजं वासनार्थे निक्षिप्तं नीलोत्पलं व्रीडया परिहारलज्जया अलिविरावैः रुददिवाधस्ताद्गच्छत् । अत्र मद्यापगमनिमित्तत्य नीलनीरजाधोगमनस्य रोदनविशिष्टलज्जा हेतुकत्वोत्प्रेक्षा । सा चालिविरावैरिति व्यधिकरणकारिणामोज्जीवितेति संकरः ॥ Page #253 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २४१ अथ मदानुभावान्वर्णयतिप्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १२ ॥ प्रातिभमिति ॥ त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानम् । सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः । 'तद्धितार्थ-' इत्यादिना समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम् । तेन त्रिसरकेण त्रिपानं यदातिभूमिरिति पानप्रसिद्धिः । प्रतिभैव प्रातिभं प्रतिभाविशेषः । प्रज्ञादित्वात्स्वार्थेऽणप्रत्ययः । यहा 'ज्ञानबीजभूतः संस्कारविशेषः प्रतिभा' इति काव्यप्रकाशकारः। तत्र भवं प्रातिभं ज्ञानप्रभाविशेष एव । भवार्थेऽण्प्रत्ययः । तत्प्रातिभं गतानाम् । त्रिवारमधुपानोत्कटमदोबुद्धसंस्कारप्रभावितप्रगल्भमतीनामित्यर्थः । सुध्रुवां स्त्रीणां वक्रवाक्यरचनारमणीयः प्रतिकूलवाक्यप्रयोगरम्यः । गूढानि पूर्वं लज्जया संवृतानि सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि ग्राम्यावयवचेष्टाप्रलपितानि यस्मिन्स गृढसूचितरहस्यः स चासौ सहासश्चेति विशेषणसमासः वैवक्षिकविशेषणविशेष्यभावात् । 'हासो हास्यम्' इत्यमरः । परिहासो नर्मकेलिरूपहासक्रीडेति यावत् । 'दवकेलिपरीहासाः' इत्यमरः । प्रववृते प्रवृत्तः । इतः परं मदः संचारी ॥ हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः । चक्रिरे भृशमजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥१३॥ हावेति ॥ तरुणेनोत्कटेन यूना च मदेन कामिनेव ऋजोर्मुग्धाया अपि वध्वाः । किमुत प्रौढानामिति भावः । हावहारि विलासमनोहरं हसितं हासः वचनानां कौशलं प्रागल्भ्यं दृशि विकारविशेषाः विलासविशेषाश्चक्रिरे कृतानि । पुंसेव मौग्ध्यं त्याजयित्वा प्रौढ्यं नीतेत्यर्थः । अत्र हसितकौशलविकाराणां योगपद्योक्त्या समुच्चयः । 'गुणक्रियायोगपद्यं समुच्चयः' इति लक्षणम् । तस्यौपम्ययोगेन संकरः । तेन ऋजोरपीत्यत्र किमुत प्रौढानामित्यर्थापत्तिय॑ज्यते ॥ अप्रसन्नमपराद्वरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । आलितं नु शमितं नु वधूनां द्राविनं नु हृदयं मधुवारैः ॥१४॥ अप्रसन्नमिति ॥ अपराद्धरि आगरकारिणि । राधेस्तृच्प्रत्ययः । पत्यौ विषये अग्रसन्नं कलुपम् । क्षुभितमित्यर्थः । कोपदीप्तं कोपेन ज्वलितमुररीकृतधैर्यमङ्गीकृतकाठिन्यम् । 'ऊरीकृतमुररीकृतम्' इत्यमरः । 'ऊर्यादिविडाचश्च' इति गतिवात् 'कुगतिप्रादयः' इति समासः । वधूनां हृदयं मधुवारैर्मद्यपर्यायैः। 'मधुवारा मधुक्रमाः' इत्यमरः । क्षालितं धीतं नु । शमितं निर्वापितं नु । दावितं द्रवीकृतं नु । अन्यथा कथं तादृगप्रसन्नतादीप्तताकठिनतानां हठान्निवृत्तिरिति भावः । अत्र क्षालितत्वादीनामेकत्राविरोधात्सादृश्याच्च न संशयालंकारः सति सादृश्ये विरुद्धानेककोटिगोचरत्वात्तस्य, किंत्वप्रसन्नत्वादिनिरासनिमित्तकक्षालित शिशु० २१ Page #254 -------------------------------------------------------------------------- ________________ २४२ शिशुपालवधे त्वाद्युत्प्रेक्षात्रये नुशब्दानुवृत्तेः तच्चाप्रसन्नत्वाद्युद्देशिनां क्षालितत्वाद्यनुद्दे शिभिर्यथासंख्येनान्वयमपेक्षत इति यथासंख्यालंकारेण संकीर्यते ॥ सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १५ ॥ सन्तमिति ॥ मधुमदः प्रमदानामङ्गे वपुषि अन्यत्र ' यस्मात्प्रत्ययविधिः- ' इत्युक्तलक्षणे प्रकृत्याख्ये शब्दरूपे । चिरं सर्वदा सन्तमेव । एकत्र स्वभावात्, अन्यत्र त्वनेकार्थत्वाद्धातूनामिति भावः । किं चाप्रकृतत्वादप्रस्तुतत्वात् । अप्रसकत्वादिति भावः । अप्रकाशितमव्यञ्जितं विभ्रमं विलासं धातौ भूवादिके लीनं गूढमर्थमभिधेयं उपसर्गः प्रादिरिवादिद्युतयोतयति स्म । द्युतेः 'णौ चङयुपधाया ह्रस्वः' । ' द्युतिस्वाप्योः संप्रसारणम्' इत्यभ्यासस्य संप्रसारणविकारः । उपसर्गस्य धातुली नार्थ द्योतकत्वमादानसंदानादावनुसंधेयम् । उपमालंकारः ॥ सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ।। १६ ।। सावशेषमिति ॥ सावशेषाण्यर्धोक्तानि पदानि यस्मिंस्तदुक्तमुक्तिर्वाक्यं स्रस्तेषु माल्यवसनाभरणेषूपेक्षानादरः अकारणतोऽकस्मादेव गन्तुमुत्थितमुत्थानं च आसां स्त्रीणां मदविभ्रमं मदविकारं द्योतयन्ति स्म । एतैरनुभावैरासां मदसंचारो ज्ञात इत्यर्थः । अत्रार्धोक्तादीनां खलेकपोतिकया मदद्योतने प्रवृत्तत्वात्कारणाख्यो द्वितीयसमुच्चयः। ‘खलेकपोतन्यायेन बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥' इति लक्षणात् ॥ भद्यमन्दविगलत्रपमीपच्चक्षुरुन्मिपितपक्ष्म दधत्या । वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव ॥ १७ ॥ मद्येति ॥ मद्येन मद्यपानेन मन्दमल्पं विगलन्ती नपा यस्य तत् । अत एवेषदुन्मिषितानि पक्ष्माणि लोमानि यस्य तच्चक्षुर्दधत्या नववध्वा नवोढया कामिनः प्रियस्य मुखमधोमुखयैव नमितवदनयैव । ' स्वाङ्गाच्चोपसर्जनात् -' इति विकल्पादनीकारः । शनकैरसंभ्रमेण वीक्ष्यते स्म । तिर्यगीक्षितमित्यर्थः । अत्रापि मदमानाभ्यां त्रपैव बलीयसीति मौग्ध्यातिशयोक्तिः । ' समुद्यद्यौवना मुग्धा लज्जापिहितमन्मथा' ॥ या कथंचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे । व्रीडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ १८ ॥ येति ॥ या स्त्री कथंचन कृच्छ्रेण सखीवचनेन सखीप्रेरणया प्रादात्पूर्वमभिप्रियतमं प्रियतमसमक्षम् | आभिमुख्येऽव्ययीभावः । प्रजगल्भे प्रगल्भते स्म । सा स्त्री मधु पिबतीति मधुपा । 'आतोऽनुपसर्गे कः' । 'ब्रीडं जाड्यं मौग्ध्यम Page #255 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २४३ भजत् । विहायागन्तुकं धर्म स्वभावमभजन्मदादित्यर्थः । तथाहि-सर्वो जनो मदाद्धेतोः स्वां स्वकीयां प्रकृतिमेति स्वभावं गच्छति । स्वाभाविकधर्मप्रकाशनं मदधर्मः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः। वारुणीमदविशङ्कमथाविश्चक्षुपोऽभवदसाविव रागः ॥ १९ ॥ छादित इति ॥ रमण्या यः प्रियं प्रति रागो विषयाभिलाषः चिराय बृपया बीडयान्तश्छादितः संवृतोऽसावयमेव रागोऽथास्मिन्नवसरे वारुणीमदविशङ्ख मद्यमदेन निःश चक्षुपो नेत्रादाविरभवदिवाविर्भूतः किम् । अत्र रतिरागमदरागयोरभिलापपाटलिमरूपयोः श्लेपप्रतिभोत्थापिताभेदाध्यवसायमूलातिशयोक्तिमहिम्ना योऽन्तर्गतो रागः स एव चिरनिरुद्धः संप्रति मदोद्घाटितत्रपाकपाट्या चक्षुर बहिरुद्भिन्न इत्युत्प्रेक्षते । आविर्भुवोर्व्यवधानं कविस्वातन्त्र्यात् ॥ आगतानगणितप्रतियातान्वल्लभानभिसिसारयिपूणाम् । प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ २०॥ आगतानिति ॥ आगतान्स्वयं प्राप्तान तथाप्यगणिताश्च ते प्रतियाताश्चेति । स्नातानुलिप्त इतिवत्पूर्वकाले समासः । तान्वल्लभानभिसिसारयिषूणां संप्रति चन्द्रोदये स्वयमेवाभिसारयितुमभिसर्तुमिच्छूनाम् । अभिसारयतेः स्वार्थण्यन्ता. सन्नन्तादुप्रत्ययः । सुभ्रवां स्त्रीणां चेतसि सविप्रतिसारे कष्टमस्माभिरकार्यं कृतमिति पश्चात्तापयुक्ते सति । 'पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि' इत्यमरः । सरकेण मधुना मधुपानेन वा । 'सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः । अवसरः प्रापि प्राप्तः । स्वयंगमनसौकर्याय मधुपानं चरित्यर्थः । अत्राभिसारणस्य पश्चात्तापकरणस्य मदयोगात्सौकर्योक्तेः समाध्यलंकारः । 'समाधिः सुकरं कार्य कारणान्तरयोगतः' इति काव्यप्रकाशे ॥ मा पुनम्तमभिसीपरमागस्कारिणं मदविमोहितचित्ता । योपिदित्यभिललाप न हालांदुस्त्यजः खलु सुखादपि मानः॥२१॥ मा पुनरिति ॥ मदेन विमोहितचित्ता भ्रमितचित्ता सती । अहमिति शेषः । आगस्कारिणमपराधकृतम् । 'अतः कृकमि.-' इत्यादिना विसर्जनीयस्य सत्वम् । तं पुनर्भूयो माभिसीसरं नाभिसारयाणि । सरतेः स्वार्थे 'णौ चड्युपधाया इस्वः' 'दीवों लबोः' इत्यभ्यासस्य दीर्घः । इति । इत्यालोच्येत्यर्थः । गम्यमानार्थत्वादप्रयोगः अन्यथा पौनरुत्तयमित्यालंकारिकाः । योषित्काचित्स्त्री हालां सुराम् । 'सुरा हलिप्रिया हाला' इत्यमरः । नाभिललाप । तथा हि सुन्वादपि मानो दुस्त्यजः खलु । अतोऽल्पकारणादधिकार्थहानिरिति नाशङ्कनीयमित्यर्थान्तरन्यासः ॥ हीविमोहमहरदयितानामन्तिकं रतिमुखाय निनाय । सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥ २२ ॥ Page #256 -------------------------------------------------------------------------- ________________ २४४ शिशुपालवधे ह्रीति ॥ सप्रसादं मनःप्रसादपूर्वकम् । ममेदं श्रेयस्करमिति भावनापूर्वकमित्यर्थः । अन्यथा फलोदय एव न स्यात् । 'दैवज्ञे भिषजे गुरौ' इति वचनादिति भावः। सेवितमुपभुक्तमिति हेतोर्मधु तासां सद्य एव फलदमासीत् । कुतः । हीविमोहं ब्रीडाजाड्यमहरत् रतिसुखाय सुरतसुखाय दयितानामन्तिकं निनाय । अत्र ह्रीहरणान्तिकनयनवाक्याभ्यां फलदानवाक्यार्थसमर्थनादनेकवाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन । सखदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ २३ ॥ दत्तमिति ॥ आत्तमदनमाहितमदनं यथा तथा दयितेन दत्तम् । अत एवा. तिशयिकेनातिशयप्रचुरेण । विनयादिभ्यष्टक् । रसेन स्वादेन व्याप्तम् । स्वादुतरमित्यर्थः । मुखस्य सुरा मुखसुरं गण्डूषमद्यम् । 'विभाषा सेनासुराच्छायाशा. लानिशानाम्' इति नपुंसकत्वम् । प्रकृष्टो मदो यासां ताभ्यः प्रमदाभ्यः स्त्रीभ्यः। 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानसंज्ञा । सस्वदे रुरुचे। प्रीतिकरमभूदित्यर्थः । कर्तरि लिट् । अत एव तदेव तासां मदकरं चासीदित्याह । नामेति रूढं प्रागश्वकर्णादिवदव्युत्पन्नं नामापि प्रमदेति नामधेयं च व्युदपादि व्युत्पन्नं जातम् । यथा प्रकृष्टमदयोगात्प्रमदेत्यन्वर्थनामत्वं भवेत्तथा तास्तेनामाद्यन्नित्यर्थः । पद्यतेरण्यन्ताकर्तरि लुङ् 'चिण ते पदः' इति चिण्प्रत्यये चिणो लुक् । 'प्रमदाभिः' इति पाठे सस्वदे। स्वदयांचवे इत्यर्थः । 'स्वादनमशनं भक्षणमाहारो भोजनं स्वदनम्' इति हलायुधे । स्वदिस्वाद्योरेकार्थत्वाभिधानात्कर्मणि लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुत्वात्काव्यलिङ्गम् ॥ . लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः। मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ २४ ॥ लब्धेति ॥ लब्धसौरभगुणो मेलनात्प्राप्तसौरभोत्कर्षः । अतएव मोदितालि. रानन्दितभृङ्गः मदिराणां मद्यानां अङ्गनास्यमेव चषकं तस्य च गन्धो गन्धगुणः इतरेतरस्य योगान्मिश्रणादन्यतामपूर्वतामतिशयं नु तत्रैवोत्कर्ष वाभजत् । यक्षकर्दमादौ घृताक्तकुङ्कुमादौ चोभयथा दर्शनादयं संशय इति भावः । अत एव संशयालंकारः॥ मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् । लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ २५ ॥ मानेति ॥ मानभङ्गपटुना कोपशमनसमर्थेन सुरतेच्छां तन्वता मदनोद्दीपके दृशि रागमारुण्यं प्रीतिं च प्रथयता प्रकाशयता अन्तरन्तःकरणं भावयता रञ्जयता मदेन प्रणयिनेव योषितः स्त्रियो लेभिरे प्राप्ताः । रागमिति श्लेषमूलातिशयोक्तिसंकीर्णेयमुपमा ॥ Page #257 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २४५ पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः । प्रेयसामधररागरसेन खं किलाधरमुपालि ररञ्जः॥ २६ ॥ पानेति ॥ उपालि आल्याः समीपे । समीपार्थेऽव्ययीभावः । 'आलिः सखी वयस्या च' इत्यमरः । अत एव निभृतचुम्बनदक्षाः गूढचुम्बनचतुराः सुभ्रवः पानधौतनवयावकरागं मधुपानक्षालितलाक्षारागं स्वमधरं प्रेयसामधरेषु यो रागरसस्ताम्यूलरागद्वस्तेन ररनुः किल । अन्यगुणस्यान्यत्राधानमिह रओरर्थः । किलेत्यपरमार्थे । तेन पानधौतरागेषु स्वाधरेषु प्रेयोधररागसंक्रमणनाटितकेन सखीसमक्षमेव प्रियां चुम्बनं कारयामासुरित्यर्थः । अत्रागन्तुना रअनेन सहजचुम्बननिगृहनान्मीलनालंकारभेदः । 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् ॥ अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन । उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥२७॥ अर्पितमिति ॥ दयितेनान्ययुवतेः सपत्या नामग्राहं नाम गृहीत्वा । 'नाम्या दिशिग्रहोः' इति णमुल प्रत्ययः। अर्पितं दत्तं मद्यं रसितवत्यास्वादितवत्यपि । रसतेरास्वादनार्थात् क्तवतो 'उगितश्च' इति ङीप् । काचिदिति शेषः । मदमुज्झति स्म न ममादेत्यर्थः । इतरा तु सपत्नी तु मद्यमपिबन्त्यपि वीक्ष्य दृष्टैव ममाद मत्ता । मनोनिवृतिरेव मदहेतुरिति भावः । अत्र पूर्वार्धे रसितवत्यपि न ममादेति विशेषोक्तिः। उत्तरार्धे त्वपिबन्त्यपि ममादेति विभावना । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना। तत्सामग्यामनुत्पत्तिर्विशेषोक्तिनिगद्यते ॥' इति तयोः संकरः॥ अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निवृतिर्हि मनसो मदहेतुः ॥ २८ ॥ __अन्ययेति ॥ चित्तनाथं भर्तारमन्यवनितागतचित्तं सपत्नीसंक्रान्तचेतसमभिशङ्कितवत्या तस्मिन्नविश्वसत्या अन्यया कयाचित्स्त्रिया पीतभूरिसुरयापि न मेदे न मत्तम् । माद्यते ये लिट् । तथा हि मनसो निर्वृतिर्मदहेतुर्हि । सामान्येन विशेषसमर्थनादर्थान्तरन्यासः । एषा नवोढा भीरुश्च, अन्यथा साशङ्कायाः पानाघटनादिति ॥ कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा। कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ २९ ॥ ___ कोपवतीति ॥ प्राक्प्रथमं कोपवती सरोषा अत एवानुनयान्प्रियप्रार्थनान्यगृहीत्वा अनादृत्य । अथो संप्रति विरहखेदितचित्ता पश्चात्तापतप्ता काचिन्मधुमदेनाहितमोहा कृतचित्तविभ्रमा सती कान्तमेव कोपितमात्मना रोषितं कलयन्ती १ 'भर्तुरोष्ठदल' इति पाठः Page #258 -------------------------------------------------------------------------- ________________ २४६ शिशुपालवधे जानती अनुनिन्ये । सापराधाहं क्षमस्वेति प्रार्थितवती । मत्तेषु किं न संभावितमिति भावः । एषा कलहान्तरिता ॥ कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् । ईययेव हरता हियमासां तद्गुणः स्वयमकारि मदेन ॥ ३० ॥ __कुर्वतेति ॥ मुकुलिताक्षियुगानामवसादितवाचां कुण्ठितगिरामासां स्त्रीणामङ्गसादमङ्गसादरूपशरीरनिश्चेष्टतां कुर्वता हियं हरता मदेन ईय॑येवेत्युत्प्रेक्षा । तस्या ह्रियो गुणस्तद्गुणः अक्षिनिमीलनवाक्सादाङ्गसादरूपः । स्वयमकारि कृतः । ह्रीमदयोस्तुल्यानुभावकत्वादिति भावः ॥ गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्चितदृशां प्रतिमेन्दुः। पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥ ३१ ॥ गण्डेति ॥ प्रतिमेन्दुः प्रतिबिम्बचन्द्रः सदृशीपु स्वसमानवर्णास्वञ्चितदृशां सुदृशां गण्डभित्तिषु पुरा सुरापानात्पूर्व न व्याञ्जि नाभेदि । तदेकतापत्त्या तद्विविक्ततया न गृहीत इत्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । विपूर्वाद ः कर्मणि लुङ् 'आड. जादीनाम्' इत्याडागमः । पश्चात्पानानन्तरं पानेन पानमदेन पाटलिता पाटलीकृता कान्तिर्यासां तासु गण्डभित्तिपु लोध्रचूर्णस्य लोध्रपरागस्य तिलकश्चित्रकम् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । तस्याकृतिरिवाकृतिर्यस्य स आसीत् । वैवाद्विविक्त एवासीदित्यर्थः । तिलकाकृतिरिति निदर्शना पूर्वोक्तसामान्यसंसृष्टा ॥ उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः । योषितामतिमदेन जुघूणुविभ्रमातिशयपुंषि वपूंषि ॥ ३२ ॥ उद्धतैरिति ॥ उद्धतैर्दृप्तैरिव कुचकुम्भैः परस्परसङ्गादन्योन्यसंघर्षादुभयत ईरितान्याकृष्टानि तथा विभ्रमातिशयं विलासविशेष पुष्णन्ति तानि । 'नपुंसकस्य झलचः' इति मुमागमः । योषितां वपूंषि । पूर्ववन्नुमागमः । “सान्तमहतः संयोगस्य' इति दीर्घः । विशेषः । अतिमदेन जुघूर्णः भ्रमुः । दृप्तसंघर्षस्तटस्थपीडाकरः । यथा वृषभकलहाद्वत्सपादभङ्ग इति भावः ॥ चारुता वपुरभूषयदासां तामनूननवयौवनयोगः। तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमुभूषः ॥ ३३ ॥ चारुतेति ॥ यासां योषितां वपुश्चारुता सौन्दर्यमभूषयत् । तां चारुतामनूननवयौवनयोगः संपूर्णयौवनसंपत्तिरभूषयत् । तं पुनर्नवयौवनयोगं तु मकरकेतनलक्ष्मीर्मदनसंपत्तिरभूषयत् । तां मकरकेतनलक्ष्मी दयितसंगम एव भूषा यस्य स मदोऽभूषयत् । तां मदः तं च दयितसंगम इत्यर्थः । प्रक्रमानुसारात्तां मदस्तमपि वल्लभसङ्ग इति प्रयोक्तव्ये विशेषणत्वेन प्रयोगो महाकवीनामनुद्वे. Page #259 -------------------------------------------------------------------------- ________________ दशमः सर्गः। गात् । यथा भारवेः प्रयोगः 'शुचि भूषयती' त्यादौ श्लोके 'स नयाङ्कः स च सिद्धिभूषणः' इति वक्तव्ये 'स नयापादितसिद्धिभूषणः' इति । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वादेकावली । 'यत्रोत्तरोत्तरेपां स्यात्पूर्वपूर्व प्रति क्रमात् । विशेषकत्वकथनमसावेकावली मता ॥' इति लक्षणात् ॥ क्षीवतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु । अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः॥ ३४ ॥ क्षीवतामिति ॥ क्षीबतां मत्तताम् । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । 'क्षीय मदे' इत्यस्माद्धातोः 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निष्टान्तो निपातितः । उपगतासु प्राप्तासु । अत एवानुवेलं प्रतिक्षणं रोषपरितोषवतीषु तासु स्त्रीषु विषये अनङ्गः सशरं धनुरग्रहीन्नु, उज्झितनिषङ्गं त्यक्ततूणीरं यथा तथोज्झामास नु तत्याज किम् । उज्झतेर्लिद 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । रुष्टासु धनुर्ग्रहणं परितुष्टासु त्यागश्च रोषपरितोषाभ्यामुत्प्रेक्ष्यते । अन्यथा रोषानन्तरं परितोषः परितोषानन्तरं रोषश्च न स्यादिति भावः। रोषपरितोपयोर्धनुर्ग्रहणाग्रहणाभ्यां यथासंख्येनान्वयाद्यथासंख्यालंकारभेदः । तेनोप्रेक्षयोरङ्गाङ्गिभावेन संकरः ॥ शङ्कयान्ययुक्तौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव । न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः॥ ३५ ॥ शङ्कयेति ॥ वनिताभिरन्ययुवतौ सपन्यां शङ्कया तत्सङ्गशङ्कामात्रेण दयितः स्फुटमेव निश्चितवदेव प्रत्यभेदि । सिद्धवत्कृत्वोद्घाटित इत्यर्थः । अनुचितोऽयमविमृश्यमिथ्याभियोग इति शङ्कां परिहरति-नेति । मत्सरेण वैरेण हता संवृ. तिर्गोप्यगोपनं यस्य तच्चेतस्तत्त्वविचारे भूतार्थचिन्तायां क्षमं सहिष्णु न भवति । मत्सरग्रस्तचेतसामेप स्वभाव इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ आननैर्विचकसे हपिताभिर्वल्लभानभि तनूभिरभावि । आर्द्रतां हृदयमाप च रोपो लोलति स्म वचनेषु वधूनाम् ॥ ३६ ।। आननैरिति ॥ वल्लभानभि । वल्लभसमक्षमित्यर्थः । 'अभिरभागे' इति लक्षगार्थकर्मप्रवचनीयत्वाद्वितीया । वधूनामाननैर्विचकसे विकसितम् । भावे लिट् । तनूभिरङ्गैर्हषिताभिः पुलकिताभिः । 'हृषेलोमसु' इतीडागमः । अभावि भूतम् । भावे लुङ् । हृदयं चार्द्रतामाप । काठिन्यं जहावित्यर्थः । वचनेषु रोषो लोलति चलति स्म । वचनगतो रोपो वक्रतापि निवृत्तेत्यर्थः । अत्र वधूष्वाननविकासाद्यनेकक्रियायोगपद्यात्समुच्चयालंकारः । 'गुणक्रियायोगपद्यं समुच्चयः' इति लक्षणात् ॥ रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि । चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ ३७॥ Page #260 -------------------------------------------------------------------------- ________________ शिशुपालवधे रूपमिति ॥ अप्रतिविधानमप्रतियत्रमेव मनोज्ञम् । स्वभावसुन्दरमित्यर्थः । रूपमाकृतिः । कार्यं प्रयोजनमनपेक्ष्य विकासि वर्धमानम् । अनौपाधिकमित्यर्थः । प्रेम अकृतकसंभ्रममकृत्रिमसंरम्भं चाटु प्रियवचनं चासां स्त्रीणां रमणेषु विषये कार्मणत्वं वशीकरणकर्मत्वम् । 'वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । तद्युक्तात्कर्मणोऽण् । अगमन्प्राप्तानि । गमेर्लुङ् च्लेरङादेशः । अत्र रूपा - दिष्वारोप्यमाणस्य कार्मणस्य प्रकृतोपयोगात्परिणामालंकारः ॥ २४८ लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन । मानवञ्चनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ ३८ ॥ लीलयेति ॥ लावण्यं कान्तिविशेषोऽस्यास्तीति लावणिकं लावण्यवत् 'अत इनिठनौ' इति उन्प्रत्यये 'ठस्येकः ' 'यस्येति च' इत्यलोपे 'हलस्तद्धितस्य' इति यकारलोपः । अन्यत्र तु लवणं पण्यमस्यास्तीति लावणिको लवणव्यवहारी । लवorg प्रत्ययः । लावणिकेन मानवञ्चनविदाहंकारहरणदक्षेण, अन्यत्र परिमाण - प्रतारणपटुना सुतनोः स्त्रियाः वदनेन कर्त्रा गौरवाढ्यं गाम्भीर्यसंपन्नमपि, अन्यत्र गुरुत्वयुक्तमपि दयितस्य हृदयं लीलया विलासेनैव तुलयित्वा अन्यश्रानायासेनैवोन्माय | गुर्वपि लघुतया मीत्वेत्यर्थः । क्रीतं वशीकृतमेव अन्यत्र दानेन स्वीकृतमेव । अत्र विशेषणमहिम्नैव वदने लावणिकत्वस्य, हृदये पण्यत्वस्य च प्रतीतेः समासोक्तिरलंकारः । हृदयस्य प्रतीयमानपण्याभेदेन की तत्वोक्तेरलौकिकहृदयावर्जने लौकिकक्रयव्यवहारसमारोपः ॥ एवं मदानुभावं वर्णयित्वा संप्रति सुरतकेलिवर्णनं प्रस्तौति । तत्र सुर द्विविधं बाह्यमाभ्यन्तरं चेति । बाह्यं च प्रेक्षणभाषणाश्लेषणचुम्बनाद्यनेकभेदभिन्नम् । तत्र दृष्टिविशेषं तावदाह स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय । संनतिं दधति पेतुरस्रं दृष्टयः प्रियतमे शयने च ॥ ३९ ॥ स्पर्शेति ॥ स्पर्शभाजि सुखस्पर्शे विशदा विमला शुभ्रा च या छविः कान्तिस्तया चारौ रम्ये सुरताय कल्पिते रतिसुखदानाय सृष्टे विहारयोग्यतया सज्जीकृते च संनतिमानुकूल्यं सर्वतः साम्यं च दधति दधाने प्रियतमे शयने च मृगदृशां दृष्टयोऽजस्रमविच्छिन्नं पेतुः पतिताः । युगपदुभयावलोकनादभिलाषं व्यञ्जयामासुरित्यर्थः । अत्र प्रियतमशयनयोः प्रकृतयोरेव धर्मसाम्यादौपम्यप्रतीतेः केवलप्रकृतगोचरा तुल्ययोगिता ॥ निरागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य । दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥ ४० ॥ यूनीति ॥ रागेण तरलैश्चपलैरपि । दर्शनोत्सुकैरपीत्यर्थः । यूनि प्रिये - क्पातिभिस्त्रपया साचि विप्रसारिभिः दीर्घदर्शिभिरायतान्तैः आलोकनव्यापार Page #261 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २४९ परित्यर्थः । अन्यत्र रागद्वेषचपलैः अत एव तिर्यपातिभिः कुटिलवृत्तिभिरपि दीर्घदर्शिभिः । आगामिकार्यज्ञैरित्यर्थः । वधूनां नयनैः श्रुतिगुणेन शब्दग्रहणपाटवेन युतस्य श्रूयतेऽनेनेति श्रवणं श्रोत्रं तस्य लङ्घनमतिक्रमो नाकारि न चक्के । कर्णान्ते विश्रान्तमित्यर्थः । अन्यत्र तु श्रुतिः श्रवणम् । अभ्यास इति यावत् । सैव गुणस्तेन युतस्य श्रूयत इति श्रवणं शास्त्रं तस्य लङ्घनं नाकारि । रागद्वेषग्रस्तोऽपि शास्त्रज्ञः कदाचिच्छास्त्रातिक्रमाद्विभेतीति भावः । अयं च व्यवहारो नयनेषु रागतरलैरित्यादिश्लिष्टविशेषणमहिम्ना गम्यत इति समासोक्तिभेदः । इयं च रागदृष्टिरोत्सुक्यानुभावः ॥ संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः। स्पर्शनेन दयितस्य नतभ्रूरङ्गसङ्गचपलापि चकम्पे ॥४१॥ संकथेति ॥ नतभ्रः स्त्री संकथायां संभाषणे इच्छुरिच्छावत्यपि । 'विन्दुरिच्छुः' इत्युप्रत्ययान्तो निपातः । अभिधातुं संभाषयितुमनीशा अक्षमा बभूव । अप्यर्थश्चशब्दः । दिदृक्षुद्रष्टुमिच्छुरपि । दृशेः सन्नन्तादुप्रत्ययः । संमुखी अभिमुखी न बभूव । अङ्गसङ्गचपला गावस्पर्शचपलापि दयितस्य स्पर्शनेन चकम्पे कम्पितवती । एते कम्पादयो लजासाध्वसानुभावाः । लजाविजितमन्मथेयं मुग्धा ॥ अथालिङ्गनं वर्णयतिउत्तरीयविनयात्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या ॥ ४२ ॥ उत्तरीयेति ॥ अन्या स्त्री उत्तरीयविनयात्कुचांशुकाकर्षणात् । पमाणा तदीक्षणमार्ग तस्य वोढुर्दृष्टिपथं रुन्धती किल आवृण्वतीव, न तु वस्तुत इति किलार्थः । विकटेन विशालेन । 'विशङ्कटं विशालं स्यात्करालं विकटं तथा' इति वैजयन्ती । 'संप्रोदश्च कटच्' इति चकाराद्वेः कटच् प्रत्ययः । विवोदुः परिणेतुः वक्षसैव कुचमण्डलं आवरिष्ट आवृतवती कुचावरणव्याजेनालिङ्गितवती । वृजो लुङि तङ् इडागमः । अत्र कुचावरणेनालिङ्गनेच्छानिगृहनान्मीलनभेदः । एषा लज्जामन्मथमध्यस्था मध्यमा ॥ अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥४३॥ अंशुकमिति ॥ अंशुकमुत्तरीयं हृतवता परिणेत्रा भर्ना तन्वोः कृशयोः बाह्वोः स्वस्तिको बन्धविशेपः तेनापिहिते आच्छादिते मुग्धे सुन्दरे कुचाग्रे यस्याः सा तथोक्ता । अचिरोढा नवोढा । भिन्नानि शङ्खस्य वलयानि यस्मिन्कमणि तद्यथा तथा रभसाद्वेगात्पर्यरम्भि । गाढमाश्लिष्टेत्यर्थः । रभेय॑न्तात्कर्मणि लुङ् । 'रभेरशब्लिटोः' इति नुमागमः । एषा तिरोहितमुग्धा ॥ संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् । संहितं रतिपतिः मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ ४४ ॥ Page #262 -------------------------------------------------------------------------- ________________ २५० शिशुपालवधे संजहारेति ॥ तरुणेषु युवसु विरोधं प्रणयकलहं विरहय्य विहाय । रहयतेः स्वार्थण्यन्तात् क्त्वा तस्य ल्यप् ‘ल्यपि लघुपूर्वात्' इत्ययादेशः । सहसा परिरब्धाः प्रेयस्यो यैस्तेषु परिरब्धप्रेयसीषु आश्लिष्टवधूकेषु सत्सु । 'ईयसश्च' इति कपोऽभावः । 'ईयसो बहुव्रीहौ प्रतिषेधो वक्तव्यः' इत्युपसर्जनस्य ह्रस्वनिषेधः । रतिपतिः कामः संहितं प्रागारोपितं महेषु महान्तं शरं स्मितभिन्नक्रोध स्वयत्रसाफल्यात्मितेनोज्झितपूर्वरोषं च यथा तथा आशु संजहार । सिदेऽर्थे साधनानवकाशादित्यर्थः। परिरम्भान्तो यूनां विरह इति भावः ॥ स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन । आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन ॥ ४५ ॥ स्रंसमानमिति ॥ उपयन्तरि भर्तरि रसेन । रागान्धतयेत्यर्थः । उपसपलि सपत्नीसमीपे। समीपार्थेऽव्ययीभावे नपुंसकहस्वत्वम् । श्लिष्टवति आश्लिष्टवति सति स्रंसमानं स्पर्शसुखपारवश्यान्द्रश्यमानं तथापि स्वेदसङ्गि स्वेदेन सात्विकेन सक्तं वध्वा वसनं कृतिना कुशलेन । स्वस्येदं लाघवमिति जानतेवेत्यर्थः । जघनेन का आत्मनैव स्वयमेव रुरुधे रुद्धम् । सा तु न वेत्तीति भावः । स्वेदहेतुकस्य वसनरोधस्य स्वलाधवज्ञानहेतुकत्वमुत्प्रेक्ष्यते ॥ पीडिते पुर उरःप्रतिपेपं भर्तरि स्तनयुगेन युवत्याः । स्पष्टमेव दलतः प्रतिनास्तिन्मयत्वमभवद्धृदयस्य ॥ ४६॥ पीडित इति ॥ युवत्या युवतेः स्तनयुगेन भर्तरि प्रतिनार्याः पुरोऽग्रे समक्ष मेव उरःप्रतिपिष्य उरःप्रतिपेषम् । 'परिक्लिश्यमाने च' इति णमुल 'कृन्मेजन्तः' इत्यव्ययसंज्ञा । वक्षः प्रतिपीड्यीत्यर्थः । पीडिते सति दलतः ईर्ष्णता दीर्यमाणस्य प्रतिनार्याः सपल्या हृदयस्य तन्मयत्वं भर्तृतादात्म्यं स्पष्टमभवदेव । अन्यथा कथमन्यपीडनादन्यदलनमिति भावः । अत एवेयमसंगत्यलंकारोपजीविनी तन्मयत्वोत्प्रेक्षेति संकरः । 'कार्यकारणयोभिन्नदेशत्वे स्यादसंगतिः' ॥ दीपितस्मरमुरस्युपपीडं वल्लभे धनमभिष्वजमाने । वक्रतां न ययतुः कुचकुम्भौ सुभ्रवः कठिनतातिशयेन ॥४७॥ दीपितेति ॥ वल्लभे दीपितस्मरमुद्दीपितकामं यथा तथा उरस्युपपीडमुरस्युपपीड्य । 'सप्तम्यां चोपपीडरुधकर्ष-' इति णमुल । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । घनं गाढमभिष्वजमाने परिरम्भमाणे सति । 'परिरम्भः परिष्वङ्गः संश्लेष उपगृहनम्' इत्यमरः। सुभ्रवः कुचकुम्भौ कठिनतातिशयेन वक्रतां परिमण्डलतां न ययतुर्न प्राप्तौ । अत्र गाढालिङ्गनाकुचकुम्भयोर्वक्रत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरलंकारः ॥ संप्रवेष्टुमिव योपित ईपुः श्लिष्यतां हृदयमिष्टतमानाम् । आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥४८॥ Page #263 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २५१ संप्रवेष्टुमिति ॥ योषितः लिप्यतामालिङ्गतामिष्टतमानां हृदयं संप्रवेष्टुमीपुरच्छन्ति मेव इति गाढालिङ्गननिमित्ता क्रियास्वरूपोत्प्रेक्षा गुणस्वरूपोत्प्रेक्षा वा विवक्षाभेदात् । अत एवात्मनः स्वान्सततमेव तदन्तर्वर्तिनस्तेषामिष्टतमानां अन्तर्हृदयेष्वेव स्थितान्नाजानन्नूनम् । अन्यथा कथं पुनः प्रवेशेच्छेति भावः । इयमज्ञानोत्प्रेक्षा पूर्वोत्प्रेक्षासापेक्षेति सजातीय संकरः ॥ स्नेहनिर्भरमधत्त वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भणि वस्त्रक्रोपमम्बु ववृषे यदनेन ॥ ४९ ॥ स्नेहेति ॥ स्नेहनिर्भरं प्रेमरसपूर्ण तैलादिकद्रवद्रव्यपूर्ण च । 'स्नेहोऽस्त्री द्रवहार्दयोः' इति वैजयन्ती । अत एव वधूनां वपुरन्तरार्द्रतां द्रवत्वमधत्त । स्नेहव्यसंपूर्णमन्तरार्द्ध भवतीति भावः । असंशयं संशयस्याभावः । अर्थाभावेऽव्ययी - भावः । कुतः । यद्यस्माद्यूनि पुंसि गाढं परिरम्भत इति परिरम्भिणि गाढाश्लेषिणि सति अनेन वपुषा कर्त्रा वस्त्रं क्नोपयित्वा परिषिच्य वस्त्रक्नोपम् । क्नूयीधातोर्ण्यन्तात् 'अतिही-' इत्यादिना पुगागमे 'चेले क्नोपे:' इति णमुल । अम्बु ववृषे । वृषेः कर्मणि लिट् । अन्तरार्द्रस्य निष्पीडनाद्वहिरम्बुस्रावसंभवात्तन्निमित्तेयमन्तराcatcher | प्रियाङ्गसङ्गात्ताः स्विन्ना इति सात्विकोदयोक्तिः ॥ न स्म माति वपुषः प्रमदानामन्तरिष्टतमसंगमजन्मा । हिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ ५० ॥ न स्मेति ॥ प्रमदानामिष्टतमसंगमेन जन्म यस्य सः । जन्माद्युत्तरपदनाद्व्यधिकरणबहुव्रीहिरिति वामनः । बहुर्विपुलः । 'विपुलानेकयोर्बहु:' इति वैजयन्ती । हर्षो वपुषोऽन्तर्न माति स्म । अत्युद्वेकान्नान्तः संमित इत्युत्प्रेक्षा । कुतः । यद्यस्माहिर्व बहिर्विकासं वृद्धिमवाप्य तनुरुहाणि रोमाण्यपि व्यानशे व्याप । कर्तरि लिट् । 'अश्नोतेश्च' इति नुडागमः । अत्र बहिर्विकासननिमित्तकान्तरमानोत्प्रेक्षा आनन्दरोमाञ्जयोः श्लेषमूलाभेदाध्यवसायातिशयोक्त्यनुप्राणितेति संकरः ॥ यत्प्रियव्यतिकराद्वैनितानामङ्गजेन पुलकेन बभूवे । प्रापि तेन भृशमुच्छसिताभिनीविभिः सपदि बन्धनमोक्षः॥५१॥ यदिति ॥ वनितानां स्त्रीणां प्रियस्य भर्तुर्व्यतिकरात्संपर्कात्संगमाच्चाङ्गजेवाङ्गव्यापिना पुत्रेण च पुलकेन बभूवे भूतमिति यत् । भावे लिट् । तेन पुलकोदयेन पुत्रोदयेन च भृशमुच्छ्वसिताभिरुच्छिन्नाभिर्मोक्षाशया आश्वसिताभिश्च नीविभिः लक्षणया कटिवस्त्रैः अन्यथा बन्धनशब्देन पौनरुक्तत्यात् । सपदि बन्धनमोक्षो ग्रन्थिभेदो निगडमोचनं च प्रापि प्राप्तः । कर्मणि लुङ् । अभ्युदयेषु राजानो बद्धान्मोचयन्तीति भावः । अत्र प्रकृतपुलकनीविगताङ्गजत्वोच्छु सितत्वादिविशेषणसास्याद्वन्धनमोक्षणसंबन्धाच्च अप्रकृतपुत्रकारागतिप्रतीतेः समासोक्तिरलंकारः ॥ १ 'प्रमदानां' इति पाठः Page #264 -------------------------------------------------------------------------- ________________ २५२ शिशुपालवधे अथ चुम्बनक्रीडां वर्णयतिहीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य । अर्पितोष्टदलमाननपनं योपितो मुकुलिताक्षमधासीत् ।। ५२ ॥ ह्रीति ॥ परिरम्भे आलिङ्गने हीरेव भरस्तस्मादवनतम् । भाराकान्तं नमतीति भावः । अर्पितं स्वमुखे निहितमोष्ट एव दलं पत्रं यस्य तद्योषित आननमेव पद्म रागवानरागी अवटुजेषु चरमशिरोरुहेषु । 'अवटुर्घाटा कृकाटिका' इत्यमरः । अवकृष्य । अवटुजाकर्षणेनोन्नमय्येत्यर्थः । मुकुलिताक्षं निमीलितनेत्रं यथा तथा । 'बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्' इति षच् प्रत्ययः । अधासीत् पपौ। धेटो लुङ् 'आदेच-' इत्यात्त्वम् । 'विभाषा घ्राधेट्-' इति सिचो वैकल्पिके लुगभावे 'अस्तिसिचोऽपृक्ते' इतीडागमः । अत्राननोष्टस्य पद्मदलत्वरूपणात्तत्रानुरागिणो मधुपत्वं च गम्यत इत्येकदेशविवर्ति रूपकम् ॥ पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरविम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ ५३॥ पल्लवेति ॥ पल्लवेनोपमित्या सादृश्येन यत्साम्यं तेन सपक्षं उभयोरपि पल्लवैकोपमानत्वसाधर्म्यात्सुहृद्भूतमधरो बिम्बमिव तदधरबिम्बमभीष्टे प्रियतमे दष्ट. वति सति । सह रुजा सरुक् । 'तेन सह-' इति बहुव्रीहिः । सहस्य सः । तेन सरुजेव सव्यथेनेव । 'स्त्री रुग्रुजा चोपताप' इत्यमरः । ताराण्युच्चैः क्रोशन्ति । कुतः । लोलानि चलानि वलयानि कङ्कणानि यस्य तरुण्याः करेण पर्यकूजि परि. कूजितम् । भावे लुङ् । सुहृदुःखाद्दुःखायन्ते सुहृद इति भावः । अत्र कङ्कणद्वारकस्य करकूजनस्य विधूननहेतुकस्य सरुजेवेति रुग्घेतुकत्वमुत्प्रेक्ष्यते ॥ केनचिन्मधुरमुल्बणरागं वाष्पतप्तमधिकं विरहेषु । ओष्ठपल्लवमपास्य मुहूर्त सुभ्रवः सरसमक्षि चुचुम्बे ॥५४ ॥ केनचिदिति ॥ केनचिद्रागिणा मधुरं रसवन्तमुल्बणरागमतिरक्तं तथापि विरहेष्वधिकं बाष्पेण विरहोष्मणा तप्तं सुभ्रुव ओष्ठपल्लवमपास्य सरसं सान्द्रशीतलमक्षि चुचुम्बे चुम्बितम् । अत्र तप्तत्वरसवत्त्वयोर्विशेषणगत्याधरत्यागाक्षिचुम्बनहेतुकं काव्यलिङ्गद्वयं सापेक्षत्वात्संकीर्यते ॥ एवं बाह्यसुरतमुक्त्वाभ्यन्तरसुरतवर्णनं प्रस्तौतिरेचितं परिजनेन महीयः केवलाभिरतदंपति धाम । साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥५५॥ रेचितमित्यादि ॥ परिजनेन रेचितं रिक्तीकृतम् । अत एव केवलावेकाकिनावभिरतौ दंपती जायापती यस्मिंस्तत् । 'दंपती जंपती जायापती भार्यापती च तौ' इत्यमरः । राजदन्तादिषु जायाशब्दस्य जंभावो दंभावश्च विकल्पान्निपा Page #265 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २५३ तितः । महीयो महत्तरं धाम केलिगृहं कमलासखेन लक्ष्मीभा विष्वक्सेनेन जनार्दनेन विष्णुना सेवितस्याधिष्ठितस्य युगान्तपयोधेः साम्यमापेत्युपमालंकारः। युगान्तविशेषणं विविक्तताद्योतनार्थम् । एतेनेच्छाविहारतोक्ता ॥ अथ विश्रम्भविहाराण्येवाहआवृतान्यपि निरन्तरमुच्चैयोंपितामुरसिजद्वितयेन । रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि॥५६॥ आवृतानीति ॥ उच्चैरुन्नतेनोरसिजद्वितयेन निरन्तरं नीरन्ध्रमावृतानि संवृतान्यपि योषितां हृदयानि वक्षांसि, चेतांसि च इत इतो विमृशद्भिरितस्ततः परामृशद्भिः रागिणां पाणिभिर्जगृहिरे गृहीतानि । निगूढं वस्तु हस्तपरामर्शाल्लभ्यत इति एकत्र भावः, अन्यत्र कृच्छ्रलब्धः प्रियकरस्पर्शस्तासां हृदयग्राह्योऽभूदिति भावः । नैरन्तर्येण प्रतिबनतोरपि कुचयोः कथंचिदन्तरं संपाद्य हृदयानि स्पृष्टान्येवेति वाक्यार्थः । अत्र द्वितयानामपि हृदयानां प्रकृतत्वात्केवलप्रकृतश्लेषः॥ कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाप्रैः। अक्रियन्त कठिनेषु कथंचित्कामिनीकुचतटेषु पदानि ।। ५७॥ कामिनामिति ॥ स्वेदवारिणा सात्विकेनाङ्गुलीस्वेदेन मृदुभिः कोमलतां गतैरत एवं विभुग्नर्विनम्रः कामिनां करजाग्रैर्नखाग्रैः कठिनेषु कामिनीकुचतटेषु असकलान्यसमग्राणि पदानि क्षतानि कथंचिदक्रियन्त कृतानि । कठिनेषु मृदूनां पदलाभो दुःसंपाद्य इति भावः । नखक्रिया प्रवृत्तेत्यर्थः । अत्र कुचानामीटक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ सोप्मणः स्तनशिलाशिखराग्रादात्तधर्मसलिलैस्तरुणानाम् । उच्छसत्कमलचारुष हस्तैर्निम्ननाभिसरसीपु निपेते ॥ ५८ ॥ सोप्मण इति ॥ सोप्मणो यौवनोमयुक्तात्म्तनावेव शिलाशिखरे तयोरग्रादुपरिभागादात्तधर्मसलिलैरुष्णदेशविहारात्प्राप्तस्वेदैस्तरुणानां हस्तैरुच्छसत्कमलबहिकचकमलेश्च चारुपु निम्ननाभिष्वेव सरसीगु निपेते निपतितम् । ऊष्मस्त्रिनानां कुतश्चिदुन्नतात्पयसि पातो युक्त इति भावः । प्रथमं कुचौ स्पृष्ट्वा ततो नाभिदेशमस्पृशन्नित्यर्थः। अत्र कुचयोः शिलाशिखरत्वेन नाभीनां सरसीत्वेन च रूपणाद्धस्तानामापातिपुरुषत्वरूपणं गम्यत इत्येकदेशविवर्ति रूपकम् ॥ आमृशद्भिरभितो वलिवीचीझेलमानवितताङ्गलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ॥ ५९ ॥ आमृशद्भिरिति ॥ वलयो वीचय इव वलिवीचीरभित आमृशद्भिः लोलमानाश्चलनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानश' इति चानश्प्रत्ययः । न तु शानच् । लोलतेः परस्मैपदित्वात् । अत एव 'लोलमानादयश्वानशि' इति शिशु० २२ Page #266 -------------------------------------------------------------------------- ________________ २५४ शिशुपालवधे वामनः । लोलमाना वितताः प्रसारिताश्चाङ्गुलयो येषां ते तथाविधा हस्ता येषां तैरभीष्टैः प्रियतमैः सुध्रुवां मध्यं मुष्टिमेयमिति मुष्ट्या मातुं शक्यमित्यनुभवात्प्रत्यक्षेण मुष्ट्या मानं कृत्वैव प्रतिपेदे प्रतिबुद्धं न तु प्रसिद्धिमात्रादिति भावः । अमुष्टिमेयस्य मुष्टिमेयत्वोक्तेरतिशयोक्तिभेदोऽलंकारः ॥ प्राप्य नाभिनदमजनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम्॥६॥ प्राप्येति ॥ नाभिरेव नदो हद इति रूपकं तत्र मजनं प्राप्याशु निवसनग्रहणाय । वस्त्राकर्षणायेत्यर्थः । स्नातस्य वस्त्रग्रहणं युक्तमिति भावः । प्रस्थितं प्रवृत्तम् । उपनीवि नीविसमीपे प्रायेण तत्र भवमोपनीविकम् । तत्र व्यापृतमित्यर्थः । 'उपजानूपकर्णोपनीवेष्टक्' इति ठक् । वल्लभस्य करं स्त्री आत्मकराभ्यामरुन्ध किल । रोधं नाटितवतीत्यर्थः ॥ कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि। मेखलागुणविलनमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ६१ ॥ कामिन इति ॥ आकुले प्रियकरनिवारणव्यग्रे वधूकरे सङ्गि सक्तं मेखलैव गुणस्तत्र विलग्नं दीर्घसूत्रं आतततन्तुकम् । अत्यायतत्वाद्वहुधा वेष्टितमित्यर्थः । चिरक्रियं च । 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः । एवं कृतो रतस्यैवोत्सवस्य कालक्षेपः कालविलम्बो येन तत्परिधानमधोंशुकं कामिनोऽसूयामकरोत् । इच्छाविघातादीया जनयामासेत्यर्थः । अत्र करसङ्गादिपदार्थानां विशेषणगत्यासूयाहेतुत्वादनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः॥ अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य । वारणामिव विधातुमभीक्ष्णं कक्ष्ययाच वलयैश्च शिशिजे॥६२॥ अम्बरमिति ॥ अम्बरं विनयतोऽपसारयतः प्रियपाणेर्योषितः करयोश्च तस्मिन् रोधकयोरिति भावः । कलहस्य वारणां विधातुं निरावरणं कर्तुमिवेति फलोत्प्रेक्षा। कक्ष्यया काच्या । 'कक्ष्या कक्षे वरत्रायां काश्यां गेहप्रकोष्ठयोः' इति वैजयन्ती। 'कक्षया' इति क्षान्तपाठे तु 'कक्षा ग्रहणिकाकाञ्चीप्रकोष्ठगजरजुषु' इति क्षान्तेषु विश्वः । वलयैः कङ्कणैश्चाभीक्ष्णं शिशिजे चुकुशे । भावे लिट् । 'भूषणानां तु शिक्षितम्' इत्यमरः। द्वयोः कलहायमानयोः पार्श्वस्थाः साक्रोशं निवारयन्तीति भावः । शिक्षतिरयं तालव्यादिर्न दन्त्यादिः । 'योपेव शिर्छ' इति श्रुतेः॥ ग्रन्थिमुद्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः। भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ ६३ ॥ ग्रन्थिमिति ॥ हृदयेशे प्रिये वाससो ग्रन्थिमुद्रथयितुं विस्रंसयितुम् । अथयतेश्वौरादिकात्तुमुन् । स्पृशति सति मानधनाया मानवत्याः। कामिन्या इति शेषः । Page #267 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २५५ भ्रूयुगेण रोमभिश्च । 'कर्तरि तृतीया' इति तृतीया । सपदि समं युगपदेव विभेदो भङ्गो हर्षश्च प्रतिपेदे प्राप्तः । अत्र मानवत्वात्कामिनीत्वाच्च नीविस्पर्श युगपदमर्पहर्षयोरुदयात्तदनुभावयोरपि युगपदाविर्भाव इति भावः । अत्र भ्रमगरोमाञ्चक्रिययोः समुच्चयात्समुच्चयभेदः । स च विभेद इति श्लेषप्रतिभोत्थापिताभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति संकरः ॥ आशु लडितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतत्रीमण्डलक्वणितचारु चुकूजे ॥६४ ॥ आश्विति ॥ इष्टस्य प्रियस्य कराग्रे नीविं वस्त्रग्रन्थिमाशु हठाल्लचितवत्यतिक्रान्तवति । ऊरुमूलं गते सतीत्यर्थः । अर्धमुकुलीकृतदृष्ट्या सुखपारवश्यादर्धनिमीलिताक्ष्या स्त्रिया रक्तो रक्तकण्ठः स्वयं गानकुशलः । वीणा शिल्पमस्य वैणिको वीणावाद्यनिपुणः । 'शिल्पम्' इति ठक् । रक्तेन वैणिकेन यन्त्रगानकुशलेन हतं वादितं यदधरतन्त्रीणां मण्डलं समूहः बहुतन्त्रीकस्वरमण्डलादिभेदस्तस्य क्वणितमिव चारु यथा तथा चुकूजे कूजितम् । भावे लिट् । अधरग्रहणं तन्त्रीमाधुर्यातिशयात् । स्पर्शसुखातिरेकार्थ तन्त्रीकण्ठस्वरव्यतिकरमनोहरः कोऽपि रससर्वस्वभूतः कण्ठकूजितविशेषः कृत इत्यर्थः । अत एव रक्तवैणिकहतेति विशेषणम् । ऋणितचार्वित्युपमालंकारः ॥ आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये । श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥६५॥ __ आयतेति ॥ आयता अङ्गुलयो यस्य स प्रियकरः। कृशस्य भावः ऋशिमा कार्यम् । 'पृथ्वादिभ्य इमनिच्' । 'र ऋतो हलादेलघोः' इति रेफादेशः । तेन शालते शोभते तस्मिन्सुभ्रवां मध्येऽतिरिक्तोऽधिकोऽभूत् । मध्यस्यातिकार्यादस्पृष्टैकदेशोऽभूदित्यर्थः । पृथुलासु श्रोणेिषु कटिपु । 'वहिश्रिश्रुयुगुग्ला-' इति सूत्रेण श्रुधातोनिग्रत्ययः । सकलेन कृत्स्त्रेण तलेन स्पर्शमाप । अन्तर्भागेन क्रमेण श्रोणिमस्पृशदित्यर्थः । अत एव मध्यातिरेकोक्तरतिशयोक्तिः ॥ चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि॥६६॥ चकुरेवेति ॥ स्पर्शलोभवशेनोरुस्पर्शतृष्णापारतम्येण लोलकराणां चपल. पाणिनां कामिनामनिभृतान्यनर्पितान्यपि नखानि कररुहाः । 'पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । रम्भास्तम्भकोमलतलेषु कदलीप्रकाण्डपेलवस्वरूपेषु ललनानामूरुषु राजीः रेखाश्चक्रुरेव । ऊरुपरामर्शनान्तरीयकनखस्पशमात्रादेव रेखा जाता इत्यर्थः । अत्र कोमलतायाः विशेषणगत्या राजीकरणहेतुत्वात्काव्यलिङ्गभेदः॥ Page #268 -------------------------------------------------------------------------- ________________ २५६ शिशुपालवधे ऊरुमूलचपलेक्षणमनन्यैर्वतंसकुसुमैः प्रियमेताः। चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥६७॥ ऊर्विति ॥ एताः स्त्रिय ऊरुमूले चपलेक्षणं लोलचक्षुषं प्रियं यैर्वतंसकुसुमैः कर्णावतंसपुष्पैः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः। अनन्नताडयन् । हन्तेर्लङ् । 'गमहन-' इत्यादिनोपधालोपः। 'हो हन्तेः-' इति कुत्वम् । तानि वतंसकुसुमानि सपदि मनो मनातीति मन्मथः । पृषोदरादित्वात्साधुः । तस्य मन्मथस्य कुसुममायुधं यस्येति कुसुमायुध इति यन्नाम तद्यथार्थं चक्रिरे चक्रुः । तदा तेषां तत्कार्यकारित्वादिति भावः । अत्र वतंसेप्वारोप्यमाणस्य मन्मथायुधत्वस्य प्रकृतोपयोगात्परिणामालंकारः ॥ धैर्यमुल्वणमनोभवभावा वामतां च वपुरर्पितवत्यः। वीडितं ललितसौरतधाष्टास्तेनिरेऽभिरुचितेषु तरुण्यः ॥६॥ धैर्यमिति ॥ तरुण्यो रमण्यः उल्बण उद्विक्तो मनोभवभावो रतिरागो यासां ता अपि अभिरुचितेषु प्रियेषु धैर्यमौदासीन्यं तेनिरे । वपुः स्वाङ्गमर्पितवत्यो यथेष्टकरणाय दत्तवत्योऽपि वामतां च तेनिरे । ललितं मनोहरं सौरतं सुरतसंबन्धि धाय प्रागल्भ्यं यासां तास्तथापि व्रीडितं ब्रीडां तेनिरे । इह स्त्रीणां रहसि रागाङ्गार्पणधार्ष्यादिगुणा अप्यागन्तुकतया सहजधैर्यवक्रताव्रीडितैः पुनःपुनः प्रतिबध्यन्त एवेति भावः । अत्र रागादीनां धैर्यादिभिः सह समावे. शविरोधस्य सहजागन्तुकाभ्यामाभासीकरणाद्विरोधाभासोऽलंकारः, धैर्यादिगुणसमुच्चयात्समुच्चयालंकारश्चेति संकरः ॥ पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरसितगर्भाः। कामिनः स्म कुरुते करभोर्हारि शुष्करुदितं च सुखेऽपि॥६९॥ पाणीति ॥ 'मणिबन्धादाकनिष्टं करस्य करभो बहिः' इत्यमरः। करभ इव ऊर्यस्याः सा करभोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' इत्यूप्रत्ययः । अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा कामिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेनिवारणं कुरुते स्म । तथा मधुरं मनोहरं सितं गर्भेऽन्तवर्ति यासु ता मन्दहासमिश्राः भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीडनादौ सुखातिरेके सत्यपि हारि मनोहारि शुष्करुदितमनश्रुत्वादना कृत्रिमरोदनं च कुरुते स्म । स्त्रीणामेष स्वभावो यदिष्टमप्यनिष्टतया निवारयन्त्य एव सुरतसुखमुपभुञ्जत इत्यर्थः । अत्र सुखेऽपि दुःखवदुपचारात्कुट्टमिता. ख्योऽनुभावो द्रष्टव्यः । 'केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत् ॥' इति लक्षणात् ॥ वारणार्थपदगद्गदवाचामीग्रंया मुहुरपत्रपया च । कुर्वते स सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ ७० ॥ Page #269 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २५७ वारणार्थति ॥ ईय॑या अतिपीडनासहिष्णुतया, अपत्रपया च रहस्यप्रकाशनवैलक्ष्येण च मुहुरणार्थपदेषु मा मेत्यादिनिषेधवाचकशब्दप्रयोगेषु गद्दवाचां स्खलद्विरां सुदृशां प्रतिकूलं वर्तन्त इति प्रातिकूलिकाः प्रतिकूलचारिणः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' इति ठक् । तत्तया प्रातिकूलिकतयैव प्रतिकूलाचरणेनैव युवानोऽनुकूलमिष्टं कुर्वते स्म । कृत्रिमनिवारणाद्यत्प्रतिकूलमिवाचरितमधरपीडनादिकं तत्तासामिष्टत्वादनुकूलमेवेति । प्रतिकूलाचरणमेवानुकूलं भवतीत्यर्थः । अत एव प्रतिकूलमप्यनुकूलमिति विरोधाभासोऽलंकारः ॥ अन्यकालपरिहार्यमजस्रं तद्द्येन विदधे द्वयमेव । धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ ७१॥ अन्येति ॥ अजस्रं नित्यमन्यकालपरिहार्य सुरतेतरकाले तु त्याज्यं तवयं कर्म द्वयेन का विदधे विहितमेव । धाञः कर्मणि लिट् । एतदेव व्यनक्ति । रहसि ताभिरबलाभिर्भर्तृषु विषये सृष्टता विदधे । इतरैर्भर्तृभिरबलासु स्त्रीषु निर्दयत्वं च विदधे । अन्यदा यथा पुंसा स्त्रीषु दया तासां तेष्वप्रागल्भ्यमलंकारस्तद्वत्सुरतेषु तद्विरुद्वमेवालंकार इति भावः । अत्र स्त्रीपुंसधार्य निर्दयत्वयोः प्रकृतयोविधानक्रियायोगपद्यं गम्यत इति तुल्ययोगिताभेदः ॥ बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः । बोधितस्तनुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः ॥ ७२ ॥ बाहिति ॥ तरुणीनां तनौ शेते इति तनुशयस्तनुषु सुप्तः । 'अधिकरणे शेतेः' इत्यच् प्रत्ययः । विषमेषुः कामः बाहुपीडनं निर्दयाश्लेषः कचग्रहणं केशाकर्षणं ताभ्यामाहतेन मुष्टिघातेन । नपुंसके भावे क्तः । नखानां दन्तानां च निपातैः क्षतैश्च वोधितः सन् विशदं निर्जाड्यं यथा तथा उन्मिमीलोबुद्धः । सर्वमेतत्कामस्योद्दीपकमासीदित्यर्थः । अत्र प्रकृतविषमेषुविशेषणसामर्थ्यादप्रस्तुतसुप्तप्रबुद्धपुरुषप्रतीतेः समासोक्तिरलंकारः। एवमेव प्रबोध्यते खलु निद्रालुरित्यलौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः ॥ कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष । संहतस्तनतिरस्कृतदृष्टिभ्रष्टमेव न दुकूलमपश्यत् ॥ ७३ ॥ कान्तयेति ॥ कान्तया सपदि वस्त्राकर्षणक्षण एवोपगूढ आश्लिष्टः कोऽपि युवा कामी प्रौढपाणिर्व्यग्रहस्तः सन् अपनेतुं दुकूलमाक्रष्टुमियेष । संहताभ्यां निरन्तरश्लिष्टाभ्यां स्तनाभ्यां तिरस्कृतदृष्टिस्तिरोहिताक्षः सन् भ्रष्टमेव प्रागेव स्रस्तं दुकूलं नापश्यत् । अत्र दृष्टितिरस्कारस्य विशेषणगत्या अदर्शनहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च दृष्टेः स्तनतिरस्कारासंबन्धेऽपि संबन्धरूपातिशयोक्त्युत्थापितमिति संकरः । तेन च कुचयोलोकोत्तरसौन्दर्य व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ Page #270 -------------------------------------------------------------------------- ________________ २५८ शिशुपालवधे आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः॥७४॥ आहतमिति ॥ तरुण्याः संबन्धिना कुचतटेनाहतमाहतिरमुनोरसा साधु सोढमिति हेतोस्तुट्यतः शीर्यमाणाद्धारान्मौक्तिकवृष्टिः पुष्पवृष्टिरिव प्रियतमोरसि पपातेत्युत्प्रेक्षा । विक्रान्तः पूज्यते पुष्पवृष्ट्येति प्रसिद्धिः ॥ सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि । हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ ७५ ॥ सीत्कृतानीति ॥ तरुण्याः सीत्कृतानि सीत्काराः । दन्तनिप्पीडनायां सीरिति शब्दप्रयोगः । मणितं रतिकाले स्त्रीणां कण्ठकूजितविशेषः । 'मणितं रतिकूजितम्' इत्यभिधानात् । करुणोक्तिस्त्रायस्वेत्यादिदीनोक्तिः । स्निग्धं स्नेहा मुक्तमुक्तिः । त्वं मे प्राणा इति प्रियवाद इत्यर्थः । अलमानि निषेधार्थानि वचांसि मा मेत्यादिनिवारणवचनानि । हासानां भूषणानां च रवाः स्वनाश्च कामसूत्रस्य वात्स्यायनादिकामतन्त्रप्रतिपादकशास्त्रस्य पदतां पद्यत इति पदमर्थः । प्रमेयलक्षणमिति यावत् । तत्तामुपजग्मुरिति गम्योत्प्रेक्षा । यद्वा कामेनैव कृतं सूत्रं तस्य पदानि सुप्तिङन्तशब्दरूपाणि तस्य शास्त्रस्यैतान्येव पदानि तत्तामुपजग्मुरित्युत्प्रेक्षैव ॥ उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः । श्रूयते स मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ ७६ ॥ उद्धतैरिति ॥ निभृतमनुद्धतम् । सूक्ष्ममित्यर्थः । एकमेकाकि छेदवद्विच्छेदयुक्तम् । मृगदृशां मणितं रतिकूजितं उद्धतैः स्थूलैरनेकैर्बहुभिरविरामैरविच्छेदैः कलैरव्यक्तमधुरैः काञ्चीनां नूपुराणां च ध्वनिभिरक्षतमतिरस्कृतमेव श्रूयते स्म श्रुतम् । मणितस्य तिरोधायकशब्दान्तरसद्भावेऽपि ताद्रूप्यानापत्तेरतद्गुणालंकारः। 'सति हेतावतद्रूपस्वीकारः स्यादतद्गुणः' इति लक्षणात् ॥ ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुया काश्चिदाम जघनस्य महत्त्वम् ।।७७॥ ईदृशस्येति ॥ रतेषु उर्ध्या क्षिप्तं रतिसंभ्रमात्पतितम् आयतं दीर्घभूतं काञ्चिदाम रशनागुणः कर्तृ ईदृशस्येति काञ्चिदाम्नः स्वायामदृष्टान्तेन जघनपरिमाणप्रदेशेनेत्थं महत्तरस्यातिमहतस्तव जघनस्य रतेषूपरिसुरतेषु मुहुः कथमेतलाघवं मुहुरुत्पतनपाटवं यस्येत्थमायतमहमपि एकवेष्टनपर्याप्तमिति भावः । इति जघनस्य महत्त्वदर्शनादिव । इत्थं विस्मितस्येति शेषः । गम्यमानार्थत्वादप्रयोगः । अनोागयतत्वनिमित्तकाञ्चिदामकर्तृकं विस्मयपूर्वकजघनमहत्त्वदर्शनमुत्प्रेक्ष्यते ॥ Page #271 -------------------------------------------------------------------------- ________________ दशमः सर्गः। २५९ प्राप्यते स गतचित्रकचित्रश्चित्रमानखलक्ष्म कपोलैः । दधिरेऽथ रभसच्युतपुष्पाः स्वेदविन्दुकुसुमान्यलकान्ताः॥७८॥ प्राप्यत इति ॥ गतानि बिमर्दात्प्रमृष्टानि चित्रकचित्राणि तमालपत्ररचनानि येषां तैः कपोलैरा यन्नखलक्ष्म तदेव चित्रमिति रूपकम् । प्राप्यते स्म प्राप्तम् । के च रभसेन रतिसंभ्रमेण च्युतपुष्पा अलकान्ताश्वर्णकुन्तलाग्राणि स्वेदबिन्दुनेव कुसुमानीति रूपकम् । दधिरे दधुः। धरतेभीवादिकाल्लिटि जित्त्वादात्मनेपदम् । स्वेदोऽत्र श्रमानुभावः । 'श्रमः स्वेदोऽध्वरत्यादेः श्वासस्वेदातिभूमिकृत् ॥ यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः॥७९॥ यद्यदेवेति ॥ रुचिरेभ्यो रमणेभ्यो यद्यदेव चेष्टितं रुरुचे रोचते स्म । नियमभूदित्यर्थः । 'रुच दीप्तावभिप्रीतौ च' इति धातोलिट् । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वम् । सुभ्रुवो रहसि तत्तदकुर्वन् । तथा हि-तरुण्यः अनुलं वर्तन्त इत्यानुकूलिकाः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' इति ठक् । तासां भावम्तत्ता तया आनुकूलिकतया अनुकूलवर्तितयैव नराणां पुंसां हृदयान्याक्षिपस्त्यावर्जयन्तीत्यर्थान्तरन्यासः ॥ प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ ८० ॥ प्राप्यति ॥ दुर्वहः स्तनभरो यासां ताः। एतेनोपरि सुरतं व्यज्यते । अन्यथा विशेषणवैयर्थ्यात् । असिता आयताश्च केशा यासां ता असितायतकेश्यः स्त्रियः । स्वाङ्गाच्च-' इत्यादिना ङीष् । मन्मथरसात्स्मररागात्सुरतस्यातिभूमि परां काष्टां नाप्य । महान्तं सुरतं प्राप्येत्यर्थः । श्रमजलेन स्वेदाम्बुना आई ललाटे श्लिष्टाः देशा यस्मिन्कर्मणि तद्यथा तथा शश्रमुरिति सानुभावस्य श्रमभावोक्तिः । भावनिबन्धनात्प्रेयोऽलंकारः ॥ अथ सुरतावसानं वर्णयतिसंगताभिरुचितश्चलितापि प्रागमुच्यत चिरेण सखीव । भूय एव समगस्त रतान्ते हीर्वधूभिरसहा विरहस्य ॥ ८१ ॥ संगताभिरिति ॥ उचितैः परिचितः प्रियतमैः सह संगताभिर्वधूभिः प्राक् सुरतादौ चलिता गन्तुं प्रचालितापि हीः सखीव चिरेणामुच्यत मुक्ता । न सहत इत्यसहा । पचाद्यजन्ते नसमासः । विरहस्यासहा । बिरहमसहमाना सतीत्यर्थः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्टी । रतान्ते भूय एव वधूभिः समगस्त संगता रखीवेत्येव । संपूर्वाद्गमेलुङ् ‘समो गम्यच्छिभ्याम्-' इत्यात्मनेपदम् । 'वा गमः' इति सिचः पक्षे कित्त्वाभावात् 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपो न । सुरतेतरकाले स्त्रीणां लज्जैव भूषणमिति भावः । उपमालंकारः ॥ Page #272 -------------------------------------------------------------------------- ________________ २६० शिशुपालवधे प्रेक्षणीयकमिव क्षणमासन्हीविभङ्गुरविलोचनपाताः । संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ ८२ ॥ प्रेक्षणीयकमिति ॥ हिया विभङ्गुराः स्खलिता विलोचनपाता दृष्टिपाता येषु ते संभ्रमेण द्रुतं गृहीतेन दुकूलेन छाद्यमानानि वपूंषि अन्तरङ्गाणि येषु ते सुरतान्ताः सुरतावसानानि क्षणं प्रेक्षणीयकं दृश्यमिवासन्नित्युपमा । नाटकादिरूपकेष्वाहार्यकं वस्तु तदृश्यं प्रेक्षणीयकमिति चोच्यते । इहाविर्भावतिरोधानादिना तत्तुल्यत्वम् ॥ अप्रभूतमतनीयसि तन्वी काश्चिधानि पिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥ ८३ ॥ अप्रभूतमिति ॥ तन्वी कृशाङ्गी अभीष्टतमेन प्रेयसा क्रान्तपल्लवं गृहीताञ्चलम् अत एवातनीयसि महीयसि काञ्चिधान्नि जघने अप्रभूतं छादयितुमपर्याप्तम् । अत एव पिहितश्छादित एकतर एवोरुयेन तरक्षौमं दुकूलमाकुलकरा व्यग्रपाणिः सती विचकर्ष कृत्स्नापिधानार्थमाचकर्ष । लज्जानुभावोऽयम् । अत्र क्षौमविशेषाणामाकर्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ मृष्टचन्दनविशेषकभक्तिभ्रंष्टभूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ ८४ ॥ मृष्टेति ॥ मृष्टा प्रमृष्टा चन्दनानां विशेषकाणां तमालपत्राणां च भक्ती रशना येन सः । 'तमालपत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः । भ्रष्टानि भूषणानि यस्मिन्स भ्रष्टभूषणः कुत्सितोऽर्थः कदर्थः । लोकतो विशेष्यलिङ्गत्वम् । 'कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः। कदानि कृतानि कदर्थितानि दूषितानि माल्यानि येन सः। ततस्ततयो(वक्षिकविशेष्यविशेषणभावाद्विशेषणसमासः । एवंभूत उपभोगः सापराध इव पूर्वमण्डनापहारात्कृतापराध इव सुटशामात्मनैव स्वयमेव । प्रकृत्यादित्वात्तृतीया । मण्डनमासीत् । प्रतिनिधिकरणेन स्वापराधनिरासार्थमिवेत्युत्प्रेक्षा । स्त्रीणां संभोग एव मण्डनं तदभावे मण्डनान्तरस्याप्यमण्डनत्वादिति भावः ॥ योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे । मेखलेव परितः स विचित्रा राजते नवनखक्षतलक्ष्मीः ॥८५॥ योषित इति ॥ मोहनातिरभसेन सुरतसंभ्रमेण पतिता काञ्चनी काञ्चनस्य विकारा काञ्चिर्यस्मात्तस्मिन्निर्मेखले योषितो नितम्बे परितः सर्वतो विचित्रा विविधरचना नवनखक्षतलक्ष्मीर्मेखलेव राजते स । उत्प्रेक्षालंकारः ॥ भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु । दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥८६॥ Page #273 -------------------------------------------------------------------------- ________________ दशमः सर्गः : । २६१ भाविति ॥ सुशां संबन्धी पाटलोऽरुणो दशनाङ्को दन्तक्षतं धवलगण्डतलेषु कपोलेषु भातु नाम वैवर्ण्याद्भेदेन प्रकाशताम् । नामेत्यङ्गीकारे । दन्तवाससि अधरे तु समानगुणश्रीस्तुल्यवर्णोऽपि तथा संमुखोऽपि सन् परभागं गुणोत्कर्षं तथा पश्चाद्भागं चात्राप इति सावर्ण्यवैवर्ण्ययोः संमुखपराङ्मुखत्वयोश्व विरोधः । उपरिभागमवापेत्युभयत्र परिहाराद्विरोधाभासद्वयसंसृष्टिः । तत्राद्यः श्लेषभित्तिकाभेदाध्यवसायमूलस्तद्गुणोत्थापित इति संकरः ॥ सुभ्रुवामधिपयोधरपीठं पीडनैखुटितवत्यपि पत्युः । मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव || ८७ ॥ सुभ्रुवामिति ॥ सुभ्रुवां पयोधरपीठे कुचतटे अधिपयोधरपीठम् । विभक्त्यर्थेऽव्ययीभावः । पत्युः पीडनैः परिरम्भादिविमर्दैस्रुटितवति छेदं गतापि । अत एव मुक्तमौक्तिका सा च सा लघुश्च अत एव गुणशेषा सूत्रमात्रशेषापि हारयष्टिर्गुरुः लाध्यैवाभवत् । लघुरिति गुरुरिति विरोधाभासोऽलंकारः ॥ विश्रमार्थमुपगूढमजस्रं य॒त्प्रियैः प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्वितीयसुरतस्य बभूव ॥ ८८ ॥ विश्रमेति || योषितां प्रथमरत्यवसाने विश्रमार्थं श्रमापनोदार्थम् । श्रम्यतेर्घञ्प्रत्ययः । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति वृद्ध्यभावः । अजस्रं प्रियैरुपगृहमुपग्रहनम् । नपुंसके भावे क्तः । 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । उदितमन्मथमुत्पादितकामम् । अत एव तदुपगूहनं द्वितीयसुरतस्यादौ बभूव । श्रमापनोदमन्मथोद्बोधाभ्यामुभयोपयोगादुभयार्थमभूत् । संयोगपृथक्त्वन्याया दित्यर्थः । अत्र मध्यवर्तिन उपगूढस्यैकस्य पूर्वोत्तरसुरतशेषत्वेन विशेषणगत्याविश्र - मार्थोदितमन्मथपदार्थयोर्हेतुत्वात्काव्यलिङ्गद्वयं तदङ्गाङ्गिभावेन संकीर्यते ॥ आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः । दीयते स्म शयितुं शयनीये न क्षणः क्षणदद्यापि वधूभ्यः ॥ ८९ ॥ आस्तृत इति ॥ अनारतमश्रान्तं रते सुरते अभिरताभ्य आसक्ताभ्यो वधूभ्यः क्षणमुत्सवसुखं ददातीति क्षणदा रात्रिस्तयाप्यभिनवैः पल्लवैः पुष्पैश्वास्तृत आच्छादितेऽपि । सुखशयनार्हेऽपीत्यर्थः । शेतेऽस्मिन्निति शयनीये तल्पे । 'कृत्यल्युटो बहुलम्' इत्यधिकरणेऽनीयर् । शयितुं शयनं कर्तुं क्षणोऽल्पकालोऽपि न दीयते स्म न दत्तः किं त्वाप्रभातमरमयत् । क्षणदात्वादेवेति भावः । क्षणदयापि क्षणो न दत्त इति विरोधस्योत्सवार्थत्वेन परिहाराद्विरोधाभासोऽलंकारः । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्यमरः ॥ योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् । क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ ९० ॥ Page #274 -------------------------------------------------------------------------- ________________ २६२ शिशुपालवधे. योषितामिति ॥ नखलूनं न खलु उनम् । नयत् ऊनां न यदूनां इति पदच्छेदः । अतितरामतिमात्रम् । अव्ययादामुप्रत्ययः। नखैलूनं क्षतं नखलूनम् । 'ल्वादिभ्यश्च' इति निष्ठानत्वम् । तथाप्युज्वलतया औज्वल्येन न ऊनं न न्यूनम् । किं तु समग्रमेवेत्यर्थः । नखक्षतानां कामिनीगात्रमण्डनत्वादिति भावः । अत एवाशु हृदयं प्रियचित्तं क्षोमं विकारं नयत्प्रापयत् । नयतेर्लटः शबादेशः । योषितां गात्रं यदूनां यादवानां रागवृद्धिमूनां न्यूनां नाकरोत्खलु । किं तु भूयोऽपि समग्रमेवाकरोदित्यर्थः । अत्र यमकं शब्दालंकारः। औज्वल्यस्य विशेषणगत्या रागवृद्धिहेतुत्वाकाव्यलिङ्गमर्थालंकारः ॥ इति मदमदनाभ्यां रागिणः स्पष्टरागा ननवरतरतश्रीसङ्गिनस्तानवेक्ष्य । अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ ९१ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यके सुरत वर्णनो नाम दशमः सर्गः ॥ १० ॥ इतीति ॥ इतीत्थं मदमदनाभ्यां स्पष्टरागान्सर्वदा रागित्वेऽपि तदा । ताभ्यामपि व्यञ्जितरागानित्यर्थः । अनवरतरतश्रीसङ्गिनः अविच्छिन्नसुरतसंपल्लम्पटांस्तान्रागिणो रागिण्यश्च रागिणश्च तान्रागिणः । 'पुमान्स्त्रिया' इत्येकशेषः । अवेक्ष्य अथावेक्षणानन्तरं पर्यस्तः परिवृत्तो हस्तो नक्षत्रविशेषः, करश्च यस्याः सा । 'हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि' इत्युभयत्रापि विश्वः । अवनतेन्दुः त्रस्तचन्द्रा अत एव सा रजनिर्लजया । ग्राम्यचेष्टादर्शनजनितयेति भावः । अधोमुखी नम्रमुखीवेत्युत्प्रेक्षा। परिवृत्तिं निवृत्त्युन्मुखतामभजत । प्रभातप्रायाभूदित्यर्थः । स्त्रियो हि परकीयग्राम्यचेष्टादर्शने पावनतमुख्यो हस्तेन दृष्टिमन्तर्धाय दागपसरन्तीति भावः । अत एवानन्तरसर्गे प्रभातवर्णनाय प्रस्तावः । मालिनीवृत्तमेतत् । लक्षणं तूक्तं वक्ष्यते चोत्तरसर्गादौ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध काव्यव्याख्याने सर्वकषाख्ये दशमः सर्गः ॥ १० ॥ इति पूर्वार्धम् । Page #275 -------------------------------------------------------------------------- ________________ अथोत्तरार्धम् । एकादशः सर्गः। अथ प्रस्तुतं प्रभातवर्णनं प्रारभतेश्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृपभहीनं भिन्नकीकृत्य पड्डम् । प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥१॥ श्रुतीति ॥ नास्ति काकुर्यस्येत्यकाकुरविकृतध्वनिः । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरः । श्रावयतीति श्रावको दूरध्वनिः । स्निग्धो मधुरः कण्ठः स्वरो येषां ते अकाकुश्रावकस्निग्धकण्ठाः । रक्तकण्ठा इत्यर्थः । मागधा वैतालिकाः । श्रुतयो नाम षड्जादिस्वरारम्भकावयवाः शब्दविशेषाः। तदुक्तम्-'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रिकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥' इति । ताभिः श्रुतिभिः समधिकं बहुलं षड्जविशेषणं, पञ्चमविशेषणं वा, उभयोरपि तथात्वात् । तदुक्तम्-'चतुश्चतुश्चतुश्चैव षड्नमध्यमपञ्चमाः। द्वे द्वे निषादगान्धारौ त्रीस्त्रीनृपभधैवतौ ॥' इति षड़ो मयूरस्य कूजितानुकारी स्वरविशेषः । 'मयूरो वदति' इति लक्षणात् । तं षडं भिन्न एव भिन्नकस्तं कृत्वा भिन्नकीकृत्य । तत्कालनिषिद्धस्वरासंकीर्णं कृत्वेत्यर्थः । पञ्चभो नाम कोकिलकूजितानुकारी स्वरविदोपः । 'पिकः कूजति पञ्चमम्' इति लक्षणात् । तं पञ्चमं पीडयन्तः । तत्कालनिषेधात्परित्यजन्त इत्यर्थः। सततं वीणादिवाद्ययुक्तम् । 'ततं वीणादिकं वाद्यम्' इत्यमरः । ऋषभोऽपि वृषभनर्दितानुकारी स्वरभेद एव । 'गावस्त्वृषभभाषिणः' इति लक्षणात् । तेन हीनम् । तस्यापि तत्कालनिषिद्धत्वादित्यर्थः। सततं ऋषभहीनं च यथा तथा रात्रेः परिणतिम् । परिवृत्तिमित्यर्थः । इति वक्ष्यमाणप्रकारेणोच्चैर्यथा तथा माधवाय कृष्णाय । क्रियाग्रहणात्संप्रदानत्वम् । प्रणिजगदुः । गानेनाचख्युरित्यर्थः । 'नेर्गदनद-' इत्यादिना णत्वम् । पञ्चमादिनिषेधे भरतः । 'प्रभाते सुतरां निन्द्य ऋषभः पञ्चमोऽपि च । जनयेत्प्रधनं झुक्षा पञ्चत्वं पञ्चमोऽपि च ॥ पञ्चमस्य विशेपोऽयं कथितः पूर्वसूरिभिः। प्रगे प्रगीतो जनयेद्दशनस्य विपर्ययम् ॥' इति । नृत्यनुप्रासोऽलंकारः । अस्मिन्सर्गे मालिनी वृत्तम् । 'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ Page #276 -------------------------------------------------------------------------- ________________ २६४ शिशुपालवधे अथ पूर्वश्लोके इतिशब्दपरामृष्टानपररात्रप्रभृत्युत्तरोत्तरक्रमभाविनः प्रभातवृतान्तानासंर्गसमाप्ति वर्णयन्नाह - रतिरभसविलासाभ्यासतान्तं न यावनयनयुगममीलत्तावदेवाहतोऽसौ । रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥ २ ॥ रतीति ॥ रतिरभसविलासानां सुरतसंभ्रमलीलानामभ्यासेनावर्तनेन तान्तं क्लान्तं नयनयुगं कर्तृ । कामिनामिति शेषः । यावन्नामीलन मुकुलीभवति तावदेवासौ रजनिविरतिशंसी निशावसानसूचक उच्चैर्मृदङ्गः कामिनीनां भविष्यता उत्तरक्षणभाविना विरहेण विहितः कृतो निद्राभङ्गो यस्मिन्कर्मणि तद्यथा तथा आहतस्ताडितः । अत्र विरहशब्देन सामर्थ्यात्तच्चिन्ता लक्ष्यते । अन्यथा असतः सांप्रतिकनिद्राभङ्गहेतुत्वायोगादिति । अत्र रतितान्तत्वरजनि विरतिशंसनयोर्विशेषगत्या नेत्रनिमीलननिद्रा भङ्गहेतुत्वात्पदार्थहेतुके काव्यलिङ्गे ॥ स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् । anana महीयः शैशवे शापाणे अपलचरणकाब्दप्रेरणोतुङ्गिताग्रम् ।। ३ ।। स्फुटेति ॥ अल्पमूर्तेर्दूरत्वात्सूक्ष्मबिम्बस्य ध्रुवस्यौत्तानपादे: । 'ध्रुव औत्तानपादिः स्यात्' इत्यमरः । उपरिष्टात्स्फुटतरमुज्वलतरं व्यस्तं पर्यस्तमेतत्सुरमुनीनां सप्तर्षीणां मण्डलं शार्ङ्गपाणेः केशवस्य । कृष्णस्य तवेत्यर्थः । शैशवे प्रचलितस्य चपलस्य चरणकाऊस्याल्पचरणारविन्दस्य । 'अल्पे' इत्यल्पार्थे कन्प्रत्ययः । प्रेरणया नोदनेनोत्तुङ्गितमुत्तुङ्गीकृतमत्रं यस्य तत् । विपर्यासिताग्रमित्यर्थः । महीयो महत्तरं शकटमिव शकटाकारं शकटासुरशरीरमित्र स्फुरति दीप्यते । उपमालंकारः । पुरा किल बाल्ये कृष्णः शकटरूपधारिणं शकटासुरं पादघातेन पातयामासेति पौरा णिक कथात्रानुसंधेा ॥ प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति । मुहुरविशदवर्णा निद्रया शून्यशून्यां दपि गिरमन्तर्बुध्यते नो मनुष्यः ॥ ४ ॥ प्रहरकमिति ॥ स्वं स्वकीयम् । स्वपाल्यमित्यर्थः । प्रहर एव प्रहरको यामः । 'at यामप्रहरौ समौ' इत्यमरः । तमपनीय नीत्वा निदिदासता निद्रातुमिच्छता । निनातेः सन्नन्ताल्लटः शत्रादेशः । केनचिदतीतप्रहरपालेनेत्यर्थः । जागृहि प्रबुध्य Page #277 -------------------------------------------------------------------------- ________________ एकादशः सर्गः। २६५ स्खेति प्रतिपदं पदेपदे उच्चैरुपहूतो मनुष्योऽनन्तरयामिको मुहुन्द्रिया भविवादवर्णामस्पष्टाक्षरामत एव शून्यशून्यां शून्यप्रकाराम् । अनर्थप्रायामित्यर्थः। 'प्रकारे गुणवचनस्य' इति द्विर्भावः 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवदावादवयवसुपो लुक् । गिरमयमहं जागर्मीति प्रतिवाचं दददपि प्रयच्छन्नपि । 'नाभ्यस्ता. च्छतुः' इति नुमागमप्रतिषेधः । अन्तरन्तःकरणे नो बुध्यते न जागर्ति । बुध्यते. देवादिकाकर्तरि लट् । अत्राप्रबोधप्रतिक्चनदानयोविरोधे अपिशब्दः । निद्राबानाभ्यां तत्समाधानाद्विरोधाभासोऽलंकारः ॥ विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् । रतिपरिचयनश्यन्नद्रतन्द्रः कथंचि द्गमयति शयनीये शर्वरी किं करोतु ॥५॥ विपुलेति ॥ रमण्या विपुलतरस्य नितम्बस्याभोगेन विस्तारेण रुद्ध आक्रान्ते शयनीये शयितुमवकाशमनधिगच्छन्नलभमानो जीवितेशः प्रेयान्रतिपरिचयेन पुनःपुनः सुरतावृत्त्या नश्यन्ती निवर्तमाना निद्राया इयं नैदी निद्राप्रयुक्ता तन्द्रा आलस्यं यस्य स तथाभूतः सन् शर्वरी कथचिद्गमयति कृच्छ्रेण नयति । किं करोतु किमन्यत्कुर्यात् । शयनानवकाशे सुरतमेव कालयापनोपाय इति तत्रैव प्रवृत्त इति भावः । अत्र शयनीयस्येदृग्रोधासंबन्धेऽपि तत्संबन्धोक्तरतिशयोक्तिरलंकारः । तादृग्रोधस्स विशेषणगत्या शयनावकाशानधिगमहेतुत्वाकाव्यलिङ्गभेद इति संकरः ॥ क्षणशयितवियुवाः कल्पयन्तः प्रयोगा नुदधिमहति राज्ये काव्यवदुर्विगाहे। गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥६॥ क्षणेति ॥ क्षणं शयिताः सुरतश्रमापनोदाय विसुप्ता विबुद्धास्तदैव प्रबुद्धाः । यथाकालं प्रबुद्धत्वादिति भावः। क्षणशयितविबुद्धाः । स्नातानुलिप्तवत् 'पूर्वकाल-' इति समासः। महीपाः कवय इव अपररात्रे । रात्रे पश्चिमयाम इत्यर्थः । 'पूर्वापर-' इत्यादिना एकदेशिसमासे समासान्तोऽच् । 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । तत्र प्राप्तबुद्धिप्रसादा लब्धबुद्धिप्रकाशाः सन्तः उदधिमहति समुद्र. गम्भीरे । एकत्र तुरगादिभिरपरत्र रसभावादिभिश्चेति भावः । अत एव दुर्विगाहे दुष्प्रवेशे राज्ये काव्ये इव काव्यवत् । 'तत्र तस्येव' इति वतिप्रत्ययः । प्रयोगान्सामाधुपायानुष्टानानि, अन्यत्रार्थगुणसाधुशब्दगुम्फान्कल्पयन्तस्तयन्तः 'ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्' इति स्मरणादिति भावः । गहनं दुष्प्रापमन्यत्र दुर्दर्शमर्थजातं पुरुषार्थजातम् । त्रिवर्गमित्यर्थ। । अन्यत्र वाच्य शिशु० २३ Page #278 -------------------------------------------------------------------------- ________________ २६६ शिशुपालवधे लक्ष्यव्यङ्ग्यरूपमभिधेयजातं चिन्तयन्ति विचारयन्ति । इवशब्दस्योपलक्षणत्वा. काव्यवदिति वतिप्रत्ययेऽप्यनेकशब्दार्थगता श्रौती पूर्णा वाक्यार्थोपमा काव्य. वदिति तद्धितगता, कवय इति समासगता चेति संकीर्णा ॥ क्षितितटशयनान्तादुत्थितं दानपङ्क प्लुतबहुलशरीरं शाययत्येष भूयः । मृदुचलदपरान्तोदीरितान्दुनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥ ७॥ क्षितीति ॥ क्षितितटं भूतलमेव शयनान्तः शयनस्थानं तस्मादुत्थितम् । सुप्तोत्थितमित्यर्थः । अत एव दानपङ्कप्लुतबहुलशरीरं मदकर्दमोक्षितमहाकायं गजपतिमेषोऽधिरोहतीत्यधिरोह आरोहणः । पचाद्यच् । मृदु मन्दं चलता अपरान्तेन पश्चिमपादेनोदीरित उत्पादितोऽन्दूनिनादः शृङ्खलारवो यस्मिन्कर्मणि तद्यथा तथा। पक्ष एव पक्षकः पार्श्वः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । तस्य व्यत्ययेन । पार्थान्तरेणेत्यर्थः । भूयः शाययति शयनं कारयति । 'गतिबुद्धि-' इत्यादिना अणि कर्तुः कर्मत्वम् । स्वभावोक्तिरलंकारः ॥ द्रुततरकरदक्षाः क्षिप्तवैशाखशैले दधति दधनि धीरानारवान्वारिणीव । शशिनमिव सुरौघाः सारमुद्धर्तुमेते कलशिमुदधिगुर्वी बल्लवा लोडयन्ति ।। ८॥ द्रुतेति ॥ द्रुततरकरा अतिलघुहस्तास्ते च ते दक्षाश्च बल्लवा गोपालाः । "आभीरः स्यान्महाशूद्रो गोपालो बल्लवस्तथा' इति वैजयन्ती । विशाखा प्रयोजनमस्येति वैशाखो मन्थनदण्डः । 'वैशाखमन्थमन्थानमन्थानो मन्थनदण्डके' इत्यमरः । 'विशाखापाढादण्मन्थदण्डयोः' इत्यण्प्रत्ययः । वैशाखः शैल इवेत्युपमितसमासः। साहचर्याक्षिप्तो वैशाखशैलो यस्मिन् । धीरान्गम्भीरानारवान्दधति दधनि दन्ति । 'विभाषा ङिश्योः' इति विकल्पादल्लोपाभावः । वारिणीव सुरौघाः शशिनमिव सारं नवनीतमुद्धर्तुमुत्क्रष्टुमुदधिरिव गुर्वीम् । 'उपमानानि सामान्यवचनैः' इति समासः। तां कलशिं कुम्भीमेते लोडयन्ति मनन्ति । एषापि पूर्वतरवत्पूर्णा वाक्यार्थोपमा वाक्यसमाससंकीर्णा च ॥ अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कुकवाकोस्तारमाकर्ण्य कल्ये । कथमाये परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति प्राणनाथम् ॥९॥ अनुनयमिति ॥ अनुनयं प्रियप्रार्थनामगृहीत्वा नाङ्गीकृत्य पराची पराङ्मुखी Page #279 -------------------------------------------------------------------------- ________________ एकादशः सर्गः। व्याजेन कपटेन सुप्ता स्त्री। अथ कल्ये प्रभाते । 'प्रत्यूषोऽहमुखं कल्यम्' इत्यमरः । कृकवाकोः कुक्कुटस्य । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' इत्यमरः । 'कृके वचः कुक् च' इत्युण्प्रत्ययः । तारमुच्चै रुतं कूजितमाकर्ण्य कथमपि गात्रजृम्भणादिव्याजेन परिवृत्ता संमुखीभूता निद्रयान्धा किल अजानतीव मुकुलितनयनैव मीलिताक्षी सत्येव प्राणनाथमाश्लिष्यति । एषा कलहान्तरिता ॥ गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः । असकृदनवगीतं भीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः॥१०॥ गतमिति ॥ अनुगतवीणैरनुसृतवीणैर्वीणासंवादिभिर्वेणुनादेवंशस्त्ररैः एकतामेकरूपतां गतं कलमव्यक्तमधुरं अविकलोऽविसंवादी तालः कांस्यादितालो यस्य तत् बोध एव हेतुस्तस्य बोधहेतोः बोधकारणेन । बोधनार्थमित्यर्थः । फलस्थापि कारणत्वमिच्छाद्वारा स्वर्गादिवत्फलरागस्य तत्साधनप्रवृत्तिहेतुत्वाषष्ठी । गायकैवैतालिकैरनवगीतमगर्हितम् । 'अवगीतं तु निर्वादे मुहुर्दुष्टेऽपि गर्हिते' इति विश्वः । गीतं गीयमानं वस्तु, आवृत्तिर्वा । गीतशब्दस्य गीतं गानं समाकर्णयन्तो नरेन्द्राः सुखेन गानसुखेन मुकुलितनेत्रा निमीलिताक्षाः सन्तो निद्रा यान्ति भजन्ति । वृत्यनुप्रासोऽलंकारः ॥ परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वममूर्ध्वक्षुरेव । रिरसयिषति भूयः शष्पमग्रे विकीर्ण पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥ ११ ॥ परीति ॥ अयमश्वः परिशिथिलितं वस्तमुक्तं कर्णग्रीवं कौँ च ग्रीवा च यस्मिन्कर्मणि तद्यथा तथा आमीलिताक्षः ऊर्चे जानुनी यस्य स ऊर्ध्वजुः । ऊर्ध्वजानुस्तिष्ठन्नित्यर्थः । 'ऊर्ध्वजुर्वजानुः स्यात्' इत्यमरः । 'ऊर्ध्वाद्विभाषा' इति जानुशब्दस्य जुरादेशः । क्षणं स्वप्नं निद्रामनुभूय । उत्तमाश्वलक्षणमेतत् । भूयः पुनरपि पटुतरौ ग्रासग्रहणसमी चपलौ चञ्चलौ चोष्टौ यस्य स सन् प्रस्फुरत्प्रोथं प्रस्फुरमाणघोणं यथा तथा । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । अग्रे विकीर्ण क्षिप्तं शष्पं घासम् । 'शष्पं बालतृणं घासः' इत्यमरः । रिरसयिषति रस यितुमास्वादयितुमिच्छति । रसयतेः सन्नन्ताल्लद । स्वभावोक्तिरलंकारः । 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ॥ उदयमुदितदीप्तिर्याति यः संगतौ मे / पतति न वरमिन्दुः सोऽपरामेष गत्वा । Page #280 -------------------------------------------------------------------------- ________________ २६८ शिशुपालवधे मितरुचिरिव सद्यः साभ्यसूयं प्रभेति __ स्फुरति विशदमेषा पूर्वकाष्टाङ्गनायाः॥ १२ ॥ उदयमिति ॥ य इन्दुः मे मम संगताबुड़ितदीप्तिः प्रवृद्धद्युतिः सन् उदयमुदयाद्रिम् , अभ्युदयं च याति स इन्दुरेपोऽपरां पश्चिमाशां, पराङ्गनां च गत्वा पतत्यस्तमेति, पातित्यं च गच्छति । न वरम् । अनहमित्यर्थः । इति सद्यः साभ्यसूयं यथा तथा पूर्वकाष्ठा प्राची सैवाङ्गना, पूर्वनायिका च गम्यते । तस्याः मितरुचिर्मन्दहासकान्तिरिवैषा प्रभा विशदं निर्मलं स्फुरति प्रकाशते । प्राच्यामीषद्विशदा प्रभा प्रादुरभूदित्यर्थः । अत्र प्राचीगतप्राभातिकप्रभायामिन्दोः पराङ्गनासङ्गपातित्यनिमित्ता चेतनधर्मस्मितरुचिस्वोत्प्रेक्षा पूर्वकाष्टाङ्गनाया इति रूढिव्यूढेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ चिररतिपरिखेदप्राप्तनिद्रामुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः। अपरिचलितगात्राः कुर्वते न प्रियाणा मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥ १३ ॥ चिरेति ॥ चरममपि शयित्वा पश्चात्सुप्त्वापि पूर्वमेव प्रबुद्धाः । 'सुप्ते पश्चाच या शेते पूर्वमेव प्रबुध्यते । नान्यं कामयते चित्ते सा स्त्री या पतिव्रतः ॥' इति स्मरणादिति भावः । तथापि तरुण्योऽपरिचलितगात्रा अस्पन्दवपुष्काः सत्यः चिररतिपरिखेदेन प्राप्तनिद्रासुखानां प्रियाणामशिथिलो गाढो यो भुजचक्रेण परस्परभुजवलयेनाश्लेषस्तस्य भेदं विश्लेषं विस्रेसनं न कुर्वते किंवाश्लिष्यैव स्थिताः, अन्यथा तन्निद्राभङ्गः स्यात् । 'शयानं न प्रबोधयेत्' इति निषेधास्कन्दभयादिति भावः । रतिश्रमोऽत्र संचारी तदनुभावो निद्रा॥ कृतधवलिमभेदैः कुङ्कुमेनेव किंचि न्मलयरुहरजोभिर्भूपयन्पश्चिमाशाम् । हिमरुचिररुणिम्ना राजते रज्यमान र्जरठकमलकन्दच्छेदगोरेर्मयूखैः ।। १४ ॥ कृतेति ॥ हिमरुचिश्चन्द्रः अरुणिम्नास्तमयरागेण हेतुना रज्यमानैलोहिताय. मानैः । रऑर्दैवादिकात्कर्तरि शानच् । 'अनिदिताम्-' इति नलोपः । ब्रीणि रज्यति राजति लोहितायति चात्मन इति भट्टमल्लः । जरठस्य परिणतस्य कमलकन्दस्य छेदा इव गौरा: शुभ्राः । छेदग्रहणं धावल्यार्थम् । 'गौरः पीते सितेऽरुणः' इति विश्वः । तैर्मयूखैः कुङ्कुमेन किंचित्कृतो धवलिमभेदो धावल्यभङ्गो येषां तैरीषनग्नस्वधावल्यैः मलयरुहरजोभिश्चन्दनरेणुभिरिव पश्चिमाशां प्रेयसीनिवेति भावः । भूषयराजते । उपमालंकारः॥ Page #281 -------------------------------------------------------------------------- ________________ एकादशः सर्गः। २६९ दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छसद्भिः पलाशैः । कलरवमुपगीते षट्पदौन धत्तः कुमुदकमलपण्डे तुल्यरूपामवस्थाम् ॥ १५॥ दधदिति ॥ एकं कुमुदषण्डमानमद्भिर्मुकुलीभवद्भिः पलाशैर्दलैरसकलमधं खण्डिताम् । शीयमाणामित्यर्थः । श्रियं दधत् । अपरं कमलषण्डमुच्छसद्भिविकसद्भिः पलाशैरपूर्णी वर्धमानां श्रियं दधत् । षट्पदोघेन कलरवं यथा तथा उपगीते । उभे अपीत्यर्थः । कुमुदकमलपण्डे कुमुदानां कमलानां च षण्डे कदम्बे । 'कदम्बे पण्डमस्त्रियाम्' इत्यमरः । तुल्यरूपामवस्थां धत्तः दधाते । अत्र क्षयवृद्ध्योरर्थप्रवृत्तेरैकरूप्ये कस्य क्षयः कस्य वा वृद्धिरिति दुर्ग्रहमिति भावः । अत्रोभयविशेषणानां तुल्यावस्थाधारणहेतुकत्वात्काव्यलिङ्गम् । तेन दयोः क्रमेणोपमानोपमेयभावरूपोपमेयोपमा व्यज्यते ॥ मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् । वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः॥१६॥ मदेति ॥ संप्रति सितकरस्येन्दोरिदं करजालं कर्तृ उद्गच्छता उदयता अरुणेनानूरुणा मदरुचिं तत्तुल्यां रुचिम् । अरुणिमानमित्यर्थः । अत एव निदर्शनालंकारः । लम्भितस्य प्रापितस्य । लभेय॑न्तात्कर्मणि क्तः । 'लभेरशब्लिटोः' इति नुमागमः । अत एव चिराय स्थायिनी लजामाशु त्यजत इव । मुखप्रकाशनादियमुत्प्रेक्षा । वासवाशा प्राची तस्या एव युवत्या मुखस्य प्राग्भागस्याननस्य च वसनमिवावगुण्ठनपट इव वंसते गलति । रक्ताः स्त्रियः पाटलमुखा निलजाः स्रम्तवस्त्राश्च भवन्तीति भावः । अत्र मुखस्येति प्राग्भागवदनयोरभे. दाध्यवसायाच्छेपमूलातिशयोक्तिः तया पूर्वोक्तनिदर्शनोत्प्रेक्षाभ्यां चानुगृहीता वसनमिवेन्युत्प्रेक्षेति संकरः॥ अविरतरतलीलायासजातश्रमाणा मुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् । पुनरुषसि विविक्तैर्मातरिवावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥१७॥ अविरतेति ॥ अविरतरतलीलायासेनाविच्छिन्नसुरतक्रीडाप्रयासेन जातश्रमाणामङ्गनानां संबन्धिनि निःसहत इति निःसहेऽक्षमे । पचाद्यच् । अङ्गे उपशममुपयान्तं शाम्यन्तं मदन एवाग्निस्तं पुनरुषसि मातयन्तरिक्षे श्वयति वर्धत Page #282 -------------------------------------------------------------------------- ________________ २७० शिशुपालवधे इति मातरिश्वा । 'श्वन्नुक्षन्-' इत्यादिना औणादिको निपातः । विविक्तैरमलैरनानैश्च मालतीनां जातीकुसुमानाम् । 'सुमना मालती जातिः' इत्यमरः । रजोमिः परागैः । करीषैरिवेति भावः । अवचूावध्वस्य । संयुज्येति भावः । ज्वलयत्युद्दीपयति । प्राभातिकमालतीवातस्पर्शात्पुनरुद्बुद्धो मदन इत्यर्थः ॥ अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य । इदमुदवसितानामस्फुटालोकसंप नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ १८ ॥ अनिमिषमिति ॥ इदं पुरोवर्ति अस्फुटा सूर्यतेजोभिभवान्मन्दायमाना आलोकसंपत्प्रकाशसंपत्तिर्यस्य तत् , अन्यत्र निद्राभिभवादनुबुद्धविषयावधानशक्तिकं दीपस्येदं दैपमर्चिाला । 'ज्वालाभासोर्नपुंस्यचिः' इत्यमरः । सर्वस्यां रात्राविति सर्वरात्रम् । 'पूर्वकाल-' इत्यादिना समासः । 'अहःसर्व-' इत्यादिना समासान्तः 'रात्राहाहाः पुंसि' इति पुंलिङ्गता । अत्यन्तसंयोगे द्वितीया । अविरामा अविच्छिन्नाः रागिणां कामिनां, कामिनीनां च । 'पुमान्स्त्रिया' इत्येकशेषः। नवा निधुवनलीलाः सुरतविलासान् । 'व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सः' इति कोशः । कौतुकेन न निमिषतीत्यनिमिषं यथा तथा । पचाद्यच् । कुटादित्वास गुणः । अतिवीक्ष्य अत एव सनिमुदवसितानां गृहाणां संबन्धि । 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम्' इत्यमरः । नयनमिवेत्युत्प्रेक्षा । चूर्णते भ्रमति ॥ विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्यद्यौवनोदामरामा रमणरभसखेदस्वेदविच्छेददक्षः ॥ १९ ॥ विकचेति ॥ प्रमदमदनाम्यां हर्षमन्मथाभ्यां माद्यन्तीनां यौवनेनोद्दामानां च रामाणां स्त्रीणां रमणरभसखेदेन सुरतसंरम्भश्रमेण यः स्वेदस्तस्य छेदे हरणे दक्षो वातः प्रभातमारुतः विकचकमलगन्धैभृङ्गमाला अन्धयन्नन्धाः कुर्वन्मोहयन् । अन्धयतेः 'तत्करोति-' इति ण्यन्ताल्लटः शत्रादेशः । सुरभितः सुरभी. कृतो मकरन्दो यस्मिन्कर्मणि तद्यथा तथा मन्दमावति प्रचलति । अत्र वृत्त्यनुप्रासोऽलंकारः । श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥' इति आचार्योक्ता दश गुणाः प्रायेणात्र संभवन्तीति निपुणैरुन्नेयाः ॥ लुलितनयनताराः क्षामवकेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः । Page #283 -------------------------------------------------------------------------- ________________ एकादशः सर्गः। २७१ तिमिरमिव दधानाः संसिनः केशपाशा नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥२०॥ लुलितेति ॥ लुलितनयनताराः निद्राकलुषिताक्षिकनीनिकाः, अन्यत्राप्रसन्ननक्षत्राः । 'ऋक्षाक्षिमध्ययोस्तारा' इति विश्वः । वाणीन्दु बिम्बानीवेत्युपमित. समासः । तिमिरमिवेत्यादिलिङ्गात् , अन्यत्र वाणीवेन्दुबिम्बानि तानि क्षामाणि सुरतप्रभाताभ्यां म्लानानि यासां ताः निद्या स्वमेन मुकुलीभावेन क्लान्तानि नीलोत्पलानि अक्षीणीव नीलोत्पलानीवाक्षीणि यासां ताः संसिनः केशपाशांस्तिमिरमिवान्यत्र तु तानिव तिमिरं दधानाः अत एव रजनय इव स्थिताः । अमूरवध्वो वेश्याः। 'वारस्त्री गणिका वेश्या' इत्यमरः । अवनिपतिगृहेभ्यो यान्ति निर्यान्ति । श्लिष्टविशेषणेयमुपमेत्येके । श्लेष एवायमुभयविषयः । उपमा तु प्रतिभामात्रसारेत्यन्ये ॥ शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः सांप्रतं सत्वरेव । व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २१ ॥ शिशिरेति ॥ एषा रजनिर्वासरान्ते रात्रौ शिशिरकिरणश्चन्द्रस्तमेव कान्तमभिसार्याभिसृत्य । स्वार्थे णिच् । सांप्रतं श्वसनैस्तत्कालवातैर्निश्वासैश्च सुरभिगन्धिः सुगन्धिः अनिन्द्यैर्मनोहरैर्मयूखैरेवाङ्गरागैः परिमलितं व्याप्तं वासितं चाम्बरान्तं नभःप्रान्तं वस्त्रान्तं च वहन्ती भजन्ती सत्वरेव व्रजति । अवेन्दुतन्मयू. खादीनां कान्तत्वाङ्गरागत्वादिरूपणावगमादेकदेशविवर्ति रूपकम् ॥ नवकुमुदवनश्रीहासकेलिप्रसङ्गा दधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशोऽङ्के मुश्चति स्रस्तहस्तः शिशयिषुरिव पाण्डं म्लानमात्मानमिन्दुः ॥ २२ ॥ नवेति ॥ अधिकरुचिरयमिन्दुर्नवकुमुदवनश्रियो विकासः परिहासश्च स एवं केलिस्तस्यां प्रसङ्गादासङ्गादशेषामप्युषां सकलामपि रात्रिम् । 'विभावरी नक्तमुषा शर्वरी' इति विश्वः । अत्यन्तसंयोगे द्वितीया । जागरित्वा जागरणं कृत्वा शिशयिषुः शयितुमिच्छुरिव । शेतेः सन्नन्तादुप्रत्ययः । सस्तो हस्तो नक्षत्रविशेषः, करश्च यस्य स सन् अपरदिशः पश्चिमदिशोऽके समीपे, उत्सङ्गे च पाण्डं पाण्डुवर्ण म्लानं क्लान्तमात्मानं स्वशरीरं मुञ्चति । दक्षिणनायकः कयाचित्सह विहृत्य श्रान्तः कस्याश्चिदङ्के शेते तद्वदिति भावः । अत्र प्रहासकेल्यङ्ककरसंसनादिव्यवहारादिन्दुकुमुदवनश्रीपश्चिमानां नायकत्वप्रतीतेः समासोक्तिरलंकारः। विशेषणसाम्यं तूपलक्षणमित्यलंकारसर्वस्वकारः । सा चोत्प्रेक्षासंकीर्णा ॥ Page #284 -------------------------------------------------------------------------- ________________ २७२ शिशुपालवधे सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः। वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्षणेन ॥ २३ ॥ सरभसेति ॥ अधिनिशं निशायाम् । विभक्त्यर्थेऽव्ययीभावः । सरभसः सत्वरः परिरम्भ एवारम्भो व्यापारस्तत्र संरम्भस्तद्भाजा वल्लभेनाङ्गनायाः संबन्धि यद्वसनमपास्तं तद्वसनं निशान्ते प्रभातेऽपि रथचरणं चक्रं तद्वदिशालायां श्रोणौ लोलं सतृष्णमीक्षणं यस्य तेन वल्लभेन प्रदातुं नेप्यते । अत्र कसनाप्रतिदानस्य श्रोणीक्षणलौल्यहेतुकत्वात्काव्यलिङ्गम् ॥ सपदि कुमुदिनीभिमीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः । इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दु वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ २४ ॥ सपदीति ॥ सपदि सद्यः कुमुदिनीभिर्मीलितम् । भावे क्तः । हा हन्त क्षपा रात्रिरपि क्षयमागमत् । ताः समस्तास्तारका अपेता इति शुचा शोकेन चिन्तयन्दयितकलत्रः प्रियभार्य इन्दुः कृशमशेषं निःशेषं यथा तथा अष्टशोनं नष्टप्रभमङ्गं वहति । कलत्रप्रियस्य युगपत्सकलकलवनाशे महाशोको भवतीति भावः । अत्रेन्दोः प्रभातप्रयुक्ताङ्गकाश्यशोभाशयोयुगपत्कुमुदिन्यादिसकलकलवनाशनिमित्तहेतुकत्वमुत्प्रेक्ष्यते ॥ व्रजति विषयमक्ष्णामंशुमाली न याव त्तिमिरमखिलमस्तं तावदेवारुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तु प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥ २५ ॥ व्रजतीति ॥ अंशुमाली सूर्यः । ब्रीह्यादित्वादिनिप्रत्ययः । यावदक्ष्णां विषय भूमि न व्रजति । दृश्यत इत्यर्थः । तावदेवारुणेनानूरुणाखिलं तिमिरमस्तमपास्तं परेषां परिभवि तिरस्कारकम् । 'जिघृक्षि-' इत्यानादिना इनिप्रत्ययः । तेजः प्रतापं तन्वतां प्रथयतामने सरतीत्यग्रेसरः पुरःसरोऽपि । 'पुरोऽग्रतोऽग्रेषु सर्तेः' इति टप्रत्ययः। विपक्षस्य शत्रोरुच्छेदं कर्तुमाशु प्रभवति शक्नोति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ विगततिमिरपकं पश्यति व्योम याव झुवति विरहखिन्नः पक्षती यावदेव । Page #285 -------------------------------------------------------------------------- ________________ एकादशः सर्गः 1 रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी || २६ ।। विगतेति ॥ विरहेण खिन्नः रथचरणेन चक्रेण समाह्नस्तुल्याख्यः तस्येव समाह्वा समाख्या यस्येति वा रथचरणसमाह्वः । चक्रवाक इत्यर्थः । 'कोकश्च ऋश्चक्रवाको रथाङ्गाह्वयनामकः' इत्यमरः । तिमिरं पङ्कमिवेत्युपमितसमासः । तद्विगतं यस्मात्तद्योम यावत्पश्यति तावदेव पक्षती पक्षमूले । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । ‘पक्षात्तिः' इति तिप्रत्ययः । ध्रुवति उत्पतितुं धुनोति । 'धू विधूनने' इति धातोस्तौदादिकत्वादुवङादेशः । तावदेवोत्पतनात्प्रागेव चक्रवाकी चक्रवाकस्य स्त्री । 'जातेरखीविषयादयोपधात्' इति ङीष् । औत्सुक्येनोकण्या नुन्ना प्रेरिता सती सरितोऽपरान्तात्परभूमेः सकाशादागता । एतेनानयोरुन्मनस्कता समश्चानुराग इत्युक्तम् । अत्र रागौत्सुक्ययो रसभावयोस्तिर्यग्गतत्वेनाभासयोर्निबन्धनादूर्जस्वी नामालंकारः । ' रसभावतदाभासप्रशमान निबन्धने । रसवत्प्रेय ऊर्जस्विसमाहितानि' इति लक्षणात् ॥ मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताथ । परिमलरुचिराभियकृतास्तु प्रभाते २७३ युवतिभिरुपभोगान्नीरुचः पुष्पमालाः || २७ ॥ मुदितेति ॥ प्रदोषे रात्रौ मुदितानि यूनां मनांसि याभिस्ताः मुदितयुवमनस्काः । ‘उरःप्रभृतिभ्यः कप् । कल्पिता उपभोगाय संपादिताः भूषिता वलयवसनादिभिरुपस्कृताश्च उभय्य उभयविधा युवतयः पुष्पमालाश्च । ' उभादुदात्तो नित्यम्' इति उभस्यायजादेशः 'टिड्डाणञ्-' इत्यादिना ङीप् । तुल्यमेवावशेषं यथा तथा रुचं शोभामदधुर्धृतवत्यः । धानो लिट् । प्रभाते तूपभो गान्नीरुचो निष्प्रभाः पुष्पमालाः परिमलेन विमर्दगन्धेन रुचिराभिरुपभोगादधिसुरभिभिर्युवतिभिर्न्य कृतास्त्यक्ता अवधीरिताश्च । अत्र पुष्पमालाभ्यो युवतीनां साम्योक्तिपूर्वकविमर्दस हत्येनाधिक्योक्तेव्यतिरेकः ॥ विलुलितकमलः कीर्णवली वितानः प्रतिवनमववृताशेषशाखिप्रसूनः । कचिदयमनवस्थः स्थानतामेति वायुमधुकुसुममिदङ्गन्धिवे इमान्तरेषु ॥ २८ ॥ विलुलितेति ॥ वनेवने प्रतिवनम् । याथाध्यैऽव्ययीभावः । विलुलिता व्यालोलिताः कमलौघा येन सः । कीर्णा विक्षिप्ता वल्लीनां मालयादीनां विताना विस्तारा येन सः । अवधूतान्यशेषशाखिनां बकुलचम्पकादीनां प्रसूनानि येन सः । तथापि क्वचित्पूर्वोक्तकमलवनादौ कुत्रापि नास्त्यवस्था स्थितिरत्येत्यनवस्थां स्थिति Page #286 -------------------------------------------------------------------------- ________________ २७४ शिशुपालवधे मप्राप्तोऽयं वायुर्वधूनां कुसुमानां च विमर्दैन संघर्षणोद्गन्धिद्गतगन्धेषु । गन्ध. स्येत्वम् । वेश्मान्तरेषु गृहान्तरेषु स्थास्तुतां स्थायित्वमेति । पूर्वोक्तसर्वोत्कृष्टसौरभलोभादिति भावः । 'ग्लाजिस्थश्च-' इति स्नुप्रत्ययः । वधुशब्दो ह्रस्वोकारान्तोऽप्यस्ति । यद्वा 'मधुकुसुम' इति पाठः । मधुयुक्तानि कुसुमानि तेषां विम. देनेत्यर्थः । अत्र वायोरस्थायित्वेऽपि स्थायित्वसंबन्धोक्तरतिशयोक्तिः। तथा विमदंगन्धस्य कमलादिगन्धादाधिक्यरूपव्यतिरेकप्रतीतेरलंकारेणालंकारध्वनिः ॥ नखपदवलिनाभीसंधिभागेषु लक्ष्यः । क्षतिषु च दशनानामङ्गनायाः सशेषः। अपि रहसि कृतानां वाग्विहीनोऽपि जातः सुरतविलसितानां वर्णको वर्णकोऽसौ ॥ २९ ॥ नखपदेति ॥ नखपदेषु नखक्षतेषु वलिषु त्रिवलिषु नाभ्यां संधिभागेषु कृपरादिदेहसंधिस्थानेषु तथा दशनानां क्षतिषु दन्तव्रणेषु च सशेषः सावशेषः किंचिद्वेद्यमानः अत एव लक्ष्यो दृश्योऽङ्गनायाः संबन्धी असो वर्णयति वर्ण करोति रञ्जयतीति वर्णकोऽङ्गरागो वाग्विहीनो वागिन्द्रियरहितोऽपि सन् रहसि कृतानामपि सुरतविलसितानां सुरतचेष्टितानां वर्णयति वक्तीति वर्णको वक्ता । व्यञ्जक इत्यर्थः। वर्णयतेवुलप्रत्ययः । 'वर्णक्रियायां विस्तारे गुणोक्ती वर्णनेऽप्यदः' इति भट्टमल्लः । जातः नखक्षतादिष्वेव लक्ष्यमाणोऽङ्गरागोऽन्यत्र स्व वि. लोपाचेष्टाविशेषानुमापको जात इत्यर्थः। अत्र वाग्विहीनोऽपि रहस्यकृतानामपि वर्णको वक्तेति विरोधस्य व्यञ्जकत्वलक्षणया परिहाराद्विरोधाभासोऽलंकारः॥ प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकै रधिगतरतिशोभैः प्रत्युषःप्रोषितश्रीः। उपहसित इवासौ चन्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभार्गः ॥३०॥ प्रकटेति ॥ उपसि प्रत्युपः। विभक्त्यर्थेऽव्ययीभावः । यद्वा प्रत्युषः प्रभातम् । 'उषःप्रत्युषसी अपि' इत्यमरः । तत्र प्रोषितश्रीभ्रंष्टशोभः अत एव प्रकटमलिनलक्ष्मा स्पष्टदृष्टकल कोऽसौ चन्द्रमाः मृष्टाः प्रमृष्टाः पत्रावल्यः पत्रभङ्गाः येषां तैः । 'नवृतश्च' इति कप् । तथाप्यधिगता रतिशोभा संभोगश्रीर्येषां तैः । परिणताः परिपक्काः शरकाण्डा बाणाख्यतृणकाण्डिकाः । 'शरो बाणे बालतृणे' इति शब्दार्णवे। तद्वदापाण्डुभिः कामिनीनां गण्डभागैर्गण्डस्थलैरुपहसित इवेत्युत्प्रेक्षा। पाण्डिमगुणनिमित्ता निष्कलङ्काः सकरकं समानमानिनमुपहसन्तीति भावः ॥ अथ काचित्खण्डिता नायिका सागसं प्रेयांसं प्रातरागतं पञ्चभिरुपालभतेसकलमपि निकामं कामलोलान्यनारी रतिरभसविमर्भिनवत्यङ्गरागे । Page #287 -------------------------------------------------------------------------- ________________ एकादशः सर्गः। २७५ इदमतिमहदेवाश्चर्यमाश्चर्यधाम्न स्तव खलु मुखरागो यन्न भेदं प्रयातः॥ ३१ ॥ सकलमित्यादि । कामेन लोलाया अन्यनार्याः सपल्या रतिरभसेषु सुर. तसंभ्रमेषु विमर्दैः पीडनैः । रज्यतेऽनेनेति रागः अङ्गस्य रागोऽङ्गरागः विलेपनं, अङ्गविकासश्च तस्मिन्नङ्गरागे सकलमपि निःशेषं यथा तथा निकामं भिन्नवति विश्लिष्टवति सति आश्चर्यधाम्नः सर्वाद्भुतनिधानस्य तव मुखरागो मुखविकासो भेदं विश्लेषं न प्रयात इति यत् । इदमेवातिमहदाश्चर्य खलु । मुखस्याप्यङ्गत्वेन तद्रागस्याप्यगरागत्वादिति भावः । अत्र विलेपनविकासाख्ययोरङ्गरागयोरेवानाध्यवसायेन विरोधः । भेदाननुसंधानत्वेनाविरोध इति श्लेषमूलातिशयोक्तयुस्थापितो विरोधाभासोऽलंकारः ॥ प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः । स्फुटमिति सविशकं कान्तया तुल्यवर्णः। चरणतलसरोजाक्रान्तिसंक्रान्तयासौ वपुपि नखविलेखो लाक्षया रक्षितस्ते ॥ ३२ ॥ प्रकटेति ॥ किंच प्रकटतरमतिस्फुटमिममेनं नखविलेखम् । अन्या रमण्यो निजसपल्यः स्फुटं मा द्राक्षुः न पश्यन्तु । दृशेलुङ् 'न दृशः' इति क्साभाव. पक्षे सि चि वृद्धिः । इति बुद्ध्या कान्तया सविशङ्कं यथा तथा तुल्यवर्णो लाक्षासमानवर्णः । विवर्णस्य दुरपह्नवत्वादिति भावः । असौ ते तव वपुषि नखविलेखो नखव्रणश्वरणतलं सरोजमिवेत्युपमितसमासः । आक्रान्तिलिङ्गात्तस्या आक्रान्त्या आघातेन संक्रान्तया लाक्षया रक्षितो गुप्तः । आच्छादित इत्यर्थः । हन्त सा तु पापीयसी लाक्षा स्वयमेव सर्वदुर्वृत्तपिशुनेति भावः । अत्र नख. दिलेखस्य लाक्षासावात्तदेकतापत्तेः सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरै कता' इति लक्षणात् ॥ जदवितथमवादीयन्मम त्वं प्रियेति प्रियजनपरिमुक्तं यदुकूलं दधानः । मदाधिवसतिमागाः कामिनां मण्डनश्री जति हि सफलत्वं वल्लभालोकनेन ॥ ३३ ॥ तदिति ॥ किं च मम त्वमेव मियेति यदवादीरवोचः । वदेलुङि वदव्रज-' इत्यादिना वृद्धिः । तदवितथं सत्यम् । कुतः । यद्यस्मात् प्रियजनेन परिमुक्तं दुकूलम् । तदीयमित्यर्थः । दधानः धारयन्नित्यर्थः । दधान इत्यत्र 'वसानः' इति पाटे वसान आच्छादयन् । वस आच्छादनार्थालटः शानजादेशः । स त्वं मदधिवसतिं मम निवासमागाः प्राप्तः । 'इगो गा लुङि' । युक्तं चैतदित्याह Page #288 -------------------------------------------------------------------------- ________________ २७६ शिशुपालवधे कामिनां मण्डनश्रीवल्लभानां प्रेयसीनामालोकनेन सफलत्वं व्रजति हि । अप्रिया चेत्कथमीदृशी मे संभावनेति भावः । अर्थान्तरन्यासः ॥ नवनखपदमङ्गं गोपयस्यंशुकेन ___ स्थगयसि पुनरोष्टं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ३४ ॥ नवेति ॥ किंच नवानि नखपदानि यस्मिंस्तदङ्गं वपुरंशुकेन गोपयसि छादयसि । गुपेश्चौरादिकात्स्वाथै णिच् । दन्तेन दएमोष्टं पुनरोष्टं तु पाणिना स्थग यसि छादयसि । स्थगिरपि चौरादिकः । दिशिदिशि प्रतिदिशम् । विनत्यधैऽव्ययीभावः । 'अव्ययीभावे शरत्पनृतिभ्यः' इति समासान्तष्टच्प्रत्ययः । विसपन्प्रसर्पन अपरस्त्रीसङ्गशंसी स्यन्तरसङ्गसूचकः । अन्यप्रभवत्वात्तस्येति भावः । नवः परिमलाख्यो गन्धः परिमलगन्धः । 'विमर्दोत्थे परिमलः' इत्यमरः । केन केनोपायेन वरीतुमाच्छादयितुम् । 'वृतो वा' इतीटो दीर्घः। शक्यः । न केनापि शक्य इत्यर्थः । अत्र नखदन्तक्षतयोरङ्गौष्टाच्छादने विसर्पणस्य बन्धानाच्छाद्यन्ये च विशेषगगत्या हेनुकत्वाकादयलिङ्गडये सजातीयसंकरः ॥ इति कृतवचनार्याः कश्चिद भ्येत्य विभ्य इलितनयनबारेयाति पादावनामम् । करुणमपि समर्थ मानिना मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ३५ ॥ कुलकम् ।। इतीति ॥ इति पूर्वोक्तश्लोकचतुष्टयरीत्या कृतवचनायाः कृतोपालम्भायाः गलितनयनवारेरधैर्यान्मुक्ताश्रोः । प्रेयस्या इति शेषः । कश्चिन्नायको बिभ्यत्रस्यन् । 'नाभ्यस्ताच्छतुः' इति नुमभावः । अभ्येत्यागत्य पादयोरवनाममवनात याति । प्रणामेन प्रसादयतीत्यर्थः। ननु कथमीमार्दवं तथाहंकारिणस्तस्य रोदनमात्रेण तत्राह-करुणमिति । तथाहि विग्रहेषु प्रणयकलहेषु योषितां फरुणं दीनमपि रुदितमश्रुमोचनं मानिनामहंकारिणां पुंसां मानभेदेऽहंकारनिरासे समर्थ शक्तमस्त्रं साधनमुदितमुक्तम् । वदेः कर्मणि क्तः 'वचिस्तपि-' इत्यादिना संप्रसारणम् । दीने प्रणयिजने पुंसां कोऽहंकार इति भावः । अर्थान्तरन्यासः । एषा च खण्डिता नायिका । 'नीत्वान्यत्र निशां प्रातरागते प्राणवलभे । अन्यासंभोगचिह्नस्तु खण्डितेाकषायिता ॥' इति लक्षणात् । नायकस्तु पृष्टः । 'व्यक्ताङ्गो निभयो पृष्टः' इति लक्षणात् । न चेह बिभ्यद्विशेषणविरोधैः । आगमनकालेऽनिर्भीकताया एव लक्षणोपयोगात् । अन्यथा वैरं स्यादिति भावः । अयं च सहृदयः । अन्यथा रसाभास इत्याहुः ॥ Page #289 -------------------------------------------------------------------------- ________________ २७७ एकादशः सर्गः। २७७ मदमदनविकासस्पष्टधार्योदयानां रतिकलहविकीर्णभूषणैरर्चितेषु । विदधति न गृहेषत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्साः ॥ ३६ ॥ मदेति ॥ मदमदनयोर्विकासेन विजृम्भणेन स्पष्टो धाय॑स्योदय आविर्भावो यासां तासां कामिनीनां रतिरेव कलहस्तस्मिन्विकीर्णैरितस्ततो विक्षिप्तैर्भूषणैरचिंतेषु गृहेषु वयस्याः स्निग्धपरिचारिकाः विनीयन्तेऽस्मिन्निति विनयोऽधिकारः तत्र यत्नो विफलो यासां ता विफलविनययत्नाः निष्फलस्वाधिकारोद्योगाः सत्यः उत्फुल्लैः पुष्पैरुपहारं पूजां न विदधति न कुर्वन्ति । अत्र समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् । तेन तासां तेष्वाभरणेषु भुक्तवस्त्रमाल्यादिवन्निर्माल्यबुद्धिव॑न्यते ॥ करजदशनचिह्न नैशमङ्गेऽन्यनारी जनितमिति सरोषामीjया शङ्कमानाम् । स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं बीडमानां विलासी ॥३७॥ करजेति ॥ विलसनशीलो विलासी । 'वौ कषलस-' इत्यादिना घिनुण्प्रत्ययः । अङ्गे निजाङ्गे निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' इत्यण्प्रत्ययः । करजदशनचिह्न नखदन्तक्षतमन्यनारीजनितं सपत्नीकृतमिति शङ्कमानां विश्वसतीमत एवेर्ण्यया अक्षमया सरोषां स्त्रियं निजवधूं मत्तया मदमूढया त्वयैवैतहत्तमेवं कृतं खलु न स्मरसि नाभिजानासि किमिति काकुः । इत्थमनेन प्रकारेण बीडमानां स्वकृतत्वप्रत्यभिज्ञानाल्लजितां सतीमनुनयत्यङ्गीकारयति । स्वमौग्ध्यव्याघातो निर्वेदश्च लज्जया व्यज्यते ॥ कृतगुरुतरहारच्छेदमालिङ्गय पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने । विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ३८॥ - कृतेति ॥ कृतो गुरुतरस्य हारस्य छेदो यस्मिंस्तत्तथा आलिङ्गय परिशिथिलितगाने शिथिलीकृताङ्गे पत्यौ भर्तरि गन्तुमापृच्छमाने आमन्त्रयमाणे सति । 'आङि नुप्रच्छयोः' इत्युपसंख्यानादात्मनेपदम् । कर्तरि लटः शानजादेशः । तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । अबलायाः स्तनयुगं कर्तृ । विगलिता निःसृता नवमुक्ता नूतनमौक्तिकान्येव स्थूलबाष्पाम्बुबिन्दवो यस्मिन्कर्मणि शिशु० २४ Page #290 -------------------------------------------------------------------------- ________________ २७८ , शिशुपालवधे: तत्तथा रोदितीव विरहासहिष्णुतया रोदनं करोतीवेत्युत्प्रेक्षा रूपकसंकीर्णा । 'रुदादिभ्यः सार्वधातुके' इतीडागमः ॥ बहु जगद पुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य । विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य ___ व्यपगतमदयाह्नि वीडितं मुग्धवध्वा ॥ ३९ ॥ बहिति ॥ अति दिवसे व्यपगतमदया मुग्धवधवा सखीभ्यो विदितम् । रात्रौ त्वयेत्थं कृतमिति सखीभिराख्यातमित्यर्थः । रात्रिवृत्तम् । रात्रौ कृतं स्वचेष्टितमित्यर्थः । मत्ता मदमूढा अहं तस्य प्रियस्य पुरस्तादने बहु अनेकं जगद किल गदानि स्म । किलेत्यैतिह्ये । अत एव 'परोक्षे लिट्' 'णलुत्तमो वा' इति पक्षे णित्त्वाभावावृद्ध्यभावः । च पुनः प्रौढयोषिता तुल्यं प्रौढयोषिद्वदित्युपमा । 'तेन तुल्यम्-' इति वतिप्रत्ययः । अस्य प्रियस्य चाटु प्रियवचनं चकर किल अकार्ष किल । लिडादिपूर्ववद्गुणो विशेषः । इति विचिन्त्य विमृश्य व्रीडितं लज्जितम् । भावे क्तः । निजकार्यप्रकाशेन लजान संचारी भावः । भावनिबन्धनात्प्रेयोऽलंकारः॥ अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकजलेन्दीवराक्षी । अनुपतति विरावैः पत्रिणां व्याहरन्ती .. रजनिमचिरजाता पूर्वसंध्या सुतेव ॥ ४०॥ अरुणेति ॥ अरुणजलजराज्येव रक्तकमलश्रेण्येव मुग्धं सुन्दरं हस्तानपादं हस्तौ च अग्रपादौ च यस्याः सा बहुलं मधुपमालाकजलं कजलमिव मधुपमाला ययोस्ते अक्षिणी इन्दीवरे इव यस्याः सा बहुलमधुपमालाकजलेन्दीवराक्षी पत्रिणां पक्षिणां विरावैाहरन्ती आलपन्ती । 'व्याहार उक्तिर्लपितम्' इत्यमरः । अचिरजाता सद्योभवा बाला च पूर्वसंध्या प्रातःसंध्या सुतेव पुत्रीव रजनिमनुपतत्यनुधावति । जननीमिवेत्यर्थः । इह विरावैाहरन्तीति व्यधिकरणपरिणामः तत्संकीर्णेयमुपमा ॥ प्रतिशरणमशीर्णज्योतिरन्याहितानां विधिविहितविरिन्धैः सामिधेनीरधीत्य । कृतगुरुदुरितोषध्वंसमध्वयुवर्यै- हुँतमयमुपलीढे साधु सांनाय्यमग्निः ॥४१॥ प्रतीति ॥ अग्निराहितो यस्तेषामन्याहितानाम् । 'वाहितान्यादिषु' इति निष्ठायाः परनिपातः । प्रतिशरणं प्रतिगृहम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । Page #291 -------------------------------------------------------------------------- ________________ एकादशः सर्गः । 1 अशीर्णज्योतिरक्षतार्चिरयमग्निराहवनीयः विधिना 'यज्ञकर्मण्यजपन्यूंखसामसु' इत्यादिशास्त्रोक्तरीत्या विहिता यथायोगमुच्चारिता विरिब्धाः स्वरा एकश्रुत्यादयचत्वारो यैस्तैः । 'क्षुब्धस्वान्त' इत्यादिना 'रेस्ट शब्दे' इति धातोः स्वरे विधिशब्दो निष्टान्तोऽनित्वेन निपातितः । अध्वर्युवयैः ऋत्विक्श्रेष्ठैः । ऋवि विशेपवाचिनाध्वर्युशब्देन ऋत्विया लक्षणात् । यद्वा अध्वर्युर्वेर्यो मुख्यो येषां तैरध्वर्युप्रमुखैः चतुर्भिर्ऋत्विग्भिरित्यर्थः । तस्मादर्श पौर्णमासयोर्यज्ञऋत्वोश्चत्वार ऋत्विज इति श्रवणात् । दर्शश्चायं सत्यचैव सांनाय्यविधानादिति । सामिधेनीः '" वो वाजा' इत्यादिका अग्निसमिन्धनीर्ऋचोऽधीत्य पठित्वा । 'ऋक्सामिधेनी धाय्या च या स्यादसिमिन्धने' इत्यमरः । सामिधेनीग्रहणं याज्यापुरोनुवाक्यादिमत्रान्तराणामप्युपलक्षणम् । कृतो गुरुतरदुरितानामोघस्य ध्वंसो यस्मिन्कणि तद्यथा तथा साधु सम्यग्युतं देवतोद्देशेन त्यक्तं संनीयत इति सांनाय्र्य हविर्विशेषम् | 'ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया' मिति विहिते दधिपयसी इत्यर्थ: । 'पाय्यसांनाय्य निकाय्य -' इत्यादिना हविर्विशेषे संपूर्वान्नयते न्तादायादेशोपसर्गदीर्धनिपातः । उपलीढे आस्वादयति । 'लिह आस्वादने' इति धातोः स्वरितेत्वाटि डि टेरेवं दत्त्वढलोपदीर्घाः । अत्राग्नेः सांनाय्योपले हनस्योत्तर कालभावित्वेऽपि तदुपलक्षितस्य कर्मण उदिते आदित्ये पौर्णमास्यात प्रक्रमति प्रागुदयादमावास्याया इति शास्त्रात्तत्कालप्रक्रान्तस्य वर्तमानत्वात्तस्यापि वर्तमानताव्यपदेशः । एतच्चाहिताग्नित्वमात्रेण कालविशेषा. नादरेणोक्तमिति पूर्वोक्तचन्द्रोदयाद्यविरोधः । अथवा 'उदिते जुहोत्यनुदिते जुहोति प्रातर्जुहोत्यग्निहोत्रं' इति तत्कालत्वात्सामिधेनीसांनाय्यशब्दयोर्म हविर्मा त्रपरत्वमाश्रित्याग्निहोत्रपरत्वेन व्याख्येयम् । तस्मादग्निहोत्रस्य यज्ञऋत्वोः एक ऋत्विगित्येकाध्वर्युकत्वेऽध्वर्युवर्यैरिति बहुवचनं यजमानबहुत्वादुपपद्यत इत्याहुरित्यलं छान्दसगोष्टीव्यसनेन । वृत्यनुप्रासोऽलंकारः स्पष्ट एव ॥ प्रकृतजपविधीनामास्यमुद्रमिदन्तं मुहुरपिहितमोठ्यैरक्षरैर्लक्ष्यमन्यैः । अनुकृतिमनुवेलं घट्टितोडितस्य व्रजति नियमभाजां मुग्धमुक्तापुरस्य ॥ ४२ ॥ २७९ प्रकृतेति ॥ प्रकृतजपविधीनां प्रकान्तजपकर्मणां नियमभाजां तपस्विनां संबन्धे ओष्ठे भवैरोष्यैः । ‘शरीरावयवाच्च' इति यत्प्रत्ययः । अक्षरैर्वणैः । उपूपध्मानीयैरित्यर्थः । ‘उपूपध्मानीयानामोौ' इत्यनुशासनात् । मुहुरपिहितमावृतमन्यैरनोष्ठयैरक्षरैर्लक्ष्यं दर्शनीयं अत एवोद्रश्मय उद्द्वतांशवो दन्ता यस्य तदास्यं मुखमनुवेलं प्रतिक्षणं घट्टितोद्वहितस्य प्राणित्वान्मुहुर्घटितविघटितस्य । विशेषणसमासः । मुग्धं सुन्दरं यन्मुक्तानां मुक्ताफलानां पुटं कोटिः । शुक्तिरिति या Page #292 -------------------------------------------------------------------------- ________________ २८० शिशुपालवधे वत् । तस्यानुकृतिं साम्यं व्रजति । उपमालंकारः । एतेन श्लोकद्वये बहवः कर्मनिष्ठास्तपोनिष्ठाश्च ब्राह्मणा भगवन्तमनुयान्तीति कथितम् ॥ नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानार्चिः ॥ ४३ ॥ नवेति ॥ कुलिशं पाणौ यस्य स कुलिशपाणिरिन्द्रः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । एतदेवात्र व्यधिकरणबहुव्रीहेश्व ज्ञापकम् । तस्य ककुभि प्राच्यां दिशि नवकनकवत्पिशङ्गं वासराणां विधातुर्दिनकरस्य भासां वितानं करजालं महाब्धेरम्भांसि दग्ध्वा जनितभुवनदाहारम्भं कृतजगद्दाहोद्योगं सदूर्ध्वमब्धेरुपरि ज्वलितमौर्वानलार्चिर्वडवानलज्योतिरिव भातीत्युत्प्रेक्षा ॥ विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः । कृतचपलविहंगालापकोलाहलाभि र्जलनिधिजलमध्यादेष उत्तार्यः ॥ ४४ ॥ विततेति ॥ वितताभिः प्रसारिताभिः पृथुवरत्राभिर्महारज्जुभिस्तुल्यरूपैस्तुल्याकारैर्मयूखैः किरणैर्गरीयान्कलश इवाकृष्यमाणः सन्नेषोऽर्कः कृतश्चपलः सत्वरो विहंगालाप एव कोलाहलः कलकलो याभिस्ताभिः दिग्भिर्जलनिधेः जलमध्यादुत्तार्यते उड्रियते । तरतेर्ण्यन्तात्कर्मणि लट् । यथा कुतश्चित्कूपात्कुम्भः पाशैराकृष्य सकलकलं बहुभिः स्त्रीभिरुद्भियते तद्वदिति भावः । अत्र वरत्रातुल्यरूपैः कलश इवेति चोपमाभ्यां विहंगालापकोलाहलेति रूपकेण चोज्जीवितार्कस्य दिकर्तृकोत्तारणोत्प्रेक्षा व्यञ्जकाप्रयोगात्प्रतीयमानेति संकरः ॥ पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया वाडवाः । यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ४५ ॥ पयसीति ॥ अयं च विवस्वान् नक्तं सलिलराशेः पयसि निमग्नोऽन्तर्वाडवाग्नेर्ज्यालयानिशमतापि तप्तः स्फुटमित्युत्प्रेक्षा । कुतः । यदिदानीमुद्यन् इदं ज्वलितः प्रज्वलन्यः खदिरकाष्ठस्याङ्गारस्तद्वगौरमरुणमङ्गं दधाति । 'गौरोऽरुणे सिते पीते' इति विश्वः ॥ Page #293 -------------------------------------------------------------------------- ________________ एकादशः सर्गः। २८१ अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव । नवकरनिकरेण स्पष्टबन्धूकसून स्तबकरचितमेते शेखरं बिभ्रतीव ॥ ४६॥ अतुहिनेति ॥ क्षणमुपरिंगतेन स्थितेनातुहिनरुचिनार्केण केवलमसावुदयाद्रिः पूर्वा दिर्न । 'उदयः पूर्वपर्वतः' इत्यमरः। किंत्वेते सर्व एव क्ष्माभृतः सर्वेऽपि शैलाः क्षणमुपरिगतेनावस्थितेन नवकरनिकरेण स्पष्टैर्विकसितैर्बन्धूकसूनस्तबकैर्बन्धुजीवककुसुमगुच्छैर्विरचितम् । 'बन्धूको बन्धुजीवकः' इत्यमरः । शेखरं शिखामाल्यम् । 'शिखास्वापीडशेखरौ' इत्यमरः । बिभ्रतीवेत्युत्प्रेक्षा । न केवलमर्केणो. दयाद्रिरेव बन्धूकशेखरं बिभर्ति, किंतु तत्करजालेन सर्वेऽपि पर्वतास्तथेत्यर्थः ॥ उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्ग न्सकमलमुखहासं वीक्षितः पद्मिनीभिः। विततमृदुकराग्रः शब्दयन्त्या वयोभिः ___ परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥ ४७ ॥ उदयेति ॥ एष बाल उदितमात्रः बालश्चासौ सूर्यश्च बालसूर्यः उदयशिखरिशृङ्गस्योदयादिशिखरस्य प्राङ्गणेषु रिङ्गन्संचरन्पद्मिनीभिर्नलिनीभिः स्त्रीविशेपैश्च । 'पद्मिनी स्त्रीविशेषेऽपि' इति विश्वः । कमलान्येव मुखानि तेषां हासेन विकासेन, हास्येन च सह यस्मिन्कर्मणि तद्यथा तथा वीक्षितः सन् । वयोभिः पक्षिभिः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । शब्दयन्त्याः शब्दं कुर्वत्याः। आगच्छागच्छ वत्सेति व्याहरन्त्या इत्यर्थः । शब्दशब्दात् 'तत्करोति-' इति ण्यन्ताल्लटः शतरि ङीप् । दिवोऽन्तरिक्षस्य मातुश्चाङ्के समीपे, उत्सङ्गे च विततानि प्रसृतानि मृदूनि कराग्राणि किरणाग्राणि हस्ताग्रे च यस्य सन् हेलया लीलया परिपतति । श्लेषमूलातिशयोक्त्यनुगृहीतरूपकम् ॥ क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् । भुवनतलमशेषं प्रत्यवेक्षिष्यमाण: क्षितिधरतटपीठादुत्थितः सप्तसप्तिः॥४८॥ क्षणमिति ॥ अयं सप्तसप्तिरर्कः क्षणमुपविष्टः क्षितिधरपीठमध्यासीनः क्ष्मातलन्यस्तपादः । प्रणामस्वीकाराय भूतलप्रसारिताद्भिरित्यर्थः । प्रणतिपरं नम. स्कारं कुर्वाणं प्रीतं प्रणामस्वीकारात्संतुष्टं लोकं जनमहाय झटित्यवेक्ष्य । 'झटित्यञ्जसाहाय' इत्यमरः । रूपावलोकेन संभाव्याशेषं भुवनतलं लोकस्वरूपं प्रत्यवेक्षिप्यमाणोऽनुसंधास्यमानः क्षितिधरस्य तटं पीठमिव सिंहासनमिव । अन्यत्र Page #294 -------------------------------------------------------------------------- ________________ २८२ शिशुपालवधे तटमिव पीठं तस्मादुत्थितः । उदयादिमतिकान्त इत्यर्थः । यथा कस्मिन्महा. राजः सिंहासनोपविष्टः क्षणं प्रणतजनमादृत्य अथ सकलस्वराष्ट्रप्रत्यवेक्षणाय सहसोत्थाय गच्छति तद्वदित्यर्थः । अत्र प्रकृतार्कविशेषणवैभवादप्रकृतमहाराजप्रतीतेः समासोक्तिः ॥ परिणतमदिराभं भास्करणांशुबाणै- स्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः। रुधिरमिव वहन्त्यो भान्ति बालातपेन छुरितमुभयरोधोवारितं वारि नद्यः ॥ ४९ ॥ . परिणतेति ॥ नद्यः बालातपेन छुरितं रूषितम् अत एव परिणतमदिराभं सुपक्कसुरासंनिभमुभाभ्यां रोधोभ्यां वारितमवरुद्धमुभयरोधोवारितम् । 'उभादुदात्तो नित्यम्' इत्यत्र नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्य स्थाने उभयशब्दप्रयोग इत्युक्तं प्राक् । वारि जलं भास्करेण । कस्कादित्वात्सत्वम् । अंशु. भिरेव बाणैः । सर्वदिक्षु क्षतायाः प्रहृतायास्तिमिरमेव करिघटा गजसङ्घस्तस्या रुधिरमिवेत्युत्प्रेक्षा । वहन्त्यो भान्ति ॥ दधति परिपतन्त्यो जालवातायनेभ्य स्तरुणतपनभासो मन्दिराभ्यन्तरेषु । प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ५० ॥ दधतीति ॥ जालवातायनेभ्यो गवाक्षविवरेभ्यः मन्दिराणामभ्यन्तरेषु परिपतन्त्यस्तरुणतपनभासो बालार्ककिरणा वनितानां प्रणयिषु प्रातर्गन्तुमिच्छत्सु कुपितेन मदनेन मुक्तानामुत्तप्तानामग्निज्वलिततेजसां नाराचानां बाणविशेषाणां लीलां शोभां दधति । अत्र लीलेव लीलेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धानिदर्शना ॥ अधिरजनि वधूमिः पीतमैरेयरिक्तं __ कनकचषकमेतद्रोचनालोहितेन । उदयदहिमरोचियोतिषाक्रान्तमन्त मधुन इव तथैवापूर्णमद्यापि भाति ॥५१॥ अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । वधूभिः पीतं मैरेयं मद्यं यस्य तत् अत एव रिक्त पीतमैरेयरिक्तं एतत्कनकचषकं स्वर्णस्य पानपात्रम् । अवयवषष्ट्या विकारार्थता । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । रोचनालोहितेन गोरोचनारुणेनोदयत उदीयमानस्याहिमरोचिषोऽर्कस्य ज्योतिषा तेजसा अन्तरभ्यन्तर आक्रान्तं व्याप्तं सत् अद्यापीदानीमपि तथैव पूर्ववदेव Page #295 -------------------------------------------------------------------------- ________________ एकादशः सर्गः। २८३ मधुन आपूर्णमिव । सामान्यषष्ठ्या योग्यविशेषपर्यवसाननियमात् 'धष्टी शेषे' इति संबन्धसामान्ये षष्टी करणस्यापि कारणत्वादिति । भाति शोभते । अत्रातपाक्रान्ते मधुपूर्णत्वोत्प्रेक्षया आतपे मधुभ्रमाद्रान्तिमान्व्यज्यते ॥ सितरुचि शयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति । निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ५२ ॥ सितेति ॥ नक्तं रात्रौ शयनीये तल्पे। एकान्तमुक्तमत्यन्तत्यक्तं सितरुचि शुभ्रवर्णम् । किंतु दिनादौ प्रभाते दिनकरकरसङ्गेनार्काशुव्यतिकरण व्यक्ता कौसुम्भी कुसुम्भस्य रागद्रव्यस्य संबन्धिनी कान्तिर्यस्य तत्तथा भासमानं रतिबन्धोः प्रियस्योत्तरीयं निजमात्मीयमिति जानतीम् । अत एवाददानां स्त्रीनायिकाम् । 'वाम्शसोः' इतीयङभावपक्षे 'अमि पूर्वः' इति पूर्वरूपम् । सखी परिहसति । अत्रा. कौसुम्भे कौसुम्भभ्रमात्सादृश्यनिबन्धनाद्रान्तिमदलंकारः ॥ प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयमराजद्राजताद्रिस्थलाभम् । अरुणितमकठोरर्वेश्म काश्मीरजाम्भ: स्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥ ५३॥ प्लुतमिति ॥ राजताद्रिस्थलाभं सुधाधवलितत्वात्कैलासतटसंनिभं यद्वेश्म निशासु शिशिरांशोरिन्दोरंशुभिश्चन्द्रिकाभिः प्लुतं धौतं सत् स्फटिकमयं स्फटिकविकार इवाराजद्वेजे । तदेतद्वेश्म भानोः सूर्यस्याकठोरैः कोमलैर्भानुभिररुणितमरुणीकृतं सत् काश्मीरदेशे जातं काश्मीरज कुङ्कुमं तस्याम्भसा स्त्रपितं सिक्तमिव भाति । उत्प्रेक्षयोः संसृष्टिः ॥ सरसनखपदान्तर्दष्टकैशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः । विदधति दशनानां सीत्कृताविष्कृताना मभिनवरविभासः पद्मरागानुकारम् ॥ ५४ ॥ सरसेति ॥ प्रणयिनि योषितां सरसनखपदानामाईनखक्षतानामन्तर्मध्ये दृष्टानां लग्नानां केशानां शिरोरुहाणां प्रमोकं प्रमोचनं विधाने सति सीत्कृतैर्व्ययाविभूतसीत्कारैराविष्कृतानां दशनानामुल्लसन्त्यो वैमल्याद्दन्तेषु प्रतिफलन्त्यः अभिनवरविभासः पद्मरागाणामनुकारमनुकरणं विदधति । उपमालंकारः । रविभासामारुण्यप्रतिपादकाभिनवविशेषणप्रसादलब्ध इति काव्यलिङ्गेन संकरः ॥ Page #296 -------------------------------------------------------------------------- ________________ २८४ शिशुपालवधे अविरतदयिताङ्गासङ्गसंचारितेन छरितमभिनवासृकान्तिना कुङ्कुमेन । कनकनिकपरेखाकोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ॥ ५५ ॥ अविरतेति ॥ अविरतेनाविच्छिन्नेन दयितानां प्रेयसामङ्गस्यासङ्गेन शरीर. संपर्केण संचारितेन संक्रामितेनाभिनवस्यासृजो रक्तस्येव कान्तिर्यस्य तेन कुङ्कुमेन छुरितं कनकस्य या निकषे निकषोपले रेखा राजिस्तद्वत्कोमलं मनोहरमित्युपमा । कामिनीनां वपुरातपेऽप्यवाप्तच्छायं लब्धवर्णोत्कर्षमेव भवति । स्वतः सुवर्णस्य ततः कुङ्कुमाङ्कितस्य कामिनीगात्रस्य पुनर्बालातपव्याप्तिरिति महती वर्णोत्कर्षसामग्रीति भावः । आतपे छायानातप इति विरोधाभासेऽपिशब्दः । 'छाया त्वनातपे कान्ती' इत्यमरः । अत्र संक्रान्तकुङ्कुमच्छुरितत्वकनकनिकषरेखाकोमलत्वयोरुपमापेक्षया छायावाप्तिहेतुत्वादुपमासंकीर्णं काव्यलिङ्गं तदातपेऽप्यवाप्तच्छायमित्यत्र विरोधेनैकवाचकानुप्रवेशेन संकीर्यते ॥ सरसिजवनकान्तं विभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः। अखिलमतिमहिना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥ ५६ ॥ सरसीति ॥ सरसि जातानि सरसिजानि । 'सप्तम्यां जनेर्ड:' । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । तद्वनस्य कान्तं प्रियम्, अन्यत्र तद्वत्कान्तं रम्यं 'आलोकशक्ते. लोकलोचनानां विषयग्रहणशक्तेर्हेतुं आलोकान्तरसहकृतानामेव तेषां तत्सामर्थ्यात्, अन्यत्र आलोकर कर्दर्शनव्यापारस्य हेतुम् । दर्शनसाधनमित्यर्थः । करा नयनानीव, अन्यत्र करा इव नयनानि तेषां सहस्रं करनयनसहस्रं बिभ्रत् । अभ्रान्ते नभोमध्ये वृत्तिर्यस्य सोऽभ्रान्तवृत्तिः । अन्यत्राभ्रान्ते मेघे वृत्तिर्यस्य सः । मेघवाहन इत्यर्थः । 'अभ्रं नभःस्वर्गबलाहकेषु' इति विश्वः । हरितोऽश्वो यस्य स हरिदश्वोऽर्कः हरिरिन्द्र इवातिमहिम्नातिमहत्तया । स्ववृद्ध्येत्यर्थः। लोकमाक्रान्तवन्तं व्याप्तवन्तं एकत्र प्रत्यक्षादन्यत्र ‘स इषुमात्रमिषुमात्रं विष्वग्वर्धते । स इमाँल्लो. कानावृणोत्' इत्यागमादिति भावः । वृत्रं ध्वान्तं दानवं च त्वाष्ट्रं साधु हिनस्ति हन्ति । 'ध्वान्तारिदानवा वृत्राः' इत्यमरः । उपमा श्लेषो वा मतभेदात् ॥ अक्तमसभिंदायै भावताभ्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः । निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥ ५७ ॥ Page #297 -------------------------------------------------------------------------- ________________ २८५ एकादशः सर्गः। अवतमसेति ॥ अवतमसं तिमिरम् । 'अवसमन्धेभ्यस्तमसः' इति समासान्तः । यद्यपि 'क्षीणेऽवतमसं तमः' इत्युक्तं तथापीह विरोधाद्विशेषानादरेण सामान्यमेव ग्राह्यम् । तस्य भिदायै भेदाय । 'पिद्भिदादिभ्योऽङ्' । अभ्युद्गते. नाभ्युदितेनोद्यतेन च भास्वता सूर्येण दर्शनीयोऽप्युडुगणोऽसौ प्रसभं बलाद. पास्तः । तथाहि अमि निरसितुमिच्छोयें तदीयेनाश्रयेणाश्रयणेन श्रियं संपदं शोभां च । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते' इति विश्वः । अधिगतवन्तः प्राप्तवन्तम्तेऽपि हन्तव्यपक्षे वयकोटावेव । अरिवदरिपक्षा अपि वध्या एवेत्यर्थः । उड्डगणोऽपि तमसि शोभते अतस्तत्पक्ष इति भावः । सामान्येन विशेषसमर्थनरूपोऽशान्तरन्यासः॥ प्रतिफलति करोये संमुखावस्थितायां रजतकटकभित्तो सान्द्रचन्द्रांशुगौर्याम् । बहिरभिहतमद्रेः संहतं कंदरान्त र्गतमपि तिमिरौघं धर्मभानुर्भिनत्ति ॥ ५८ ॥ प्रतीति ॥ धर्मभानुरुष्णांशुः संमुखावस्थितायां सान्द्रचन्द्रांशुवद्गौर्यां धवलायामित्युपमा । 'पिौरादिभ्यश्च' इनि डीप । रजतकटकमेव भित्तिस्तस्यां करौघे स्वकिरणजाले प्रतिफलति सति अदेवहिरभिहतं कंदराणां दरीणामन्त. गतं संहतं निमिरोधमपि भिनत्ति । पुरोगतरजतभित्तिप्रतिहतस्य निजतेजसः कंदरान्तःप्रवेशादिति भावः । अत्र करौघस्यान्तःसंबन्धाभावेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ बहिरपि विलसन्त्यः काममानिन्यिरे य दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु । नियतविपयवृत्तेरप्यनल्पप्रताप क्षतसकल विपक्षस्तेजसः स स्वभावः ॥ ५९॥ वहिरिति ! बहिविलसन्त्योऽपि दिवसकररुचोऽर्कभासः अन्तर्गृहेषु गर्भा. गारेपु काम यथेष्टं ध्वान्तमन्तं नाशमानिन्यिर प्रापयामासुरिति यत् । नयतेढिकर्मकाकर्तरि लिट् । सोऽन्तर्गृहध्वान्तनिरासो नियतविषये नियतस्थाने वृत्तिर्यस्य तस्य । नियनदेशवर्तिनोऽपीत्यर्थः । 'नृतीयादिपु' इति पुंवद्भावः । तेजसोऽनल्पेन प्रतापेन स्वप्रकाशेन । स्वप्रभावेनैवेत्यर्थः । 'प्रतापौ पौरुषातपौ' इति वैजयन्ती । क्षतसकल विपक्षो निरस्तसमस्तप्रतिपक्षः स्वभावः। तेजस्विनामेप स्वभावो यत्प्रतापेनैव परोच्छेदनमतो युक्तमर्कभासामप्यन्तर्धान्तहरणमित्यर्थः । अत्र समर्थ्यसमर्थकयोः सामान्यविशेषाभावादर्थान्तरन्यासः ॥ चिरमतिरसलोल्याइन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव । Page #298 -------------------------------------------------------------------------- ________________ २८६ शिशुपालवधे दलितदलकपाटः पट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥ चिरमिति ॥ अयमर्कः पुनर्भूयोऽभ्युदयाय स्ववृद्धये स्वं स्वकीयमेव धाम स्थानं तेजो वा प्राप्य अतिरसलौल्याइतिमात्राइसेपु मकरन्देषु विषयेषु च लौल्यादासक्तेः सरोजे चिरं बन्धनं लम्भितानां प्रापितानां पदपदानां सरभसः सत्व दलितं विघट्टितं दलमेव कपाटं येन स सन् गुप्तिस्फोटं बन्धनमोक्षं redicter | यथा कश्चित्पदष्टः पुनर्लब्धपदः पूर्ववदात्मबन्धूनाग स्वयमेव काराकपामुद्राका मोचयति तदिति भावः ॥ युगपदयुग सप्तिस्तुल्यसंख्यैर्मयूखैदशशतदल भेदं कौतुकेनाशु कृत्वा । श्रियमलिकुलगीतैर्लालितां पङ्कजान्तभवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥ युगपदिति ॥ अयुगा विषमाः सप्तयोऽश्वा यस सोऽयुगसप्तिः सप्ताश्वोऽर्कः । युगशब्दस्य युग्मशब्दस्य च विशेष्यलिङ्गतावगन्तव्या । युगपदेकदैव तुल्यसंख्यैः । सहस्रसंख्यैरित्यर्थः । मयूखैः करैः दश शतानि येषां तानि दशशतानि । सहस्रमित्यर्थः । तेषां दलानां भेदं विघटनं कौतुकनाशु कृत्वा अलिकुलस्य गीतैललितां सत्कृतां पङ्कजमेवान्तर्भवनं गर्भगृहमधिशयानाम् । 'अधिशीङ्गस्यासी कर्म' इति कर्मत्वम् । श्रियमादरात्पश्यतीवेत्युत्प्रेक्षा । कश्चित्कान्तः कान्तामिवैकान्तगतामिति भावः ॥ अदयमिव कराग्रैरेप निष्पीड्य मद्यः शशधरमहरादौ रागवानुष्णरश्मिः । अवकिरति नितान्तं कान्तिनिर्यासभन्दस्रुतनवजलपाण्डं पुण्डरीकोदरेषु ।। ६२ ।। अदयमिति || अहरादौ प्रभाते रागवानुदयरागवान्पुण्डरीकस्नेहवपि उष्णरश्मिरर्कः शशधरं चन्द्रं करायैः रम्यमैः हस्तायैश्चादयं निर्दयं सद्यो निष्पीड्य अब्दान्मेघास्रुतं स्रस्तं नवजलमित्र पाण्डु शुभ्रं कान्तिनियम लावसारं पुण्डरीकाणां सिताज्ञानामुदरेष्वभ्यन्तरेषु नितान्तमवाकिरतीय विक्षिप ती । अत्र सूर्योदये चन्द्रस्य कान्तिक्षयात्पुण्डरीकाणां तत्प्रादुर्भावाच सूर्यश्चाकान्तिपुण्डरीकस्नेहात्परेषु सिञ्चतीवेत्युत्प्रेक्षा । यथा द्विपन्तं प्रपीड्य तदीयं वसुसारं सुहृदे प्रयच्छति तद्वदिति भावः ॥ प्रविकसति चिराय द्योतिताशेपलोके दशशतकरमूर्ताव क्षिणी द्वितीये । Page #299 -------------------------------------------------------------------------- ________________ २८७ एकादशः सर्गः। सितकरवपुषासौ लक्ष्यते संप्रति द्यौ विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ ६३ ॥ प्रविकसतीति ॥ द्योतितः प्रकाशितोऽशेषलोको येन तस्मिन् , दश शतानि येषां ते दशशतास्ते करा यस्याः सा दशशतकरा सहस्रकरा मूर्तिर्यस्य तस्मिन्दशशतकरमूर्ती सूर्ये द्वितीयेऽक्षिणि चक्षुपीव चिराय प्रविकसति सति संप्रत्यसौ द्यौराकाशं स्त्री च गम्यते । विगलितकिरणेन निष्प्रकाशेन सितकरं शुभ्रकिरणं वपुर्यस्य तेन सितकरवपुषा चन्द्रेण व्यङ्गितं विकलीकृतमेकेक्षणमेकनेत्रं यस्याः सा व्यङ्गितैकेक्षणा काणेव लक्ष्यते । अत्र दिवः काणत्वमुत्प्रेक्ष्यते । तच्च काणत्वमक्षित्वेना यवसितेन निष्काशितेन चन्द्रेणेति । तत्र येनाङ्गविकारः' इति तृतीया ॥ कुमुदवनमपश्रि श्रीमदम्भोजपण्डं __ त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं ___ हतविधिलसितानां ही विचित्रो विपाकः ॥ ६४ ॥ कुमुदेति ॥ कुमुदवनं अपगता श्रीर्यस्य तदपश्रि विगतशोभम् । ‘गोस्त्रियो. रूपसर्जनस्य' इति इस्त्रत्वम् । अम्भोजपण्डं श्रीमच्छोभायुक्तम् । उलूकः पेचको सुदं त्यजति । तस्य दिवाभीतत्यादिति भावः । चक्रवाकः प्रीतिमान् । रजनीविरहाभावत्वात्तस्येति भावः । अहिमरश्मिरुष्णांशुरुदयं याति । हिमांशुरिन्दुरम्तमदर्शनं याति । अस्तमित्यव्ययम् । कथमेतद्वैषम्यं तत्राह-हतेति । हतविधिलसितानां दुष्टदेवचेष्टितानां विपाकः परिपाकः तत्तत्प्राणिकर्मानुरूपफ लदानप्रकार इति यावत् । विचित्रो विविधः । न त्वेकविध इत्यर्थः। हीति विस्मये । 'अहो ही च विस्मये' इत्यमरः । विधिविपाकवैचित्र्याजगद्वैचियं युज्यत इति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्ता दुपगतवति पाणिग्राहवदिग्वधूनाम् । द्रुततरमुपयाति समानांशुकोऽसा चुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः।। ६५ ॥ क्षणमिति ॥ अतुहिनधान्युप्णांशौ दिशो वध्व इवेत्युपमितसमासः । तासां दिग्वधूनां पाणिं गृह्णातीति पाणिग्राहो निजभर्ता तस्मिन्निव पाणिग्राहवत् । तत्र तस्येव' इति तत्राथै वतिः । क्षणं प्रोप्य प्रवासं कृत्वा । प्रपूर्वाद्वसधातोः क्त्वा । तस्य 'समासेऽनपूर्वे क्त्वो ल्यपू' । 'वचिस्वपि-' इत्यादिना संप्रसारणम् । भूयः पुनरपि पुरस्तात्पूर्वस्यां दिशि मार्ग चोपगतवत्यागतवति सति असौ चन्द्र उपपतिर्जार इव । 'जारस्तूपपतिः समौ' इत्यमरः । स्रंसमानांशुको गलद्रश्मिकः । शैषिकः कप्प्रत्ययः । स्रस्तवस्त्रश्च नीचैनम्नः सन्पश्चिमान्तेन पश्चिमदिक्कोणेन Page #300 -------------------------------------------------------------------------- ________________ शिशुपालवधे केनचिदपरद्वारेण द्रुततरमपयात्यपसरति । तथा पूर्वद्वारेण निजपतावागते पश्चा मार्गेणोपपतिरपसरति तद्वदित्यर्थः । उपमालंकारः ॥ २८८ प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः । गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भावाने एकोऽधिशेते ॥ ६६ ॥ प्रलयमिति ॥ अखिलस्तारालोको लोक इव तारा नक्षत्रं तमखिलं तारालोकमह्नाय द्राक् प्रलयं क्षयं नीत्वा अत एव यतो नास्त्यनिशवं सानतिराया सर्वातिशायिनी श्रीमहिमा यस्य सोऽनतिशयश्रीः सानुरागामुइयरागवतीं श्रियं शोभामन्यत्र सानुरागामनुरागवतीं श्रियं रमां च दधान एव नास्वानेको मधुरिपुविष्णुरिव रात्रिः कल्पावसानं कल्पान्त इव तस्मिन्रात्रिकल्पावसाने गगनं सलिलराशिरिव तं गगनसलिलराशिमधिशेतेऽधितिष्ठति । अत्र मधुरिपुरिवेति वाक्यगतोपमैव समासगतोपमानां प्रसाधिकेति सर्वत्रोपमितसमासाश्रयणमेवोचितम् ॥ कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः क्षयितकुमुद तारकश्रीवियोगं नयन्कामिनः । बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती वरद करोतु सुप्रातमह्नामयं नायकः ।। ६७ ।। इति श्रीमाकृतौ शिशुपालवधे महाकाव्ये ध्य प्रत्यूषवर्णनो नामैकादशः सर्गः ॥ ११ ॥ कृतेति ॥ कृतसकलजगद्विबोधः कृताखिलजगत्मबोधः अवधूतो विक्षिप्तोsaकारस्योदय उज्जृम्भणं येन सोऽवधूतान्धकारोदय इति महागुणोक्तिः । दोष. माह- क्षयिता नाशिता कुमुदानां तारकाणां च श्रीर्येन सः कामिनः स्त्रीपुंसावियोगं नयन्प्रापर्यस्तथापि बहुतरगुणस्य पूर्वोक्त महागुणस्य दर्शनादभ्युपेतो लोकैरङ्गीकृतोऽल्पदोषः पूर्वोक्त एव यस्य सः । 'एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' इति न्यायादिति भावः । अत एव कृती कृताaisi नायकः प्रभुः सूर्यः हे वरद कामद, तव सुप्रातं सुप्रभातं करोतु । 'आशिषि लिङ्लोटो' इत्याशीरर्थे लोट् । शोभनं प्रातर्यस्येति सुप्रातः शोभनप्रातर्वानुच्यते 'सुप्रातसुश्व -' इत्यादिना बहुव्रीहावच्प्रत्ययान्तो निपातित: । अत्र भावप्रधानो निर्देशः । तव सुप्रातं सुप्रभातत्वं करोत्वित्यर्थः । महामालिनीवृत्तमेतत् । 'यदिह नयुगलं ततो वेदरेफैर्महामालिनी' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरि विरचिते शिशुपालवध - काव्यव्याख्याने सर्वकषाख्ये एकादशः सर्गः ॥ ११ ॥ Page #301 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः। २८९ द्वादशः सर्गः। एवं प्रभातं वर्णयित्वा भगवतः प्राभातिकप्रस्थानवर्णनाय प्रक्रमतेइत्थं स्थाश्वेभनिपादिनां प्रगे गणो नृपाणामथ तोरणाद्वहिः । प्रस्थानकालक्षमवेपकल्पनाकृतक्षणक्षेपमुदैवताच्युतम् ॥ १॥ इत्थमिति ॥ इत्थंभूते । पूर्वसर्गोक्तविध इत्यर्थः । प्रगे प्रातःकाले । 'सायं साये प्रगे प्रातः' इत्यव्ययेप्वमरः। अथ सूर्योदयानन्तरं रथाश्वेभे निषीदन्तीति रथाश्वेभनिपादिनाम् । रथेषु अश्वेपु इभेषु च स्थितानामित्यर्थः । नृपाणां गणः । तोरणाद्भगवतो बाह्यद्वाराद्वहिः । 'अपपरिबहिरञ्चवः पञ्चम्या' इति पञ्चमीसमासविधानाज्ज्ञापकात्पञ्चमी । 'तोरणोऽस्त्री बहिरम्' इत्यमरः । प्रस्थानकाले प्रयाणकाले क्षम उचितो वेप आकल्पः । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । तस्य कल्पनया संपादनेन कृतः क्षणक्षेपः क्षणविलम्बो येन तमच्युतं हरिमुर्दक्षत । प्रतीक्षितवानित्यर्थः । अत्राच्युतविलम्बस्य विशेषणगत्या प्रतीक्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः । अस्मिन्सर्गे विषमपादयोर्जागतमिन्द्रवंशा वृत्तम् । 'स्यादिन्द्रवंशा ततजैरसंयुतैः' इति लक्षणात् । समपादयोस्तु जागतमेव वंशस्थं वृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरी' इति लक्षणात् । तदेवमुभयमेलनादुपजातिभेदोऽयम् । अत एव त्रिष्टुविन्द्रवज्रोपेन्द्रवज्रालक्षणानन्तरम् 'अनन्तरोदारितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इत्युक्त्वोक्तम् । 'इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिविदमेव नाम' इति ॥ वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः । आरुह्य ताय नभसीव भूतले ययावनुद्वातसुखेन सोऽध्वना ॥२॥ स्वक्षमिति ॥ स हरिः शोभनोऽक्षश्चक्रधारणदारुभेदो यस्य तं स्वक्षम् । 'स्यादक्षश्चक्रधारणः' इति वैजयन्ती । अन्यत्र शोभनेन्द्रियम् । 'अथाक्षमिन्द्रियम्' इत्यमरः । सुपत्रं शोभनं पत्रं वाहनं यस्य तम् । स्वश्वमित्यर्थः । अन्यत्र सुपक्षम् । ‘पत्रं वाहनपक्षयोः' इत्यमरः । कनकोज्वलद्युतिं कनकरचनावन्तम् । अन्यत्र कनकवदुज्वलद्युतिं कनकवर्णम् । जवेन नागान्गजानुरगांश्च जितवन्तम् । ततोऽधिकवेगमित्यर्थः । अन्यत्र नागान्तकमित्यर्थः । उच्चकैरुन्नतं ताय रथं गरुडं च । 'तायः स्यादश्वकर्णाख्यवृक्षे रथतुरंगयोः । ताक्ष्यं रसाञ्जने ताक्ष्यों गरुडे गरुडायजे ॥ इति विश्वः । आरुह्य नभसीव भूतलेऽनुदातेनाप्रतिघातेन सुखः सुगमस्तेनाध्वना ययौ गरुडमारुह्य नभसीव स्थमारुह्य भूतलेऽप्यप्रतिहतं ययौ । गरुडवदेव तद्थस्यापि सर्वत्राप्रतिहतगतित्वादित्यर्थः । नायं श्लेपः प्रकृताम्रकृतवादेऽपि तायमिति विशेष्यश्लेषायोगादन्यत्राप्रसङ्गाच्च श्लेषसंकीर्णेयमुपमा ॥ हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्वयासिषुः॥३॥ शिशु० २५ Page #302 -------------------------------------------------------------------------- ________________ २९० शिशुपालवधे हस्तेति ॥ अत्र नृपविशेषणानि शार्ङ्गिण्यपि विभक्तिविपरिणामेन योज्यानि । हस्तस्थितैरखण्डितैश्चत्रैश्चक्ररेखाभिः शालन्त इति तथोक्ताः, अन्यत्र चक्रं सुदर्शनं तच्छालिनम् । द्विजेन्द्रकान्ता ब्राह्मणोत्तमप्रियाः, अन्यत्र द्विजेन्द्रश्चन्द्रः 'तस्मात्सोमराजानो ब्राह्मणाः' इति श्रुतेः । अत एव द्विजराजः शशधरः द्वान्तं सुन्दरं श्रिया शोभया श्रितवक्षसो व्याप्तोरस्काः, अन्यत्र रमयाधिष्टितोरस्कम् । सत्ये सत्यवचनेऽनुरक्ताः, अन्यत्र सत्यायां सत्यभामायामनुरक्तम् । नरकस्य जिष्णवः, अन्यत्र नरकासुरस्य जेतारम् । 'ग्लाजिस्थश्च' इति स्तुः । 'नरको निरये दैत्ये' इति विश्वः । एवंभूता नृपा एवंभूतं शार्ङ्गिणं गणैर्विनयादिभिर्हेतुना अन्वयासिषुरनुजग्मुः, गुणैः पूर्वोक्तैरन्वकार्षुश्च । यातेर्लुङि च्लेः सिच् । 'यमरम -' इति सगागमः सिच् इडागमश्च । 'सिजभ्यस्त -' इति झेर्जुस् । अत्र शाङ्गिणो नृपाणां च प्रकृतत्वाच्छब्दमात्रसाधर्म्याच्च केवलः प्रकृतिविषयः शब्दश्लेषः ॥ शुक्लैः सतारैर्मुकुलीकृतैः स्थुलैः कुमुद्वतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥ ४ ॥ शुक्लैरिति ॥ शुक्लैः शुभैः सतारैः सरज्जुकैः सकर्णिकैश्च मुकुलीकृतैर्वहनसौकर्याय संकोचितैः, अन्यत्र रात्रिविकासित्वान्मुकुलतां नीतैः प्राप्तैः स्थुलैर्देर्वैः । पटमण्डपैरिति यावत् । कुमुदाकरैः कुमुदहदैरिवोपलक्षितम् । अन्यत्र स्थुलैरिव कुमुदाकरैरुपलक्षितं वियोगवेदनया विरहव्यथया विदूनाः परितप्ताः । 'ल्वादिभ्यः' इति निष्ठानत्वम् । ता नार्यो यस्मिंस्तत्तथोक्तम् । द्वयोरपि वियोगकालत्वादिति भावः । ‘नद्युतश्च' इति कप् । कुमुदान्यासु सन्तीति कुमुद्वत्यः कुमुदप्राया भूमयः । ‘कुमुद्वान्कुमुदप्राये' इत्यमरः । कैरविण्यो वा । ' कुमुद्दती कैर'विण्याम्' इति विश्वः । ' कुमुदनडवेतसेभ्यो मतुपू' इति मतुप्प्रत्ययः । 'मादुपधायाः -' इति मकारस्य वत्वम् । तासां कुमुद्वतीनां संबन्धे व्युष्टं प्रभातम् । 'व्युष्टं प्रभातं प्रत्यूषम्' इत्यभिधानचिन्तामणिः । तत्र किंचित्करत्वात्तसंबन्धित्वं प्रयाणं च सेनानामिति शेषः । तदा तस्मिन्काले सममुक्तरीत्यान्योन्यसदृशमभूत् । व्युष्टप्रयाणयोर्द्वित्वेऽपि समुदायविवक्षायामभूदित्येकवचनम् । व्युष्टं प्रयाणं च द्वयमपि सममभूदित्यर्थः । अत्र वर्ण्यत्वेन प्रकृतस्य प्रयाणस्य प्रकृतव्युष्टसाम्योक्तेरुपमा श्लेषसंकीर्णा ॥ उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः । आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ ५ ॥ उत्क्षिप्तेति ॥ उत्क्षिप्तगात्र उन्नमितपूर्वकायः अत एव नभः खं प्रति समुत्पतिष्यन्तमुत्पतनोयुकमगेन्द्रं महाद्विं विडम्बयन्ननुकुर्वन्नित्युत्प्रेक्षा । अभूतोपमेति केचित् । उच्चकैरुन्नतः करेणुरिभः । ' करेणुरिभ्यां स्त्री नेभे' इत्यमरः । आकुञ्चितो नमितः प्रोहो गजाङ्घ्रिः । ‘गजाङ्घ्रिः प्रोहः' इति विश्वः । तत्र निरूपितक्रमं कृतपादन्यासं निषादिनं यन्तारमा रोहयते स्म । स्वयमेव स्वात्मन्यारोपयतीत्यर्थः । रोहे Page #303 -------------------------------------------------------------------------- ________________ सर्गः द्वादश: २९१ र्गत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना आणि कर्तुर्निपादिनः कर्मत्वम् । अत्र कर्त्रभि प्राये 'णिचश्च' इत्यात्मनेपदे सिद्धेऽपि प्रयोगवैचित्र्यस्याप्यलंकारत्वादकर्त्रभिप्राas 'रणौ यत्कर्म णौ चेत्स कर्तानाध्याने' इत्यात्मनेपदं वदन्ति । अणि कर्मणः करेणोरेवात्र ण्यन्ते कर्तृत्वात्तस्यैव चार्थात्कर्मत्वादिति । ननु यत्सग्रहणमनन्यकर्मार्थमित्युक्तं तेन कर्ममात्रनिषेधात्कथं निपादिनि कर्मण्यात्मनेपदम् | सत्यम् । अन्येषां मतम् । भाष्यकारस्य तु दर्शयते भृत्यान्राजेत्युदाहरणादणि कर्तृकर्मव्यतिरिक्तकर्मण एव निषेधो विवक्षित इति कैयटः । तदेतत्सम्यग्विवेचितमस्माभिः किरातार्जुनीयटीकायां घण्टापथे 'स सततं दर्शयते गतस्मयः' इत्यत्र । स्वभावोक्तिः ॥ स्वैरं कृतास्फालनलालितान्पुरः स्फुरत्तनून्दर्शितलाघवक्रियाः । वङ्कावल मैकसवल्गपाणयस्तुरंगमानारुरुदुस्तुरंगिणः ॥ ६ ॥ ः । स्वैरमिति ॥ तुरंगिणोऽश्वारोहाः पुरः पूर्वं स्वैरं मन्दं कृतं यदास्फालनं पाणितलेनाङ्गसंघट्टनं तेन लालिताननुपालितान् । त्याजितोद्वेगानित्यर्थः । अत एव स्फुरत्तनृन्कम्पितदेहांस्तुरंगमानश्वान्दर्शितं लाघवं शैन्यं यासु ताः क्रिया उत्पतनकर्माणि येषां ते । वङ्कः पल्याणकोटिः । वङ्कः पल्याणभागे स्वात् इति विश्वः । तत्रावलग्नः सक्त एकैकः सबगो मुखरज्जुसहितः पाणिर्येषां ते तथोक्ताः सन्त आरुरुहुरारूढाः । स्वभावोक्तिः ॥ अह्नाय यावन्न चकार भ्रयसे निपेदिवानासनवन्धमध्वने । तीव्रोत्थितास्तावदसारंहसो विशृङ्गलं शृङ्खलकाः प्रतस्थिरे ॥ ७ ॥ अह्नायेति ॥ निषेदिवानुपर्युपविष्टः । निषादीति शेषः । 'भाषायां सदवसश्रुवः' इति वसुप्रत्ययः । भूयसे दवीयसे अध्वने । भूयांसमध्वानं गन्तुमित्यर्थः । ' क्रियार्थोपपदस्य -' इति चतुर्थी । अह्नाय झटिति । 'द्वाक् झटित्यञ्जसाह्वाय' इत्यमरः । यावदासनबन्धं दूराध्वगमनौपयिकमासनविशेषं न चकार तावत्तीव्रं तीक्ष्णमुत्थिता असारंहसो दुःसहवेगाः शृङ्खलकाः करभा उष्ट्रभेदाः । 'करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः' इत्यमरः । विशृङ्खलमनर्गलं प्रतस्थिरे प्रस्थिताः । ‘समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । एषापि स्वभावोक्तिः ॥ गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया विराजमानां नवयोद्रश्रिया । कश्चित्सुखं प्राप्नुमनाः सुसारथी रथीं युगोजाविधुरां वधूमिव ||८|| गण्डेति ॥ सुखमक्लिष्टं यथा तथा प्राप्तुं गन्तुं मनो यस्य स प्राप्तुमनाः, अन्यत्र सुखमानन्दं लब्धुकामः । ' तुं काममनसोरपि' इति मकारलोपः । शोभनः सारथिर्यस्य स सुसारथिः, अन्यत्र सुसहायवान् । कश्चित्कोऽपि रथी, कामी च । गण्डैश्चिह्नैरुज्वलाम् । ‘गण्डः कपोले चिह्ने च' इति विश्वः । उज्जवलो नाभिर्बिलमध्यं ययोस्ते चक्रे रथाङ्गे यस्यास्तयोज्वलनाभिचक्रया, अन्यत्रोज्वलं नाभिचक्रं नाभिमण्डलं यस्यास्तया । 'नाभिः प्राण्यङ्गके क्षेत्रे चक्राङ्गचक्रवर्तिनोः' इति विश्वः । Page #304 -------------------------------------------------------------------------- ________________ २९२ शिशुपालवधे नवया प्रत्यग्रया उदुन्नता अराश्चक्रशलाकाः । 'अरः शीघ्रं च चक्राङ्गे' इति विश्वः । तेषां श्रिया, अन्यत्र उदरस्य मध्यस्य श्रिया शोभया विराजमानां विगता धूरग्रं यस्याः सा विधुरा । 'धूः स्त्री क्लीबे यानमुखम्' इत्यमरः । 'ऋक्पू:-' इत्यादिना समासान्तः । सा न भवतीत्यविधुरा ताम् । सधुरामित्यर्थः । अन्य त्राविधुरामविकलां रथीं शकटीम् । 'बबादिभ्यश्च' इति विकल्पेन ङीप् । वधू. मिव युयोज योजयामास । अत्र शब्दमात्रसाधर्म्यात्सभङ्गाभङ्गपदमिश्रणादुभयगोचरत्वाच्च प्रकृताप्रकृतगोचरागोचरः शब्दार्थश्लेषः ॥ उत्थातुमिच्छन्विधृतः पुरो बलानिधीयमाने भरभाजि यत्रके । अर्थोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम्॥९॥ उत्थातुमिति॥रौतीति रवण उदः । 'रु शब्दे' इति धातोः 'चलनशब्दार्थादकर्मकाधुच्' इति युच्प्रत्ययः । भारारोपणाय यन्त्ररूपणाय निर्मिते भरभाजि भारयुक्ते यन्त्रके गोण्यादौ निधीयमाने सति बलादुत्थातुमिच्छन्नुत्थाय गन्तुमिच्छन् अत एव पुरो मुखभागे विस्तो गृहीतः एवं स्वैराचारव्याघाततः अोज्झितेनोद्गारेण स्वजग्धपिचुमर्दादिपत्ररसनेन विझझरो विषमः स्वरो यस्य स रवण उष्ट्रः स्वनाम स्फुटार्थतां निन्ये । रौतीति रवण इति व्युत्पन्नं स्वनाम यथार्थमकरोदित्यर्थः ॥ नस्थागृहीतोऽपि धुवन्विपाणयोर्युगं ससूत्कारविवर्तितत्रिकः । गोणी जनेन स निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥१०॥ नस्येति ॥ नस्या । नासिकाया नसादेशः । नासिकायां भवा नस्या । दिगादित्वाद्यत् । तस्यां नासिकपोतरजौ गृहीतोऽपि विषाणयोर्युगं धुवन्विधुन्वन् शृंगद्वयं कम्पयन् । ससूत्कारेति । सूत्कार इति शब्दानुकरणम् । अमर्षजः सशब्दनिश्वासो वा ससूत्कारं यथा तथा विवर्तितं त्रिकं पृष्ठवंशाधरसन्धिर्येन । 'पृष्ठवं. शाधरे त्रिकम्' इत्यमरः । उक्षतरो महोक्षः पृष्ठे निधातुं जनेनानुक्षणमुद्धृतां गोणी न प्रतीच्छति स न स्वीकृतवान् । निधातुमवसरं न दत्तवानित्यर्थः ॥ नानाविधाविष्कृतसामजस्वरः सहस्रवा चपलैर्दुरध्ययः । गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः॥११॥ मानेति ॥ सामजा गजाः । ‘सामजौ गजसामोत्थौ' इति शाश्वतः । नानाविधमाविष्कृताः सामजानां स्वरा ध्वनयो बृंहितानि यस्मिन्सः सहस्रवर्मा बहुभिर्मागैर्गच्छन् । गन्धर्वा एव गान्धर्वा अश्वाः । 'वाजिवाहार्वगन्धर्व-' इत्यमरः । तैर्भूयिष्ठतया चपलैरस्थिरैः दुरध्ययो दुष्प्रापः । 'इण् गतौ' इत्यस्मात्कृच्छ्रार्थे खल् । ईदृशः स बलोदधिः सेनासमुद्रः सामवेदस्य समानतां दधौ । तत्समोऽभूदित्यर्थः । सामवेदोऽपि बहुधाविष्कृतबृहद्रथन्तरादिसामोत्थितस्वरः। सहस्रशाखत्वात्सहस्रवा। गान्धर्वगानबहुत्वाञ्चपलमतिभिरध्येतुमशक्य इत्यर्थः। 'इङ् अध्ययने' इत्यस्माद्धातोः खलि दुरध्यय इत्येवं रूपम् ॥ Page #305 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः । २९३ प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधताप्यमङ्कुशम् । मूर्धानमूर्ध्वायतदन्तमण्डलं धुन्वन्नरोधि द्विरदो निषादिना ॥ १२॥ प्रत्यन्येति ॥ अन्यनागं प्रति चलित ऊर्ध्वायतदन्तमण्डलं मूर्धानं धुन्वन्कपरदः कुण्ठमतीक्ष्णमङ्कुशं निरस्यान्यमकुण्ठमङ्कुशं दधता त्वरावता निपादिना अरोधि रुदुः ॥ संम्रच्छदुच्छ्रङ्खशङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि । सच्चानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृतां १३ संमूर्च्छदिति ॥ मूर्च्छा मोहसमुच्छ्राययोः' इति धातुः । संमूर्च्छन्नुच्छ्रायं गच्छन् यचुरीभवन्नुच्छृङ्खलोऽनर्गलः सर्वव्यापी शङ्खस्य निःस्वनो यस्मिन्सः शार्ङ्गिणि प्रयाते यातुमुपक्रान्ते पटहस्य स्वनः द्वयेषामुभयेषामपि मेदिनीभृतां राज्ञां पर्वतानां च महान्त्यपि सत्त्वानि बलानि भूतानि च नितरां व्यथां निन्ये । कृष्णस्य पटहश्रवणाद्वाज्ञां बलान्यभिभवशङ्कया व्यथितान्यासन् । तथा गिरिस्थिताः सिंहायो जन्तवश्च किमिदमिति ससाध्वसा आसन्नित्यर्थः । 'व्यवसाये स्वभावे च पिशाart गुणे बले । व्यात्मभावयोश्चैव सत्वं प्राणेषु जन्तुषु ॥' इति शाश्वतः ॥ कालीयकक्षोदविलेपनश्रियं दिशदिशामुहसदंशुमयुति । खातं सुरभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः || १४ || कालीयेति || कालीयं कुङ्कुमम् । 'काश्मीरजन्म घुसृणं कालीयं कुङ्कुमं विदु:' इति शाश्वतः । कालीयकक्षोदैः कुङ्कुमचूर्णैः कृतानुलेपनश्रियं दिशां दिशदधत् । उल्लसदंशुमद्दद्युति उद्यदादित्यसमा द्युतिर्यस्य तत् मुद्गभुजामश्वानां खुरैः खातं विदारितं काञ्चनभूमिजं रजो गिरेरधो गुरुत्वाद्विरेरधस्तादेव विपप्रथे विस्ती - र्णमभवत् ॥ मन्द्रैर्गजानां रथमण्डलस्वनैर्निजुहुवे तादृशमेव बृंहितम् । तार्श्वभूवे परभागलाभतः परिस्फुटैस्तेषु तुरंगहेषितैः ।। १५ ॥ मन्द्रैरिति ॥ मन्त्रैर्गम्भीरैः । 'मन्द्रस्तु गम्भीरे' इत्यमरः । रथमण्डलस्वनैः तादृशं तद्रूपमेव गजानां बृंहितं निजुहुवे तिरस्कृतम् । गजध्वनिरेकरूपत्वेन रथशब्दान्न पृथगश्रावीत्यर्थः । तारैरुच्चैर्मन्द्रस्वरविलक्षणैस्तुरंगहेषितैः परभागलाभतस्तेषु तादृशध्वनिगुणभेदलाभात्तेषु गजादिस्वनेषु परिस्फुटैर्बभूवे । तुरंग हेषाः सुव्यक्ता एव शुश्रुविर इत्यर्थः । 'बृंहितं करिणां शब्दो हेपा हेपा च वाजिनाम्' । बभूवे इति भावे लिट् । निजहुव इति कर्मणि लिट् ॥ अन्वेतुकामोऽवमताङ्कुशग्रहस्तिरोगतं साङ्कुशमुद्वहञ्शिरः । स्थूलोच्चयेनागमदन्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम्।। १६ । अन्वेत्विति ॥ अन्तिकागतां करेणुकां करिणीमन्वेतुकामोऽनुगन्तुकामः अङ्कुशं Page #306 -------------------------------------------------------------------------- ________________ २९४ शिशुपालवधे गृह्णातीत्यङ्कुशग्रहो निषादी सोऽवमतो येन सः निषादिना साशं तिरोगतम् । अङ्कुशाकर्षणेन तिर्यग्भूतं शिरो मस्तकमुद्वहन्गजः अग्रयाताग्रकरः करिणीग्रहणाय प्रसारितकरायो भूत्वा स्थूलोच्चयेन गतिविशेषेणागमज्जगाम । 'गजमध्यगतौ स्थूलोच्चयः साकल्यपुञ्जयोः' इति रत्रप्रकाशः ॥ यान्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः। अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥१७॥ यान्त इति ॥ जवाद्वेगाच्चरणैरवनिमस्पृशन्त इव यान्तः सेनतुरगा अभितः प्रकीर्णैरुभयतः प्रसृतैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । कण्ठभूषणचामरहेतुभिरद्याप्यलूनपक्षा इवेति सविस्मयैर्जननिरे। पूर्वं तुरगाणामपि पक्षा आसन्पश्चात्केनचित्कारणेन देवैः पक्षच्छेदः कारित इति प्रसिद्धिः ॥ ऋज्वीर्दधानैरवतत्य कंधराश्वलावचूडाः कलघर्घरारवैः । भूमिमहत्यप्यविलम्बितक्रमं क्रमेलकैस्तत्क्षणमेव चिच्छिदे ॥१८॥ ऋज्वीरिति ॥ ऋज्वीरवक्राश्चलावचूडाश्चलितकण्ठभूषणाः । 'शिरःशिखाभूषणेषु चूडा' इति यादवः । चलितशिरस इति वा । कंधराः शिरोधरा अवतत्य वितत्य दधानः कलघर्घरारवैः । 'घर्घरा क्षुद्रघण्टी स्यात्' इति कोशः । अथवा घर्षरारव इति शब्दानुकरणम् । क्रमेलकैरुष्ट्रैरविलम्बितक्रमम् । क्रमः पदक्षेपः । द्रुतपादक्षेपं यथा तथा महत्यपि भूमिस्तत्क्षणमेव चिच्छिदेऽति. क्रान्ता । स्वभावोक्तिः ॥ तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि । आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तिभयादिवाद्रवत्।।१९।। तूर्णमिति ॥ प्रणेना सारथिना प्रणोदितं गमनाय प्रेरितम् । अत एव उच्च. कैरुच्चस्तरां कृतनादं यथा तथा वेसरयुग्यम् । संकराश्वो वेसरः । वेसराभ्यां युग्यं शकटमात्मीयनेमिः स्वचक्रधारा तया क्षतस्य सान्द्रस्य मेदिनीरजसश्चयेन समूहेन यदाक्रमणं तद्भयादिव तूर्णमध्वन्यद्रवत् । आत्मीयनेमिसमुद्भूतधूलिजालेनास्पृष्टं सत् द्रुतमगमदित्यर्थः ॥ व्यावृत्तवरखिलैश्चमूचरैजद्भिरेव क्षणमीक्षिताननाः। वल्गनगरीयःस्तनकम्प्रकञ्चकं ययुस्तुरंगाधिरुहोऽवरोधिकाः ॥२०॥ व्यावृत्तेति ॥ व्यावृत्तवक्रेर्विवृत्तमुखैजगिरेवाखिलैश्चमूचरैः क्षणमीक्षिताननास्तुरंगाधिरुहः । तुरंगानधिरुहन्तीति क्विप् । तुरंगाधिरूढा अवरोधिका अवरोधस्त्रियो वल्गद्भिश्चलद्भिर्गरीयोभिर्गुरुतरैः स्तनैः कम्प्रः कम्पनशीलः कञ्चकः कूर्पासो यस्मिन्कर्मणि तद्यथा तथा ययुः । 'नमिकम्पि-' इत्यादिना रः प्रत्ययः ॥ पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः। भग्नोन्नतानन्तरपूरितान्तरा वभुर्भुवः कृष्टसमीकृता इव ॥ २१ ॥ Page #307 -------------------------------------------------------------------------- ________________ २९५ द्वादशः सर्गः। पादैरिति ॥ कूबरिणां स्थानाम् । 'कूबरस्तु युगंधरः' इत्यमरः । स एषामस्तीति ते रथास्तेषां पादैश्चक्रैः पुरः पूर्वं विदारिताः ततो गजैः प्रकाममाकान्ततलाः भग्नरुक्तप्रकारेण पूर्वं भग्नत्वादुन्नतैरनन्तररुभयभागैः पूरितान्तराः समीकृतनिम्नप्रदेशाः। यद्वा पूर्व रथचक्रविदारितत्वाभग्नोन्नता अनन्तरं गजपतिपरिक्रमणेन पूरितानतप्रदेशाः भुवः कृष्टसमीकृताः पूर्वं हलैः कृष्टा अनन्तरं बीजवपनार्थ समीकृता इव बभुः शुशुभिरे ॥ दुर्दान्तमुत्कृत्य निरस्तसादिनं सहासहाकारमलोकयन्जनः । पर्याणतः स्रस्तमुरोविलम्विनस्तुरंगमं प्रद्रुतमेकया दिशा ॥२२॥ दुर्दान्तमिति ॥ उरोविलम्बिनः पर्याणतः पल्ययनतः स्रस्तमत एवोत्प्लुत्य निरस्तसादिनं स्वपृष्टात्पातितावरोहमेकया दिशा प्रद्रुतं पलायितं दुर्दान्तं दुर्विनीतं तुरंगमं हासकृतेन हाकारेण सह यथा तथा जनोऽवलोकयदवलोकितवान् ॥ भूभृद्भिरप्यस्खलिताः खलूनतैरपळुवाना सरितः पृथूरपि । अन्वर्थसंज्ञेव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥२३॥ भूभृद्भिरिति ॥ उन्नतैरपि भूभृद्भिः भूधरैर्भूपैश्वास्खलिता अप्रतिहताः पृथूमहतीरपि सरितो यमुनाप्रभृती दीरपहृवाना स्वमहिम्नाच्छादयन्ती त्रिभिर्मार्गर्गच्छतीति त्रिमार्गगा गङ्गा परमत्यन्तमन्वर्थानुगतार्था संज्ञा त्रिमार्गगेति नामधेयं यस्याः सेव खलु त्रिभिरेव मागैर्ययौ न चतुर्थेनेत्यर्थः । असौ चमूस्त्वसंख्यैः पथिभिर्ययौ। अतो गङ्गाया अप्यधिका चमूरिति भावः । अत एव व्यतिरेकालंकारः । 'भेदप्राधान्यसाधर्म्यमुपमानोपमेययोः। अधिकाल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥' इति तल्लक्षणात् ॥ त्रस्तौ समासन्नकरेणुसूत्कृतानियन्तरि व्याकुलमुक्तरजुके। क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घय लघ्वी करभौ बभञ्जतुः॥२४॥ त्रस्ताविति ॥ समासन्नस्य प्रत्यासन्नस्य करेणोरिभस्य सुत्कृतात्सल्कारानस्तौ करभौ वेसरौ । 'करभो वेसरेऽप्युष्ट्रे' इति सजनः । नियन्तरि सारथौ व्याकुलं व्यग्रं यथा तथा मुक्तरजुके त्यक्तप्रग्रहे सति क्षिप्ताः पतिता अवरोधाङ्गना यस्मिन्कर्मणि तद्यथा तथा उत्पथेनापथेन । 'ऋक्पू:-' इत्यादिना समासान्तः। गां भूमिं विलङ्घय दूरमतीत्य लघ्वी रथविशेषम् । 'लध्वी लाघवयुक्तायां प्रभेदे स्यन्दनस्य च' इति हैमः । बभञ्जतुर्भग्नवन्तौ । अत्र बासस्य विशेषणगत्या भञ्जनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं स्वभावोक्त्या संकीर्यते ॥ स्रस्ताङ्गसंधौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे । आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥२५॥ सस्तेति ॥ सस्ता विश्लिष्टा अङ्गयो रथाङ्गयोरङ्गानां करचरणादीनां च संधयः संधिभागा यस्य तस्मिन्विगतमक्षस्य चक्राधारकाष्ठस्याक्षाणामिन्द्रियाणां च पाटवं Page #308 -------------------------------------------------------------------------- ________________ २९६ 'शिशुपालवधे सामर्थ्य यस्य तस्मिन्रथे स्यन्दने, शरीरे च । 'रथः स्यात्स्यन्दने काये इति विश्वः । रुजा भङ्गेन, रोगेण च निकामं विकलीकृते सति आप्तेन हितेन तक्ष्णा वर्धकिना, आप्तेन भिषजा वैद्येनेव । 'तक्षा तु वर्धकिस्त्वष्टा' इत्यमरः । तत्क्षणं तस्मि ब्रेव क्षणे। अत्यन्तसंयोगे द्वितीया । लङ्घनं पादेनाक्रमणं, उपवासश्च । 'लङ्घनं • तूपवासे स्याद्गमने प्लवनेऽपि च' इति विश्वः । तत्पूर्वकः क्रमो विधिः प्रचक्रमे प्रक्रान्तः । प्रायेण ज्वरादिचिकित्साया लङ्घनपूर्वकत्वादिति भावः । श्लेषालंकारः ॥ धूर्भङ्गसंक्षोभविदारितोष्ट्रिकागलन्मधुप्लावितदूरवर्त्मनि। स्थाणौ निषङ्गिण्यनसि क्षणं पुरःशुशोच लाभाय कृतक्रयो वणिक् ॥ धूर्भङ्गेति ॥ स्थाणौ कीले। 'स्थाणुः कीले स्थिरे हरे' इति विश्वः । निषङ्गिणि सक्ते अनसि शकटे । 'क्लीबेऽनः शकटोऽस्त्री स्यात्' इत्यमरः। धुरोऽक्षस्य भङ्गेन यः संक्षोभो विपर्यासस्तेन विदारिता भिन्ना या उष्ट्रिका मृण्मयं मद्यभाण्डम् । 'उष्ट्रिका मृत्तिकाभाण्डभेदे करभयोषिति' इति विश्वः । ततो गलता स्रवता मधुना मद्येन प्लावितं सिक्तं दूरवर्म दीर्घावा येन तस्मिन् । तथा सति पुरः पूर्व लाभाय कृतः क्रयः क्रयणं येन स वणिक् क्षणं शुशोच । अत्र मधुस्रावधनव्यययोर्विशेषणगत्या शोकहेतुत्वात्काव्यलिङ्गभेदः ॥ मेरीभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः । उत्तुङ्गमातङ्गजितालघूपलो बलैः स पश्चात्क्रियते स भूधरः ॥२७॥ मेरीभिरिति ॥ भेरीभिराक्रुष्टानि निन्दितानि महान्ति गुहामुखानि येन सः। मेरीझङ्कारभतिनितान्तवात्यामुखरमहागुहाद्वार इत्यर्थः । ध्वजांशुकैस्तर्जितानि भलिँतानि कन्दलीदलानि गुल्मपत्राणि येन सः। उत्तुङ्गैर्मातङ्गैर्जिता अलघू. पलाः स्थूलपाषाणा येन स भूधरो रैवतकादिर्वलैः सैन्यैः पश्चात्क्रियते स पश्चास्कृतः । स्वयं दूरगमनेन पृष्टतः कृत इत्यर्थः । उक्तविशेषणमहिम्ना अधरीकृत इति च प्रतीयते । 'लट् स्मे' इति भूतार्थे लट् । आक्रुष्टेति कोशतेः कर्मणि क्तः । व्रश्चादित्वात्पत्वे ष्टुत्वम् । अत्र पश्चात्करणस्याक्रुष्टादिपदार्थहेतुकत्वात्काव्यलिङ्गम् । तञ्चोक्तप्रतीयमानाभेदाध्यवसायादिति श्लेषमूलातिशयोक्तिसंकीर्णम् । तेन बलानां भूधरौपम्यं गम्यत इत्यर्थालंकारध्वनिः ॥ . वन्येभदानानिलगन्धदुर्धरा क्षणं तरुच्छेदविनोदितक्रुधः। व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथंचिदारादपथेन निन्यिरे॥२८॥ वन्येभेति ॥ वन्येभदानानिलगन्धेन वनगजमदमारुतगन्धाघ्राणेन दुर्धराः क्रोधान्धा दुर्ग्रहाः अत एव क्षणं तरुच्छेदे विनोदितक्रुधः प्रतिगजासांनिध्ये वृक्षाणां भङ्गेनापनीतक्रोधाः उन्मदिष्णवोऽत्यन्तमदशीलाः । 'अलंकृञ् -' इत्यादिना इष्णुच् । व्यालद्विपा दुष्टगजा यन्तृभिराधोरणैः कथंचिदारादूरादपथेनामार्गेण । 'पथो विभाषा' इति निषेधविकल्पात् 'ऋक्पू:-' इत्यादिना समासा Page #309 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः। न्तः । 'अपथं नपुंसकम्' इति नपुंसकत्वम् । निन्यिरे नीताः । अत्रापि द्विपविशेषणानां तदुपमेयहेतुकत्वात्काव्यलिङ्गं सत्स्वभावोक्त्या संकीर्यते ॥ तैवैजयन्तीवनराजिराजिभिगिरिप्रतिच्छन्दमहामतङ्गजैः। बह्वयः प्रसर्पजनतानदीशते वो बलैरन्तरयांवभूविरे ॥ २९॥ तैरिति ॥ वैजयन्त्यः पताकास्ता वनराजय इव ताभी राजन्तीति तथोक्तैः गिरीणां प्रतिच्छन्दाः प्रतिनिधयः । तत्सदृशा इत्यर्थः । एतस्मादेव स्पष्टोपमालिङ्गादन्यत्राप्युपमितसमासाश्रयणम् । ते महामतङ्गजा येषु तैः । जनता जनसमूहस्ता नद्य इव तासां शतानि प्रसर्पन्ति प्रवहन्ति येषु तैर्बलैस्तथोक्तैः सैन्यैः । वह्वयो बहवः । 'बबादिभ्यश्च' इति विकल्पादीकारः । भुवो भूमयः अन्तरयांबभूविरेऽन्तरा दूराः कृता इति । अतिक्रान्ता इत्यर्थः । न केवलं रैवतकाद्रिरेवेति भावः । बलैवैपुल्यादाच्छादिता इत्यर्थः । उक्तविशेषणावगतसादृश्यादगृहीतभेदाः कृता इति च गम्यते । एतेनाभेदाध्यवसायादेवास्याक्रमणरूपान्तरीकरणस्य बलविशेपणावनतसादृश्यस्य हेतुत्वात्तदङ्गभूतोपमासंकीर्ण पदार्थहेतुकं काव्यलिङ्गं श्लेषमूलाभेदातिशयोक्त्युत्थापितमिति संकरः । अन्तरशब्दात् 'तत्करोति-' इति ण्यन्ताकर्मणि लिद । आम्प्रत्यये भुवोऽनुप्रयोगः ॥ तस्थे मुहूर्तं हरिणीविलोचनैः सहशि दृष्ट्वा नयनानि योपिताम् । मत्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत॥३०॥ तस्थ इति ॥ हरिणीविलोचनैः सदृशि सदृशानि । 'नपुंसकस्य झलचः' इति नुम् । योषितां नयनानि दृष्ट्वा मृगैः कृष्णसारैः कर्तृभिर्मुहूर्तमल्पकालम् । 'मुहूतमल्पकाले स्याटिकाद्वितयेऽपि च' इति विश्वः । तस्थे स्थितम् । हरिणीविलोचनशङ्कयेति भावः । अथानन्तरमनेका विभ्रमक्रिया विलासक्रिया एव विकारा येषां तानि मत्वा । सविलासानि ज्ञात्वेत्यर्थः । सत्रासं सभयं यथा तथा पला. ग्यत पलायितम् । हरिणीदुर्लभैविलासैोषिन्निश्चयादिति भावः । अत एव निश्च. यान्तः संशयालंकारः । परापूर्वादयतेर्भावे लङ् । 'उपसर्गस्यायतौ' इति लत्वम् ॥ निम्नानि दुःखादवतीर्य सादिभिः सयनमाकृष्टकशाः शनैः शनैः। उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥३१॥ निम्नानीति ॥ अर्वतामश्वानाम् । 'वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । 'अर्वणस्सावनञः' इति त्रादेशः। सादिभिरश्वारूढः । सयनमाकृष्ट. कशा दृढगृहीतवल्गाः सन्तः । यद्यपि 'अश्वादेस्ताउनी कशा' इत्यमरः, तथाप्यत्र 'ताडनीवल्गयोः कशा' इति दर्शनादविरोधः । शनैःशनैर्दुःखात्कृच्छ्रान्निमानि निम्नभूप्रदेशानवतीर्य उत्तालखुरारवमुच्चतरशफशब्दं श्थीकृतप्रग्रहं शिथिलितवल्गं च यथा तथा द्रुताः सत्वराः सन्त उत्तेरुरुत्पुप्लुविरे। निम्नेषु शनैरवतीर्य दीर्घ धावन्तीत्यश्वानां स्वभाव इति भावः । अत एव स्वभावोक्तिः ॥ Page #310 -------------------------------------------------------------------------- ________________ २९८ शिशुपालवधे अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धतः । दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः॥३२॥ अध्यध्वमिति ॥ दक्षस्य भावो दाक्ष्यं कौशल्यं सद्यः फलदम् । कुतः, यद्यस्मादध्यध्वमध्वनि । विभत्त्यर्थेऽव्ययीभावः, 'अनश्च' इति समासान्तोऽप्रत्ययः 'नस्तद्धिते' इति टिलोपः । आरूढवतैवारुह्मैव स्थितेन । निष्ठेति रुहेः क्तवतुप्र. त्ययः। जनं शनैः पश्चादागच्छन्तं स्वजनं प्रतीक्षणमाणेन । केनचित्पुंसेति शेषः । मुहुर्धतः स्थापितोऽपि दासेरयुवा तरुणोष्ट्रः । विशेषणसमासः । अग्रतो वनाव. लीश्वखाद । पुरः पिचुमर्दादिकं भक्षयन्नास्त इत्यर्थः । न हि कुशलो वृथा कालं यापयतीति भावः । अत्र दाक्ष्यसाफल्यस्य सामान्यस्य तद्विशेषेण दासेरकौशलेन समर्थनाद्विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥ शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः । एकातपत्रा पृथिवीभृतां गणैरभूद्वहुच्छत्रतया पताकिनी ॥३३॥ शौरेरिति ॥ शौरेः कृष्णस्य पताकिनी सेना । व्रीह्यादित्वादिनिः । प्रतापेन हरितेजसा उपनतैननैः । विधेयैरित्यर्थः । अत एवेतस्ततः समागतैः पार्श्वदेशादागतैः प्रश्रयनम्रमूर्तिभिर्हरिसंनिधौ विनयनम्रविग्रहैः पृथिवीभृतां राज्ञां गणैर्हेतुना बहुच्छत्रतया असंख्यातपत्रवत्तया निमित्तेन एकानि केवलान्यातपत्राणि यस्याः सा एकातपत्रा केवलातपत्रमय्यभूत् । आतपत्रातिरिक्तं न किंचिदलक्ष्यतेत्यर्थः । 'एके मुख्यान्यकेवलाः' इत्यमरः । बहुच्छत्राप्येकच्छत्रेति विरो. धभासनाद्विरोधाभासोऽलंकारः ॥ आगच्छतोऽनूचि गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः। दूरादपावर्तितभारवाहणाः पथोऽपसत्रुस्त्वरितं चमूचराः॥३४॥ आगच्छत इति ॥ अन्वञ्चतीत्यन्वङ् तस्मिन्ननूचि पृष्ठदेशे। 'ऋत्विग्-'इत्यादिनाञ्चेः क्विन्प्रत्ययः । आगच्छतो गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः संभ्रान्तवधूकाश्चमूचराः दूरादेवापावर्तिता अपसारिता भारस्यान्नादेर्वाहना भारवाहणा भारवाहिन उष्ट्रादयो यैस्ते तथा सन्तः । 'वाहनमाहितात्' इति णत्वम् । वहेय॑न्तात्कर्तरि ल्युट् । त्वरितं शीघ्रं पथो मार्गादपसस्रुरपजग्मुः । स्वभावोक्तिः॥ ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रसंविदः । श्लोकानुपेन्द्रस्य पुरःस्मभूयसो गुणान्समुद्दिश्य पठन्ति बन्दिनः३५ ओजस्वीति ॥ बन्दिनः स्तुतिपाठकाः । 'बन्दिनः स्तुतिपाठकाः' इत्यमरः । ओजस्विवर्णस्य तेजस्विवर्णस्य क्षत्रजातेयंदुज्वलं वृत्तमुदग्रव्यापारः विजयाख्यं तेन शालत इति ओजस्विवर्णोज्वलवृत्तशाली तस्य, अन्यत्र ओजस्विवर्णैः समाः सभूयिष्टाक्षरैरुज्वलास्ते च ते वृत्तशालिनः वसन्ततिलकादिच्छन्दोविशेषशालिनश्च । 'वृत्तं चारित्रच्छन्दसोरपि' इति विश्वः । तान्प्रसादोऽस्यास्तीति प्रसादी तस्य Page #311 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः। २९९ प्रसादिनोऽनुग्रहशीलस्य । अन्यत्र प्रसादगुणयुक्तान् । 'प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते' इति अनुज्झितौ गोत्रसंविदौ कुलाचारौ येन तस्य । यादववंशोत्पन्नस्येत्यर्थः । अन्यत्र कुलनामनी यैस्तान् । वंशनामाङ्कितानित्यर्थः । 'संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु' इति । वैजयन्ती । एवंभूतस्योपेन्द्रस्य हरेर्गुणान्समुद्दिश्याधिकृत्य भूयसो बहुलाश्लोकान्स्तुतिपद्यानि पुरोऽग्रे पठन्ति स्म । अत्रोपेन्द्रस्य तच्छोकानां च वर्ण्यत्वेन प्रकृतानां श्लेषसाधादौपम्यगम्यतायां श्लेषप्रतिभोत्थापिता केवलप्रकृतगोचरा तुल्ययोगिता श्लेषश्च प्रकृतिषु प्रत्ययेषु नेति ॥ निःशेपमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् । ग्रामेषु सैन्यैरकरोदवारितः किमव्यवस्थां चलितोऽपि केशवः॥३६॥ निःशेषमिति ॥ चलन्कल्पान्ते क्षुभितः समुद्रोऽपि जलैनिःशेषमाकान्तमहीतलः सन् स्थितिं मर्यादा वेलालङ्घनलक्षणां समुज्झति त्यजति । केशवस्तु चलितोऽपि प्रस्थितोऽप्यवारितैरपरिमितैः सैन्यैनिःशेषमाकान्तमहीतलः सन् ग्रामेषु अव्यवस्थाममर्यादां किमकरोत् । नाकरोदेवेत्यर्थः। अत्रोपमानात्समुद्रादुपमेय. स्य केशवस्य मर्यादानतिक्रमेणाधिक्यकथनाव्यतिरेकालंकारः । लक्षणं तूक्तम् ॥ कोशातकीपुष्पगुलुच्छकान्तिभिमुखैविनिद्रोल्बणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् ॥३७॥ कोशातकीति॥ कोशातकीपुप्पगुलुच्छकान्तिभिः पटोलीप्रसूनपुच्छसच्छायैः। स्मरपाण्डुरै रित्यर्थः । 'कोशातकी पटोली स्यात्' इति हलायुधः। मुखैरुपलक्षिताः विनिद्रं विकसितमत एवोल्वणं विपुलं बाणं नीलसैरेयपुष्पमिव चक्षुर्यासां ताः । 'नीली झिण्टी द्वयोर्बाणा' इत्यमरः। ग्रामेषु भवा ग्रामीणाः । 'ग्रामाद्यखजौ' इति खञ्प्रत्ययः। ताश्च वध्वः श्रियस्तं कृष्णम् । ग्रामान्तर्गामिनमिति भावः। जनैश्चमूचरैरलक्षिता । वृतिभिस्तिरोहिता इत्यर्थः । चिरं वृतीनां कण्टकशाखाबरणानामुपर्युपरितनावकाशे व्यलोकयन् । उपमास्वभावोत्त्योः संकरः ॥ गोष्टेषु गोष्टीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः । ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसंकीर्तनभावितात्मनः॥३८ गोप्टेप्विति ॥ स कृष्णो गावस्तिष्टन्त्येग्जिनि गोष्टानि गोस्थानानि । 'गोष्ठं गोस्थानकम्' इत्यमरः । 'सुपिस्थः' इति बाप्रत्ययः । 'अम्बाम्बगोभूमि-' इत्यादिना पवम् । गोष्टीपु वार्तासु । गोष्टी सभायामालापे' इति विश्वः । कृतानि मण्ड. लासनानि मण्डलाकारेणोपवेशनानि यैस्तान्मुहुः सनादं श्वेलाट्टाहासाधारावसहितं यथा तथोत्थाय वल्गत उत्प्लवमानान्कपिशं मद्यम् । 'कश्यं मद्यं च मैरेयं कपिशं कापिशायनम्' इति हलायुधः। पिपासतो मुहुर्मुहुः पातुमिच्छतः । पिबतेः सन्नन्ताल्लटः शतरि शप् । स्वगोत्रसंकीर्तने स्वनामसंकीर्तने भावितात्मनः प्रवर्तितचित्तान् । कृष्णनामानि गायत इत्यर्थः । ग्रामेषु भवान्ग्राम्यान् । घोषजनानित्यर्थः । 'ग्रामाद्यखौ' इति यप्रत्ययः । अपश्यदालोकितवान् । स्वभावोक्तिः ॥ Page #312 -------------------------------------------------------------------------- ________________ ३०० शिशुपालवधे पश्यन्कृतार्थैरपि बल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् । एकान्तमौग्ध्यानवयुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥३९॥ पश्यन्निति ॥ एकान्तमौग्ध्येनात्यन्तमुग्धतया अनवबुद्धविभ्रमैरज्ञातवि. लासैः किंतु प्रसिद्धो विस्तार एव गुणो ये तैः । अतिविशालैरित्यर्थः । कृताथैरपि । सकृद्दर्शनाल्लब्धविस्तारफलैरित्यर्थः । विलोचनैर्जनाधिनाथं कृष्णं पश्यबल्लवीजनो गोपाङ्गनाजनः वितृष्णतां तृप्तता न ययौ । भूयो भूयः पश्यन्नपि नालंबुद्धिमवापेत्यर्थः । तृप्तिकारणे दर्शने सत्यपि तृप्तिकार्यानुत्पत्तेविशेपोक्तिः । सा कृष्णस्य मदनकोटिलावण्यलक्ष्मी व्यञ्जयति ॥ प्रीत्या नियुक्ताँल्लिहतीः स्तनंधयान्निगृह्य पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदध्यौ दुहतः स गोदुहः ४० प्रीत्येति ॥ नियुक्तान्वामपादे एव संयतान्स्तनं धयन्ति पिबन्तीति स्तनंध. यान्वत्सान् । 'नासिकास्तनयोधेिटोः' इति धेटः खशप्रत्ययः । प्रीत्या वत्सांल्लि. हतीर्जिया स्वादयन्तीः रोहिणीर्गाः । 'अर्जुन्यन्या रोहिणी स्यात्' इत्यमरः । पयः क्षीरं जानुनोरुभयेन जानुद्वयेन पारी दोहनपात्रीम्। 'पारी पात्रीपरागयोः' इति विश्वः । निगृह्य निरुध्य । बर्विष्णुधाराध्वनि बर्धनशीलक्षीरधाराशब्दं यथा भवति तथा दुहतः प्रपूरयतः । दुहेर्लटः शतरि शप् दुह्याच्-' इति हिकर्मकत्वम् । गां दुहन्तीति गोदुहो गोदोहकान् । 'सत्सूद्विप-' इत्यादिना क्विम् । स हरिश्चिरं निदध्याववलोकयति स्म । 'निध्यानमवलोकनम्' इति वैजयन्ती । स्वभाबोक्तिः॥ अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरो दुधुक्षतः । वर्गाद्वा हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमतल्लिकाम् ॥४१॥ अभ्येति ॥ अभ्याजतः दोग्धुमभिमुखमागच्छतः । अजेलटः शत्रादेशः । निर्याणं पादबन्धनं दाम । 'निर्याणं दाम संदानं पशूनां पादबन्धने' इति वैजयन्ती । तद्धस्ते यस्य तस्य निर्याणहस्तस्य दुधुक्षतो दोग्धुमिच्छतः। दोग्धुरिति शेषः । दुहेः सन्नन्ताल्लटः शत्रादेशः घत्वधत्वे । पुरोऽग्रेऽभ्यागतोऽभिमुखमागतस्तूर्णस्तनपाने त्वरमाणस्तर्णकोऽतिबालो वत्सो यस्याम्ताम् । सद्योजातस्तु तर्णकः' इत्यमरः । गवां वर्गाद्गोवजार्द्धकृतिचार हुंकारमनोहरं यथा तथा निर्यनी निर्गच्छन्तीम् । इणः शतरि डीए । इणो यणादेशः । प्रशस्तां गां गोमतलिकाम् । 'प्रशंसावचनैश्च' इति नित्यसमासः । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजी । प्रशस्तवाचकान्यमूनि' इत्यमरः । मधोररिर्मधुसूदन ऐक्षत इक्षितवान् । ईक्षते. र्लङि 'आडजादीनाम्' इत्याद । 'आटश्च' इति वृद्धिः । स्वभावोक्तिः ॥ स व्रीहिणा यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् । Page #313 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः। ३०१ कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥ ४२ ॥ स इति ॥ यावच्छुकान्कीरानपासितुं गतास्तावन्मृगैरुपद्रुतश्रियामुपद्रुतसंपदां व्रीहिणां व्रीहिमताम् । 'ब्रीह्यादिभ्यश्च' इतीनिप्रत्ययः । कैदारिकाणां क्षेत्रसमूहानाम् । 'पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु । कैदारकं स्यात्कदार्य क्षेत्रं कैदारिकं गणे ॥' इत्यमरः । 'ठञ् कवचिनश्च' इति चकाराष्टुञ्प्रत्ययः । कृद्योगात्कर्मणि षष्ठी। गोपिकाः गोत्रीरभितः समाकुला व्यग्राः। उभयतः समाकृष्यमाणाः सतीरित्यर्थः । स हरिः सहासमालोकयति स्म । अत्र सहासावलोकनस्य विशेषणगत्या समाकुलपदार्थहेतुकत्वात्काव्यलिङ्गभेदः॥ व्यासे मसानवधानतः पुरा __ चलत्यसावित्युपकर्णयन्नसौ । गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिय॑लोकयत् ॥ ४३ ॥ व्यासेद्धमिति॥ गोप्याः शालिगोप्याः। गौरादित्वान्डी । गीतान्युपकर्णयशृण्वन् असौ मृगवजो नूनं निश्चितं कलमं नात्ति न खादति इति । किं कलमभक्षणे गीतश्रवणविशेष इत्यत आह-असौ गोपी अस्मान्व्यासेद्धं निवारयितुम. वधानतो गीतैकाग्र्यात्पुरा चलति चलिष्यति । यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । इतीत्थं वितर्कयन्निति शेषः । हरिय॑लोकयत् । अत्र मृगाणां कलमखादननिवृत्तेीतासक्तिनिमित्तायास्तदाकर्णनसुखभङ्गहेतुकत्वमुत्प्रेक्ष्यते ॥ लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः । शौरेरुपानूपमपाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ ४४ ॥ लीलेति ॥ अनुगता आपो येपु ते अनूपा जलप्रायदेशाः। 'जलप्रायमनूपं स्थात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' इति बहुव्रीहिः 'ऋक्पू:-' इत्यादिना समासान्तः 'ऊदनोदेशे' इत्यूकारः । तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । लीलया चलति चलनशीले स्त्रियाश्चरणे अरुणोत्पले इव तयोः स्खलन्त्यौ ये तुलाकोटी नूपुरौ । 'पादाङ्गदं तुलाकोटिमञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः। तयोनिनाद इव कोमलो मधुर उन्मदसारसारवः मत्तहंसकूजितम् । 'चक्राङ्गसारसौ हंसे' इति शब्दार्णवे। शौरेर्मनः स्वनान्तरादपाहरत् । अत्र मनोहरणस्य लीलेत्यादिविशेषणार्थहेतुकत्वादुपमासंकीणं काव्यलिङ्गम् ॥ उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः । एके समूहुर्बलरेणुसंहति शिरोभिराज्ञामपरे महीभृतः॥४५॥ शिशु० २६ Page #314 -------------------------------------------------------------------------- ________________ ३०२ शिशुपालवधे उच्चैरिति ॥ तदा तस्मिन्समये अतिदूराद्गच्छतोऽपि तस्य हरेः संबन्धिनीमुच्चैर्गतामत्यूर्ध्वमुन्नताम् , अन्यत्रोर्वलोकेष्वतिव्याप्तामस्खलितामभङ्गुरां, सत्यां च गरीयसीमतिमहतीं, पूज्यां च । बलरेणुसंहति सेनारेणुसंघातमेके कतिपये महीभृतः पर्वता आज्ञां शासनं, अपरे महीभृतो राजानश्च । शिरोभिः शेखरैः, शीर्षैश्च समूहः संवहन्ति स्म । वहेलिटि झेरुसि 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अत्र हरिमहिमवर्णनायामुभयेषामपि महीभृतां प्रकृतत्वात्केवलप्रकृता. स्पदा तुल्ययोगिता श्लेषप्रतिभोत्थापिता चेति संकरः ॥ प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति । सेना मुरारेः पथ एव सा पुनर्महामहीधान्परितोऽध्यरोहयत् ॥४६॥ प्रायेणेति ॥ प्रायेण प्राचुर्येण नीचान्कुब्जानपि मेदिनीभृतोऽद्रीञ्जनो लोकः समेन सुगमेन पथा मार्गेणैवाधिरोहति । सा मुरारेः सेना पुनः पथो मार्गानेव महामहीध्रान्महागीन्परितोऽध्यरोहयत् । लोके हि सति क्षुण्णेऽध्वनि तेन शैला. रोहणसंभवः। सेना तु सर्वपथातिरेकिण्यभूत्। पूर्वापराः सहस्रं पन्थानः स्वारोह. णेन प्रवर्तिता इत्यर्थः। रोहतेर्गत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना पथामणिकर्तृणां णौ कर्मत्वम् । महीं धरन्तीति महीध्राः मूलविभुजादित्वात्कः । अत्र सेनायाः पथां शैलाधिरोहणेनोपमानाजनादाधिक्यकथनाव्यतिरेकः ॥ दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोचयानारुरुहुर्महीयसः । तिर्यकटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ॥४७॥ दन्ताग्रेति ॥ द्वाभ्यां पिबन्तीति द्विपाः । 'सुपि' इति योगविभागास्कप्रत्ययः । उन्मुखा उन्नमितमुखाः सन्तः दन्ताप्रैर्निभिन्ना विदारिताः पयोदाः शृङ्गगता । यस्मिन्कर्मणि तद्यथा तथा तिर्यगूर्ध्वमुखत्वात्तिरश्चीनं यथा तथा कटेभ्यः प्लवन्ते क्षरन्तीति कटप्लाविनीभिर्मदाम्बुनिम्नगाभिर्मदजलप्रवाहैविपूर्यमाणानि श्रवणोदराणि यस्मिन्कर्मणि तद्यथा तथा महीयसो महत्तरान्शिलोच्चयानारुरुहुः । स्वभावोक्तिः ॥ श्योतन्मदाम्भःकणकेन केनचिजनस्य जीमूतकदम्बकाता । नागेन नागेन गरीयसोचकैररोधि पन्थाः पृथुदन्तशालिना ॥४८॥ श्चयोतदिति ॥ श्योतन्तः क्षरन्तो मदाम्भःकणा यस्य तेन । शैपिकः कप्प्रत्ययः । जीमूतकदम्बकस्येव द्युत् द्युतिर्यस्य तेन । पृथुभ्यां दन्ताभ्यां शालत इति तच्छालिना। गरीयसा गुरुतरेणोच्चकैरुन्नतेन केनचिन्नागेन गजेन जनस्य पन्था मार्गः यथारोधि अगेनाचलेन न तथारोधि रुद्धः। मत्तमातङ्गस्य दुरा. सदत्वाच्छैलवदनतिक्रमणीयत्वादिति भावः । अत एवोपमानादगादुपमेयस्य नागस्याधिक्यान्यतिरेकः ॥ Page #315 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः। ३०३ भग्नगुमाश्चकुरितस्ततो दिशः समुल्लसत्केतनकाननाकुलाः। पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाणाचलदुर्गमा भुवः ॥४९॥ भग्नेति ॥ दन्तिनो गजा इतस्ततो भग्नद्रुमाः स्वभग्नाखिलवृक्षाः दिशः समुल्लसद्भिः केतनैरेव काननैराकुलाः संकीर्णाश्चक्रुः । तथा तरसा बलेन पिष्टानि चूर्णितान्यद्रिपृष्ठानि यासु ता भुवो भूमीः चलद्भिर्निजाङ्गैरेवाचलैर्दुर्गमा दुष्प्रा. पाश्चक्रुः । अत्र केतनेष्वङ्गेषु च काननाचलत्वरूपणाद्रूपकालंकारः। तेन गजानां पुरातनसृष्टिसंहारेण सृष्ट्यन्तरप्रवर्तनरूपं लोकोत्तरं सामर्थ्य गम्यत इत्यलंका. रेण वस्तुध्वनिः ॥ आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः। उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥५०॥ आलोकेति ॥ हरिर्महीधरानधिश्रयन्तीः परःशताः शतात्पराः । असंख्याता इत्यर्थः । 'परःशताधास्ते येषां परा संख्या शतादिकात्' इत्यमरः। 'पञ्चमी' इति योगविभागात्समासः। राजदन्तादित्वादुपसर्जनस्यापि शतशब्दस्य परनि. पातः । पारस्करादित्वात्सुडागमः । गजताः गजसमूहान् । 'गजाच्चेति वक्तव्यम्' इति सामूहिकस्तत्प्रत्ययः । उपत्यकाभ्य आसन्नभूमिभ्यः। 'उपत्याकानेरासन्ना भूमिः' इत्यमरः। 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति त्यकन्प्रत्ययः । उत्पातवातेन । तत्प्रतिकूलं पतन्तीति प्रतिकूलपातिनीः । ऊर्ध्वगामिनीरित्यर्थः । बृहतीः शिला इवेत्युत्प्रेक्षा । आलोकयामास ॥ शैलाधिरोहाभ्यसनाधिको रैः पयोधरैरामलकीवनाश्रिताः। तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥५१॥ शैलेति ॥ शैलाधिरोहाभ्यसनेन पर्वतारोहणाभ्यासेनाधिको रैरत्युन्नतैः पयोधरैः स्तनैरुपलक्षिता आमलकीवनाश्रिता धात्रीवनगताः । पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । 'पर्वताच्च' इति छप्रत्ययः। तेषां प्रमदाः । विकासेन विस्मयकृतविस्तारेण विस्फारिता विवर्तिता विभ्रमा विलासा यां तानीक्षणानि यासां तास्तथा सत्यः तं हरिं चचायिरे ददृशुः । 'चाय पूजानिशामनयोः' इति धातोः कर्तरि लिट् । निशामनं दर्शनम् । 'निरीक्षणनिशामने' इति दर्शनपर्यायेपु भट्टमल्लः । एतेन हरेर्लोकोत्तरं लावण्यं व्यज्यते इति वस्तुना वस्तुध्वनिः । स्वभावोक्तिवृत्त्यनुप्रासयोः संसृष्टिः ॥ सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयापि विव्यथे कथं सुराजभवमन्यथाथवा ॥५२॥ सावज्ञमिति ॥ सावज्ञमनादरं यथा तथा विलोचने सकृदेकवारम् । 'एकस्य सकृत्' इति सकृदर्थे निपातः । क्षणमुन्मील्योन्मिष्य । पुनः सुषुप्सुना स्वप्नु Page #316 -------------------------------------------------------------------------- ________________ ३०४ शिशुपालवधे मिच्छुना । स्वपेः सन्नन्तादुप्रत्ययः । 'रुदविद-' इत्यादिना सनः कित्त्वात् 'वचि. स्वपि-' इत्यादिना संप्रसारणम् । मृगेन्द्रेण सिंहेन समया समीपे । 'समयानिकषाशब्दौ समीपे संप्रकीर्तितौ' इति सजनः। यातो गच्छतोऽपि । यातेर्लटः शत्रादेशः । सैन्यात्सेनातः। 'भीत्रार्थानां भय हेतुः' इत्यपादानत्वम् । न विव्यथे न बिभ्ये । 'व्यथ भयसंचलनयोः' इति धातो वे लिद । अथवा । तथाहीत्यर्थः । अन्यथा भीतत्वे कथं सुराजंभवं सुखेन राज्ञा भूयते । न कथमपीति भावः । राजा चायं मृगाणामिति भावः। 'कर्तृकर्मणोश्च भूकृजोः' इति कर्तरीषदाद चोपपदे भवतेः खल्प्रत्यये नलोपमुमागमौ । अर्थान्तरन्यासः ॥ उत्सेधनिघृतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहमाम् । नागैरधिक्षिप्तमहाशिलं मुहुर्वलं बभूवोपरि तन्महीभृताम् ।। ५३॥ उत्सेधेति ॥ नागैर्गजैरधिक्षिप्तास्तिरस्कृता महाशिला येन तद्वलं सैन्यं ध्वजैरुत्सेधेनौन्नत्येन निधूता अवगणिता महीरुहो येषु तेषाम् । 'उत्सेधश्वोच्छ्रयश्च सः' इत्यमरः । जनैरवरुद्ध प्रतिबद्धमुद्धतमुढेलं सिन्धुरंहो नदीवेगो येषां तेषां महीभृतां पर्वतानामुपरि मुहुर्बभूव । मार्गवशाद्भूयसो भूधरान्मुहुराररोहे. त्यर्थः । 'हयोघरुद्ध' इति पाठे हयौघेन घोटकसमूहेन रुद्धमित्यादि पूर्ववत् । भत्रावरोहणवदुत्कर्षश्वोपरिभावो विशेषणवैभवात्प्रतीयत इति तदभेदेनोपरिभावस्य बलभूधरविशेषणपदार्थहेतुकत्वाच्छेपप्रतिभोत्थापितकाव्यलिङ्गविशेषः ।। श्मश्रूयमाणे मधुजालके तरोगजेन गण्डं कपता विनिते। क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ ५४ ॥ श्मश्रूयेति ॥ तरोवृक्षस्य इमधूयमाणे श्मश्रुवदाचरति । तद्वदालम्बमान इत्यर्थः । उपमालंकारः। श्मश्रुशब्दादाचारे क्यङन्तालटः शानजादेशः 'अकृसार्वधातुकयोः' इति दीर्घः । गण्डं कपोलं कषता तरुस्कन्धे कण्डूयमानेन गजेन मधुजालके क्षौद्रपटले विधूनिते कम्पिते सति । धूजो प्यन्तात्कर्मणि क्तः । 'धूप्रीजोर्नुग्वक्तव्यः' इति नुगागमः। अक्षुद्रतराभिरतिस्थूलाभिः क्षुद्राभिः सरघाभिः । 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका' इत्यमरः । विदश्यमानेन चक्षुभिभिंद्यमानेन जनेन समाकुलं व्यग्रं यथा तथा दुद्रुवे पलायितम् । भावे लिट् । स्वभावोक्तिरुत्तोपमासंसृष्टा ॥ नीते पलाशिन्युचिते शरीरवद्गजान्तकेनान्तमदान्तकर्मणा । संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥५५ ।। नीत इति ॥ उचिते परिचिते पलाशिनि द्रुमे । 'पलाशी दुद्रुमागमाः' इत्यमरः । शरीरवत्पूर्वशरीरवत् । 'तत्र तस्येव' इति वतिप्रत्ययः । अदान्तकर्मणा दुर्दान्तव्यापारेण गजोऽन्तक इवेत्युपमितसमासः साहचर्यात् । तेन गजान्त केनान्तं नाशं नीते गमिते सति प्लवैर्गच्छन्तीति प्लवंगमाः कपयः । 'गमेश्च' इति Page #317 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः। खच्प्रत्यये मुमागमः । आत्मानो जीवा इवापरं क्षमारुहं देहमिव क्षणात्सं. चेरुः । संप्रविष्टा इत्यर्थः। अनेकेवशब्दवाक्यार्थीपमा । सा च शरीरवदिति तद्धितगता अन्यत्र समासगतेति संकरः ॥ प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गहरानपि । साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि॥५६॥ प्रतानिति ॥ क्वचिदतीव नितान्तं प्रवान्प्रवणान् । अन्यत्रानुकूलान्क्वचिदुद्धतिं श्रयन्तीत्युद्धतिश्रितः औन्नत्यभाजः औद्धत्यभाजश्च । श्रयतेः विप् तुक् । क्वचिप्रकाशान्प्रकटाननवगूढवृत्तींश्च क्वचिदतिगहरानपि । अपि चार्थे । अप्रवेशान् अन्यत्र गूढांश्च । इतीत्थं साम्यादपेतान्विषमरूपाविषमवृत्तांश्च । अत एव गुरू. न्महतोऽपि पूज्यानपि गिरीस्तदा हरेर्वा हिनी सेना अतिचक्रामातीत्य गता, उल्लविता च । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥' इति स्मरणादिति भावः । गुरूणामप्यतिक्रम इति विरोधेऽपिशब्दः । स चोक्तवैषम्यदोषोद्धाटनेन परिहृत इति विरोधाभासः । स च गुरूनिति वाच्यप्रतीयमानयोरभेदाध्यवसायाच्छ्रेषमूलातिशयोक्त्युत्थापित इति संकरः ॥ स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया । अम्भोभिरुहाचिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः॥५७॥ स इति ॥ स हरिः परितः समन्तादपथान्यपमार्गान्यपि। 'पथो विभाषा' इति निषेधविकल्पात् 'ऋक्पू:-' इत्यादिना समासान्तः । 'अपथं नपुंसकम्' इति नपुंसकत्वम् । व्याप्तवत्यापि सर्वान्पथो व्यामोतीति सर्वपथीना । 'तत्सर्वादे:-' इत्यादिना खप्रत्ययः । तया सर्वपथीनया तया स्वसेनया निमित्ते अम्भोभिरुल्ल. चितानि युगपदखिलसेनाप्रवेशेन प्रतीपगमनादुपर्याक्रान्तानि तुङ्गरोधांसि यासां ताः निम्नं गच्छन्तीति निम्नगा नद्यः प्रतीपनाम्नीः कुरुते स्म । प्रतिगता उत्तानगा आपो यासां ताः प्रतीपाः । 'ऋक्प:-' इत्यादिना समासान्तः । 'यन्तरुपसर्गेभ्योऽप ईत्' इतीकारः । अथवा प्रतीपं निम्नगानामविरुद्धं नाम उत्तानगा इति नामधेयं यासां ताः प्रतीपनान्यः । 'अनउपधालोपिनोऽन्यतरस्याम्' इति ङीप् । तास्त. था चकारेत्यर्थः । अत्र निम्नगानां प्रतीपनामासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ।। यावयगाहन्त न दन्तिनां घटास्तुरंगमैस्तावदुदीरितं खूरैः । क्षिप्तं समीरः सरितां पुरः पतञ्जलान्यनैपीद्रज एव पङ्कताम् ॥५८॥ यावदिति ॥ दन्तिनां घटा गजबजा यावन्न व्यगाहन्त न व्यलोडयंस्तावतुरंगमैः कर्तृभिः खुरैः करणरुदीरितमुत्थापितम् । अथ समीरैः मारुतैः क्षिप्तं विकीर्णम् । अत एव पुरो गजप्रवेशात्प्रागेव पतगजो भूरेणुरेव सरितां जलानि पङ्कतामनैषीनिनाय । नयतेर्द्विकर्मकत्वाल्लङि वृद्धिः । अत्रापि सरितां पङ्कत्वा. संबन्धेऽपि संबन्धोक्तेः पूर्ववदतिशयोक्तिः ॥ Page #318 -------------------------------------------------------------------------- ________________ ३०६ शिशुपालवधे रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्ब्रजन्तः प्रमदं मदोद्धताः। पकं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥ ५९॥ रन्तुमिति ॥ रन्तुं क्रीडितुं क्षता एकत्र विषाणैरन्यत्र नखैश्च विदलिता उत्तुङ्गा नितम्बभूमयो रोधोभागाः श्रोणिभागाश्च यैस्ते । 'नितम्बो रोधसि स्कन्धे शिखरेऽपि कुटीरके' इति विश्वः। मुहुः प्रमदं हर्ष व्रजन्तः मदेन दानेन दर्पण वोद्धताः । करैर्हस्तैरपाकृतानि शैवलानि अंशुकानीवांशुकानि यैस्ते इभाः समुद्र गच्छन्तीति समुद्रगाणां समुद्रपत्नीनां नदीनाम् । 'एकाजुत्तरपदे णः' इति णत्वम् । पकं कर्दमं कलुषं चोदपादयन् । 'पङ्कोऽस्त्री कर्दमैनसोः' इति विश्वः । यथा मदोद्धताः पराङ्गनानां दोषमुत्पादयन्ति तद्वदिति भावः । अत्र प्रस्तुतेभ. विशेषणादप्रस्तुतस्त्रीसंग्रहणसाहसिकप्रतीतेः समासोक्तिः । स्त्रीपङ्कयोरभेदाध्यवसायादिति श्लेषमूलातिशयोक्त्युत्थापितेति संकरः ॥ रुग्णोरुरोधःपरिपूरिताम्भसः समस्थलीकृत्य पुरातनी दीः। कूलंकषौघाः सरितस्तथापराः प्रवर्तयामासुरिभा मदाम्बुभिः॥६॥ रुग्णेति ॥ इभा रुग्णैर्भग्नैरुरुभिर्महद्भी रोधोभिस्तटैः परिपूरिताम्भसः । मृत्क्षेपशोषिताम्भस इत्यर्थः । पुराभवाः पुरातनीः । 'सायंचिरम्-' इत्यादिना व्युप्रत्ययः तुडागमश्च । 'टिड्डाणञ्-' इत्यादिना डीप् । नदीः समस्थलीकृत्य स्थलसमाः कृत्वा । मदाम्बुभिः स्वमदोदकैः कूलं कपन्तीति कलंकपाः ओषा यासां ता उभयकूलप्रवाहिन्योऽपरा अन्याः सरितः प्रवर्तयामासुः । एतेन गजसंपत्तिरुक्ता । अत्र नदीनां समस्थलत्वासंबन्धे मदाम्बूनां च सरित्वासंबन्धेऽपि तत्संबन्धोक्तरतिशयोक्तिरिति सजातीयसंकरः ॥ पझैरनन्वीतवधूमुखद्युतो गता न हंसैः श्रियमातपत्रजाम् । दूरेऽभवन्भोजबलस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः॥६१॥ पद्मरिति ॥ पौरनन्धीता अप्राप्ता वधूमुखस्य द्युत् श्रीर्याभिस्ताः । वधूमुख. श्रीजितपद्मा इत्यर्थः । अन्वीतेति 'ईङ् गतौ' इति धातोः कर्मणि क्तः। हंसै. रातपत्रजां छत्रजन्यां श्रियं न गता अगताः । आतपत्रजितहंसश्रीका इत्यर्थः । निम्नगा नद्यः शैलोपमामतीताः शिलासाम्यमतिक्रान्ता गजा यस्मिंस्तस्य गच्छतो भोजबलस्य यादवसैन्यस्य दूरेऽभवन् । अतिव्यवहिता इत्यर्थः । अपकृष्टाश्चेति गम्यते । तदभेदाध्यवसायेनैव निम्नगानां दूरभवनस्य तद्विशेषणपदार्थहेतुकत्वाच्छेपमूलातिशयोक्तिसमुत्थापितः काव्यलिङ्गभेदः ॥ स्निग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः । सेना सुधाक्षालितसौधसंपदा पुरां बहूनां परभागमाप सा ॥६२॥ स्निग्धेति ॥ स्निग्धाञ्जनमिव श्यामाभिस्तनूभिरुन्नतैः करिणां कदम्बकैर्निरन्त Page #319 -------------------------------------------------------------------------- ________________ द्वादशः सर्गः। राला नीरन्ध्रा सा सेना सुधया लेपनविशेषेण क्षालिता धवलिताः सौधसंपदो यासां तासाम् । 'लेपभेदेऽमृते सुधा' इति वैजयन्ती । बहूनां पुरां पुरीणां परभागं विप्रकृष्टदेशमाप । दूरमतीत्य गतेत्यर्थः । वर्णोत्कर्षश्च परभागः । तदभे. दाध्यवसायेन परभागाप्तौ विशेषणगत्या श्यामकरिकदम्बकनैरन्तर्यस्य हेतुत्वात्पूर्ववत्काव्यलिङ्गभेदः ॥ प्रासादशोभातिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः । नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥६३॥ प्रासादेति ॥ पथि मार्गे प्रभोः कृष्णस्य निवासाः सेनानिवेशाः प्रासादशोभामतिशयालुभिरतिशायकैः । आलुचि शीजहणमपि कर्तव्यमित्यालुच्प्रत्ययः । पटवेश्मभिः पटवस्त्रैर्बभुः तेनोत्प्रेक्ष्यते । तदा द्वारका निर्याणकालेऽनेन कृष्णेन सह वियोगविक्लवा विरहभीरुः पुरश्रीरकानगरलक्ष्मीरपि पुरोऽग्रे निर्ययौ निर्गता । नूनं द्वारकातो न भिद्यन्ते अस्य निवासाः शोभयेति भावः ॥ वर्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे । गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः ॥६४॥ वर्मेति ॥ गण्डस्थलानामाघर्षेण संघर्षण गलता स्रवता मदोदकेन द्रवेप्वाट्टेषु दुमस्कन्धेपु निलीयन्त इति निलायिनस्तन्निवासिन उच्चकैर्विरुवन्तो गुञ्जन्तोऽलयः द्विपानां सेनागजानां वर्म प्रमाणम् । 'वर्म देहप्रमाणयोः' इति विश्वः । वनेचरेभ्यः किरातेभ्यः चिरमाचचक्षिरे। इयन्तो गजा इत्याख्यातवन्त इत्यर्थः । गजवानुमापकेष्वलिषु विरावयोगादाख्यानमुत्प्रेक्ष्यते । वाचकाप्रयोगाद्गम्योत्प्रेक्षा ॥ आयामवद्भिः करिणां घटाशतैरधःकृताट्टालकपतिरुचकैः । दृष्यर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥६५॥ आयामेति ॥ आयामो दैर्ध्य सोऽस्ति येषां तद्वद्भिः । आयतैरित्यर्थः । करिणां संबन्धिभिर्घटाशतैयूँहशतैः । 'करिणां घटना घटा' इत्यमरः । अधःकृतास्तिरस्कृता अट्टालकपतयोऽदृश्रेण्यो यया सा । 'अट्टास्वट्टालकः स्मृतः' इति वैजयन्ती। सा चमूरुच्चकैरुन्नतैष्यैः पटमण्डपैः जितान्युदग्राणि गृहाणि येषां तानि भूयांसि पुराण्यतीत्यावर्तत । अतिक्रम्य गतेत्यर्थः । शोभया अति. शय्य स्थितेति च गम्यते । तदभेदाध्यवसायेन श्लेषमूलातिशयोक्त्युत्थापितं पूर्ववत्पदार्थहेतुकं काव्यलिङ्गम् ॥ .. अथ हरिसेनाः कालिन्दी प्रत्यासेदुरित्याहउद्धृतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः । आह्लादिकलारसमीरणाहते पुरः पपाताम्भसि यामुने रजः॥६६॥ Page #320 -------------------------------------------------------------------------- ________________ ३०८ शिशुपालवधे उद्धृतमिति ॥ ध्वजिनीभिः सेनाभिरुच्चैरुद्भूतमूर्ध्व क्षिप्तम् । अत एव अभ्य'र्णतयान्तिकतया । 'उपकण्ठान्तिकाभ्यर्णा' इत्यमरः। विवस्वतोऽशुभिः प्रतप्तम् । प्रतप्तमिवेत्यर्थः । अत एव व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । आह्लादिन आह्लादका ये कलारसमीरणाः सौगन्धिकमारुताः । 'सौगन्धिकं तु कलारम्' इत्यमरः । तैराहते कम्पिते यामुने यमुनासंबन्धिन्यम्भसि पुरोऽग्रे रजो धूलिः पपात । संतप्ता हि संतापमसहमानाः पुरो धावित्वा वचन शिशिरे पयसि पतन्तीति भावः ॥ __ अथ चतुर्भिर्यमुनां वर्णयतिया धर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धैरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी॥६७॥ येत्यादि ॥ या यमुना धर्मभानोरुष्णांशोस्तनयापि सती शीतलैरपि । अपिविरोधे । स चोष्णजातायाः शैत्यानुपपत्तेरिति भावः । यमस्यान्तकस्य स्वसापि जनस्य जीवनरुज्जीवकैः। अत्राप्येकोदराणां भिन्नक्रियानुपपत्तेर्विरोधः । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्युभयत्राप्यमरः। किंच । कृष्णा कृष्णवर्णा मलिना च तयापि शुद्धेवैमल्यस्याधिकं विधातृभिः संपादकैर्जलरंहांसि पापानि विहन्तुं पटीयसी समर्थतरा । अत्र यमुनातजलगतत्वेन निर्दिष्टयोर्गुणक्रिययोविरोधेन त्रिषु विरोधेषु संसृष्टेषु तृतीयः कृष्णेति श्लेषप्रतिभोत्थापित इति संक्षेपः॥ यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः । तालीरपस्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्णतां धनाः ॥ ६८ ॥ यस्या इति ॥ हिमपिण्डपाण्डुरा हिमसङ्घशुभ्राः घना मेघाः द्रुता द्रवीकृता महानीलतटीरिन्द्रनीलस्थलानीव कालीः कृष्णवर्णाः । 'जानपद-' इत्यादिना ङीप् । यस्याः कालिन्द्या अपः पीत्वा ताभिः पीताभिरभिरनुरञ्जिता इव क्षणेन भिन्नाञ्जनवर्णतां स्नेहमृदितकजलवर्णतां प्रयान्ति । अत्र तटीरिवानुरञ्जिता इवेति चोत्प्रेक्षया संकीर्णेयं घनानामानोपमेति संग्रहः ॥ व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी । गागौघनिर्भसितशंभुकंधरासवर्णमर्णः कथमन्यथास्य तत् ॥६९॥ व्यक्तमिति ॥ हेतुर्युक्तिः । अनुमानमिति यावत् । आगमाद्गङ्गा सागरपूरिणीत्यागमप्रमाणात् । बलीयान्यदि प्रबलश्वेत् सा यमुना जलधिमपूरयत् । जहोरपत्यं स्त्री जाह्नवी नापूरयत् व्यक्तं सत्यमित्युत्प्रेक्षा । कुतः । अन्यथा विपर्यये अस्य जलधेः तत्प्रसिद्धमोऽम्भः । 'अम्भोऽर्णस्तोयपानीयम्' इत्यमरः । गाङ्गेन Page #321 -------------------------------------------------------------------------- ________________ ३०९ द्वादशः सर्गः। गङ्गासंबन्धिना ओघेन प्रवाहेण निर्भस्मितायाः निर्भसीकृतायाः शंभुकंधराया हरकण्ठस्य सवर्ण समानवर्णम् । कृष्णवर्णमित्यर्थः । 'ज्योतिर्जनपद-' इत्यादिना समानस्य सभावः । अन्यथा गङ्गौघस्य धावल्याद्धवलमेव स्यात् । तथा च ग्रावाप्लवनवाक्यवदागमोऽप्यन्यथा नेय इति कवेराशयः ॥ अभ्युद्यतस्य ऋमितुं जवेन गां तमालनीला नितरां धृतायतिः । सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥७॥ ॥कलापकम् ॥ अभीति ॥ तमालवन्नीला कृष्णा नितरां धृतायतिरत्यन्तं कृतदैर्ध्या सा महापगा महानदी यमुना । जवेन गां भुवं ऋमितुमाक्रमितुमभ्युद्यतस्योद्युक्तस्य तस्य महतो बलाम्बुराशेः सेनासमुद्रस्य पुरोग्रे क्षणं सीमेव वेलेव बभावित्युत्प्रेक्षा । क्षणमिति क्षणमात्रनिरोधिकाभवत् । अनन्तरमेव तरणादिति भावः ।। लोलेररित्रैश्चरणैरिवाभितो जवावजन्तीभिरसौ सरिजनैः। नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलछलनावलम्बितैः॥७१॥ लोलैरिति ॥ अभितः उभयतो लोलैश्चलगिररित्रैः केनिपातकदण्डैः । 'क्षेपणी स्यादरित्रं केनिपातकः' इत्यमरः। चरणैः पादैरिवेत्युत्प्रेक्षा । जवाह्रजन्तीभिर्गच्छन्तीभिौभिः साधनैरसौ सरिद्यमुना कर्म, प्लवेनोदिता नौवेगेनोत्पन्ना भ्रमी भ्रान्तिस्तस्या भयान्निमीलन्तीभिर्भयादक्षिनिमीलनं कुर्वतीभिर्ललनाभिरवलम्बितैर्जनैः कर्तृभिः परितः सर्वतः। सर्वोभयार्थे वर्तमानाभ्यां पर्यभिभ्यां तसिल्विधानात् । प्रतेरे प्रतीर्णा ॥ तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः॥ ७२ ॥ तत्पूर्वमिति ॥ द्विपाधिपा महागजाः पूर्व प्रथम अंसौ प्रमाणमस्यांसह. यसमंसप्रमाणम् । तेषां तथोन्नतत्वादिति भावः । 'प्रमाणे द्वयसज्-' इति द्वयसच्प्रत्ययः । तत्तथा गम्भीरं पयो यमुनाजलं सहेलाः सावज्ञाः परितो जगाहिरे प्रविशन्ति स्म । ततः प्रवेशानन्तरं सद्योऽविलम्बेन अनारतमविच्छिन्नं स्रुतेन स्रवता स्वदानवारिणा स्वमदोदकेन प्रचुरीकृतं बहुलीकृतं तत्पयस्तेरुः तरन्ति स्म । अनातिगम्भीरस्याप्यम्भसोंऽसदन्नत्वातिशयोक्त्या गजानामौन्नत्यं पुनस्तस्यैव तन्मदाम्बुसंभेदतात्पर्योक्त्या तेषां मदातिरेकश्च व्यज्यते ॥ प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरंगमैरायतकीर्णवालधि । उत्कर्णमुद्दाहितधीरकंधरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥७३॥ प्रोथैरिति ॥ स्फुटशब्दं स्पष्टध्वानं यथा तथा स्फुरद्भिश्चलभिः प्रोथै?णाभि Page #322 -------------------------------------------------------------------------- ________________ ३१० शिशुपालवधे रुपलक्षितैः । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । उन्मुखैरूर्ध्वमुखैस्तथा उत्क मुन्नमितकणं यथा तथा उद्वाहिता ऊर्ध्व प्रसारिता धीरा निश्चलाः कंधरा ग्रीवा येषां तैरने पुरः तटे दत्तदृष्टिभिस्तुरंगमैरायताः प्रसारिताः कीर्णा विक्षिप्ता वालधयो यस्मिन्कर्मणि तद्यथा तथातीर्यत अतारि । सरिदिति शेषः । कर्मणि लङि यक् । स्वभावोक्तिः॥ तीा जवेनैव नितान्तदुस्तरां नदी प्रतिज्ञामिव तां गरीयसीम् । शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैनंदितं ककुमताम् ॥ ७४ ॥ तीर्वेति ॥ नितान्तदुस्तरामतिहत्तयात्यन्ताशक्यतरणां तां नदी गरीयसीमतिदुस्तरां प्रतिज्ञामिव जवेन वेगेनैव तीर्वा शृङ्गैर्विषाणैरपस्कीर्णा आलेखिता महत्यस्तटीभुवस्तीरप्रदेशास्तेषाम् । 'अपाच्चतुष्पाच्छकुनिष्वालेखने' इति किरतेः कात्पूर्वतः सुडागमः। ककुद्मतामुच्चैस्तरं नदितं नादः अशोभत । उपमासंकीर्णा स्वभावोक्तिः ॥ सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरद्भिर्गवलासितद्युतिः । सिन्दुरितानेकपकंकणाङ्किता तरङ्गिणीवेणिरिवायता भुवः ॥७॥ सीमन्त्यमानेति ॥ तरद्भिर्यदुभूभृतां यादवभूपानां बलैः सैन्यैः सीमन्त्यमाना सीमन्तवतीक्रियमाणा । सीमन्तवच्छब्दात् 'तत्करोति-' इति ण्यन्तात्कमणि लटः शानजादेशः । णाविष्ठवद्भावाद्विन्मतोलृक् । गवलासितद्युतिः माहिषविषाणमेचकप्रभा। 'गवलं माहिषं शृङ्गम्' इत्यमरः । सिन्दूरिताः सिन्दू. रवस्कृताः । सिन्दूरशब्दात् 'तत्करोति-' इति ण्यन्तास्कर्मणि क्तः । णाविष्ठव. झावाद्विन्मतोलृक् । तैरनेकपैर्द्विपैः कंकणैः शेखरैरङ्किता चिह्निता। 'कंकणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तरङ्गिणी यमुना नदी आयता दीर्घा भुवो वेणिरिव बभौ इत्युत्प्रेक्षा ॥ अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्राधिमभिर्गरीयसः। नाव्यं पयः केचिदतारिषुर्भुजैः क्षिपद्भिर्मीनपरैरिवोर्मिभिः॥७६॥ अव्याहतेति ॥ अनोर्मीणां भुजानां विशेषणान्युभयविपरिणामेन योज्यानि । केचिजनाः नावा तायं नाव्यम् । 'नाव्यं त्रिलिङ्गं नौतार्ये' इत्यमरः । नौवयोधर्म-' इत्यादिना यत्प्रत्ययः । पयो जलं अव्याहतक्षिप्रगतैरप्रतिहतशीघ्रगमनैरनुज्झितो दाधिमा दैर्ध्य यस्तैः । अतिदीर्धरित्यर्थः । समुच्छ्रितानुन्नतान्ग. रीयसो गुरुतरानूर्मीन्क्षिपद्भिरत एवापरैरूमिभिरिव स्थितरित्युत्प्रेक्षा । भुजैर्बाहुभिरतारिषुस्तरन्ति स्म । तरेलुंङि सिचि वृद्धिरिडागमः ॥ विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै रलघुचरणाकृष्टग्राहां विषाणिभिरुन्मदैः। Page #323 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। सदसि सरितं सा श्रीभर्तुव॒हद्रथमण्डलैः स्खलितसलिलामुल्लङ्घयैनां जगाम वरूथिनी ॥ ७७ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके ___ प्रयाणवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥ विदलितेति ॥ सा प्रकृता श्रीभर्तुः कृष्णस्य वरूथिनी सेना उक्ष्णामनदुहां विषाणविघटनैः शृङ्गाघातैर्विदलितानि महाकूलानि यस्यास्तां उन्मदैरुद्भूतमदैविषाणिभिरलघुभिरुभिश्चरणैः पादैराकृष्टा बहिनीता ग्राहा जलग्राहा यस्यास्तां बृहद्भी रथमण्डलै रथसमूहः स्खलितानि व्याकुलीकृतानि सलिलानि यस्यास्ता. मेनां सरितं यमुनां सपदि उल्लङ्घय जित्वा । तीवेत्यर्थः। भुक्त्वेवेति गम्यते । विशेषणसामर्थ्यात् । जगाम । अत्र जयस्य विशेषणगत्या कूलदलनादिहेतुकस्वात्काव्यलिङ्गभेदः । हरिणी वृत्तम् । 'भवति हरिणी न्सौ म्रौ स्लौ गो रसाम्बुधिविष्टपैः' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध काव्यव्याख्यायां सर्वंकषाख्यायां द्वादशः सर्गः ॥ १२ ॥ त्रयोदशः सर्गः। यमुनामतीतमथ शुश्रुवानमुं तपसस्तनूज इति नाधुनोच्यते । स यदाचलनिजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥१॥ यमुनामिति ॥ अथ यमुनातरणानन्तरं तपसस्तनूजो धर्मनन्दनः अधुना यमुनामतीतममुं हरिं शुश्रुवान् । 'भाषायां सदवसश्रुवः' इति वसुप्रत्ययः। इति नोच्यते किंतु स हरिर्यदा निजपुरादचलत्तच्चलनमादिर्यस्मिन्कर्मणि तत्तदादि तत्प्रभृति । अहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावे अत्यन्तसंयोगे द्वितीया । नृपतेधर्मराजस्य वार्तया इह निविष्ट इतो निर्गत इति वृत्तान्तेन समचारि संचरितम् । आगतामिति यावत् । भावे लुङ् । संनिहितयमुनातरणवृत्तान्तवद्ध्यवहितसकलदैनंदिनवृत्तान्तो निजनगरप्रस्थानात्प्रभृति प्रतिक्षणमागत एवेत्यर्थः। अस्मिन्सर्गे मनुभाषिणी वृत्तम्। 'सजसा जगौ भवति मञ्जुभाषिणी' इति लक्षणात्॥ यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि । सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्य निर्ययौ २ यदुभर्तुरिति ॥ ततो हरेर्यमुनोत्तरणश्रवणानन्तरं स वसुधाधिपो धर्मराजः यदुभर्तुर्हरेरागमनेन लब्धजन्मनो लब्धोदयात् । जातादित्यर्थः । प्रमदाद्धर्षात् । 'प्रमदसंमदौ हर्षे' इत्यप्प्रत्ययान्तो निपातः । महीयस्यतिविपुलेऽपि पुरे अमान् Page #324 -------------------------------------------------------------------------- ________________ ३१२ शिशुपालवधे हर्षकृतशरीरवृद्धेरिवापरिमितविकासः सन्नित्युत्प्रेक्षा । सहसा अनुजन्मभिरनुजैः सहितोऽस्य हरेरभिमुखं निर्ययौ । नगरान्निर्गत इत्यर्थः ॥ रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः। समवादि वक्तृभिरभीष्टसंकथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥३॥ रभसेति ॥ रभसो हर्षः । 'रभसो वेगहर्षयोः' इति विश्वः । तेन प्रवृत्तैः कुरुचक्रदुन्दुभिध्वनिभिः कौरवसेनार्यघोषैः, बधिरीकृतश्रुतेर्विकलीकृतश्रोत्रे. न्द्रियस्य श्रोतृजनस्य, वक्तृभिः कथकैरभीष्टसंकथास्विष्टालापेषु प्रकृतस्य वक्तुं प्रक्रान्तस्याभिधेयस्य शेषं वक्तव्यावशिष्टम् , अथ बाधिर्यानन्तरं हस्तसंज्ञया हस्तसंकोचेन समवादि संवादितम् । श्रीकृष्णस्यागमनसंतोषात्तथा दुन्दुभीनाजघ्नुः यथा कण्ठोक्तशेषं करसंज्ञया निष्पाद्यत इत्यर्थः । अत्र बधिरीकरणस्य जनवि. शेषणद्वारा हस्तसंज्ञया वदनहेतुत्वात्काव्यलिङ्गभेदः ॥ अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः। जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः॥४॥ __ अपदेति ॥ द्रुतं शीघ्रं भ्रमिताः परिवर्तिताः हेमनेमयः कनकचक्रान्ता येषां ते । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । अत एव जविना वेगवता मारुते. नाञ्चितानि कम्पितानि परस्परमुपमान्तीति परस्परोपमान्यन्योन्यसदृशानि क्षितिरेणुकेतुवसनानि स्वोत्थापितभूरेणवः स्वारोपितध्वजपटाश्च येषां ते, क्षितिं क्षियन्तीशते इति क्षितिक्षितः क्षितीशाः । 'क्षि ऐश्वर्ये निवासे च' इति धातोस्तादादिकास्विपि तुक् । क्षितिपतिष्वेवासौ क्षितिक्षिदिति भट्टमल्लः । तेषां संब. न्धिनः पताकाः सन्तीति पताकिनो रथाः । व्रीह्यादित्वादिनिः । परितः सर्वतः नास्ति पदस्यान्तरमवकाशो यस्मिन्कर्मणि तदपदान्तरं संसक्तं यथा तथा । 'संसक्ते त्वव्यवहितमपदान्तरमित्यपि' इत्यमरः । अपतनधावन् । अत्र राष्ट्रव. र्णने रेणूनां केतूनां च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता । तथा च परस्परोपमेति विशेषणाद्रेणुवत्केतवः, केतुवच्च रेणव इत्युपमेयोपमया के रेणवः के केतव इति संशयश्च व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः । ननृतुश्च वारिधरधीरवारणध्वनिहष्टकूजितकलाः कलापिनः ॥५॥ द्रुतमिति ॥ अश्वचरणक्षतास्तुरगखुरघट्टिता भुव उपरि पृष्ठभागे पाणिवृत्तयः पाणिताडनानि येषां ते उपरिपाणिवृत्तयः पणवा वाद्यविशेषा इवेत्युपमा । द्रुतं द्रुततरमेवाध्वनन्ध्वनन्ति स्म । 'द्रुतं शीघ्रम्' इत्यमरः । वारिधरशब्देन तद्दर्जितं लक्ष्यते । तद्वद्धीरैर्गम्भीरैर्वारणध्वनिभिर्गजबृंहणैर्हृष्टा अत एव कूजितकलाः । कृजिता इत्यर्थः। ततो विशेषणसमासः । कलापा येषां सन्तीति कलापिनो बर्हि Page #325 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः 1 ३१३ णश्च ननृतुर्नृत्यन्ति स्म । अत्रोपमयोः संसृष्टिः । वारिधरोपमया कलापिनां गजबृंहितेषु घनगर्जिताद्रान्तिमन्तरेण नृत्यासंभवाद्रान्तिमदलंकारो व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ व्रजतोरपि प्रणयपूर्वमेकतां कुकुराधिनाथकुरुनाथसैन्ययोः । रुरुपे विपाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ॥ ६ ॥ व्रजतोरिति ॥ तदा तस्मिन्समये कुकुराधिनाथकुरुनाथसैन्ययोः हरिपार्थसैन्ययोः प्रणयपूर्वं स्नेहपूर्वक मेकता मैक्यं व्रजतोर्गच्छतोः सतोरपि विषाणिभिरुभयसेनावर्तिभिः गजैरनुक्षणं प्रतिक्षणं मिथः परस्परं रुरुषे चुकुधे । भावे लिट् । तथाहि मदेन मूढबुद्धिषु विपरीतप्रज्ञेषु विवेकिता कार्याकार्यविचारिता कुतः । नास्त्येवेत्यर्थः । अथ तेषां स्वामिसौहार्देऽपि स्वयं विरोधिता न दोषायेति । भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ अवलोक एव नृपतिः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः । अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति संभ्रमेण सः ॥७॥ . अवलोक इति ॥ दूरतो दूरादवलोके हरेर्दर्शन एवं रभसाद्धर्षाद्रथादवत तुमवरोम् | 'वृतो वा' इति विकल्पाद्दीर्घः । इच्छतो नृपतेर्धर्मराजात्प्रथमम् । तदवतरणात्पूर्वमेवेत्यर्थः । आत्मना स्वयमेव । प्रकृत्यादित्वात्तृतीया । अवतीर्णवान्रथादवरूढः सन् । 'निष्ठा' इति तरतेः क्तवतुप्रत्ययः 'ऋत इद्धातोः' इतीत्वं 'रुपधाया दीर्घ-' इति दीर्घे ' रदाभ्याम् -' इति निष्ठानत्वे 'रपाभ्याम् -' इति त्वम् । स हरिः संभ्रमेण त्वराविशेषेण विनयं मानौद्धत्यं विशेषयति स्मातिशाययति स्म । एतेन हरेः पूज्यविषयो रत्याख्यो भावो ध्वन्यते ॥ वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना । भुवनैर्नतोऽपि विहितात्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ८ वपुपेति ॥ पुराणपुरुषो हरिः । सर्वलोकज्येष्ठोऽपीति भावः । तथा भुवनैतो नमस्कृतोऽपि विहितं संपादितमात्मनो गौरवमुत्कर्षो येन स सन् । पूज्ये पु नमस्या नहेतुत्वादिति भावः । अत एवात्र विचित्रालंकारः । 'विचित्रं स्वविरुद्धस्य फलस्य स्यात्समुद्यमे' इति लक्षगात् । पुरः क्षितावग्रभूमौ परिपुञ्जयमाना परितः पुञ्जीक्रियमाणा पृथुः स्थूलो हारो मुक्तावलिर्यष्टिरिव यस्य तेन वपुषा शरीरेण । नत्वञ्जलिमात्रेण । तथास्य पूज्यत्वादिति भावः । पूज्यत्वे हेतुमाहपितृष्वसु स्तनयमिति पितृभगिनीपुत्रम् | धर्मराजमित्यर्थः । ' विभाषा स्वसृपत्योः ' इत्यस्य वैकल्पिकत्वेन पयालुक् । 'मातृपितृभ्यां स्वसा' इति षत्वम् । प्रकाशं प्रणनाम । प्रणामं कृतवानित्यर्थः । प्रपूर्वान्नमेर्लिट् । ' उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । अत्रापि पूर्ववद्भावध्वनिः । भुवनैर्नतोऽपि हरिर्लोकयानुवर्ती स्वयमेनं नतवानिति विरोधाभासोऽलंकारो विचित्रेणोक्तेन संकीर्णः नामनामेति वृत्त्यनुप्रासभेदश्च संसृष्ट इत्याद्यूह्यम् ॥ नाम शिशु० २७ Page #326 -------------------------------------------------------------------------- ________________ ३१४ शिशुपालवधे मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् । क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥९॥ मुकुटेति ॥ स हरिर्मुकुटांशुभी रञ्जितः स्ववर्णमापादितः परागो रेणुर्यस्य तदग्रतः पुरतो महीतलं शिरसा यावन्नाप । नास्पृशदित्यर्थः । तावरिक्षतिपेन धर्मराजेनानपेक्षितक्रमं अनपेक्षितः क्रमः परिपाटी यस्मिन्कर्मणि तत्तथा । भुजा. भ्यामेव पञ्जरेणेति रूपकम् । रभसाद्वेगादगृह्यत गृहीतः। प्रणामक्रियासमाप्तेः प्रागेवोत्थाप्याश्लिक्षदित्यर्थः ॥ न ममौ कपाटतटविस्तृतं तनौ मुरवैरिवक्ष उरसि क्षमाभुजः । भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे १० नेति ॥ कपाटतटविस्तृतं मुरवैरिणो हरेर्वक्षः, तनावल्पे क्षमाभुजो धर्मराजस्योरसि न ममौ । न परिमितमित्यर्थः । तथापि विकटीकृतेन विपुलीकृतेन दीर्घयोर्भुजयोर्युगलेन परितः समन्तादभिषस्वजे आलिङ्गितम् । वक्षसा भुजाभ्यां च कथंचित्परिच्छिन्नमभून्न तु वक्षसैवेत्यर्थः । 'सदिस्वोः परस्य लिटि' इति धातुसकारस्य षत्वनिषेधात्स्थादित्वेऽप्यभ्यासस्यैव षत्वम् । अत्र हरिवक्षसो वैपुल्यादतिशयद्योतनाय नृपवक्षःसंमानेऽप्यसंमानोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिश्च । अनयोश्च स्वतःसिद्धकविप्रौढोक्तिसिद्धयोरप्यतिशययोरभेदाध्यवसायादुत्थानमिति रहस्यम् ॥ गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरुराजनिर्दयनिपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ११ गतयेति ॥ नाभ्यां परिनाभि । विभक्त्यर्थेऽव्ययीभावः । वारिजम् । नाभिकमलमित्यर्थः । अवमुच्य विहाय अध्युर उरसि । विभक्त्यर्थेऽव्ययीभावः । निरन्तरं सततं गतया प्राप्तया श्रिया शोभया, रमया च नाभिसरोजत्यागेनात्र निवासेन तस्मादपहृतमिति ध्वनितम् । कुरुराजस्य या निर्दयनिपीडना गाढाश्लेषरूपा ततो भयान्मुरवैरिणो मुरद्विषो मुखमध्यरोहि अधिरूढम् । भीता युच्चमारोहन्तीति लोकवेदयोः प्रसिद्धमिति भावः । नूनमित्युत्प्रेक्षा । अत्र वाच्यायाः सुहृदाश्लेषप्रभवायाः शोभायाः श्रियेति श्लेषमहिम्ना प्रतीयमानया रमया सहाभेदाध्यवसायात्क्रमेण नाभिमुखकमलाधारसंबन्धाभिधानाच्छ्रेषमूलातिशयोक्त्युस्थापितः पर्यायभेदः । 'क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथ वाने पर्यायालंकृतिर्मता ॥' इति लक्षणात् । तदुपजीविता श्रीमुखारोहणस्य भयहेतुकत्वकथनादुत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ शिरसि स जिघ्रति सुरारिवन्धने छलवामनं विनयवामनं तदा । यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः॥१२॥ शिरसीति ॥ नृपो धर्मराजः सुरारिबन्धने पुरा बलिबन्धने छलवामनं Page #327 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। ३१५ कपटवामनं तदा पार्थोपपत्तिसमये तु विनयवामनम् । विनयनम्रमित्यर्थः । तं हरिमिति शेषः । वीर्यविजितामरदुमप्रसवेन पारिजातहरणे शौर्यलब्धपारिजातकुसुमेन यशसेव पारिजातविजयप्रसूतया कीत्यैवेत्युत्प्रेक्षा । वासितशिरोरुहे सुरभितकेशे शिरसि जिघ्रति स्म । 'प्रवासादेत्य मूर्धन्यवघ्राणम्' इति स्मरणात् । पुरा किल भगवान्सत्यभामाग्रीतये बलादिन्द्रलोकादपहृत्य पारिजातं निजगृहेप्वा. रोपितवानिति कथात्रानुसंधेया ॥ सुखवेदनाहपितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि । कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥१३॥ सुखेति ॥ वसुदेवाज्जन्म यस्य तस्मिन्वसुदेवजन्मनि वासुदेवे । जन्मोत्तरपदत्वाध्यधिकरणो बहुव्रीहिर्वामनवचनादित्युक्तं प्राक् । शिथिलीकृतेऽपि विश्लेषिते सत्यपि सुखवेदनया आलिङ्गनसुखानुभवेन हृषिता उद्ता रोमकूपा रोममूलानि यस्यां तया । 'हृषेर्लोमसु' इतीडागमः । कुरुभर्तुर्धर्मराजस्याङ्गलतया विकसितः कदम्बनिकुरम्बस्य कदम्बकुसुमसमूहस्य चारुता कामनीयकं न तत्यजे न त्यक्ता । किंतु स्वीकृतेत्यर्थः । आश्लेषापगमेऽपि तजन्मसुखानुवृत्त्या तत्कार्यस्य रोमहर्षस्यानुवृत्तिरिति तात्पर्यार्थः । अत एव शिथिलीकृते हृषितरोमकूपयेत्यकारणकार्यकथनाद्विभावना तदपेक्षया चेयमुत्पन्ना कदम्बनिकुरम्बचारुतानिदर्शना तया सहाङ्गेन संकीर्यते ॥ इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः। स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ॥ इतरानिति ॥ जनसभाजनोचितः सर्वजनसंभावनाहः प्रसभेन बलादु. द्धता असुरसभासुरसङ्घो येन सः प्रमनाः हृष्टचित्तः स हरिः प्रमोदपरिफुल्लच. क्षुषो हर्षोत्फुल्लनेवानितरान्भीमादीनिक्षतिभुजो नृपस्यानु पश्चाजन्म येषां ताननुजन्मनोऽनुजान्यथोचितं यथार्हमसभाजयत्सभाजयति स्म । आलिङ्गनादिभिरानन्दयामासेत्यर्थः । 'आनन्दनसभाजने' इत्यमरः । 'समाज प्रीतिदर्शनयोः' इति धातोश्चौरादिकाल्लुङ् ॥ सममेत्य तुल्यमहसः शिलाघना न्धनपक्षदीर्घतरबाहुशालिनः । परिशिश्लिषुः क्षितिपतीक्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥ १५ ॥ सममिति ॥ तुल्यमहसः समतेजस्कान् , शिला इव शिलाभ्यश्च घनान्दढान् घनैः परिव दीर्घतरबाहुभिः बाहुभिरेव पक्षैश्च शालन्त इति तथोक्तानेवंभूतानिक्षतिपतीनेवंभूताः क्षितीश्वराः समं युगपदेत्यागत्य । आपूर्वादिणः क्त्वो ल्यपि तुक् । कुलिशात्परेण परतः । कुलिशक्षतेः पूर्वमित्यर्थः । संप्रत्यसंभवादिति भावः । Page #328 -------------------------------------------------------------------------- ________________ ३१६ शिशुपालवधे परेणेति विभक्तिप्रतिरूपकमव्ययम् । गिरयो गिरीनिव परिशिलिपुरालिङ्गित वन्तः । उपमा ॥ इभकुम्भतुङ्गघटितेतरेतरस्तनभारदूरविनिवारितोदराः । परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः || १६ || इति ॥ इभकुम्भा इव ये तुङ्गाः घटिताश्च इतरेतरासां स्तनभारास्तैर्दुरे विनिवारितान्यतिकार्यादस्फुटतया स्थापितान्युदराणि यासां ताः । 'स्वाङ्गाच्च - ' इति विकल्पानीकारः । परिफुल्ल गण्डफलकाः हर्षपुलकित गण्डस्थलाः कुकुरकौरव• स्त्रियो यादवपाण्डवाङ्गनाः परस्परं परिरेभिर आश्लिष्टवत्यः । 'परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम्' इत्यमरः । परिफुल्लेति फुल्लतेः पचाद्यजन्तं न तु फुलेति निष्टान्तम् । अनुपसर्गादिति कथनविरोधात् ॥ रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः । दधिरे पृथक्करण एव दूरतो महतां हि सर्वमथवा जनातिगम् ॥ १७ ॥ रथेति ॥ रथवाजिपत्तिकरिणीभिः समाकुलं संकीर्णम् । करिणीग्रहणं पुंगजव्यावृत्त्यर्थम् । अतो युद्धानर्हतया तासामसेनाङ्गत्वान्न द्वन्द्वैकवद्भावः । तदनी - कयोः सैन्ययोः । 'वरूथिनी बलं सैन्यं चक्रं चानीकम स्त्रियाम्' इत्यमरः । द्वयं मिथश्चान्योन्यं समगत संगतम् । गमेर्लङि 'समो गम्यृच्छि-' इत्यादिनात्मने - पदं 'वा गमः' इति सिचः कित्त्वात् 'अनुदात्तोपदेश -' इत्यादिजानुनासिकलोपः 'स्वादङ्गात्' इति सकारलोपः । करिणः पुंगजाः दूरत एवं पृथग संगतं दधिरे धृताः । स्थापिता इत्यर्थः । अथ वा किमत्र चित्रमिति भावः । महतां महासत्वानां संबन्धि सर्वं चेष्टितमिति भावः । जनानतिगच्छतीति जनातिग्रमतिजनम् । सर्वलोकविलक्षणमिति भावः । सामान्येन विशेषसमर्थनरूपोऽथा न्तरन्यासः ॥ ३ अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः । अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः १०८ अधीति ॥ हरिरधिरुह्यतां रथ आरुह्यतामित्येवं महीभृता धर्मराजेनोदिन उक्तः सन् । वदेः कर्मणि क्तः । ' वचिस्वपि -' इत्यादिना संप्रसारणम् । कपिकेतु - नार्जुनेनार्पितकरो दत्तहस्तः सन् । अवलम्बितोऽवष्टब्ध ऐलविलस्य कुबेर पाणिपल्लवो हस्तो येन स मेघवाहन इन्द्रो मेघमिव रथं श्रयति स्म । हमारूढवानित्यर्थः । उपमा ॥ रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामित्र रिपोर्मुरद्विपः । अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥ १४९॥ रथमिति ॥ किंचेति चार्थः । अथ रथारोहणानन्तरं रथमास्थितयारूपस्य Page #329 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः । ३१७ पुराभिवर्तिन इन्द्रप्रस्थाभिवर्तिनः, त्रिपुराभिवर्तिनश्च मुरद्विषो हरेस्तिसृणां पुरां रिपोखिपुरान्तकस्येव । 'न तिसृचतसृ' इति नामि दीर्घप्रतिषेधः । धर्ममूर्तिर्धर्मात्मा प्रजापतिर्जनेश्वरो धर्मराजो, ब्रह्मा च अनुरागभावितः सन् । प्रवीयते प्रेयेतेऽनेनेति प्रवयणं प्राजनम् । प्रतोद इति यावत् । अत एव 'प्रवयणो दण्डः प्राजनो दण्डः' इति काशिका । अजेः करणे ल्युट् । 'वा यौ' इति विकल्पादजेर्वीभावः 'पूर्वपदात्संज्ञायाम् -' इति णत्वम् । स्वयमादित गृहीतवान् । सारथ्यं कृतवानि - त्यर्थः । ददातेः कर्तरि लुङि तङ् । 'स्थाध्वोः -' इतीकारे सिचः कित्त्वे च 'हवादङ्गात्' इति सलोपः । अत्र त्रिपुरहरणे ब्रह्मा हरस्येव हरेरयं सारथ्यं चकारेत्युपमा । तस्याः प्रजापतिरिति राजब्रह्मणोः श्लेषमूलाभेदाध्यवसायादतिशयोक्तिनिर्व्यूढतेति । शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृतिः । पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरधुवत्प्रकीर्णकम् ॥ २० ॥ शनकैरिति ॥ किंचेति चार्थः । अथास्य हरेस्तनुषु सूक्ष्मेषु जालकान्तरेषु गवाक्षरन्ध्रेषु स्फुरितस्य प्रसृतस्य क्षपाकरकरोत्करस्य शशिकिरणपुञ्जस्याकृतिरिवाकृतिर्यस्य तत्प्रकीर्णकं चामरं निम्नगापतेः समुद्रस्य पृथु विपुलं फेनकूटं फेनपुञ्जमिव मरुतः सूनुर्भीमसेनः शनकैरधुवद्धुवति स्म । ध्रुवतिरयं तौदादिक इत्युतम् । उपमयोः संकरः ॥ विकसत्कलायकुसुमासितद्युतेरलघूडपाण्डु जगतामधीशितुः । यमुना दोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥२१॥ विकसदिति ॥ विकसत्कलायकुसुमं कालपुष्पम् । 'कलायः स्यात्काले’ इति वैजयन्ती । तद्वदुसितद्युतेर्नीलवर्णस्य जगतामधीशितुर्जगन्नाथस्य जिष्णुरर्जुन: अलघूडुपाण्डु स्थूलनक्षत्रधवलम् अत एव यमुनाह्रदस्योपरिगमुपरिगतम् । 'अन्यत्रापि दृश्यते' इति उप्रत्ययः । तस्य हंसमण्डलस्य द्युतिं शोभां जिष्णु जयनशीलम् । 'ग्लाजिस्थश्च -' इति ग्स्नुः । उष्णवारणमातपत्रमभृत भृतवान् । भृञः कर्तरि लुङ् । ‘स्वरितजित: -' इत्यात्मनेपदम् | 'उश्च' इति सिचः कित्त्वादगुणता 'हस्वादङ्गात्' इति सकारलोपः । अत्राप्युपमासंकरः ॥ पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा । दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुध राख्यमिन्दुना ||२२|| पवनेति || पवनात्मजेन्द्रसुतमध्यवर्तिना भीमार्जुनमध्यगतेन रुचिरेण चक्रिणा हरिणा उभयोरर्कादिग्रहाणामन्यतमयोरन्तरे मध्ये स्थित्या वासेन कारितं संपादितम् । वृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगो व्याख्यातः । दुरुधरेत्याख्या यस्य तद्दुरुधराख्यं योगं दधता । अर्कान्यग्रहमध्यगतेनेत्यर्थः। इन्दुनेवेत्युपमा । नितरामतिशयेन । 'किमेत्तिङव्ययघा -' इत्यामुप्रत्ययः । अरोचि अशोभि । रोचतेर्भावे लुङ् । स्वभावरमणीयस्यानुरूपान्तर Page #330 -------------------------------------------------------------------------- ________________ ३१८ शिशुपालवधे समायोगाच्छोभातिशयो जायते। रत्नकाञ्चनयोरिवेति भावः । अत्र भगवानाचार्यमिहिरः-'हित्वार्क सुनफाऽनफा दुरुधरा स्वान्योभयस्थैर्ग्रहैः शीतांशोः' इति । एतदेव स्पष्टीकृतं कल्याणवर्मणा रविवर्ज द्वादशगैरनफा चन्द्राद्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञिकोऽतोऽन्यः ॥' इति ॥ वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा । विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥२३॥ वशिनमिति ॥ अथ भीमार्जुनोपवेशनानन्तरं वशिनमिन्द्रियजयवन्तम् । अव्यसनिनमिति यावत् । क्षितीश्वरं भूपतिम् । अयः शुभावहो विधिर्नीतिर्नयस्ताविव । दैवपुरुषकाराविवेत्यर्थः । नियतमाचारनिष्ठं यतिं जितेन्द्रियम् । 'यतिनो यतयश्च' इत्यमरः । नियमः शरीरातिरिक्तदेशकालादिसाधनापेक्षः संध्योपासनजपादिः । यमः शरीरमात्रसाधनापेक्षोऽहिंसादिः । 'शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः । नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ॥' स च यथा यमनियमाविवेत्यर्थः । 'इववद्वायथाशब्दाः' इति दण्डिनाभिधानात् । विजयश्रिया युतं आसन्नविजयम् । विजिगीषू रिपुमित्यर्थः । अर्कमारुताविव दत्रयोरश्विनोः सुतौ नकुलसहदेवौ । 'नासत्यावश्विनौ दस्रौ' इत्यमरः । तं हरिमनुसस्नतुरनुचेरतुः । पृष्ठोपसर्पणं चक्रतुरित्यर्थः । इह सर्वकर्तृमनोरथानुकूलव्यापारवत्त्वमनुसरणम् । इयं मालोपमा ॥ मुदितैस्तदेति दितिजन्मनां रिपावविनीयसंभ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः॥२४॥ मुदितैरिति ॥ तदा तस्मिन्समये इति मुदितैर्हृष्टैरविनीयोऽकल्कः । अकपट इति यावत् । यः संभ्रम आदरस्तेन विकासिनी स्फुटीभवन्ती भक्तिर्येषां तैः । 'विपूयविनीयजित्या मुञ्जकल्कहलिषु' इति कल्कार्थे निपातः । नपुंसकपूर्वपदः स्त्रीलिङ्गपूर्वपदो वा बहुव्रीहिः । अविनीतं शासतीत्यविनीतशासिभिः दुष्टशिक्षकैः पाण्डवैः दितिजन्मनां रिपौ कृष्णविषये उप समीपे सीदन्ति स्मेत्युपसेदिवांसोऽन्तेवासिनः । ‘भाषायां सदवसश्रुवः' इति सदेलिटः क्वसुरादेशः । तैरुपसेदिवद्भिपदेष्टरि गुराविवेत्युपमा । विनीतमनुद्धतं च ववृते वृत्तम् । भावे लिट् । ननु विकासिभक्तिरित्यत्र कथं पूर्वपदस्य पुंवद्भावः । भक्तिशब्दस्य प्रियादिपाठात् 'स्त्रियाः पुंवत्-' इति पुंवद्भावसूत्रेऽप्रियादिष्विति निषेधादिति । विकासिशब्दस्याविकासिनीवृत्तिमात्रपरतयाऽस्त्रीत्वस्य विवक्षितत्वानपुंसकपूर्वपदो बहुव्रीहिरिति केचित् । तदेतदभिप्रेत्योक्तं वृत्तिकारेण 'दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धिः' इति । एतदेव स्पष्टीकृतं गणव्याख्याने-'दृढं भक्तिर्यस्येति नपुंसकं पूर्वपदम् , धात्वर्थविशेषणमानपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितम्' इति । भोजराजस्तु 'भक्तो कर्मसाधनाया'मित्यनेन सूत्रेण भज्यते सेव्यते इति कर्मार्थत्वेन दृढभक्तिरित्यादि भवति । भाव Page #331 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। ३१९ साधनायां तु दृढभक्तिर्भवत्येव' इत्याह । तदेतत्सर्वमस्माभिः कालिदासत्रयसं. जीविन्यां 'दृढभक्तिरिति ज्येष्ठः' इत्यादिषु विवेचितम् । तस्माद्विकासिभक्तिभिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वे नपुंसकत्ये च रूपसिद्धिरस्तीति स्थितम् ॥ गतयोरभेदमिति सैन्ययोस्तयोरथ भानुज तनयाम्भसोरिव । प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥२५॥ गतयोरिति ॥ इति इत्थं गतयोः सैन्ययोः भानुजगुतनये यमुनाजान्यो तयोरम्भसी प्रवाही तयोरिवाभेदमैक्यं गतयोः सतोः । 'यस्य च भावेन भावलक्षणम्' इति सप्तमी । एतेन सैन्ययोरवार्यत्वमुक्तम् । अथ सैन्यमेलनानन्तरम् । आनकैर्मङ्गलदुन्दुभिभिः परमया मुदेव हर्षेणेवेत्युत्प्रेक्षा । प्रतिनादितानि प्रतिध्वनितान्यमरविमानानि द्रष्टुमागत्याम्बरस्थितानि विमानानि देवयानानि यस्मिन्कर्मणि तद्यथा तथा नितरां दध्वने ध्वनितम् । भावे लिट् ॥ मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः। उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥ २६॥ 'मखमिति ॥ क्षितिपतेधर्मराजस्य मखं ऋतुमीक्षितुमुपेयुपां ततस्तत आगतानां भूभृतां राज्ञां वलैः सैन्यैर्बहिः परितः प्रकल्पितानि निर्मितानि निकेतनानि निवासा यस्य तदत एवोपरुध्यमानं शत्रुसेनावेष्ट्यमानमिव स्थितमित्युस्प्रेक्षा । पुटभेदनं पत्ननं मयकृतमिन्द्रप्रस्थम् । ‘पत्तनं पुटभेदनम्' इत्यमरः । दनुसुतारिर्दानवारिः पुरोऽग्रे ऐक्षतापश्यत् ॥ प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः । रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः२७ प्रतीति ॥ प्रतिनादैः प्रतिध्वानैः पूरितं व्याप्तं दिशामन्तरमन्तरालं येन सः पुरगोपुरं पुरद्वारं प्रति । 'गोपुरं तु पुरद्वारि द्वारमात्रे नपुंसकम्' इति विश्वः । एवं च न परशब्दस्य पौनरुक्त्यशङ्का। पतन्धावन्स सैन्यसागरः सेनासमुद्रः हिमाचलगुहामुखस्योन्मुखोऽभिमुखः सुरसिन्धोर्गङ्गाया अयं सौरसैन्धवः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः । पयसां प्रवाह इव रुरुचे रेजे । उपमालंकारः ॥ असकृट्टहीतबहुदेहसंभवस्तदसौ विभक्तनवगोपुरान्तरम् । पुरुषः पुरं प्रविशति स पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः २८ असदकृदिति ॥ असकृद्धहुशो गृहीतो लोकधारणाय स्वीकृतो बहुपु देहेषु मत्स्यकूर्मादिपु शरीरेपु संभवः प्रादुर्भावो येन सः, अन्यत्र स्वकर्मणा प्राक्तनयोनिसंबन्धरूपसंभव इत्यर्थः । पुरुषः पुराणपुरुषो हरिर्जीवश्च विभक्तानि नवानि प्रत्यग्राणि गोपुरान्तराणि द्वारविशेषा यस्य तत् , अन्यत्र नवसंख्याकानि गोपुरान्तराणीन्द्रियद्वारभेदा यस्मिंस्तत् पुरं पत्तनं शरीरं च । 'पुरं पुरि शरीरे च' Page #332 -------------------------------------------------------------------------- ________________ ३२० शिशुपालवधे 1 इति विश्वः । पञ्चभिरिन्द्रियैः सममिव पञ्चभिर्नरेन्द्रसूनुभी राजपुत्रैः पाण्डवैः सहासौ हरिस्तत्पुरं प्रविशति स्म । जीवो हि देहाद्देहान्तरं पूर्वेन्द्रियैः सह प्रविशति । लिङ्गशरीरस्यानपायादिति भावः । श्लेषसंकीर्णेयमुपमा ॥ तनुभिस्त्रिनेत्रनयनानवेक्षितस्मर विग्रद्युतिभिरद्युतन्नराः । प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः॥२९॥ तनुभिरिति ॥ यत्र नराः पुरुषाः त्रिनेत्ररूयम्बकः 'पूर्वपदात्संज्ञायामगः' इति णत्वं तु रघुनाथादिवण्णत्वरहितस्य संज्ञात्वे न प्रवर्तते । तस्य नयनेनानवेक्षितस्य स्मरविग्रहस्य द्युतिरिव द्युतिर्यासां ताभिस्तनुभिर्मूर्तिभि: । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । अद्युतन्द्योतन्ते स्म । 'द्युत दीप्तौ' 'घुच्यो लुङि' इति विकल्पात्परस्मैपदं । पुषादिसूत्रेण च्लेरङादेशः । प्रमदाः स्त्रियश्च राज्ञश्चन्द्रस्य यक्ष्मा राजयक्ष्मा क्षयरोगः | 'राजानं यक्ष्मा आरत्' इति श्रवणात् । 'राजयक्ष्मा क्षयः शोथः' इत्यमरः । तस्मात्परतः । पूर्वमित्यर्थः । निशाकरवन्मनोरमैः । अक्षीणेन्दुसुन्दरैरित्यर्थः । मुखैरद्युतन् । तत्पुरं प्रविष्ट इति पूर्वेणान्वयः । उपमयोः संसृष्टिः॥ अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः । अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ।। ३० अवलोकनायेति ॥ अथ हरेः पुरप्रवेशानन्तरं पटहप्रणादैर्दुन्दुभिध्वनिभिर्विहितोपहूतयः । कृताह्वाना इवेत्यर्थः । पुरे भवाः पौरास्तेषां योषितः पौरयोषितः । स्त्रियाः पुंवद्भावः । सुरद्विषामसुराणां द्विषो हरेरवलोकनाय दर्शनार्थमवधीरितान्यकरणीयास्त्यक्तान्यकार्याः ताश्च ताः सत्वराश्च ताः सत्यः रथ्यां प्रति प्रतिरथ्यम् । यथार्थेऽव्ययीभावः । ईयुः प्राप्ताः । एतेन स्त्रीणां हरिविलो - कने कालाक्षमत्वलक्षणमौत्सुक्यमुक्तम् । अत्र पौराङ्गनाप्राप्तेः प्रवेशवाद्यश्रवणानन्तर्यात्तदुपाह्वानोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या | 1 अथाष्टादशभिः पौराङ्गनाशृङ्गारचेष्टां वर्णयति— अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः । दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्कयः ॥३१ अभीति ॥ सामिकृतमण्डनमर्धविरचितप्रसाधनं यथा तथा यतीर्गच्छन्तीः । इणः शतरि ङीप् । कररुद्धनीवीनि करगृहीतग्रन्थीनि गलदंशुकानि स्रंसमानपरिधानानि यासां ताः । लसदिति पाठान्तरं तदा लसदुल्लसदित्यर्थः । ' अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीययोः' इति शब्दार्णवे । स्त्रियः स्त्रीरभिवीक्ष्य सौधपङ्कयः अधिभित्ति भित्तिषु । विभक्त्यर्थेऽव्ययीभावः । पटहप्रति स्वनैस्तूर्य प्रतिध्वनिभिः स्फुटमुद्गतमट्टहासमुच्चैर्हसितमिव दधिरे इवेत्युत्प्रेक्षा । विकृतिदर्शनादासो भवतीति भावः । अत्र कुतूहलाख्या चेष्टोक्ता । 'कुतूहलं रम्यष्टौ चापल्यं परिकीर्तितम्' इति लक्षणात् ॥ Page #333 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। ३२१ रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः। परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः॥३२॥ रभसेनेति ॥ रभसेन त्वरया हारपदे मुक्तादामस्थाने वक्षसि दत्तकाञ्चयो न्यस्तरशनाः प्रतिमूर्धजं मूर्धजेषु केशेषु । विभक्त्यर्थेऽव्ययीभावः । विहिताः कर्णपूरकाः कर्णावतंसा याभिस्ताः । परिवर्तितं विपर्यासेन धृतमम्बरयुगं वाससी याभिस्ताः । परिधानीकृतमुत्तरीयं कुचांशुकं च जघने दत्तमित्यर्थः । वलयी. कृताः कंकणीकृताः श्रवणपूरकाः कुण्डलानि याभिस्ताः स्त्रियः समापतन्नधावन् । एतेन विभ्रमाख्या चेष्टोक्ता । 'विभ्रमस्त्वरया काले भूषास्थानविपर्यये' इति लक्षणात् । स च भ्रममूल इति भ्रान्तिमदलंकारो व्यज्यते ॥ व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन । द्रुतयावकैकपदचित्रितावनि पदवीं गतेव गिरिजा हरार्धताम् ॥३३॥ व्यतनोदिति ॥ काचन स्त्री रसवशेन हरिवीक्षणपारतत्र्येण । 'गुणे रागे द्रवे रसः' इत्यमरः । प्रसाधिकाया अलंकाः करपल्लवाच्चरणमपास्य असमा. तावेवाक्षिप्य । हरार्धतां हरस्यार्धाङ्गतां गता। अन्यथैकपादालक्तकासंभवादिति भावः । गिरिजा गौरीव । यावकेनालक्तकेन एकपदेन चित्रिता चित्रवर्णीकृता अवनिर्यस्यास्तां पदवीं व्यतनोदकरोत् । उपमालंकारः । एषां कुतूहलाख्या चेष्टा रसायनादिदृक्षाजनितचापलरूपत्वादिति ॥ व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः । भवनानि तुङ्गतपनीयसंक्रमक्रमणकणत्कनकनूपुराः स्त्रियः ॥३४॥ __ व्यचलन्निति ॥ विशङ्कटानां विशालानां कटीरकस्थलीनां कटिभागानां शिखरेप्वग्रेषु स्खलन्त्यो लुठन्त्योऽत एव मुखराः शब्दायमानास्ताभिर्मेखलाभिराकुलाः तुङ्गेपु तपनीयसंक्रमेपु कनकसोपानेषु क्रमणेन क्वणन्तः कनकनूपुरा यासां ताः स्त्रियः भवनानि हाणि व्यचलन् । तत्र गत्वारोहन्नित्यर्थः । चले. गत्याल्लङ् । एतदपि पूर्ववदतिकुतूहलमेव । वृत्त्यनुप्रासोऽलंकारः ॥ अधिरुक्ममन्दिरगवाक्षमुल्लसत्सुदृशो रराज मुरजिद्दिदृक्षया । वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थितमिवेन्दुमण्डलम् ॥३५॥ अधीति ॥ मुरजितो हरेर्दिदृक्षया द्रष्टुमिच्छया । दृशेः सन्नन्तान् ‘अप्रत्ययात्' इति स्त्रियामप्रत्यये टाप् । रुक्ममन्दिरस्य कनकहर्म्यस्य गवाक्षेऽधिरुक्ममन्दिरगवाक्षम् । विभक्त्यर्थेऽव्ययीभावः । उल्लसत्प्रकाशमानं सुदृशः स्त्रिया वदनारविन्दमुदयाद्रेः कन्दराया गुहाया विवरस्योदरे मध्ये स्थितमिन्दुमण्डलमिव रराजेत्युपमा । अत्रापि सुदृशो गवाक्षाक्रमणस्य रम्यदर्शनार्थचापलरूपत्वात्कुतूहलं मुरजिद्दिदृक्षयेत्यादिना व्यक्तमेव ॥ Page #334 -------------------------------------------------------------------------- ________________ शिशुपालवधे ३२२ अधिरूढया निजनिकेतमुच्चकैः पवनावधृतवसनान्तयैकया । विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ॥ ३६ ॥ अधीति ॥ उच्चकैर्निजनिकेतं स्वसौधमधिरूढया आरूढवत्या पवनेनावधूतः कम्पितो वनान्तो वस्त्राञ्चलो यस्यास्तया एकया कदाचिदङ्गनया हेतुना तन्नगरमिन्द्रप्रस्थं माधवे उपयात्यागच्छति । यातेर्लटः शत्रादेशः । पताकया वैजयन्त्या विहितोपशोभं कृतशोभमिवालंकृतमिवेत्युप्रेक्षा । व्यरोचत व्यराजत । कृत्स्नस्यापि नगरस्य स्वयं पताकेव बभावित्युत्प्रेक्षा । तस्याः सकलपौराङ्गनातिशायि लावण्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः । अत्रापि प्रासादारोहणं पूर्ववत् कुतूहलमेव ॥ करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् । अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥ ३७ ॥ करेति ॥ प्रतिवेश्म वेश्मनि । विभक्त्यर्थेऽव्ययीभावः । अङ्गनाः पुरंध्यः । करयुग्मान्यञ्जलयस्तानि पद्ममुकुलानीवेत्युपमितसमासः । तैरपवर्जितैरत एवावदीर्णैर्विभिन्नैः शुक्तिपुटैः शुक्तिकोशैर्मुक्ता उत्सृष्टा ये मौक्तिकप्रकरा मुक्तानिकरास्तैरिव स्थितैरित्युत्प्रेक्षा । लाजाः कुसुमानीव तैर्लाजकुसुमैः । आचारलाजैरित्यर्थः । प्रियं रथाङ्गं चक्रं यस्य तं प्रियरथाङ्गं चक्रिणम् । हरिमित्यर्थः । अत्राकिरंश्छादयामासुः ॥ हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः । अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ३८ 1 हिमेति ॥ हिममुक्तः शिशिरापगमाद्धिमान्निर्मुक्तो यश्चन्द्रः स इव । रुचिः, अन्यत्र तेन रुचिरः । पद्मेन, पद्मया च सह वर्तत इति सपद्मः स एव सपद्मकः पद्महस्तः, सश्रीकश्च । शैषिकः स्वार्थिको वा कप् प्रत्ययः । अन्यत्र सपङ्कजः । शैषिकः कप्प्रत्ययः । द्विजान्ब्राह्मणान्, अन्यत्र पक्षिगणान्कोकिलादीन्मदयन्हarrataमीनकेतनः प्रद्युम्नजनकः, अन्यत्र मदनोद्दीपकः । प्रसादिता अनुगृहीताः सुरा देवा येन, अन्यत्र प्रसादिता निर्मलीकृता सुरा मदिरा यस्मिन्स माधवो हरिर्वसन्तश्च । 'माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे' इति विश्वः । प्रमदैव जनस्तस्य प्रमदाजनस्य । जातावेकवचनम् । चिराय महोत्सवोऽभवत् । तद्वदानन्दकरोऽभूदित्यर्थः । इहानन्दकरत्वसाम्येन माधवे महोत्सव रूपणादूपकसिद्धिः । श्लेषस्तु हरिवसन्तयोरिह नास्त्येव । प्रकृताप्रकृतश्लेषे विशेष्यश्लेयोगात् । किंतु शब्दशक्तिमूलो ध्वनिरेव ॥ धरणीधरेन्द्रदुहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति । मदनेन वीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ॥ धरणीति ॥ असौ स्वदाहको विषमेक्षणरूयक्षः धरणीधरेन्द्रदुहितुः पार्वत्याः सपत्नीशङ्किन्या इति भावः । 'भीत्रार्थानां भयहेतुः' इति पञ्चमी | भयात्स्फुटं Page #335 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। ३२३ अमूः पौरयोषितः न पश्यतीति हेतोरिति विश्वासादित्यर्थः । अत एव गम्योस्प्रेक्षा । मदनेन वीतभयमधिष्टिता आक्रान्ताः । अत्यारूढमदना इत्यर्थः । पुरोविलासिनीः स हरिः क्षणमीक्षते स्म । सविस्मयमिति भावः ॥ विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा॥४०॥ विपुलेति ॥ युगक्षये कल्पान्ते । सागरे शेते इति सागरशयस्य । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । ‘शयवासवासिष्वकालात्' इति विकल्पादलुगभावः । यस्य हरेविपुलेन कुक्षिणा भुवनानि पपिरे पीतानि । पिबतेः कर्मणि लिट् । स हरिरेकतमया पुरस्त्रिया पुनः कयाचित्पौराङ्गनया मदविभ्रमेण मदविकारेणासकलया अलमग्रया एकया दृशा पपे पीतः । सतृणं इष्ट इत्यर्थः । कुक्षिकोणनिविष्टनिखिलविष्टपस्य हरेर्महत आधेयस्यात्यल्पतरैककान्ताकटाक्षकोणाधारत्वोक्त्या चमत्कारादधिकालंकारः । 'आधाराधेययोरानुरूप्याभावोऽधिको मतः' इति लक्षणात् । अयं च तात्कालिकविकारात्मा विलासाख्यो भावो यत्कटाक्षवीक्षणम् । 'तात्कालिकविकारः स्याद्विलासोऽङ्गक्रियादिपु' इति दशरूपकात् ॥ अधिकोन्नमदनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना । अभिकृष्णमङ्गलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥४१॥ अधिकेति ॥ काचन कान्ता अभिकृष्णं कृष्णाभिमुखम् । आभिमुख्येऽव्ययीभावः । अधिकं भुजोन्नमनादरमुन्नमन्धनः कठिनः पयोधरः स्तनो यस्याः सा मुहुः प्रचलतो नृत्यतः कलापिनो बर्हिण इव कलो मधुरः शङ्खकस्वनो वलयध्वनिर्यस्याः सा सती । 'शङ्खकं वलये कम्बौ' इति विश्वः । अङ्गुलिमुखेनाङ्गुल्यग्रेणकस्य कर्णस्य विवरं रन्ध्र द्रुतं शीघ्रं व्यघट्टयत् । कण्डूविनोदार्थमिवाताडयत् । वस्तुतस्तु भावाविष्करणार्थमेवेति भावः । अयं च पूर्ववद्विलास एव । कलापिकलेत्युपमा ॥ परिपाटलाजदलचारुणासकृचलिताङ्गुलीकिसलयेन पाणिना। मशिरःप्रकम्पमपरा रिपु मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥४२॥ परीति ॥ अपरा स्त्री । परिपाटलाजदलचारुणा रक्ताजपत्ररुचिरेण असकृन्मुहुश्चलितान्यङ्गुल्यः किसलयानीवाङ्गुलीकिसलयानि यस्य तेन पाणिना सशिरःप्रकम्प शिरःकम्पयुक्तं यथा तथा मधो रिपुं हरिमनुदीर्णवर्णमनुच्चारिताक्षरम् अत एव निभृतार्थं परेषामविदितार्थं यत्तदनुदीर्णवर्णनिभृतार्थं यथा तथा आव. यत् परप्रकाशनभयादव्याहरन्ती चेष्टर्यवाह्वानं कृतवतीत्यर्थः । अत्रापि पूर्ववद्विलासोपमे भावालंकारौ ॥ नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना। स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥४३॥ ___ नलिनेति ॥ अपरा स्त्री नलिनान्तिके उपहितस्य पल्लवस्य श्रीरिव श्रीर्यस्य Page #336 -------------------------------------------------------------------------- ________________ ३२४ शिशुपालवधे तेन । मुखसंनिधानादिति भावः। एकपाणिना चारु निसर्गसुन्दरं मुखं व्यवधाय तिरोधाय स्फुरदङ्गुलीविवरनिःसृता उज्ज्वलाङ्गुल्यन्तरालनिर्गता अत एवो ल्लसन्त उत्सर्पन्तो दशनप्रभा एवाङ्कुरा यस्मिन्कर्मणि तद्यथा यथा अजृम्भत । जृम्भमाणस्य विवरणं तच्चेष्टवस्तुसाक्षात्कारकृतजाड्यानुभावः । अत्र नलिनपल्लवयोरसंबन्धयोः संभावनया संबन्धाभिधानादतिशयोक्तिः ॥ वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना।। हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥४४॥ वलयेति ॥ हरिवीक्षणेऽक्षणिकचक्षुषा स्थिरदृष्ट्या । विस्मयादराभ्यां स्तिमितनेत्रयेत्यर्थः । अन्यया स्त्रिया गलत्सुखपारवश्यात्त्रंसमानमम्बरं वलयेप्वर्पिताः खचिता ये असितमहोपला नीलमहामणयः । 'उपलौ मणिपाषाणौ' इति विश्वः । तेषां प्रभाभिर्बहुलीकृता सान्द्रीकृता प्रतनुः सूक्ष्मा रोमराजिर्यस्य तेन करपल्लवेन दधे कृतम् । अयं च तात्कालिकविहारलक्षणविलासः । अनेन्द्रनीलप्रभाणां रोमावलीबहुलीकरणोक्त्या प्रभास्वपि रोमराजित्वप्रतीतेोन्तिमदलंकारो व्यज्यते इति वस्तुनालंकारध्वनिः ॥ निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितधर्मवारिणः । अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत॥४५॥ निजेति ॥ काचित्स्त्री निजेनात्मीयेन सौरभेण सौगन्ध्येन भ्रमितानां भ्रमणं कारितानां भृङ्गाणां पक्षतयः पक्षमूलानि । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षात्तिः' इति तिप्रत्ययः। ता एव व्यजनानि इति रूपकं स्वेदहरणलिङ्गात् । तासामनिलेन क्षयितं नाशितं धर्मवारि स्वेदो यस्य तेन अभिशौरि शौरेरभिमुखम् । आभिमुख्येऽव्ययीभावः । अनिमेषा दृष्टिर्यस्य तेन वपुषा निमित्तेन पुरदेवतेव इन्द्रप्रस्थाधिदेवतेव व्यभाव्यत विभाविता । तर्कितेति यावत् । अनिमेषत्वं चेष्टदर्शनजन्यजाड्यसंचार्यनुभावः । 'अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूप्णीभावादयस्तत्र ॥' इति लक्षणात् । इहाङ्गसौरभानिमेषत्वाभ्यां पुराधिवासाच्च पुराधिदेवतात्वमुत्प्रेक्ष्यते इत्युपात्तगुणनिमित्ता जातिस्वरूपोत्प्रेक्षा । तया चास्या जात्याः पद्मिनीत्वं व्यज्यते इत्यलंकारेण वस्तुध्वनिः । निजसौरभेत्यनेन 'कमलमुकुलमृद्वी फुल्लराजीवगन्धिः सुरतवयसि यस्याः सौरभं दिव्यमङ्गम्' इत्यादिपद्मिनीलक्षणोपलक्षणादिति । वियुलेनेत्यादिश्लोकोक्ताः षडपि नायिकाः प्रौढाः साधारणाश्च तत्र बालासंभवात् । अन्यथासां कृतचेष्टावर्णनानौचित्याच्चेत्यलमतिप्रपञ्चेन ॥ अभियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः। न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ४६ अभियातीति ॥ असौ नितम्विनीजनः स्त्रीजनो नोऽस्माकं चक्षुषः सतृष Page #337 -------------------------------------------------------------------------- ________________ ३२५ त्रयोदशः सर्गः। सतृष्णस्यैव सतश्चक्षुषि सतृष्णे सत्येव । अनादृत्येत्यर्थः । 'षष्ठी चानादरे' इति पष्टी । एष हरिरभियात्यभिगच्छतीत्यखिद्यत खेदं गतः । खिदेवादिकाकर्तरि लुङ् । अत्रोत्प्रेक्ष्यते । नेति । यो जन एनं हरिं सततमीक्षते असावपि खलु वितृप्णतां न व्रजतीति न विवेद । नित्यदर्शनेऽप्यपूर्ववदेव भवतीति नाबुध्यतेत्यर्थः । वेद चेन्नाखिद्यतेति भावः । अत्राखिद्यतेति स्त्रीणां प्रारब्धहरिवीक्षणसुखविच्छेदकृतविपादाख्यसंचारिभावनिबन्धनात्प्रेयोलंकारः । तदुत्थापिता चेयमुक्तावेदनोत्प्रेक्षेति संकरः । 'प्रारब्धकार्यासिद्ध्यादेविषादः सत्त्वसंक्षयः' इति दशरूपके । सत्त्वसंक्षयश्चित्तभङ्गः ॥ अकृतस्वसमगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत । गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ४७ अकृतेति ॥ अङ्गनाजनः अच्युतेन सह गतं मनः प्रतिपालयन्प्रतीक्षमाण इवेत्युत्प्रेक्षा । शून्यतां निरोजस्कतां गतः । अकृतस्वसद्मगमनादरः निवृत्तनिजगृहप्राप्त्यपेक्षः सन् लिपिकर्मनिर्मितः चित्रलिखित इवेत्युत्प्रेक्षा । क्षणं व्यतिष्ठत चिस्पन्दमास्तेत्यर्थः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । अतः शून्यतानुभावाञ्चिन्तावगम्यते । 'ध्यानं चिन्ता हितानातेः शून्यताश्वासतापकृत्' इति दशरूपके । अत्रोत्प्रेक्षयोः सापेक्षत्वात्संकरः ॥ अलमैर्मदेन मुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः । अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः॥४८॥ __ अलसैरिति ॥ अलघु अधिकं प्रसारितैर्विलोचनैरेवाञ्जलिभिद्रुतं सत्वरम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । पीतो यो माधवो हरिरेव रसोऽमृतम् । अन्यत्र मधु मद्यं तत्संबन्धि रसो माधुर्यं माधवरसः। 'रसो रागे विष वीर्य तिक्तादौ पारदे दवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥' इति वैजयन्ती । तस्यौधः समूहम्तेन निर्भरैर्दुभैरैः । गुरुभिरिति यावत् । अत एव सदेनालसैमन्थरः शरीरकाणि। अल्पशरीराणीत्यर्थः । ‘अल्पे' इति परिमाणे कन्प्रत्ययः । तैरुपलक्षिताः सुदृशः शनैःशनैः स्वगृहान्प्रति प्रतिययुः प्रतिनिर्गताः । स्वयं लघून्यपि गव्याणि रसद्वभरणाद्गुरु भवन्तीति भावः। अत्र माधवरसौघनिर्भरत्वविशेषणगत्या शनैःशनैः प्रतियानहेतुत्वाकार्यहेतुकं काव्यलिङ्गं तच्च माधवरसेनेति श्लेषमूलातिशयोक्त्युत्थापितमिति संकरः॥ नवगन्धवारिविरजीकृताः पुरो धनधूपधूमकृतरेणुविभ्रमाः। प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ४९ नवेति ॥ अथ पुरप्रवेशानन्तरं हरिणा पुरः पूर्वं नवगन्धवारिभिर्गन्धवासितोदकैर्विरजीकृता अविरजसो विरजसः संपद्यमानाः कृताः । 'अरुमनश्चक्षुश्चेतोरहोरजसा लोपश्च' इत्यभूततद्भावे विप्रत्यये सलोपः। 'अस्य च्वौ' इतीकारः । धनैः शिशु० २८ Page #338 -------------------------------------------------------------------------- ________________ · शिशुपालवधे सान्दैधूपानामगुरुधूपानां धूमैः कृतो रेणुविभ्रमो रजोभ्रमो याभिस्ताः प्रचुर बहुलमुद्धतेपूच्छ्रितेषु ध्वजेषु ध्वजस्तम्भेषु विलम्बीनि विलम्बमानानि वासांसि पताका यासु ताः पुरवीथयोऽतिपेतिरेऽतिपातिताः । अतिक्रान्ता इत्यर्थः । पतेः कर्मणि लिट् । एत्वाभ्यासलोपौ । अत्र सादृश्याद्भूरेणुभ्रान्त्या भ्रान्तिमदलंकारः । रेणुविभ्रमशब्देन रजोविलासस्यापि प्रतीतेस्तस्य विरजीकरणेन विरोधाद्विरोधाभासश्चत्यनयोरेकवाचकानुप्रवेशलक्षणः संकरः ॥ उपनीय विन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् । विदधेऽवधूतसुरसमसंपदं समुपासदत्सपदि संसदं स ताम् ॥५०॥ उपनीयेति ॥ मयेनासुरशिल्पिना वृषपर्वा नाम कश्चिदसुरेश्वरः वृषपर्वण इदं वार्षपर्वणम् । 'तस्येदम्' इत्यण् । चारु मनोहरं मणिरेव दारु काष्ठम् । मणिमयं स्तम्भादिकलापमित्यर्थः । तद्विन्दुसरसो हैमवतात्सरोविशेषादुपनीय समीपमानीय । किलेत्यैतिह्ये । या संसद्विदधे निर्मिता। अवधूताधरीकृता सुरसद्मसंपदिन्द्रभवनलक्ष्मीर्यया सा तां संसदं सभाम् । 'सभासमितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । स हरिः सपदि समुपासदत्वापत् । सदेलङि 'पुषादि-' इति च्लेरङादेशः । पुरा किल खाण्डवदाहे पाण्डवेनाग्निदाहान्मोचितेन मयेन प्रत्युपकारार्थ पूर्वमात्मनैव बिन्दुसरसि गुप्तेन वृषपर्वगृहनिर्माणावशिष्टेन मणिशिलाकलापेन काञ्चनसभा धर्मराजाय निर्मितेति भारते सभावर्णनाङ्गत्वेनार्जुनमयचरितवर्णनादुदात्तालंकारः । 'प्रभू. तमहापुरुषचिन्तनं चेति सूत्रम् ॥ अथ दशभिः सभां वर्णयतिअधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ । पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः॥५१॥ अधीत्यादि ॥ अधिरात्रि रात्रिषु । विभक्त्यर्थेऽव्ययीभावः। यत्र सभायां नभोलिहामभ्रलिहाम् । क्विप् । कलधौतं रौप्यम् । 'कलधौतं रूप्यहेनोः' इत्यमरः । तद्वद्धौता धवलाः शिला येषां तानि वेश्मानि । स्फटिकभवनानीत्यर्थः । तेषां रुचौ प्रभायां निपतन्प्रविशन् । अनिदाघदीधितिरनुष्णरश्मिहिमांशुः । पुनरपि दुग्धवारिधौ क्षीराब्धौ क्षणं गर्भवासम् । न तु मथनात्प्रागिव चिरगभवासमिति भावः । अवापत्प्रापदिवेत्युत्प्रेक्षा । तया वेश्मनां चन्द्रमण्डलातिक्रमो व्यज्यते ॥ लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः । जमदग्निसूनुपितृतर्पणीरपो वहति स या विरलशैवला इव ॥५२॥ लयनेष्विति ॥ लीयते एप्विति लयनानि तेषु गृहेषु शितिरवानां नीलमणीनां रश्मिभिर्हरितीकृतानि हरितवर्णीकृतान्यन्तराणि मध्यानि यासां ताः Page #339 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। ३२७ लोहितमणयो लोहितकाः पद्मरागाः । 'लोहितान्मणौ' इति कन्प्रत्ययः । तैनिमिता भुवो भूमीविरलाः शैवला यासु ताः जमदग्निसूनोः परशुरामस्य पितॄणां तर्पणीस्तृप्तिकरीरप इवेत्युपमा । या सभा वहति स्म । जामदम्यः क्षत्रियात्रैः पञ्चशो ह्रदानुत्पाद्य ताभिरद्भिः पितृनतर्पयत् , ताश्च रुधिरप्रकृतिकत्वाद्रक्तवर्णा एवेति पुराणम् ॥ विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचैकतां गताः। गृहपतयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥५३॥ विशदेति ॥ किंचेति चार्थः । यत्र सभायां विशदाश्मकूटघटिताः स्फटिकशिलासंघातनिर्मिता अत एव क्षणदासु क्षपाकृतो निशाकरस्य रुचा चन्द्रिकयैकतां सावादभेदं गताः अत एव तमसीव हस्तपरिमर्शसूचिताः । पाणिस्पर्शकगम्या इत्यर्थः । गृहपतयो जनैश्विरमतीयिरेऽतिक्रान्ताः । पुरोगतान्यपि स्फटिकभवनानि चन्द्रिकाभ्रमादतीत्य गत्वा पश्चात्करपरामर्शः कथंचित्याप्यन्त इत्यर्थः । अत्र प्रकृतानां स्फटिकवेश्मनां गुणसाम्यादप्रस्तुतचन्द्रिकैक्योक्त्या सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ निलयेषु नक्तमसिताश्मनां चयविसिनीवधूपरिभवस्फुटागसः । मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जनिरे ५४ निलयेप्विति ॥ यत्र सभायां निलयेषु नक्तं रात्रौ बिसिन्यो दीर्घिकापद्मिन्यस्ता एव वध्वस्तासां परिभवेन निमीलितेन दूषणेन च स्फुटागसः स्पष्टापराधाः शशलाञ्छनांशवश्चन्द्रपादाः । अत्रसद्भिरत्रस्यद्भिरपि, निर्दोषैरपि इति चार्थः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' इत्यादिना श्यनभावपक्षे शतृप्रत्ययः। असिताश्मनामिन्द्रनीलमणीनां चयैः समूहैः गौरवात्स्वयं प्रभूतत्वात् , संभावितत्वाच्च उपांशु अंशुसमीपे, रहश्च । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । मुहुजेनिरे तिरोहिताः, मारिताश्च । हन्तेः कर्मणि लिट् । समीपगताश्चन्द्रांशवः प्रभूतै. रिन्द्रनीलांशुभिस्तिरस्कृता इत्यर्थः । अन्यत्रान्तःपुरद्रोहिणो निर्भीकैरपि संभावितै१प्कीर्तिभयाद्र्ट हन्यन्त इति भावः । अत्र बिसिनीनां वधूत्वरूपणात्तत्परिभा. विनां चन्द्रांशूनां धूर्तकामुकत्वरूपणप्रतीतेरेकदेशविवर्तिरूपकं तच्च गौरवादुपांशु जग्निरे च श्लेषणात्रसद्भिरपीति विरोधेन च संकीर्यते ॥ सुखिनः पुरोभिमुखतामुपागतः प्रतिमासु यत्र गृहरत्नभित्तिषु । नवसंगमैरविभरुः प्रियाजनैः प्रमदं त्रपाभरपरा खैरपि ॥ ५५ ॥ सुखिन इति ॥ यत्र सभायां नवः संगमो येषां तैनवसंगमैरत एव पाभरेण पराङ्मुखैर्विमुखैरपि गृहाणां रत्नभित्तिषु प्रतिमासु तत्संक्रान्तप्रतिबिम्बेपु पुरोऽग्रेऽभिमुखतामुपातैः प्रियाजनैः कान्ताजनैः सुखिनो भोगिनः प्रमदं हर्षमबिभरुबिभ्रति स्म । भृजो लङि 'श्लौ' इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' इति झेर्जुसादेशः । स्त्रीणां वैमुख्येऽपि तत्प्रतिविम्बाभिमुख्यात्युंसां सुखमेव, स्त्रीणां तु उभय Page #340 -------------------------------------------------------------------------- ________________ ३२८ शिशुपालवधे त्रापि क्लिष्टमित्यर्थः । अत्र वैमुख्येऽप्याभिमुख्यमिति विरोधस्य प्रतिमास्थिति निरासाद्विरोधाभासोऽलंकारः ॥ तृणवाञ्छया मुहुरवाञ्चिताननानिचयेषु यत्र हरिताश्मवेश्मनाम् । रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥५६॥ तृणेति ॥ यत्र सभायां हरिताश्मनां मरकतमणीनां गृहाणाम् । 'गारुमत मरकतमश्मगर्भो हरिन्मणिः' इत्यमरः। निचयेषु सङ्केषु तृणवाञ्छया तृणाशया मुहुरवाञ्चिताननान्नमितमुखान् अत एव रसनाग्रेषु लग्नाः किरणा अङ्कुरा इव येषां ते तान् । अत एव गृहीतकवलानुपात्ततृणग्रासानिव स्थितान्हरिणान् जन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि 'आडजादीनाम्' इत्याद 'आटश्च' इति वृद्धिः । अत्र तृणवाञ्छयेति हरिणानां मरकतेषु तृणभ्रान्तेान्तिमदलंकारः। तन्मूला चेयं गृहीतकवलत्वोत्प्रेक्षेति संकरः ॥ विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः।। यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ५७ विपुलेति ॥ यदुपान्तिकेषु यस्याः सभाया उपान्तिकेषु समीपेषु महीरुहो वृक्षाः विपुलेष्वालवालेषु मूलजलाधारेषु । 'स्थादालवालमावालम्' इत्यमरः । भृतानि संभृतानि वारीण्येव दर्पणास्तेषु प्रतिमागतैः प्रतिबिम्बतां गतैः । प्रतिविम्बितैरित्यर्थः । आत्मभिः । स्वमूर्तिभिरित्यर्थः । सपलाशराशिं सपत्रसंततिं मूलसंहतिं दधत इव दधाना इवाभिविरेजुः । स्वालवालेषु स्वप्रतिबिम्बितैरधोमुखैः मूलेष्वपि सपत्रा इव रेजुरित्युत्प्रेक्षा ॥ उरगेन्द्रमूर्धरुहरत्नसंनिधेर्मुहुरुन्नतस्य रसितैः पयोमुचः । अभवन्यदङ्गणभुवः समुच्छ्रसन्नववालवायजमणिस्थलाकुराः॥५८॥ उरगेन्द्रेति ॥ उरगेन्द्राणां मूर्धसु रुहाणि रूढानि । इगुपधलक्षणः कः । तेषां रत्नानां संनिधेः संनिधानान्मुहुरुन्नतस्य । यदायदा तत्संनिधिस्तदातदोदितस्येत्यर्थः । पयोमुचो मेघस्य रसितैः स्तनितैर्यदङ्गणभुवो यस्याः प्राङ्गणनदेशाः समुच्छ्वसन्तः प्रादुर्भवन्तो नवाः प्रत्यग्रा वालवायजमणिस्थलाङ्कुरा वैदूर्यभूप्ररोहा यासु तास्तथोक्ता अभवन् । 'वैदूर्य वालवायजम्' इत्यमरः । वालवायो नाम वैदूर्यप्रभवो देशविशेषः । उरगेन्द्रमूर्धन्यरत्नाङ्कुरैः सहोदितमेघध्व. नेर्विदूरभूमिरुद्भिन्नाङ्कुरा भवतीति प्रसिद्धिः। तदुक्तम्-'उरगमूर्धन्यरत्नसन्निधानादकालेऽपि मेघा गर्जन्तीति वार्ता' । केचित्तु यत्रैवोरगरत्रं मेघरसितं च तत्रैव वैदूर्यभूमिः । अत्र समृद्धिमद्वस्तुवर्णनादुदात्तालंकारभेदः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् ॥ नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने । अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ५९ Page #341 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। ३२९ नलिनीति ॥ यत्र सभायां निगूढसलिला दलच्छन्नत्वाददृश्यसलिला नलिनी। वर्तत इति शेषः। या नलिनी सुष्ट युध्यत इति सुयोधने दुर्योधने । 'भाषायां शासियुधिदृशिषिभ्यो युच् वक्तव्यः' । स्थलमिति भ्रान्त्या अधः पतति सति अनिलात्मजस्य भीमसेनस्य प्रहसनेनाट्टहासेनाकुलानां क्षुभितानामखिलक्षितिपानां क्षयागमे नाशप्राप्तौ निमित्ततां ययौ । नलिनीदलच्छन्नत्वात्सुयोधनस्य जले स्थलभ्रान्तिः तया तस्य पातस्तेन भीमसेनप्रहासस्तेन राज्ञां क्षोभस्ततस्तेषां मारणो रणः प्रवृत्त इति परम्परया तत्क्षयकारणत्वं गतेत्यर्थः। अत्र सभावर्णनाङ्गतया भीमसेनादिचरितवर्णनादुदात्तालंकारभेदः । लक्षणं चोक्तम् ॥ हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः । उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥६०॥ हसितुमिति ॥ यत्र सभायां परितः परिस्फुरन्ती करवालकोमला असिश्यामा रुचिर्यस्यास्तस्यामिन्द्रनीलभुवि हसितुं परेण जानतान्येन जनेनोपेक्षितैः स्थलमेतत् , न जलमित्युपदिष्टैर्जनैरज्ञैरागन्तुकजनैर्जलशङ्कया जलभ्रान्त्या मुहुदूरमम्बरं वस्त्रमुदकर्षि नितम्बादुद्धृतम् । अत्रेन्द्रनीलस्थलसादृश्यात्सलिलभ्रान्ते. भ्रान्तिमदलंकारः ॥ अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू । अवतरतुर्नयननन्दनौ नमः शशिभार्गवावुदयपर्वतादिव ॥ ६१ ॥ अभित इति ॥ अथामलांशुमण्डलेन तेजःपुञ्जेन समुल्लसन्त्यौ भासमाने तनू मूर्ती ययोस्ती नयननन्दनौ नेत्रानन्दकरौ हरिपाण्डवौ सदोऽभितः सभाभिमुखम् । 'अभितःपरित:-' इति द्वितीया । रथात् शशिभार्गवौ अमलेत्यादिविशेषणविशिष्टौ चन्द्रशुक्रौ नभोऽभिमुखमुदयाख्यात्पर्वतादुदयाचलादिवावतेरतुरवतीर्णवन्तौ । तरतेर्लिट् 'तृफलभजत्रपश्च' इत्येत्वाभ्यासलोपौ । उपमालङ्कारः ॥ तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे । धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ६२ तदिति ॥ अथो रथावतरणानन्तरं असौ हरिनुपे युधिष्ठिरे आदरादित इत इत्यभिधातरि सति । इत इत आगम्यतामित्यभिदधाने सतीत्यर्थः । तत्पूर्वोक्तमलक्ष्यरत्नमयकुड्यमदृश्यरत्नभित्तिकम् । धवलेन शुभ्रेण रश्मिपटलेन मणिप्रभापुञ्जनाविभावितप्रतिहारमलक्ष्यद्वारम् । 'स्त्री द्वारं प्रतीहारः' इत्यमरः । सदः सभां शनैराविशत्प्रविष्टवान् । अत्र कुड्यप्रतिहारयोरलक्ष्यत्वासंबन्धेऽपि तत्संबन्धोक्तरतिशयोक्तिः ॥ नवहाटकेष्टकचितं ददर्श सः क्षितिपस्य पस्त्यमथ तत्र संसदि । गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदमयत नाकिनामपि ६३ Page #342 -------------------------------------------------------------------------- ________________ ३३० शिशुपालवधे नवेति ॥ अथ प्रवेशानन्तरं स हरिस्तत्र संसदि सभायां नवभिहाटकेष्टकाभिः हिरण्येष्टकाभिश्चितम् । 'हिरण्यं हेम हाटकम्' इत्यमरः । 'इष्टकेषीकामालानां चिततूलभारिषु' इति हस्वः । पक्कमृत्तिकाविशेषवाचकस्येष्टकाशब्दस्य तादृशि सुवर्णविकारे सुवर्णघटवदुपचारात्प्रयोगः । क्षितिपस्य युधिष्ठिरस्य पस्त्यं सदनम् । 'निशान्तपस्त्यसदनम्' इत्यमरः । ददर्श । यत्सदनं गगनस्पृशामुच्चैस्तराणां मणिरुचां चयेन समूहेन नाकिनां देवानामपि सदनान्युदस्मयताहसत् । स्मयतेरुत्पूर्वाकर्तरि लङ् । अत्रापि नृपसदनस्य सुरसदनादाधिक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ उदयाद्रिमूर्ध्नि युगपञ्चकासतोर्दिननाथपूर्णशशिनोरसंभवाम् । रुचिमासने रुचिरधानि विभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ६४ उदयाद्रीति ॥ अथ नृपसदनदर्शनानन्तरमुदयाद्रेर्मूर्ध्नि शिखरे युगपञ्चकासतोः प्रकाशमानयोः । चकास दीप्तौ' इति धातोर्लटः शत्रादेशः । दिननाथपूर्णशशिनोः सूर्यपूर्णचन्द्रमसोरसंभवां संभवरहिताम् । तयोस्तथाभूतयोर्योगपद्ययोगादभूतपूर्वामित्यर्थः । रुचिं शोभां बिभ्रतौ नृपाच्युतौ रुचिरधाभ्युज्वलतेजसि । अलघुनि विपुले आसने सिंहासने न्यषदतामुपविष्टौ । सदेलुङि 'पुषादि-' इति चलेरङादेशः 'सदिरप्रतेः' इति षत्वम् । अत्र संभावनया अर्कपूर्णेन्दुशोभासंबन्धोक्तेरसंबन्धरूपातिशयोक्तिः ॥ सुतरां सुखेन सकलक्लमच्छिदा सनिदाघमङ्गमिव मातरिश्वना । यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलमाप नन्दथुम् ॥६५॥ सुतरामिति ॥ तद्राजकुलं कुरुकुलम् । सकलक्लमच्छिदा सकलदुःखहारिणा यदुनन्दनेन कृष्णेन सनिदाघं ससंतापमङ्गं मातरिश्वा वायुस्तेन उदका. न्यस्य सन्तीत्युदन्वानुदधिः । 'उदन्वानुदधौ च' इति निपातः । तस्य पयो जलं शशिनेव सुतरामत्यन्तम् । 'किमेत्तिङव्यय-' इत्यामुप्रत्ययः । सुखेनाक्लेशेन नन्दथुमानन्दमाप । 'स्यादानन्दथुरानन्दः' इत्यमरः । 'तितोऽथुच्' इत्यथु. प्रत्ययः । मालोपमा ॥ अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् ।। स्फुटसात्त्विकाङ्गिकमनृत्यदुज्वालं सविलासलासिकविलासिनीजतः ॥ ६६ ॥ अनवद्येति ॥ सविलासो विलासयुक्तो लासिका विलासिनीजनो नर्तकस्त्रीजनः सविलासलासिकविलासिनीजनः । 'नर्तकीलासिके स मे' इत्यमरः । अनवद्यमगा वाद्यं वंशादि तस्य लयः साम्यं गीतस्य समकालत्वं तद्गामि द्रुतविलम्बादिमा. नानुवर्तीत्यर्थः । 'तालः कालक्रियामानं लयः साम्याम्' इत्यमरः । नवं गीतं यस्य Page #343 -------------------------------------------------------------------------- ________________ त्रयोदशः सर्गः। तन्नवगीतं तथाप्यनवगीततां दधदिति विरोधेऽपिशब्दः । अगर्हितत्वं दधदित्यविरोधाद्विरोधाभासः । 'अवगीतं तु निर्वादे मुहुर्गीते च गर्हिते' इति विश्वः । सत्त्वमन्तःकरणं तेन निर्वृत्तं नृत्यं सात्त्विकम् । अङ्गं हस्तादि तेन निर्वृत्तमाणिकम् । 'निर्वृत्ते त्वङ्गसत्वाभ्यां द्वे त्रिवाङ्गिकसात्त्विके' इत्यमरः। ते स्फुटे यस्मिस्तत्तथोक्तम् । वाचिकस्याप्युपलक्षणमेतत् । यथाह भगवान्भरतः- पदार्थाभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः' इति । अत एव कालिदासोऽपि 'अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन्' इति । कोमलं मधुरनृत्यमुज्वलमुद्धतं चानृत्यत् । तथोक्तं दशरूपके-'भावाश्रयं तु नृत्यं स्यान्नत्तं ताललयाश्रयम् । आद्यं पदार्थाभिनयो मार्गादेशी तथापरः ॥ मधुरोद्धतभेदेन तद्वयं द्विविधं पुनः । लास्यदण्डकरूपेण नाटकाद्युपचारकम् ॥' इति ॥ सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः। सततोत्सवं तदिति नूनमुन्मुदो रभसेन विस्मृतमभून्महीभृतः ६७ सकल इति ॥ किंचेति चार्थः । स राजा हरौ कृष्णे गृहमागते सकले तत्र नगरे इन्द्रप्रस्थे । अकाले प्रसिद्धवसन्ताद्यतिरिक्त काले । महमुत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । आदिदेशाज्ञापयामास । नूनमत्रोत्प्रेक्ष्यते । उन्मुदः कृष्णागमनादुत्कटानन्दस्य महीभृतो धर्मनन्दनस्य तन्नगरं सततमुत्सवा यस्मिस्तत्सततोत्सवमिति एतद्भसेन त्वरया विस्मृतमभूत् । अन्यथा कथं कृतकमणोपदेश इति भावः ॥ हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुत च । महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किंचन॥ हरिरिति ॥ किंचेति चार्थः । अखिलान्यभिधानानि नामानि वेत्तीत्यखिलाभिधानवित्सकलनामप्रपञ्चाभिज्ञः। 'नामरूपे व्याकरवाणि' इति श्रुतेरिति भावः। 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारस् । आङ्मर्यादाभिविध्योः' इत्यभिधानादव्ययीभावः । स्वजनस्य बन्धुजनस्य । 'बन्धुस्वस्वजनाः समाः' इत्यमरः । वार्तमनामयम् । आरोग्यमित्यर्थः । 'वातं फल्गुन्यरोगे च' इत्यमरः । 'ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्' इति मनुस्मरणात् । अन्वयुतापृच्छत् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । युजेः कर्तरि लङ् । तथा हि । महतीं श्रियं संपदमवाप्यापि विस्मयो निरहंकारः सुजनः अत एव जातु कदाचिदपि किंचन किमपि न विस्मरति । सुजनः संपन्नोऽप्यहंकारं न करोतीति भावः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् । Page #344 -------------------------------------------------------------------------- ________________ ३३२ : शिशुपालवधे श्रीपतिः पतिरसाववनेश्च परस्परं संकथामृतमनेकमसिस्वदतामुभौ ॥ ६९ ॥ इति श्रीमाधकृतौ शिशुपालवधे महाकाव्ये श्रयके श्रीकृष्णसमागमो नाम त्रयोदशः सर्गः ॥ १३ ॥ मत्यति ॥ उभौ श्रीपतिः कृष्णः असाववनेः पतिर्धर्मसुतश्च परस्परं मर्त्यलोकैर्मनुष्यलोकैर्दुरवापं दुर्लभमवाप्तरसोदयं प्राप्तरसोत्कर्षम् । स्वादूभवदित्यर्थः । अतिरिक्ततयातिस्निग्धतया अनुपदमनुक्षणं प्रतिवाक्यं च नूतनत्वमपूर्वतां दधत् अनेकं बहुलं संकथां संभाषणं चेदिराजजरासन्धादिकार्यचिन्तारूपं तदेवामृतं तदसिस्वदतां स्वादितवन्तौ । 'आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदो सहवासः' इति भावः । स्वदतेणी चङयुपधाया इस्त्रः । संकथामृतमिति रूपकालंकारः स्वादनलिङ्गात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधकाव्यव्याख्यायां सर्वकषाख्यायां त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः। तं जगाद गिरमुद्रिन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकद्वदो नृपः ॥१॥ तमिति ॥ वदतीति वदः । पचाद्यच् । कुत्सितस्य वदः कद्वदः गवाक् । 'गर्यवादी तु कद्वदः' इत्यमरः । 'रथवदयोश्च' इति कोः कदादेशः । स न भवतीत्यकद्वदः साधुवादी नृपो युधिष्ठिरो यज्ञकर्मणि यज्ञानुष्ठाने मनः समादधत्सम्यगादधत् । तदेव हृदि निधायेत्यर्थः । आहितविकासया कृतप्रसादया दृशा दृष्ट्या स्नेहमुनिरन्नुद्वमन्निवेत्युत्प्रेक्षा । दृष्टिविकासात्प्रकटितस्नेहः सन्नित्यर्थः । वाचो विन्दन्ति वक्तुं विवेकं च जानन्तीति वाग्विदो वाक्यकोविदाः । 'सत्सूद्विष-' इत्यादिना क्विप् । तेषां वरं श्रेष्टं तं हरि गिरं जगाद । ब्रूतेरर्थग्रहणात् 'दुह्याच्-' इत्यादिना गदेर्द्विकर्मकत्वम् । अत्रोत्प्रेक्षावृत्त्यनुप्रासयोः संसृष्टिः । अस्मिन्सर्गे रथोद्धता वृत्तम् । 'रानराविह रथोद्धता लगी' इति लक्षणात् ॥ गिरं जगादेत्युक्तं तामेव गिरं दशभिः प्रपञ्चयतिलज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका । बीडमेति न तव प्रियं वदन्हीमतात्रभवतैव भूयते ॥२॥ लजत इत्यादिभिः॥ परोऽन्यः कश्चित्पुमान्प्रियं गदितः । प्रियवाक्यमुक्तः सन्नित्यर्थः । गदेर्दुहादित्वादप्रधाने कर्मणि क्तः । 'अप्रधाने दुहादीनाम्' इति वच Page #345 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३३३ नात् । न लज्जते। तस्योत्सुकत्वादिति भावः । किंतु वक्तुः स्तोतुरेवाधिका त्रपा भवति । भयादिना मिथ्यावाचकत्वादिति भावः । प्रकृते तु नैवमित्याह-तव प्रियं वदन् । त्वां स्तुवन्नित्यर्थः । ब्रीडां नैति । अनन्तगुणाधारे त्वयि बहोरपि प्रियस्यामिथ्यात्वादिति भावः । किंतु स्तवनेनात्रभवता पूज्येनैव हीमता भूयते प्रत्युत त्वमेवात्र जिरुपीत्यर्थः । महतामनुत्सुकत्वादिति भावः । 'पूज्यस्तत्रभवान्' इति सजनः । 'इतराभ्योऽपि-' इति सार्वविभक्तिके त्रल्प्रत्यये 'सुप्सुपा' इति समासः॥ तोपमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः । अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि ॥३॥ तोषमिति ॥ परस्त्वदन्यः वितथैरसत्यभूतैः स्तवैः स्तोत्रैः । 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः । तोषमुत्सुकतामेति । ते च तस्य परस्य ते मिथ्यास्तवाः शरीरिभिः प्राणिभिः सुलभाः । असंबद्धप्रलापानामनिरर्गलत्वादिति भावः । त्वयि तु नैवमित्याह-अस्तीति । हे स्तोत्रयोग्य । गुणाकरत्वादिति भावः । अत एव तव संबन्धि स्तुतिवचोऽनृतं नास्ति न भवति, तेन स्तुतिवचसा न च तुष्यसि न प्रसीदसि । गम्भीरत्वादिति भावः । अत्र श्लोकद्वये पुरुषान्तरादुपमानभूतादाधिक्यकथनाव्यतिरेकालंकारः॥ वह्वपि प्रियमयं तव ब्रुवन्न बजत्यनृतवादितां जनः। संभवन्ति यददोपदूषिते सार्व सर्वगुणसंपदस्त्वयि ॥ ४॥ बह्वपीति ॥ अयं जनः । स्वयमित्यर्थः परामृश्यते। बह्वपि तव प्रियं बुवन्सन् अनृतवादितां मिथ्यावादित्वं न व्रजति न गच्छति । यद्यस्मात् हे सार्व, सर्वहितत्वात्सार्वः तत्संबोधने । 'सर्वपुरुषाभ्यां णढो' इति णप्रत्ययः। दोषदूषितो न भवतीत्यदोषदूषिते सर्वागुणवर्जिते त्वयि सर्वगुणसंपदः संभवन्ति । अनारोपितगुणवादो भूयानपि न विपर्यंतीति भावः। अत्रोत्तरवाक्यार्थेन पूर्व वाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ सा विभूतिरनुभावसंपदां भूयसी तव यदायतायति । एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥ ५॥ सेति ॥ हे ऊढगुरुभार । विश्वभरत्वादिति भावः । एतत् भरतस्य राज्ञ इदं भारतं भारताख्यं वर्षम् । 'वर्षोऽस्त्री भारतादौ चं' इति हैमः। 'लोकोऽयं भारतं वर्षम्' इत्यमरः । अद्येदानीमायतायति बहुतरकालम् । स्थिरं यथा तथेत्यर्थः । 'उत्तरः काल आयतिः' इत्यमरः । मम वशे आयत्ततायां वर्तत इति यावत् । 'वश आयत्ततायां च' इति विश्वः । सा तद्वशवर्तनम् । विधेयप्राधान्या. स्त्रीलिङ्गता। तवानुभावसंपदां सामर्थ्यातिशयानां भूयसी महती विभूतिर्महिमा । कार्यमिति यावत् । त्वत्प्रसादलब्धमिदमैश्वर्यमित्यर्थः । अत्र निजैश्वर्यस्य भगवदनुभावसंपदं विना संबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ Page #346 -------------------------------------------------------------------------- ________________ ३३४ शिशुपालवधे तदेवं स्तुत्या हरिमभिमुखीकृत्य कृत्यांशमावेदयति — सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम । मूलतामुपगते खलु त्वयि प्रापि धर्ममयवृक्षता मया ॥ ६ ॥ सप्तेति ॥ सप्त तन्तवः संस्था यस्य तं सप्ततन्तुं क्रतुम् | 'सप्ततन्तुर्मखः ऋतुः' इत्यमरः । अधिगन्तुं प्राप्तुमिच्छतो ममानुज्ञयानुज्ञादानेनानुग्रहं प्रसादं कुरु । साहाय्यं कुर्वित्यर्थः । स्वतः समर्थस्य किं मदनुग्रहेणेत्याह - हे प्रभो, त्वयि मूलतां मुख्यकारणतामङ्घित्वं चोपगते सति मया धर्ममयवृक्षता प्रापि प्राप्ता । प्राप्नोतेः कर्मणि लुङ् । प्रागपि त्वदनुग्रहादेव धर्ममर्जयन्धर्मराजोऽहमस्मीति भावः । अत्र नृपस्य धर्मवृक्षत्वेन हरेस्तन्मूलत्वेन रूपणात्सावयवरूपकम् । तेन त्वदनुग्रहः सर्वथा प्रार्थनीयो मया धर्मार्थिनेति तात्पर्यं व्यज्यते ॥ संभृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया । त्वं समीरण इव प्रतीक्षितः कर्षकेण बलजान्पुपूषता ॥ ७ ॥ संभृतेति ॥ निर्मलां निर्दोषामिष्टिं यागम् । यजेः स्त्रियां क्तिन् ' वचिस्वपि - ' इत्यादिना संप्रसारणम् । कर्तुमभिवाञ्छता अत एव संभृतोपकरणेन संपादित - साधनेन मया वलजान्धान्यराशीन् । 'वलजो धान्यराशिः स्यात्' इति वैजयन्ती । पुपूषता पवितुं साधयितुं निर्बुसीकर्तुमिच्छता । पुनातेः सन्नन्तालटः शत्रादेश: ' सनि ग्रहगुहोश्च' इति चकारादिटः प्रतिषेधः । कर्षकेण कृषीवलेन समीरण वायुरिव प्रतीक्षितः । प्रवाते शूर्पादिना धान्यस्योत्क्षेपः पवनम् । तद्वातं विनेव त्वां विना समाहृतसंभारेणापि मया यागो दुष्कर इति भावः ॥ वीतविघ्नमनघेन भाविता संनिधेस्तव मखेन मेऽधुना । को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ ८ ॥ वीतविघ्नमिति ॥ अधुना तव संनिधेर्हेतोर्मे मखेन कतुना कर्त्रा वीतविघ्नविघ्नं अनघेन निर्दोषेण भाविता । भविष्यत इत्यर्थः । भावे लट् 'स्यचिचसीयुट्-' इत्यादिना लुटि चिण्वद्भावाद्वृद्धिः । तथा हि- अशीतदीधितावुष्णांशावास्थितोद प्राप्तोदये सति को वासरश्रियं दिनशोभां विहन्तुमलं शक्तः । न कोऽपीत्यर्थः । अत्र हरिमरीचिमालिनोर्वाक्यभेदाद्विम्बप्रतिविम्बतया संनिहितद्योतितया समानधर्मतया निर्दोषो दृष्टान्तालंकारः । ' यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मवाक्योक्तेः स दृष्टान्तो निगद्यते ॥' इति लक्षणात् ॥ स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् । तीर्थगामि रवै विधानतस्तजुषस्व जुहवानि चानले ॥ ९ ॥ स्वापतेयमिति ॥ यत्स्वपतौ स्वामिनि साधु स्वापतेयं वित्तम् | 'पथ्यतिथि - वसतिस्वपतेर्दज्' | 'द्रव्यं वित्तं स्वापतेयम्' इत्यमरः । धर्मतः क्षत्रियस्य विजित Page #347 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३३५ मिति शास्त्रोक्तप्रकारादित्यर्थः । अधिगम्य लब्ध्वा यत्नेन पर्यपालयं पालितवान् , अवीवृधं वृद्धिं च प्रापितवान् । तत्तीर्थगामि विप्राधीनं करवै करिष्यामि । विधानतः ‘पालितं वर्धयेन्नित्यं वृद्धं पात्रेषु निर्वपेत्' इति स्मरणात् । तच्च पात्रं त्वमेवेत्याह-तत्सर्वं जुषस्व सेवस्व । सदैव भुङ्क्षवेत्यर्थः । 'जुपी प्रीतिसेवनयोः' इति धातोलौट । अनले जुहवानि च जुहुयाम् । तन्मुखेनापि तवैव भोक्तृत्वादिति भावः । जुहोतेः संप्रश्नलोटि मेर्निरादेशः ॥ पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि । सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥१०॥ पूर्वमिति ॥ वेति पक्षान्तरे। अथवेत्यर्थः । अङ्ग हे कृष्ण, 'अथ संबोधनार्थकाः । स्युः प्याटपाडङ्ग हे है भोः' इत्यमरः। पूर्वं त्वमेव जुहुधि । यजस्वेत्यर्थः । 'हुझल्भ्यो हेधिः' इति हेर्धिरादेशः । सोमपायिनि त्वयि अवभृथे यज्ञे। 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः। स्नातवति सति ततोऽनन्तरं मया वाञ्छित उत्तमो वितानो राजसूयाख्यः । 'ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । तेन यथा याजिना भविष्यते । भावे लुट् । त्वयि इष्टवति पश्चादहं यक्ष्य इत्यर्थः । अत्र श्लोकद्वयेन हरेर्यागासंबन्धे तत्संबन्धोक्तेरतिशयोक्तिः ॥ किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसंपदा । शाधि शासक जगत्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः॥११॥ किमिति ॥ अथवा त्वत्प्रसादेन त्वदनुग्रहेण जितया जयलब्धयानयार्थसंपदा धनसंपदा किं विधेयं किमनुष्ठेयं विधीयतां त्वयैव क्रियताम् । अहं तु अस्वतन्त्र इत्याह-हे जगत्रयस्य शासक । न तु ममैवेति भावः । मां शाधि । शिक्षयेत्यर्थः । शासेलोटि 'हुझल्भ्यो हेर्धिः' इति धिरादेशः। 'झलो झलि' इति सकारलोपः । सहानुजः सन् सानुजः 'वोपसर्जनस्य' इति सहशब्दस्य सभावविकल्पः । भवतस्तवाश्रवो विधेयोऽस्मि । 'विधेयो विनयग्राही वचने स्थित आश्रवः' इत्यमरः । अत्रानाश्रवस्याश्रवत्वसंबन्धोक्तेरतिशयोक्तिरिति दशश्लोक्यामाचार्यमतेऽतिप्रियतराख्यानात्प्रेयोऽलंकारः। 'प्रेयः प्रियतराख्यानम्' इति लक्षणात् । आधुनिकास्तु भावनिबन्धने प्रेयोऽलंकार इति लक्षयन्ति स चोन्नीतस्तत्र तत्रोन्नेप्यते च ॥ तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः। व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥ १२ ॥ तमिति ॥ अथानन्तरं विष्टराविव श्रवसी यस्य स विष्टरश्रवाः । 'विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः' इत्यमरः । इति एतादृशं तं बदन्तं नृपम् । समस्तभूभृतः सर्वान्नृपाश्रावयन् दशनांशुमण्डलमिति व्याजोऽपदेशो यस्य तेन Page #348 -------------------------------------------------------------------------- ________________ ३३६ शिशुपालवधे हारेण मुक्ताहारेण शबलं शारं वपुर्दधद्व्याजहार व्याहृतवान् । अत्र दशनांशुमण्डलस्य व्याजशब्देनासत्यत्वप्रतिपादनादपह्नवभेदः ॥ यदुक्तं सा विभूतिरित्यादि तत्रोत्तरमाह सादिताखिलनृपं महन्महः संप्रति स्वनयसंपदैव ते । किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १३ ॥ सादितेति ॥ संप्रति ते तव महन्महस्तेजः स्वनयसंपदैव निजनीतिमाहिनैव सादिताखिलनृपं विजितसमस्तराजकं न तु मदनुभावादिति भावः । तथा हि पथ्या हिता वृत्तिरन्नपानादिक्रिया यस्य सोऽप्यरोगितामारोग्यं समनुते यदि प्राप्नोतीति चेत् । सोऽपि तदारोग्यमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गता । परस्य भिषजः स गुणः किं नेत्यर्थः । अपथ्यवृत्तेरारोग्यमौषधसाध्यत्वाद्भिषजो गुणोsस्तु, हितमेध्याशिनो न तथेत्यर्थः । स्वयमसमर्थः पराधीनसिद्धिरित्युपचार इति भावः । दृष्टान्तालंकारः सुगमः ॥ यदुक्तं 'पूर्वमङ्ग जुहुधि त्वमेवेति तत्राह - तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् । उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ १४ ॥ तदिति ॥ तत्तस्मादुक्तरीत्या । तवैवाधिकारित्वादित्यर्थः । सुराज्ञि विजयप्रजारक्षणा दिगुणयोगाच्छुद्धक्षत्रिये । 'न पूजनात्' इति समासान्तप्रतिषेधः । भवति त्वयि पुरः स्थिते सति । कः । त्वदन्यः क इत्यर्थः । राज्ञः क्षत्रियस्य लक्षणं चिह्नमसाधारणं यस्य तं क्रतुम् । राजसूयमित्यर्थः । यजतु । न कोऽपीत्यर्थः । 'राजा राजसूयेन यजेत' इति राजाधिकारताश्रवणाद्राजा त्वमेवेति भावः । संभावनायां लोट् । अत्र दृष्टान्तमाह-भुव उद्धृतौ भुव उद्धरणे श्रीवराहमादिवराहमपहाय कस्य पुनर्योग्यता सामर्थ्यं भवति । न कस्यापीत्यर्थः । योगाय प्रभवतीति योग्यः । 'योगाद्यच्च' इति यत्प्रत्ययः । अत्र राजवराहयोर्वाक्यभेदेन प्रतिबिम्बकरणाद्दृष्टान्तालंकारः ॥ यच्चोक्तं संभृतोपकरणेनेत्यादिना तत्राह - शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्ख कामतः । त्वत्प्रयोजनधनं धनंजयादन्य एष इति मां च मावगाः ।। १५ ।। शासन इति ॥ गुरुण्यतिदुष्करेऽपि शासने नियोगे व्यवस्थितम्। त्वदाज्ञाकरमित्यर्थः । मां कृत्यवस्तुषु कर्तव्यार्थेषु कामतो यथेच्छं नियुङ्क्ष्व प्रेषय | अनुचितमेतन्नियन्तरीति संकोचं वारयन्नाह - त्वदिति । त्वत्प्रयोजनमेव धनं यस्य तम् । त्वदर्थैकनिष्टमित्यर्थः । मां धनानि जयतीति धनंजयोऽर्जुनः । ' संज्ञायां भृतृवृजिधारिसहितपिदमः' इति खशप्रत्यये मुमागमः । तस्मादेषोऽन्यः कृष्ण Page #349 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। इति मां मावगाः मावेहि च । नियोगसमुच्चयार्थश्चकारः । अवपूर्वादिणो 'माडि लुङ्', 'इणो गा लुडि' इति गादेशः 'न माङयोगे' इत्यदप्रतिषेधः । उभयो. स्तत्कार्यनिबन्धनान्नारायणात्मत्वाच नावयो दप्रतिपत्तिः कार्यत्यर्थः । तथा च तद्वदेव नियोगेऽप्यसंकोच उचित इति भावः । अत एवानयोर्वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । स च कृष्णयोर्भेदाभेदरूपातिशयोक्तिमूल इत्यनयोरङ्गाङ्गिभावेन संकरः ॥ यच्चोक्तं वीतविघ्नमित्यादि तत्राभयदानं प्रतिजानीतेयस्तवेह सबने न भूपतिः कर्म कर्मकरवत्करिष्यति । तस्य नेप्यति वपुः कवन्धतां वन्धुरेप जगतां सुदर्शनः॥१६॥ य इति ॥ यो भूपतिः तवेहास्मिन्सवने यज्ञे । 'सवनं यजने स्नाने सोमे निर्दलनेऽपि च' इति विश्वः । कर्मकरवद्भत्यवत्कर्म न करिष्यति तस्य भूपतेर्वपुः जगतां बन्धुः । क्षेमंकरत्वादिति भावः । एष सुदर्शनो मच्चक्रम् । 'शङ्को लक्ष्मीपतेः पाञ्चजन्यश्वकं सुदर्शनः' इत्यमरः । कबन्धतां शिरःशून्यतां नेष्यति पापयिष्यति । छेत्स्यामि चक्रेणास्य शिर इत्यर्थः । 'कबन्धं सलिले प्रोक्तमपमूर्धकलेवरे' इति विश्वः । अतो विघ्नशङ्का न कार्यति भावः । अत्र सुदर्शने बन्धुत्वरूपणाद्रूपकालंकारः ॥ इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम । सर्वसंपदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित ऋतौ ॥ १७॥ इतीति ॥ इतीत्थमुदीरितगिरमुपन्यस्तवाचं शौरि नृपो युधिष्ठिरः त्वयि श्रेयस्यभ्युदये विषये स्थितवति । त्वयि क्षेमंकरे सतीत्यर्थः । मम सर्वसंपत् स्थिरेत्युक्तवान् । मुदमुद्वहन्सहायसंपत्त्या संतुष्यन्सन् । तावुदस्थित । क्रतुं कर्तुमुधुक्तवानित्यर्थः । तिष्ठतेलुडि 'उदोऽनूर्ध्वकर्मणि' इत्यादिनात्मनेपदं स्थाध्योरिच' इति सिचः कित्वादिकारः । 'हूस्वादङ्गात्' इति सकारलोपः ॥ अथ पञ्चविंशतिश्लोकैरनेकधा क्रतुं वर्णयतिआननेन शशिनः कलां दधदर्शनक्षयितकामविग्रहः । आप्लतः स विमलैजलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १८ ॥ आननेनेत्यादि ॥ आननेन शशिनः कलामिव कलां कान्ति दधत् । निद. शनालंकारः । शशिमुख इत्यर्थः । अन्यत्र शशिखण्डधरेत्यर्थः। दर्शनेन क्षयिती नाशितौ कामविग्रही कामक्रोधौ येन सः, अन्यत्र दृष्टिदग्धस्मरशरीरः । विमलैर्ज. लैराप्लुतः स्नातः । नद्यां स्नातीति दीक्षायां स्नानविधानादिति भावः । अन्यत्र गङ्गोदकसिक्ता । गङ्गाधरीत्यर्थः । स नृपः अष्टानां पूरणी अष्टमी । 'तस्य पूरणे दृटू' इति डट् प्रत्ययः । 'नान्तादसंख्यादेमंद' इति मडागमः 'टिड्डाणञ्-' इत्या. शिशु० २९ .. .. Page #350 -------------------------------------------------------------------------- ________________ ३३८ शिशुपालवधे दिना डिप् । अष्टानां मूर्तीनां समाहारोऽष्टमूर्तिः। तद्धितार्थ-' इत्यादिना समाहारे द्विगुरेकवचनं नपुंसकं च । तस्य धरो धारयिताऽष्टमूर्तिधरः शिवः तस्याष्टमी मूर्तिरभूत् । सोमदीक्षितोऽभूदित्यर्थः। तस्याप्यागमे शिवमूर्तित्वप्रसिद्धेः । भत्र प्रकृताप्रकृतयोर्नृपशिवयोः शिवशब्दमात्रसाधर्म्याच्लेषालंकारः ॥ तस्य सांख्यपुरुषेण तुल्यतां विभ्रतः स्मयमकुर्वतः क्रियाः । कर्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथविजि ॥१९॥ तस्येति ॥ क्रियाः कर्माणि होमादीनि, अन्यत्र पुण्यपापकर्माणि । स्वयमकुर्वतोऽननुतिष्ठतः, अन्यत्र उदासीनस्य । अत एव सांख्यपुरुषेण सांख्यशास्त्रोक्तेनास्मना तुल्यतां बिभ्रतस्तस्य राज्ञः करणेऽन्तःकरणे यथा । बुद्धाविवेत्यर्थः । ऋतौ यजतीति ऋत्विग्याजकः । 'ऋत्विजो याजकाश्च ते' इत्यमरः। 'ऋत्विग्दधग्-' इति निपातः । तस्मिन्वृत्तिभाजि । होमादिव्यापारं कुर्वतीत्यर्थः । अन्यत्र पुण्यपापकारिणि सति तदुपलम्भतः तस्य ऋत्विग्वृत्तेरुपलम्भान्ममेदमित्यनुसंधानादेव कर्तृता क्रियानुष्ठातृत्वमभवत् । तथैव विधिसामादिति भावः । अत एवाह भगवाजैमिनिः-'अन्या वा स्यात्परिक्रिया स्नानात्सत्यप्यात्मनेपदे' हति । अन्यत्र तदुपलम्भतस्तस्या बुद्धिवृत्तेरुपलम्भात्साक्षित्वेनानुसंधानादेव कर्तृत्वमभवत् । स्वयंक्रियाभोगरहितोऽप्यात्मा बुद्धेः संनिधानाद्रक्तस्फटिकवत्तथा भवतीत्यर्थः । उपमालंकारः॥ शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया । . याज्यया यजनकर्मिणोऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥२० शब्दितामिति ॥ वाक्यलक्षणविदो मीमांसाशास्त्रज्ञाः यजनकर्मिणो यजनव्यापारवन्त ऋत्विजः । ब्रीह्यादित्वादिनिप्रत्ययः। अनूच्यत इत्यनुवाक्या तयानुवाक्यया । 'अनूच्यया याज्यया जुहोति' इति श्रुतेः । सा च प्रशास्तृपाट्या । तदभावे होतृपाट्या देवताह्वानी ऋक् । वचेः 'ऋहलोर्ण्यत्' 'चजोः कु घिण्यतोः' इति कुत्वम् । शब्दसंज्ञात्वात् 'वचोऽशब्दसंज्ञायाम्' इति न प्रतिषेधः । उच्चकैः भनपशब्दं यथा तथा शब्दिताम् । मन्त्रवर्णेनोच्चैः प्रकाशितामित्यर्थः । 'उच्चैर्ऋचा क्रियत' इति विधानात् । 'शब्द संशब्दने' इति धातोश्चौरादिकाकर्मणि क्तः । देवतामिन्द्रादिकामपदिश्य द्रव्यजातं पशुपुरोडाशादि हविःसमूहं इज्यतेऽनयेति याज्या सा च होतृपाख्या यागाङ्गसाधनमृक् । 'याज्यया जुहोति' इति श्रुतेः । पूर्ववत् 'ऋहलोर्ण्यत्' इति करणे ण्यत् । 'यजयाचरुचप्रवचर्चश्च' इति कुत्वप्रतिषेधः । तया अत्यजन् । अयजन्नित्यर्थः । देवतोद्देशेन द्रव्यत्यागो याग इति लक्षणात् । स च त्यागसामान्यत आहवनीये जुहोतीति तदाहवनीय इति सामान्यन्यायाद्विधानादन्यत्रेति ध्येयम् । द्रव्यत्यागस्याध्वर्युमात्रकर्तृत्वेपि याज्यापुरोनुवाक्याद्वारा होतप्रशास्त्रोरपि साहित्याद्यजनितिबहुत्वव्यपदेशः। तथाच मैत्रावरुणेन Page #351 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३३९. पुरोनुवाक्यायामनूक्तायां तत्प्रकाशितदेवतोद्देशेनाध्वर्युहातृपठितयाज्यान्ते वष. दकारेण सोमादिकं हविरग्नावत्याक्षीदित्यर्थः । स्वभावोक्तिरलंकारः ॥ सप्तभेदकरकल्पितस्वरं साम सामविदसङ्गमुजगौ । तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीपत ॥ २१ ॥ सप्तेति ॥ तत्र ऋतौ । सामानि वेत्तीति सामविदुगाता सप्तभेदं सप्तप्रकार यथा तथा करेण हस्तेन कल्पिताः संपादिताः स्वरा निषादादयो यस्य तत् । करविन्यासभेदादिभिय॑ञ्जितसप्तस्वरमित्यर्थः । 'निषादर्षभगान्धारषडमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त' इत्यमरः । यद्वा स्वराः कष्टादयः । कष्टः प्रथमो द्वितीयो मन्दो नीच इत्यादयः। साम बृहद्रथन्तरादिकमसङ्गमस्खलितमुजगावुदगायत् । किंच सूनृतगिरः प्रियसत्यवाचः । 'प्रियं सत्यं च सूनृतम्' इत्यमरः । सूरयो विद्वांसो होत्राध्वर्वादयः पुण्यं श्रेयस्करम् । ऋचश्च यजूंषि च तत् ऋग्यजुषमग्निमीळे इषेत्वा इत्यादिकम् । द्वन्द्वैकवद्भावः 'अचतुर-' इत्यादिना द्वन्द्वे समासान्तनिपातः। अध्यगीषत । इङो लुङि 'विभाषा लुङ्लुङोः' इति गाङादेशपक्षे 'गाङ् कुटादि-' इति सिचः कित्त्वे 'घुमास्था-' इत्यादिना ईत्वम् । अत्र सामसामेत्यादी वृत्त्यनुप्रासभेदो द्रष्टव्यः ॥ बद्धदर्भमयकाश्चिदामया वीक्षितानि यजमानजायया । शुष्मणि प्रणयनादिसंस्कृते तैर्हवींपि जुहवांवभूविरे ॥ २२ ॥ बद्धेति ॥ बद्धं दर्भमयं दर्भविकारं काञ्चिदाम रशनागुणो यस्यास्तस्याः । आग्नीध्रसंनद्धयेत्यर्थः । 'आशासाना सौमनसमित्युत्तरेण गार्हपत्यमूर्ध्वजुमासीनां पत्नी संनह्य तिष्ठन्तीं वाचयतीत्येके, मौओन दाम्नान्यतरतःपाशेन योक्रेण च' इत्यापस्तम्बवचनात् । दामेति 'डाबुभाभ्यामन्यतरस्याम्' इति डाप्प्र. त्ययः। यजमानो यष्टा। 'पूयजोः शानन्' इति यजेः शानन्प्रत्ययः। तस्य जायया पल्या वीक्षितानि दृष्टानि हवींष्याज्यादीनि । 'पत्यवेक्षते' इत्याज्यस्य पत्यवेक्षणसंस्कारविधानादर्थप्रधानत्वात्सर्वेषामाज्यादीनां प्राणभृन्यायेन वीक्षितत्वव्यपदेशः । प्रणयनं नाम गार्हपत्यादुद्धृत्य मन्त्रेणायतने सादनम् । आदिशब्दात्परिस्तरणपरिधानसमार्गादिसंस्कारसंग्रहः । तैः प्रणयनादिभिः संस्कृते आहितातिशये शुप्मण्यग्नौ । 'बर्हिः शुष्मा कृष्णवर्मा' इत्यमरः। अत्राप्याहवनीये जुहोतीति हूयमानेऽध्वयुः कर्ता । जुहूपात्रव्यापृतया स्रुवाहवनीयं प्रधानमिति न्यायवचनात् । तैः ऋत्विग्भिः जुहवांबभूविरे । जुहोतेः कर्मणि लिट् 'भीहीभृहवाम्-' इति विकल्पादाम्प्रत्ययः । अत्र विषयस्य योक्रस्यानुपादानेन विषयिणः काञ्चीगुणस्यैव तदभेदेन निर्देशाङेदेऽभेदरूपातिशयोक्तेरनुप्रासेन संकरः ॥ नाञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे । तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलाः प्रयोगिणः॥२३॥ Page #352 -------------------------------------------------------------------------- ________________ ३४० शिशुपालवधे नेति ॥ तत्र तस्मिन्कर्मणि यज्ञकर्मणि । अन्यथाश्रुतस्य शब्दस्यान्यथालिअवचनादिभेदेन विपरिणमनमूहः । तत्र कुशलाः । प्रयोग एषामस्तीति प्रयोगिणः प्रयोक्तार ऋत्विजः आगमे आम्नाये निखिलाभिर्विभक्तिभिः प्रथमादिभिः सुब्विभक्तिभिस्तिङिभक्तिभिश्च । विभक्तिग्रहणं वचनोपलक्षणम् । व्यक्तिभिर्लिजैश्वाञ्जसा सुखेन निगदितुं पठितुं न भवन्त्यशक्यत्वादिति नाञ्जसा निगदितुम् । 'अञ्जस उपसंख्यानम्' इति अलुक् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अथवा अञ्जसेति तृतीयान्तप्रतिरूपकमव्ययं तत्वार्थे । 'अञ्जसा तत्वतूर्णयोः' इति विश्वः । अञ्जसा तत्त्वत इत्यर्थः । अस्मिन्पक्षे नैकपद्यनियमः । तं मन्त्रं कर्माङ्गदेवतारूपवाक्यं विपर्यणीनमन्विपरिणमन्ति स्म । विपरिणमितवन्त इत्यर्थः । विप. रिपूर्वकाण्ण्यन्तात् णमधातोलुङ् । सन्वद्भावे 'सन्यतः 'इत्यभ्यासस्येत्वम् । 'दी| लघोः' इति दीर्घः । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । अत्र नाक्षसेति पाठविशेषणगत्या मन्त्रविपरिणमनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति । शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥२४॥ संशयायेति ॥ संशयाय संदेहोत्पादनाय सरूपतां सादृश्यं दधतोः । उभयत्र रूपसाम्यादयं समासोऽयं वेति संशयं कुर्वतोरित्यर्थः । यथेन्द्रशत्रुरित्यत्रे न्द्रस्य शत्रुः शातयिता हन्तेति षष्ठीतत्पुरुषः, उतेन्द्रः शत्रुर्यस्येति बहुव्रीहि. रिति सारूप्यसंशयः । तत्रानियमे दोषमाह-क्रिया प्रकृतं कर्म तां प्रति । तामुद्दिश्येत्यर्थः । दूरभिन्नमत्यन्तविलक्षणं फलं ययोर्दूरभिन्नफलयोस्तयोरर्थभेदात्कर्मणः फलभेदं प्रतिपादयतोरित्यर्थः। यथेन्द्रशत्रुरित्यत्रैव षष्ठीसमासस्येटत्वे वृत्रस्येन्द्रहन्तृत्वम् , बहुव्रीहौ तु तस्येन्द्रेण वध्यत्वमिति फलभेद इति भावः । समासयोरेवंविधयोः प्रसक्तयोः सतोरित्यर्थः। भावलक्षणे सप्तमी । शब्दशासनविदः शब्दशास्त्रज्ञाः । अन्येषामनधिकारादिति भावः । ते प्रकृता ऋत्विजः स्वरेण तत्तत्समासविहितस्वरवशेन विग्रहं वाक्येन समर्थाभिधानं व्यवससुनिश्चिक्युः । अस्मिन्स्वरेऽयं समासः तत्रायं विग्रह इति अन्यतरपक्षावधारणं चक्रः। यथेन्द्रशत्रुरित्यत्रैव पूर्वपदे उदात्तत्वेन बहुव्रीहिस्वरेण बहुव्रीहिसमासनिश्चयः । इन्द्रः शत्रुर्यस्येति विग्रहावधारणमित्यर्थः । व्यवपूर्वस्य स्यतेलिटि 'आदेश-' इत्यात्वे द्विवचनादिकार्ये झेरुसादेशः । अत्र संशयजनकत्वफले मेदप्रतिपादकपदार्थयोर्विशेषणगत्या संदिग्धे न्यायः प्रवर्तत इति न्यायेन विनहस्य व्यवसायहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव । प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥२५॥ लोलेति ॥ लसता प्रकाशमानेन लोलाश्चला हेतयो ज्वाला एव रसना रसशाः । 'वद्वयोालकीलावहितिः शिखा स्त्रियाम्' इति, 'रसज्ञा रसना Page #353 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः । ३४१ जिह्वा' इति चामरः । तासां शतानि तेषां प्रभामण्डलेन हसन्निवेति रूपकर्सकीर्णोत्प्रेक्षा । पावको वह्निः वषट्कृतं वषट्कारेण त्यक्तम् । हुतमित्यर्थः । ' हुतं त्रिषु वषट्कृतम्' इत्यमरः । निर्मलीमसममलिनं । शुद्धमित्यर्थः । 'मलीमसं तु मलिनम्' इत्यमरः । ‘ज्योत्स्ना तमिस्रा -' इत्यादिना मलिनशब्दान्नत्वर्थे ईमसच्प्रत्ययान्तो निपातः । प्राज्यं प्रभूतमाज्यमसकृदलीढ आस्वादयत् । लिहेः स्वरितेत्वालङि कृते ‘हो ढः' इति ढत्वं 'झपस्तथोऽधः' इति धत्वे वे दूलोपदी ॥ 1 तत्र मन्त्रपवितं हविः ऋतावनतो न वपुरेव केवलम् । वर्णसंपदमतिस्फुटां दधन्नाम चोज्वलमभूद्धविर्भुजः ॥ २६ ॥ तत्रेति ॥ तत्र ऋतौ । मन्त्रैरुत्पवनादिमन्त्रैः पवितं पवित्रितम् । शोधितमित्यर्थः । 'पूङश्च' इति विकल्पादिडागमः । हविराज्यादिकमनतो भुञ्जानस्य । अशेभोजनार्थालटः शत्रादेशः । हवींषि भुत इति हविर्भुजोऽग्नेः संबन्धि | अतिस्फुटामतिविकसितां वर्णसंपदं रूपसमृद्धिं दधत् केवलमेकम् | 'केवलं वेककृत्योः' इति शाश्वतः । वपुरेवोज्वलमोजिष्ठं नाभूत् । किंतु अतिस्फुटामतिव्यक्तां वर्णसंपदमक्षरसमुदायं दधत् । 'वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे' इत्यमरः । नाम हविर्भुगिति नामधेयं चोजवलं रूढमभूत् । निरन्तरं हविर्भोजनाद्वपुः पुष्टिमाप, नाम चार्थवदासीदित्यर्थः । अत्र भोजनस्याश्नत इति विशेषणगत्या हेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् । गन्धतोऽपि हुतहव्यसंभवाद्देहिनामदहदोघमंहसाम् ॥ २७ ॥ स्पर्शमिति ॥ उचितं स्वाभाविकमुष्णमुष्णाख्यं स्पर्श स्पर्शनेन्द्रियमात्रग्राह्यं गुणविशेषं दधद्दधानः शिखी शिखावानग्निः । व्रीह्यादित्वादिनिः । हविराज्यादिकं ददाह भस्मीचकारेति यत् तदद्भुतं न । उष्णस्पर्श सहकृतस्याग्नेः पार्थिवद्रव्यदहनशक्तेः स्वाभाविकत्वादिति भावः । कुतः । हुतहव्य संभावाद्भुतहवनीय हवि - न्यान्धतो गन्धादपि । सांक्रामिकगुणादपीत्यर्थः । देहिनां गन्धं जिघ्रतां प्राणिनामित्यर्थः । अंहसां पापानामोघमपीति भावः । अदहद्भस्मीकृतवान् । नाशितवानित्यर्थः । अदाह्यदहनं त्वाश्चर्यमिति भावः । अन्रोष्णस्पर्शधारणस्य शिखि विशेषणभावेनास्य हविर्दाह हेतुत्वात्पदार्थहेतुकं तावदेकं काव्यलिङ्गम् । उत्तरार्धे त्वंहसां भस्मीकरणाभावलक्षणदाहविरोधस्य नाशलक्षणया समाधानाद्विरोधाभासे लक्ष्यस्य वाच्याभेदाध्यवसायमूलातिशयोक्तिप्रतिभोत्थापितः स एवादाह्यदाहकत्वरूपो वाक्यार्थभूत पूर्वोक्त पदार्थ हेतुककाव्यलिङ्गसहकृतो हविर्दहनाद्भुतवहेतुरिति वाक्यार्थहेतुकं काव्यलिङ्गमन्यैः प्राधान्येन संकीर्यते ॥ उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदुधः कृताम्बुदः । द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥ २८ ॥ Page #354 -------------------------------------------------------------------------- ________________ ३४२ शिशुपालवधे उन्नमन्निति ॥ सपदि होमक्षण एवोन्नमन्जुद्गच्छन् दिशो धूम्रयन्धूम्रवर्णाः कुर्वन् सान्द्रतां नीरन्ध्रतां दधत् अत एवाधःकृताम्बुदः शोभयावधीरितमेघो मेघोपरि गतश्च दहनस्याग्नेः केतनः केतुः । धूम इत्यर्थः । द्यौरोको येषां तेषां दिवौकसां देवानाम् । पृषोदरादित्वात्साधुः । अथवा दिवमाको येषामिति विग्रहः । 'दिवं स्वर्गान्तरिक्षयोः' इति विश्वः । तेषां प्रियमिष्टं कीर्तयन्कथयन्निव कीर्तनहेतोरिव । कीर्तनार्थमिवेत्यर्थः । अत एव फलोत्प्रेक्षा । कीर्तयन्निति 'लक्षणहेत्वोः क्रियायाः' इति हेत्वर्थे लटः शत्रादेशः । धामन्तरिक्षमियाय प्राप । इणो लिट् ॥ निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे। नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विहिरे ॥ २९॥ निर्जितेति ॥ नाकः स्वर्ग एषामस्तीति नाकिनो देवाः अखिलानां महार्णवौषधीनां महार्णवमन्थनसमये उत्थितानां दिव्यौषधिलतानां स्यन्दो मन्थनान्निःसृतो रसस्तस्य सारो मृष्टांशः । अमृतमिति यावत् । स निर्जितो येन तत् । अमृतादपि स्वाद्वित्यर्थः । अमृतं हविराख्यातम् । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते' इति मेदिनी । ववलिगरेऽभ्यवजहुः । 'वल्ग भोजने' कर्तरि लिद । 'वल्गं चाभ्यवहारं प्रत्यवसानं च जेमनं जग्धिः' इति हलायुधः । तस्यामृताधिक्यं व्यनक्ति । अनले हूयमानं दीयमानममृतमिति भावः । प्रतीक्षितुं कथमपि विषेहिरे सोढवन्तः । होमविलम्ब कथंचिदसहन्तेत्यर्थः । तृष्णा तु प्रागेव जिघ्रतीति रसातिशयोक्तिः। अत्र हविषोऽमृतमित्यभेदोक्त्या भेदरूपातिशयोक्तिस्तद्विशेषणपदार्थस्य वल्गनहेतुत्वाकाव्यलिङ्गभेदस्तया संकीर्यते । परिनिविभ्यः सेवसितसयसिवुसह-' इत्यादिना सहेः षत्वम् ॥ तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु युयोषिताम् । गुम्फिताः शिरसि वेणयोऽभवन्न प्रफुल्लसुरपादपस्रजः ॥३०॥ तत्रेति ॥ तत्र ऋतौ नित्यं विहितोपहूतिषु कृताबानेषु पतिषु भर्तृषु इन्द्रादिषु प्रोषितेषु प्रवासं गतेषु । वसेः कर्तरि क्तः 'वसतिक्षुधो:-' इतीडागमः । द्युयोषितां स्वर्गस्त्रीणामिन्द्राण्यादीनां शिरसि वेणयो जटा एव गुम्फिता अभवन् । प्रफुल्ला विकसिताः सुरपादपस्रजो मन्दारमाला न गुम्फिता अभवन् । अत्र सुरयोषितां वेण्यसंबन्धेऽपि संबन्धोक्तः स्रक्संबन्धेऽप्यसंबन्धोक्तेश्च संबन्धेऽसंबन्धरूपा असंबन्धे संबन्धरूपा चातिशयोक्तिः । ताभ्यां च क्रतोरजसत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः । उद्धतानधिकमेधितौजसो दानवांश्च विबुधा विजिग्यिरे ॥३१॥ प्राशुरिति ॥ विबुधाः सुरा अत्र क्रती आशु क्षिप्रं हूयत इति हवनीयं हवि. यत्प्राशुः प्राशितवन्तः । 'भश भोजने' लिर्विचनादिकार्ये 'अत आदेः' इत्य Page #355 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३४३ भ्यासदीर्घः । तेन हविःप्राशने न दीर्घ चिरभोग्यममरत्वं देवत्वमध्यगुः प्रापुः । 'इणो गा लुङि' इति गादेशः । किंच अधिकमत्यन्तमेधितौजसो वर्धितबला: सन्तः उद्धतानुहप्तान्दानवान् , असुरांश्च विजिग्यिरे जितवन्तः। विपूर्वाजयते कर्तरि लिद । 'विपराभ्यां जेः' इत्यात्मनेपदम् । अत्र विबुधानां दीर्घामरत्वासुरविजयित्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । एधितौजस्त्वस्य विशेषणगत्या विजयहेतुत्वाकाव्यलिङ्गं तदुत्थापितश्चामरत्वासुरविजयक्रियासमुच्चय इति संकरः। गुणक्रियायोगपद्यं समुच्चयः ॥ नापचारमगमन्वचित्क्रियाः सर्वमत्र समपादि साधनम् । अत्यशेरत परस्परं धियः मत्रिणां नरपतेश्च संपदः ॥ ३२ ॥ नापचारमिति ॥ अत्र ऋतौ क्वचित्कुत्रापि क्रियाः कर्माण्यपचारं लोपविचयविपर्यासादिदोषं नागमन् । गमेलुङि 'पुषादि-' इति च्लेरङादेशः । अनपचारे हेतुमाह-अत्र सर्व साधनं समपादि संपन्नम् । पद्यतेः कर्तरि लुङ् 'चिण् ते पदः' इति चिण् प्रत्ययः कर्मणि वा । संपादितमित्यर्थः । 'चिण् भावकर्मणोः' इति चिण्प्रत्ययः । साधनसंपत्तिमेव व्यनक्ति-अतीति । सत्रं यज्ञतत्रं येषामस्तीति सत्रिणामृत्विजाम् । 'सत्रमाच्छादने यज्ञे' इत्यमरः । धिय उत्तरोत्तरप्रयोगविज्ञानानि । तदुक्तम्-'आचतुर्थात्कर्मणोऽन्ते समीक्षेतेदं करिष्यामी'ति । तथा नरपते राज्ञः संपदः पदार्थसमृद्धयश्च परस्परमत्यशेरतातिशयितवत्यः । उभयेऽप्यतिसमग्रा इत्यर्थः । ज्ञानद्रव्ये हि क्रियासाधने तत्संपन्नस्य कुतः क्रियापचार इति भावः । अत्रानपचारवाक्यार्थस्य साधनसंपत्तिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । तस्य परस्परातिशयक्रियारूपधर्मसाम्यगम्यौपम्यकेवलप्रकृतधीसंपदोचरया तुल्ययोगितयोजीवितेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ दक्षिणीयमवगम्य पतिशः पतिपावनमथ द्विजवजम् । दक्षिणः क्षितिपतिळशिश्रणदक्षिणाः संदसि राजसूयकीः॥३३॥ दक्षिणीयमिति ॥ अथानन्तरं दक्षिण औदार्यवान् । 'दक्षिणे सरलोदारौ' इत्यमरः । क्षितिपती राजा । दक्षिणामहंतीति दक्षिणीयः । 'दक्षिणीयो दक्षिगाहस्तत्र दक्षिण्य इत्यपि' इत्यमरः । 'कडङ्गरदक्षिणाच्छ च' इति छप्रत्ययः । तं पङ्क्तेः स्वाधिष्टितायाः पावनं पावयितारं पतिपावनम् । पावयतेः कर्तरि ल्युट । द्विजवज ऋत्विग्वर्गमित्यर्थः । पङ्क्तिशः पतयनुसारेणाधिगम्य प्राप्य सदसि राजसूयकीः । राजसूयकाण्डोक्ता इत्यर्थः । दक्षिणाशब्दः स्फुटार्थः । राजसूये. त्यत्र दक्षिणार्थ एव ढको विधानात् । व्यशिश्रणद्विश्राणयति स्म । वितीर्णवा. नित्यर्थः । 'विश्राणनं वितरणम्' इत्यमरः । 'श्रण दाने' इति धातोर्लुङ् णौ चङयुपधाया हूस्वः' । वृत्त्यनुप्रासोऽलंकारः ॥ १ सपदि' इति पाठः. Page #356 -------------------------------------------------------------------------- ________________ शिशुपालवधे वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि वीजवत् । भावि विभ्रति फलं महद्विजक्षेत्रभूमिषु नराधिपोऽवपत् ||३४|| वारीति ॥ नराधिपो राजा सत्क्रियाभिरभिषेक संस्कारैर्लब्धा शुद्धिर्निर्दे ३४४ याभिस्तावखिला । द्विजा एव क्षेत्रभूमयः केदारभूमयस्तासु । ' क्षेत्र हे पुरे देहे केदारे योनिभार्ययोः' इति वैजयन्ती । भावि भविष्यन्महत्फलं स्वर्गादिकं धान्यादिकं च बिभ्रति । बिभ्राणानीत्यर्थः । ' वा नपुंसकस्य' इति विकल्पान्नुमागमप्रतिषेधः । धनानि बीजवद्वी जैस्तुल्यं वारिपूर्वमुदकदानपूर्व कमव. पदुप्तवान् । दत्तवानित्यर्थः । अत्र बीजवदित्युपमानम् 'तेन तुल्यम् -' इति तुल्यार्थे क्तेर्विधानात् । तथापि वापक्रियायोगाद्विजक्षेत्रेति रूपकसमासो नोपमितसमासः । किंतु रूपकस्याङ्गमुपमा तदुत्थापितत्वादिति संकरः ॥ किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत । राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ||३५|| किमिति ॥ भूपतिरधिवेदि वेद्याम् । मखवेद्यामित्यर्थः । अत्र विभक्त्यर्थेऽव्यभावः । द्विजगणानृत्विग्गणान्दक्षयन्हर्षयन् दक्षिणाप्रतिग्रहेण सदक्षिणान्कुर्वन् । प्रतिग्राहयन्नित्यर्थः । तत्क्षणे दक्षिणां प्रतिगृह्येति श्रुतिदर्शनात् । 'दक्ष नैपुण्ये' इति धातोर्ण्यन्तालटः शत्रादेशः । अत एव 'निष्णाते दक्षिणे वापि नैपुण्ये निपुणेऽपि च' इति भट्टः । अपूयत पूतोऽभवदिति कर्मकर्तरि लङ् । किं चित्रं दाता पूत इति । न चित्रमित्यर्थः । किंतु प्रतिग्रहीतापि पूत इति चित्रमाह । ते द्विजगणा अपि निरेनसो निष्पापात् राजतो राज्ञः । पञ्चम्यास्तसिल् । विमलं शुद्धं प्रतिग्रहं प्राप्य विरे पूता बभूवुः । 'विशुद्धाच्च प्रतिग्रहः' इत्यभिधानादिति भावः । अत्रापि पूजः कर्मकर्तरि लिट् । प्रतिग्रहीतापि शुद्ध इति विरोधः । स एव वाक्यार्थभूतश्चित्रत्वनिषेध हेतुरिति विरोधवाक्यार्थहेतुककाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः ॥ स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः । आ शशाङ्कतपनार्णवस्थितेर्विप्रसादकृत भूयसीर्भुवः ॥ ३६ ॥ स इति ॥ पाको नाम कोऽपि राक्षसस्तस्य शासनः शासको हन्ता पाकशास नः इन्द्रस्तेन समानं शासनं तुल्याज्ञा यस्य स इत्यर्थः । स राजा स्वहस्ते कृतं लिखितं चिह्नं स्वनामलेखनादिलाञ्छनं येषु तानि शासनानि नियमपत्राणि यस्य सः । दत्तस्वहस्तलेखाङ्कितशासनः सन्नित्यर्थः । आ शशाङ्कतपनार्णवस्थितेः शशा तपनार्णवानभिव्याप्य । आकल्पमित्यर्थः । अभिविधावाङ् । 'भङ्मर्यादाभिविध्योः' इति विकल्पादसमासः । भूयसीर्भुवो देयभूमीः विप्रसाद्विप्राधीनाः । 'देये वा च' इति चकारात्सातिप्रत्ययः । अकृत कृतवान् । दत्तवानित्यर्थः । कृञो लुङि तङ् 'उश्च' इति सिचः कित्त्वात् 'हस्वादङ्गात्' इति सकारलोपो गुणाभावश्च । पाकशासनसमानशासन इत्युपमानुप्रासयोः संसृष्टिः ॥ 1 Page #357 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३४५ शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलमवर्णसंकरैः। पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्विजन्मनाम् ॥३७॥ शुद्धमिति ॥ असौ नृपः शुद्धमाचारपूतम् । अन्यत्र विभक्तिविपरिणामेन शुद्धैरकलकैः । श्रुतिविरोधि वेदविरुद्धं न भवतीत्यश्रुतिविरोधि शास्त्रं बिभ्रतमात्मनि धारयन्तम् । सकलवैदिकशास्त्राभिज्ञमित्यर्थः । 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । अन्यत्र श्रुत्यविरोधिभिः पुराणादिभिः । वाच्यमानमन्वयगुणा. दिक्रमेण प्रस्तूयमानम् , अन्यत्र वाच्यमानैर्द्विजगणेन व्याख्यायमानैरित्यर्थः । वचेश्चौरादिकाकर्मणि लटः शानजादेशः। द्विजन्मनां ब्राह्मणानां गणं अवर्णसंकरैर. संकीर्णाक्षरैः, अन्यत्र जातिसंकररहितमिति विपरिणामः । पुस्तकैः समं पुस्तकाक्षरैक्यैिः सह अशृणोत्। दानकाले प्रत्येकं ब्राह्मणानां गुणान्गोष्टीश्च श्रुतवानित्यर्थः । मुखस्थ विद्यानामपि पुस्तकधारणं विलक्षणत्वेनोक्तमित्यदोषः। अन्यत्र पुस्तकैः समं द्विजगुणमशृणोदितिसंबन्धिभेदेन भिन्नयोः श्रवणयोरभेदाध्यवसायभेदेऽभेदरूपातिशयोक्तिचमत्कारिणी द्विजानां प्रकृतत्वात्पुस्तकानीव द्विजानिति वैवक्षिकोपमानोपमेयभावपर्यवसायिनी श्लेषसंकीर्णसहोक्तिरलंकारः। 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेप्यते' इति लक्षणात् । केचित्पुस्तकैः समं वाच्यमानमिति योजयित्वा पुस्तकेषु द्विजगणान् , लेख्येष्वायतमानानिति व्याचक्षते । तैः पुस्तकेषु शास्त्रभरणासंभवादवर्णसंकरेति श्लिष्टवि. शेषणावगतप्रकृतश्लेषभङ्गः पुस्तकानां वाचनकरणत्वात्समादिशब्दवैयर्थ्यमुक्तस. होत्यलंकारभ्रंशश्चेत्येवमादयो दोषा दुस्तरा इत्यलं विस्तरेण ॥ तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् । आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥३८॥ तदिति ॥ अनिवारिता अप्रत्याख्याता अतिथयो येन स आश्रमाणां ब्रह्मचर्यादीनां गुरुनियन्ता स राजा । आ समन्ताजुहोत्यस्मिन्नित्याहवनं यागम् । जुहोतेल्युट । द्रष्टुमुपेयुषामागतानाम् । अत एव प्रणीतमनसां सत्कर्मदर्शनाद्धृ. टचित्तानामग्रजन्मनाम् । अतिथिषु साध्वातिथेयमतिथिसत्कारम् । 'पथ्यतिथि-' इत्यादिना दन्प्रत्ययः । कतु नाश्रमन्न श्रान्तः। श्राम्यतेः पुषादित्वाल्लुङि च्लेरङादेशः । अवानिवारितातिथित्वस्य विशेषणगत्या श्रमनिषेधहेतुत्वारकाव्यलिङ्गं तदनुमालेन संसृज्यते ॥ मृग्यमाणमपि यदुरासदं भूरिसारमुपनीय तत्स्वयम् । आसतावसरकाशिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ ३९ ॥ मृग्यमाणमिति ॥ यद्नं मृग्यमाणमन्विष्यमाणमपि दुरासदं दुर्लभम् । भूरिसारं महासारमुपदीकृतमुपायनीकृतम् । मनसा यथासंकल्पितमित्यर्थः । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । तद्नं श्रेष्ठवस्तु 'रत्रं । श्रेष्ठे मणा. Page #358 -------------------------------------------------------------------------- ________________ ३४६ शिशुपालवधे वपि' इति विश्वः । नृपाः स्वयमुपनीय तस्य राज्ञोऽवसरकाङ्क्षिणः सेवावसर प्रतीक्षमाणा बहिरासत स्थिता इत्यैश्वर्यातिशयोक्तिः । अत्र रत्ने उपदात्वस्यारो. प्यमाणस्य प्रकृतोपयोगात्परिणामालंकारः ॥ एक एव वसु यद्ददौ नृपस्तत्समापकमतर्यंत क्रतोः। त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥४०॥ एक इति ॥ एक एव नृपो यद्वसु धनं ददौ । उपायनमिति भावः । तद्धनमेव क्रतोः समापकं संपूरकमतय॑त । दक्षिणादानादिसर्वक्रतुव्ययपर्याप्ततया तर्कितमित्यर्थः । तपःसुते धर्मपुत्रे त्यागशालिनि सति सर्वपार्थिवधनान्यपि क्षयं व्ययं ययुः । अत्रैकपार्थिवधनस्य ऋतुसमापकत्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तयोश्च सापेक्षत्वात्सजातीयसंकरः ॥ प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः। स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥४१॥ प्रीतिरिति ॥ ददनो दानं कुर्वतोऽस्य राज्ञस्तथा तेनैव प्रकारेण राजोपायनानामर्थिसात्करणेनैव प्रीतिरभवदासीत् । न तु कोशगृहार्पणेनेत्यर्थः । कुतः । येन प्रकारेण तस्य राज्ञः प्रियचिकीर्षवः प्रियं कर्तुमिच्छवः । मधुपिपासुभृतित्वाद्वितीयासमासः । नृपाः स्पर्शितैः प्रतिपादितैः । 'स्पर्शनं प्रतिपादनम्' इत्यमरः। उपायनैरुपहारैरधिकं यथा तथा मुदमागमन्प्राप्ताः । तथैव प्रभुप्रीतिसिद्धेः सोपायनानां सिद्धि नियोगलाभाञ्चेति भावः । अधिवेश्म वेश्मनि निहितैरुपायनर्मुदं नागमन् । तथोक्तप्रयोजनासिद्धेरिति भावः । येनैव राज्ञा मोदः स्वस्य च महान्धर्मलाभः तेनोपायनानामर्थिसास्करणादेव राज्ञः प्रीतिरासीत् न कोशगृ. हार्पणादित्यर्थः । अत एव दानसंग्रहयोः प्रकृतयोः प्रीतेः संग्रहपरिहारेण दान एव नियमनात्परिसंख्यालंकारः । 'एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्ये'ति लक्षणात् । एतेन सर्वस्वदानं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपोऽपरैौरवेण ददृशेतरामसौ ॥ ४२ ॥ यमिति ॥ लघूकृता अल्पीकृता अहिताः शत्रवो येन सः । स राजा शिष्येण तुल्यं शिष्यभूतम् । 'भूतं मादौ पिशाचादौ न्याय्ये सत्योपमानयोः' इति विश्वः । सुप्सुपेति नित्यसमासः । यं नृपं लघुन्यप्यल्पेऽपि यज्ञीयपशुरक्षणादिकर्मण्यशिषदाज्ञापितवान् । 'सर्तिशास्त्यतिभ्यश्च' इति लुङि च्लेरङादेशः 'शास इदहलोः' इतीकारः । असौ कर्मकरो नृपः अपरैस्ततोऽन्यैर्नृपतिभिः सस्पृहं अहो संमान इति साभिलाषं गौरवेण ददृशेतरामतिशयेन दृष्टः । दृशेः कर्मणि लिट् 'तिङश्च' इति तरप्प्रत्यये 'किमेत्तिङव्ययघादाम्वप्रकर्षे' इत्यामुप्रत्ययः । तद्धितश्वासर्व विभतिः' इत्यव्ययसंज्ञा । अत्र कर्मकरनृपस्येतरनृपकर्तृकविशिष्टदर्शनकर्मत्वासंबन्धे. Page #359 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३४७ ऽपि संबन्धोक्तेरतिशयोक्तिः । तया राज्ञो निरङ्कुशाज्ञत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि । वाचि रोपितवतामुना महीं राजकाय विषया विभेजिरे ॥४३॥ आयेति ॥ आद्यकोल आदिवराहः । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । तेन तुलितां कल्पादौ उद्धृताम् । तथापि प्रकम्पनैः प्रक्षोभकैर्हिरण्याक्षप्रमुखैः कम्पितां क्षोभितां महीम् । अनीहगात्मन्यनेवंरूपायां केनाप्यकम्पितायामस्खलितायां वाचि रोपितवता स्थापितवता । स्थिरेण रोपणेन स्थिरीकुर्वतेत्यर्थः । अमुना राज्ञा राजकाय राज्ञां समूहाय । 'गोत्रोक्ष-' इत्यादिना वुञ्प्रत्ययः । विषया देशाः । 'नीवृजनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । विभेजिरे अस्थायमिति विभक्ताः प्राक् विजयोद्धृतान्राज्ञः पुनः पदेपु स्थापयामासेत्यर्थः । अत्रादिवराहो महीमुद्धृतवानेव वाचैवासौ तु निरातकं स्थापितवांश्चेत्युपमानादुपमेयस्याधिक्यकथनाध्यतिरेकालंकारः ॥ . आगताम्यवसितेन चेतसा सत्वसंपदविकारिमानसः। तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः॥४४॥ आगतादिति ॥ सत्त्वसंपदा गुणाधिक्येन अविकारिमानसः । लोभाभिभवायामनुपलुतचित्त इत्यर्थः । 'सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः' इति विश्वः । असौ राजा तत्र तस्मिन्नासमन्ताजह्वत्यस्मिन्नित्याहवो यागः । 'ऋदो. रप्' इति जुहोतेरप्प्रत्यये गुणावादेशौ । आहूयन्ते शत्रवो यस्मिन्नित्याहवो युद्धम् । 'आङि युद्धे' इति द्वयतेरापूर्वादप्प्रत्ययः संप्रसारणम् । 'आहवो यागयुद्धयोः' इति विश्वः । महांश्चासौ स च महाहवस्तस्मिन्महाहवे व्यवसितेन निश्चितेन धनलाभं निश्चितवता । अन्यत्र शत्रोमृत्युरेवेति निश्चितवतेत्यर्थः । व्यवपूर्वात्स्यतेः सकर्मकत्वादप्यविवक्षिते कर्मकर्तरि क्तः । 'प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । चेतसा आगतात् । चेतसा स्वयं निश्चित्यागतादित्यर्थः । अधिनो याचकात् । शत्रुरेव शात्रवः । स्वार्थेऽणप्रत्ययो राक्षसवत् । तस्मादिव परामुखो नाभवत् । 'आहवेवनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥' इति मनुस्मरणादिति भावः । श्लेषसंकीर्णेयमुपमा । नक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् । नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः॥४५॥ नक्षतेति ॥ स राजा अर्थिनं याचकं मुहुरवज्ञयानादरेण नैक्षत । तर्हि विल. म्बितं किं नेत्याह-याचितस्तु प्रार्थित एव कालं नाक्षिपन्न यापयामास । याचकबहुत्वात् । तल्पिदाता नेत्याह-अल्पमपि नादित न ददौ । किंतु यथार्थिकाममिति भावः । ददातेलुङि तङि 'स्थाध्वोरिच्च' इतीकारः 'हस्वादङ्गात्' इति स Page #360 -------------------------------------------------------------------------- ________________ ३४८ शिशुपालवधे लोपः । तहिं विकत्थनः किं नेत्याह-न व्यकत्थयदात्मश्लाघां न चकार । 'कत्थ श्लाघायाम्' । किंच इष्टं प्रियमपि दत्तं वस्तु नान्वशेत नानुतप्तवान् । दत्तानु. तापस्यातिप्रत्यवायहेतुत्वादिति भावः । अत्रार्थिसंदोहयाजादिबाहुल्यरूपकारणसामग्र्येऽपि विलम्बादिकार्यानुत्पत्तेर्विशेषोक्तिरलंकारः । 'तत्सामग्र्यादनुत्पत्तिविशेषोक्तिर्निगद्यते' इति लक्षणात् । तथा दातुः सात्विकत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् । वर्षकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूपरम् ॥ ४६॥ निर्गुण इति ॥ दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । 'स्युर्व. दान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे ।' 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । भूपतेः . पुरोऽग्रे निर्गुणस्तपोविद्यादिगुणहीनोऽपि विमुखो निष्फलो नाभवत् , किंतु पूर्णकाम एवाभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । तत एव तेनापात्रवर्षदोषोऽपि न करुणवृत्तरित्याशयेन दृष्टान्तमाह-वर्षकस्येति । अपो जलानि । 'न लोक-' इत्यादिना षष्ठीप्रतिषेधः । वर्षकस्य वर्षणशीलस्य । 'लषपत-' इत्यादिना उकञ्प्रत्यये लघूपधगुणः । कृतोन्नतेः कृतोदकस्याम्बुदस्य । अम्बुदेने. त्यर्थः । ‘कृत्यानां कर्तरि वा' इति षष्टी । 'स्यादूषः क्षारमृत्तिका' इत्यमरः । तद्वत्क्षेत्रमूषरम् । 'ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली' इत्यमरः । 'ऊपशुषिमुष्कमधो रः' इति रप्रत्ययः । परिहार्य त्याज्यं किम् । नेत्यर्थः । अत्र पर्जन्यभूपालयोर्वाक्यभेदेन बिम्बप्रतिबिम्बतया समानधर्माभिधानादृष्टान्तालंकारः ॥ प्रेम तस्य न गुणेषु नाधिकं न स वेद न गुणान्तरं च सः। दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ४७ प्रेमेति ॥ तस्य राज्ञो गुणेष्वधिकं प्रेम नेति न, किंत्वस्त्येवेत्यर्थः । राजा गुणान्तरं गुणविशेषं न वेद न वेत्ति स्मेति न च, किंतु वेदैवेत्यर्थः । 'लट् स्मे' इति भूतार्थे लट् 'विदो लटो वा' इति णलादिः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः । संभावितयोरविमर्शा देवागुणप्रीतिज्ञानयोनिषेध इति भावः । तदपि तथापि । पृथिव्या ईश्वरः पार्थिवः । 'सर्वभूमिपृथिवीभ्यामणजी' इत्यञ्प्रत्ययः । दित्सया दातुमिच्छया । सर्वपात्रदानकौतुकेनेत्यर्थः । 'सनि भीमा-' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । अर्थिन याचकं गुणी गुणवान् अगुण्यो नायं गुणवानिति न व्यजीगणन्न गणयति स्म । गुणप्रियोऽपि गुणज्ञोऽपि दानशौण्डोऽर्थितया गुण्यगुण्यौ न गणयामासेत्यर्थः । गतेणी चङि 'ई च गणः' इत्यभ्यासस्य विकल्पादीकारः । अत्र गुणप्रियत्वगुणज्ञस्वरूपकारणसामग्येऽपि गुणागुणविमर्शरूपकार्यानुत्पत्तेः दित्सयेत्युक्तनिमित्ताविशेषोक्तिरुक्तलक्षणात् ॥ Page #361 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३४९ दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति । प्रार्थनार्थरहितं तदाभवदीयतामिति वचोतिसर्जने ॥४८॥ दर्शनेति ॥ वनीयकजनेऽर्थिजने । दर्शनानुपदं राजविलोकनान्तरमेव । प्रार्थनामकृत्वेत्यर्थः । 'वनीयको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । कामतो यथेच्छं स्वं धनमधिगच्छति लभमाने सति तदा दीयतामिति वचो दीयतामित्येतत्पदं प्रार्थना याज्जा मह्यं दीयतामिति वाञ्छा सैवार्थस्तेन रहितं शून्यं सत्तदा अतिसर्जने त्यागेऽभवदवर्तत । मह्यं दीयतामित्यर्थिवाक्याभावादस्मै दीयतामिति दातृवाक्यमेवान्वर्थमभूदित्यर्थः । अर्थिनामागमनमेव याचनमिति विवेकिनां किं याज्जादैन्यदर्शनचापलेनेति भावः। अत्र दीयतामिति वचः संप्रार्थनार्थवर्जनेनासीत्। तेनातिसर्जनार्थताकथनादेकस्यानेकत्वप्रसक्तावेकत्र नियमनाख्या परिसंख्या ॥ नानवाप्तवसुनार्थकाम्यता नाचिकित्सितगदेन रोगिणा । इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः॥४९॥ नेति ॥ अर्थकाम्यता अर्थमात्मन इच्छता धनार्थिना । 'काम्यच्च' इति काम्यच्प्रत्यये सनाद्यन्तत्वेन धातुत्वाल्लटि शत्रादेशः । तत्सद उपेयुषा प्राप्तवता पुरुषेणानवाप्तवसुना अलब्धधनेन न प्रत्यगामि न प्रत्यावर्ति । रोगिणोपेयुषा अचिकित्सितगदेनाशमितरोगेण । 'रोगव्याधिगदामयाः' इत्यमरः । न प्रत्यगामि । अशितुं भोक्तुं इच्छता उपेयुपा अनाशुषा च अनशितेन । अभुक्तवतेत्यर्थः । 'उपेयिवाननाश्वाननूचानश्च' इति बसुप्रत्ययान्तो निपातितः । न प्रत्यगामि किंतु सर्वेणापि पूर्णकामेनैव प्रत्यगामीत्यर्थः । गर्भावे लुङ् । अत्रार्थिरोगिक्षुधितानां प्रकृतानामेव पूर्णकामत्वसाम्याद्गम्यौपम्यत्वात्केवलप्रकृतविषया तुल्ययोगिता । तथा च यो यत्काम आगतः स तत्सर्वमेवास्मादलभतेति व्यज्यते ॥ स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसंकरैः । भावशुद्धिसहितैर्मुदं जनो नाटकैरिव वभार भोजनैः ॥५०॥ स्वादयनिति ॥ अनेकानि बहूनि संस्कृतानि हिङ्गुमरिचादिना कृतसंस्काराणि प्राकृतानि प्रकृतिसिद्धानि संस्कारं विना स्वादूनि कृतानि फलादीनि च येपु तैः । अन्यत्रानेकविचित्रसंस्कृतप्राकृतौ भाषाविशेषौ येषु तैः । अकृतः पात्राणां भाजनानाम् , अन्यत्र भूमिकानां च संकरो व्यतिकरो येषु तैः । भावशुद्धिः पदार्थानां मृष्टता, अथवा भावशुद्धिः गर्दा विरहः तत्सहितैः । अन्यत्र भावाः स्थायिनो रत्यादयस्तेषां शुद्धिः सजातीयविजातीयातिरस्कृतरूपकम् । 'सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावदसं वर्तमानः स्थायिभाव उदाहृतः ॥' इति तल्लक्षणात् । तत्सहितैोजनैरभ्यवहारैर्नाटकै रूपकविशेपैरिव रसं मधुरादिकं शृङ्गारादिकं च स्वादयन्ननुभवानो भोक्तजनः सामाजिकजनश्च मुदमानन्दं बभार । श्लेषसंकीर्णेयमुपमा ॥ शिशु० ३० Page #362 -------------------------------------------------------------------------- ________________ ३५० शिशुपालवधे रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् । अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥५१॥ रक्षितारमिति ॥ इतीत्थं भूपतियुधिष्ठिरः तत्र कर्मणि राजसूयाध्वरे दुष्टानां दमने मर्दने क्षमं समर्थ हरि रक्षितारं विघ्नेभ्यस्त्रातारं न्यस्य निधाय अक्षतान्यविहतानि दानहोमयजनानि निरवर्तयदन्वतिष्ठत् । स्वकीयस्य द्रव्यस्य स्वस्वत्वनिवृत्तिपरस्वत्वोत्पादनं दानम् । देवतोद्देशेनाग्नौ हविषः प्रक्षेपो होमः। हुतस्य देवतोद्देशेन वाङ्मनसाभ्यां न ममेति त्यागो यागः । अत्र दुष्टदमनक्षमस्वस्य विशेषणगत्या हरे रक्षाधिकारहेतुन्यासहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोचकैः । यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥ ५२ ॥ एक इति ॥ सुन्वतां सोमाभिषवं कुर्वताम् । सोमयाजिनामित्यर्थः । सुनोते. लटः शत्रादेशः । सुसखा सत्सहायः । 'न पूजनात्' इति समासान्तप्रतिषेधः । एष शौरिरेक एवेत्यभिनयादिव तद्व्यञ्जकचेष्टां कृत्ववेत्युत्प्रेक्षा । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । भूदेवयजनभूमिः । चषालेन यूपकटकेन । 'चषालो यूपकटकः' इत्यमरः । तेन तुलितम् । समीकृतमित्यर्थः । तुलयतेः 'तत्करोति-' इति ण्यन्ताकर्मणि क्तः । तदङ्गुलीयकमूर्मिका यस्य तम् । अङ्गुलीयकोपमानचपालमित्यर्थः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । 'जिह्वामूलाङ्गुलेश्छः' इति भावे छप्रत्ययः । उच्चकैरुन्नतं यूपं पशुबन्धनदारुविशेषो रूपकं स्वरूपं यस्य तं भुजमनीनमदुन्नमितवती । नमेो चङि सन्वत्कार्यम् । अत्र सापेक्षत्वादुपमोरेक्षयोः संकरः ॥ इत्थमत्र विततक्रमे ऋतौ वीक्ष्य धर्ममथ धर्मजन्मना । अर्घदानमनु चोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः॥५३॥ इत्थमिति ॥ इत्थमत्र ऋतौ विततक्रमे विस्तृतानुष्टाने सति अथानन्तरं धर्माजन्म यस्य तेन धर्मजन्मना धर्मात्मजेन । 'जन्माधुत्तरपदो बहुव्रीहियधिकरण' इति वामनः । धर्म वीक्ष्य । धर्मशास्त्रमनुस्मृत्येत्यर्थः । अर्घदानं पूजादानननु । सदस्यपूजामुद्दिश्येत्यर्थः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । चोदितः कस्मै देवमिदमिति पृष्टः शन्तनोः सुतो भीष्मः । सभ्यं सभायां साधुं । 'सभाया यः' इति यप्रत्ययः । वचो वाक्यमभ्यधिताभिहितवान् । दधातेलुंङि तडि 'स्थाव्वोरिच्च' इति कित्त्वे 'हस्वादङ्गात्' इति सकारलोपः । वृत्त्यनुप्रासोऽलङ्कारः ॥ अथासर्गसमाप्तीप्मवचःप्रपञ्चमेव सफलं दर्शयतिआत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु । यत्तथापि न गुरुन्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥५४ आत्मनेति ॥ तत्रात्मनो बहुमानकरणात्प्रीतस्तत्रभवान्भीष्मो राजानं तावदुत्साहार्थमेकेनोपश्लोकयति । वेत्तीति विदो ज्ञाता । इगुपधलक्षणः कप्रत्ययः । Page #363 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः । ३५१ कसो विद्यास्थानस्य विदुः कोविदः । गुणदोषयोः कोविदो विवेक्ता । करणीयवस्तुषु कर्तव्यार्थेष्वात्मनैव स्वयमेव । परोपदेशानपेक्षयैवेत्यर्थः । प्रकृत्यादित्वातृतीया । किं न वेत्सि । सर्वं जानासीत्यर्थः । तथापि त्वं ज्ञातापि गुरून्न पृच्छ सीति न, किंतु पृच्छस्येवेति यत् । ज्ञानप्रसक्तं न पृच्छसीति वारणाय नद्वयम् । तत्र गुर्वनुयोगे अयं क्रम इति न्यायः सदाचारपरिपाटीत्येतदेव कारणं न त्वज्ञानमित्यर्थः । अत्र कर्तव्यार्थप्रश्नस्याज्ञानहेतुकत्ववारणेनापरहेतुकत्वे नियमनात्पूर्वोक्तलक्षणपरिसंख्यानम् ॥ एवं राजानमुपश्लोक्य प्रश्नस्योत्तरमाह - " स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् । अर्धभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥ ५५ ॥ स्नातकमिति ॥ स्नातको गृहस्थविशेषस्तम्, गुरुं पित्रादिकम्, अभीष्टमिष्टबन्धुम् ऋत्विजं याजकम्, संयुज्यत इति संयुक् संबन्धी जामाता तेन सह मेदिनीपतिं राजानं च । तं च मेदिनीपतिं चेत्यर्थः । षट् षडेतेऽर्धभाजः पूजार्हा इति । इतिशब्देनाभिहितत्वान्न कर्मणि द्वितीया । यथाह वामनः - 'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्' इति । कीर्तयन्ति कथयन्ति । वृद्धा इति शेषः । नच ते दूरा इत्याह- ते च षडपि ते तव सदः सभां युगपदागताः प्राप्ताः । अत्र स्नातकादीनां प्रकृतानामेवार्ध भाक्त्वसाधर्म्या दौपम्यावगमात्तुल्ययोगिताभेदः ॥ शोभयन्ति परितः प्रतापिनो मत्रशक्तिविनिवारितापदः । त्वन्मखं मुखभुवः स्वयंभुवो भूभुजश्च परलोकजिष्णवः ॥ ५६ ॥ शोभयन्तीति ॥ किंच प्रतापयितुं शीलं येषां ते प्रतापिनः शत्रुतापकाः । ताच्छील्ये णिनिः । अन्यत्र तेजस्विनः । ' स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः। ‘अत इनिठनौ' इति इन्प्रत्ययः । मन्त्रशक्त्या वेदमहिम्ना, अन्यत्र विचारसामर्थ्येन विनिवारिता आपदो दैवमानुषविपत्तयो यैस्ते । 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः । परलोकस्य लोकान्तरस्थ, शत्रुजनस्य च जिष्णवो जयशीलाः । स्वयंभुवो ब्रह्मणो मुखभुवो मुखजाता ब्राह्मणाः । ' ब्राह्मणोऽस्य मुखमासीत्' इति श्रुतेः । भूभुजो राजानश्च । त्वन्मखं तव ऋतुं परितः शोभयन्ति परिष्कुर्वन्ति । सर्वेऽप्यागत्य वसन्तीत्यर्थः । अत्र राज्ञां ब्राह्मणानां च प्रकृतानामेव प्रतापादिसाधर्म्येणोपमानात्तुल्ययोगिताभेदः । साधर्म्यं च श्लेषनिबन्धनमिति संकरः ॥ आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी । एक एव गुणवत्तमोऽथवा पूज्य इत्ययमपीष्यते विधिः ॥५७॥ आभजन्तीति ॥ हे पार्थ पृथापुत्र । 'तस्येदम्' इत्यण् । सामान्यस्य योग्यविशेषपर्यवसाननियमादपत्यार्थलाभः । अन्यथा 'स्त्रीभ्यो ढकू' इति ढक् स्यात् । Page #364 -------------------------------------------------------------------------- ________________ ३५२ शिशुपालवधे गुणिनो गुणाढ्या अमी पूर्वश्लोकद्वयोक्ताः स्नातकादयः पृथक्पृथक् प्रत्येकमकृत्रिमामकपटां सस्कृति सत्कारमाभजन्ति अर्हन्ति । सममेषां प्रत्येकं पूजा कार्यत्यर्थः । अथ स्वाभिमतं पक्षान्तरमाह-अथवेति । अथवा गुणवत्तमोऽतिगुणवानेक एव पूज्य इत्ययमपि विधिः शास्त्रमनुष्टानं वेष्यते । वृद्धैरिति शेषः । अत्र स्नातकादीनां पूज्यत्वे गुणो विशेषणगत्या हेतुरिति काव्यलिङ्गभेदः । तदपेक्षया गुणवत्तमत्वमेकस्यैव पूज्यत्वे तथैव हेतुरिति काव्यलिङ्गान्तरमिति सजातीयसंकरः ॥ अत्र कस्तथा सर्वोत्तरः पुमानस्तीत्याकाङ्क्षायां कोऽन्यो हरिं विनेत्याहअत्र चैष सकलेऽपि भाति मां प्रत्यशेषगुणवन्धुरर्हति । भूमिदेवनरदेवसंगमे पूर्वदेवरिपुरर्हणां हरिः ॥ ५८ ॥ अत्रेति ॥ अत्रास्मिन्कालेऽपि भूमिदेवा ब्राह्मणाः नरदेवा राजानस्तेषां संगमे । ब्राह्मणक्षत्रियसमवाय इत्यर्थः । अशेषगुणानां बन्धुः सुहृत् । सर्वगुणाढ्य इत्यर्थः । असाधारणगुणानाह-पूर्वेति । पूर्वदेवाः सुरद्विषस्तेषां रिपुर्हन्ता एष हरिः कृष्णः अर्हणां पूजामर्हति प्राप्नोतीति मामधिकृत्य भाति । मम प्रतिभाती. त्यर्थः । अन्ये तु नार्हन्तीत्यपि सिद्धमिति भावः । अत्र तत्रान्येषु च प्रसक्तायां पूजायां हरावेव नियमात्परिसंख्यालंकारः । 'एकस्य वस्तुनः प्राप्तावनेकत्रैकधा यदा । एकत्र नियमः सा हि परिसंख्या निगद्यते' इति तल्लक्षणात् ॥ ननु तस्मिन्ब्राह्मणक्षत्रियसमूहे कथमस्यैव पूज्यत्वमित्याशङ्कय सर्वोत्तमत्वादित्याशयेनासर्गसमाप्तेरेनं स्तौति मलैमात्रमवदीधरद्भवान्मनमानमितदैत्यदानवम् । अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥५९॥ मयत्यादि ॥ आनमिताः प्रह्वीकृता दैत्या दितिसुताः, दानवा दनुसुताश्च येन तमेनं हरिं भवान्मर्त्यमानं मनुष्यमानं मावदीधरन जानीयात् । 'शेषे प्रथमः' इति प्रथमपुरुषः । कुतः । एष कृष्णो जनतातिवर्तिनः सर्वलोकातीतस्य प्रतिजनं कृतस्थितेश्च । सर्वभूतान्तर्यामिण इत्यर्थः । वेधसः परमात्मनोंऽशः कला । अतो न मर्त्यमात्रमित्यर्थः । अत एव वाक्यहेतुकं काव्यलिङ्गम् ॥ पुनरप्यमानुषत्वमेव व्यनक्तिध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् । आमनन्ति यमुपास्यमादरादरवर्तिनमतीव योगिनः ॥ ६० ॥ ध्येयमिति ॥ योगिनो नारदादयः एकमद्वितीयमुत्तमं सर्वोत्तमं यमेनं ध्येयं ध्यातव्यम् । एकार्थगोचरात्मधारणं ध्यानं तदर्ह मित्यर्थः । तथापि धियो ज्ञानस्थापथेऽमार्ग स्थितम् । तदगोचरमित्यर्थः । 'पथो विभाषा' इति समासान्तः । 'अपथं नपुंसकम्' इति नपुंसकत्वम् । आमनन्ति । 'पाघ्रा-' इत्यादिना Page #365 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३५३ नाधातोर्मनादेशः । स्तुत्यं स्तोतुमर्हम् । तथापि अतीतो वाक्पथो येन तम् । अवाङ्मनसगोचरमित्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः। आमनन्ति आदरादास्थयोपास्यं सेव्यम् । तथापि अतीवात्यन्तम् । अतीवेति निपातसमुदायोऽत्यन्तार्थेऽव्ययम् । दूरवर्तिनमामनन्ति यमेनमचिन्त्यरूपमामनन्ति तमेनं मर्त्यमानं मावधारयेरिति पूर्वेणान्वयः । अवाङ्मनसगोचरत्वदूरवर्तित्वानां ध्येयत्वस्तुत्यत्वोपास्यत्वैः सह विरोधस्य हरेरचिन्त्यमहिमत्वेन समाधानाद्विरोधाभासोऽलंकारः ॥ ननु हरिहरहिरण्यगर्भास्त्रयो देवाः सर्वोत्तरमहिमानः सन्ति, एनं न जानीम इत्यत आह पद्मभूरिति सृजञ्जगद्रजः सचमच्युत इति स्थिति नयन् । संहरन्हर इति श्रितस्तमधमेप भजति त्रिभिर्गुणैः ॥ ६१॥ पद्मभूरिति ॥ एष हरिः रजः रजोगुणं श्रितो जगत्सृजन्पद्मभूर्ब्रह्मेति, सत्त्वं सत्त्वगुणं श्रितः जगत्स्थितिं नयन्स्थापयन्नच्युतो विष्णुरिति, तमस्तमोगुणं श्रितो जगत्संहरन्हर इति, त्रिभिर्गुणैः सत्त्वरजस्तमोभित्रैधं त्रैविध्यं भजति । 'द्वियोश्च धमुन्' इति विधार्थे धमुञ् प्रत्ययः। अस्यैव गुणभिन्नास्तास्तिस्रोऽपि मूर्तय इत्य. यमेव सर्वोपास्य इति भावः । अत्र सत्यादिगुणयोगस्य सृष्ट्यादिगुणयोगस्य च विशेषणगत्या त्रैविध्यहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ तर्हि कीदृशमत्य स्वरूपं कुतो वा मानुषविग्रह इत्यपेक्षायामुभयं निरूपयन्नाहसर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः । क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः ॥ ६२ ॥ सर्वेति ॥ अमुं कृष्णं सर्ववेदिनम् । सर्वज्ञमित्यर्थः । अत एवानादिमादिरहितम् । अनादि निधनमित्यर्थः । तथापि देहिनां प्राणिनामनुजिघृक्षयानुगृहीतुमिच्छया। भूभारावतरणार्थमित्यर्थः । गृहेः सन्नन्तास्त्रियाम् 'अप्रत्ययात्' इत्यप्रत्यये या । वपुरास्थितं मानुपविग्रहमास्थितम् । न कारब्धशरीरभाजमित्यर्थः । अत एव केशकर्मफलभोगवर्जितम् । पञ्च अविद्यास्मितारागद्वेषाभिनिवेशाख्याः क्लेशाः। कर्माणि पुण्यपापानि तेषां फले सुखदुःखे तयो गोऽनुभवस्तेन क्लेशैश्च वर्जितम् । तैरसंस्पृष्टमित्यर्थः । ईश्वरमीश्वरशब्दितं पुंविशेष क्षेत्रज्ञविलक्षणं पुरुषविशेपं परमपुरुषं वा विदुर्विदन्ति । सन्त इति शेषः । 'विदो लिटो वा' इति झेरुसादेशः । अनाकर्मारब्धत्वान्नित्यज्ञानत्वादिविरोधसमर्थनाद्विरोधाभासोऽलंकारः । तेषामेव गुणानां विशेषणगत्या 'विशेषहेतुत्वात्काव्यलिङ्गमिति संकरः ॥ एवं हरेः स्वरूपं निरूप्य तदुपासनात्फलं युग्मेनाहभक्तिमन्त इह भक्तवत्सले संततसरणरीणकल्मषाः। यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः॥६३॥ Page #366 -------------------------------------------------------------------------- ________________ ३५४ शिशुपालवधे भक्तिमन्त इति ॥ भक्तवत्सले भक्तप्रिये इहास्मिन्हरौ भक्तिमन्तोऽनुरागवन्तो जनाः । पूज्येष्वनुरागो भक्तिः । संततं सततं तत्स्मरणेन निरन्तरध्यानेन रणकल्मषाः क्षीणपापाः सन्तः । 'री क्षये' 'ल्वादिभ्यः' इति निष्ठानत्वम् । अस्यानुभूयमानस्य कृष्णस्य संसृतिः संसारस्तस्य क्लेशो दुःखं तदेव नाटकमिति रूपकम् । तस्य विडम्बनाभिनयस्तस्य निर्वहणं समाप्तिं यान्ति । मुच्यन्त इत्यर्थः । 'तमेवंविद्वानमृत इह भवति' इति श्रुतेरिति भावः । ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा । दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ ६४ ॥ ग्राम्येति ॥ ग्रामे भवा ग्राम्याः प्राकृताः । मूढा इति यावत् । 'ग्रामाद्यखजौ' इति यत्प्रत्ययः । तेषां भावस्तमपहातुं मोक्तुमिच्छवो मुमुक्षवो मोक्षार्थिनः अपुनर्निवृत्तये पुनरावृत्तये पुनरावृत्त्यभावाय । मोक्षायेत्यर्थः । दुःखेन गम्यत इति दुर्गं दुष्प्राप्यं एकमेवाद्वितीयं वशिनं स्वतन्त्रं यं हरिं योगमार्गपतितेन ध्यानमार्गनिविष्टेन । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । चेतसा विशन्ति ध्यायन्तीत्यर्थः । यं विशन्ति इह भक्तिमन्त इति पूर्वेणान्वयः ॥ अथ भक्त्युकान्नमस्करोति आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने । विrते भुवमधः सदा च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥ ६५ ॥ आदितामिति ॥ देहिनां प्राणिनामादितां कारणताम् । अन्तोऽन्तकरो नाशहेतुः । ' तत्करोति -' इति ण्यन्तादन्तयतेः पचाद्यच् । तस्य भावस्तत्तामन्ततां च दधते । 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः । स्वयमजननाय जन्मरहिताय । अपायोsस्यास्तीत्यपायी स न भवतीत्यनपायी तस्मा अनपायिने नाशरहिताय च । कालतोऽपरिच्छिन्नायेत्यर्थः । देशतोऽपि तथेत्याह - सदाऽधः पाताले भुवं बिभ्रते कूर्मरूपेण दधते । अथ च तथैव ब्रह्मणो लोकस्याप्युपरि तिष्ठते । सर्वव्यापिन इत्यर्थः । तस्मै । हरय इति शेषः । नमः नमस्कारः । ' नमः स्वस्ति - ' इत्यादिना चतुर्थी । अत्र हरेरनादिनिधनत्वेन तद्वतः पुरुषान्तरादाधिक्यवर्णनाद्व्यतिरेकालंकारः ॥ 1 केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि । धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः || ६६ ॥ केवलमिति ॥ सृजतिश्च संहा च शास्तिश्व सृजतिसंहृशास्तयः । 'सृज विसर्गे' 'हृञ् हरणे' संपूर्वोऽयं ‘शासु अनुशिष्टौ ' इत्येते त्रय इत्यर्थः । ' इति पौधातु'निर्देशे' इति वचनादेवं निर्देशः । धातवो 'भूवादयो धातवः' इत्युक्तलक्षणाः शब्दविशेषाः । इहास्मिन्भगवति विषये केवलमन्ययोगव्यवच्छिन्नं यथा तथा कर्तृवाचिनः कर्तृकारकवाचकान्दधति । तदन्ता एव भवन्तीत्यर्थः । जातु कदाचित्क - Page #367 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३५५ मणि प्रत्ययान्कर्मार्थविहितान्यागादीन् न दधति । न तदन्ता भवन्तीत्यर्थः । सर्वकर्तृत्वान्नियन्तृत्वाच्च सृजति स्रष्टा, संहरति हर्ता, शास्तीति शासितेत्यादिभिः कर्तृत्वेन निर्दिश्यते न कदाचित्सृज्यते, संहियते, शिष्यत इत्यादिभिः कर्मत्वेन । अनादिनिधनत्वादनियम्यत्वाच्चेति भावः । किंच अत्र भगवति स्तौतिः ‘ष्टुञ् स्तुतौ' इति धातुः विपरीत कारकं यस्य सः विपरीतकारकः स्तूयते स्तुत्य इत्यादिकर्मप्रत्ययान्त एव न तु कदाचित्स्तौति स्तोता इत्यादिकर्तृप्रत्ययान्तः । सकललोकस्तुत्यस्य तस्य स्तुत्यन्तराभावादित्यर्थः । अत्र शब्दानां कर्मकर्तृप्रत्ययविधिनिषेधद्वारा विभक्त्यन्तरेण सर्वकर्तृत्वसर्वोपास्यत्वादिसूक्ष्मार्थबोधपरत्वात्सौम्याख्यो गुणः । 'अन्तःसंकल्परूपत्वं शब्दानां सौक्ष्यमुच्यते' इति लक्षणात् । अत्र भगवतः सृष्ट्यादिकर्तृकर्मत्वोभयप्राप्तावेकत्रैकनियमात्परिसंख्या। तत्र जातु कर्मणीति शब्दादेव कर्मत्वनिषेधादितरनिवृत्तिः, शब्दात्स्तुती कर्तृत्वनिवृत्तिरार्थीति भेदद्वयसंसर्गः । अनया च भगवतः पुरुषान्तराधिक्यप्रतीतेर्यतिरेकश्च प्रतीयत इत्यलंकारेणालंकारध्वनिः ॥ पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ । तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥६७ ॥ पूर्वमिति ॥ एप हरिः पूर्व प्रथममपः स्पृष्टवान् । किलेत्यैति । तास्वप्सु अनिवार्य वीर्य रेतः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । आदधावाहितवान् , तवीर्यं तु हिरण्यस्य स्वर्णस्य विकारः हिरण्मयम् । 'दाण्डिनायन-' इत्यादिना निपातः। ब्रह्मणश्चतुर्मुखस्य कारणमभूत् । ब्राह्ममण्डं जातमित्यर्थः । असौ तदुत्पन्नो ब्रह्मा ब्रह्माण्डमिदं जगदसृजत् । सर्वस्यापि प्रपञ्चस्यायमेव मूलकारणमिति भावः । अत्र मनुः-'अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवढेमं सहस्रांशुसमप्रभम् ॥ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥' इति । अत्र वीर्यमनिवार्यमिति वृत्त्यनुप्रासः ॥ अथैनं त्रिभिर्विशिनष्टिमत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥६८॥ मत्कुणाविवेत्यादिना ॥ पुरा पूर्व परिप्लवौ चञ्चलौ । मुहुरितस्ततश्वलन्तावित्यर्थः । 'चञ्चलं चपलं तूर्णं पारिप्लवपरिप्लवे' इत्यमरः । मधुकैटभावसुरविशेषौ मत्कुणौ सुप्तासृक्पायिनौ मलोद्भवौ कीटविशेषौ ताविवेत्युपमा । सिन्धुनाथः सरिस्पतिः स एव शयनं तत्र निषेदुषो निषण्णस्य । समुद्रशायिन इत्यर्थः । 'भाषायां सदवसश्रुवः' इति लिटः कसुरादेशः। विभोः प्रभोः यस्य हरेः क्षणं निद्रायाः संबन्धिनः, आगतं वा नद्रं यत्सुखं तस्य विघ्नतां विधातुं कर्तुं गच्छतः स गतौ । तादृशावपि महासुरौ मत्कुणाविव क्षणमात्रेण प्रणष्टाविति भगवतः प्रभावातिशयोक्तिः । एषां त्रयाणां पूर्वेणान्वयः ॥ Page #368 -------------------------------------------------------------------------- ________________ ३६६ शिशुपालवधे श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् । श्रीमुखेन्दुसविधेऽपि शोभते यस नाभिसरसीसरोरुहम् ॥६९॥ श्रौतेति ॥ श्रौतमार्गस्य सुखं सुखकरं यद्गानं तस्य कोविदोऽभिज्ञः । कोविदो व्याख्यातः। स चासौ ब्रह्मा स एव षट्चरणः स गर्भे यस्य तत् उज्ज्वलं निर्मल यस्य हरेर्नाभिरेव सरसी। सरः कासारः । 'कासारः सरसी सरः' इत्यमरः । तस्यां रोहतीति सरोरुहं पद्मं श्रियो मुखमेवेन्दुस्तस्य संनिधौ समीपेऽपि शोभत इति विरोधः । स च मुखस्येन्दुत्वरूपणायत्त इत्यनयोरङ्गाङ्गिभावेन संकरः ॥ सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् । जन्म विभ्रतमजं नवं बुधा यं पुराणपुरुष प्रचक्षते ॥ ७० ॥ सत्येति ॥ यं हरिं सत्यवृत्तमकपटचरितमपि । मायिनं मायाविनं कपटवन्तमिति विरोधः । माया नाम शक्तिः तद्वन्तमित्यविरोधः । ब्रीह्यादित्वादिनिप्रत्ययः । जगवृद्धं सर्वलोकपितामहत्वात्स्थविरमपि । 'प्रवयाः स्थविरो वृद्धः' इत्यमरः । उचितनिद्रं परिचितयोगनिद्रमभकं डिम्भम् । 'वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि' इत्यागमवचनादिति भावः । 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । न जायत इत्यजो जन्मरहितः । 'अन्येभ्योऽपि दृश्यते' इति जनेर्डप्रत्ययः । तमपि जन्म विभ्रतम् । कामवशात्कृष्णादिजन्मभाजमित्यर्थः । नवं रमणीयत्वादभिनवं तथापि पुराणं प्राचीनमनादिं च पुरुषं प्रचक्षते । बुधा इति वाक्यं सर्वत्र संबध्यते । सर्वेऽपि विरोधा हरेरचिन्त्यमहिमत्वेनाभास्या इति विरोधाभासचतुष्टयसंसृष्टिः ॥ अथ षोडशभिरवतारान्वर्णयिष्यन्वराहावतारं तावदेकेनाहस्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् । उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुंधराम् ॥ ७१ ॥ स्कन्धेति ॥ स्थूलनासिकवपुर्वराहमूर्तिरयं हरिः स्कन्धस्य कंधरायाः धून नेन कम्पनेन विसारिभिरुत्सर्पिभिः केसरैः सटाभिः क्षिप्तोऽवकीर्णः सागरस्य महाप्लवो महापूरः यस्यास्ताम् । जलापसारेण प्रकाशितामित्यर्थः। वसुंधरां भुवं मुहूर्त क्षणमात्रम् । 'मुहूर्तमल्पकालेऽपि' इति शब्दार्णवे । उद्धृतामनावृतत्वात्सागरादुत्क्षिप्तामिव ऐक्षत प्रेक्षितवानित्युत्प्रेक्षा । ईक्षतेर्लङि 'आडजादीनाम्' 'आटश्च' इति वृद्धिः॥ द्वाभ्यां नृसिंहावतारमाहदिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि । दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ ७२ ॥ दिव्येति ॥ दिव्यकेसरिवपुर्दिव्यसिंहमूर्तिः । हरेरायुधैर्वज्रादिभिरपि नैव Page #369 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः । ३५७ लब्धशममप्राप्तशान्ति । दुर्निवारा दुर्जया रणकण्डूर्यस्य तत् । रणव्यसनीत्यर्थः । 'गोखियोरुपसर्जनस्य' इति ह्रस्वः । सुरद्विषो हिरण्यकशिपोर्वक्षः कोमलैर्नखैः निरदारयदभिनत् । वज्राद्यभेद्यस्य कोमलनखविदार्यत्वं भगवत्प्रभावादिति विरोधाभासोऽलंकारः ॥ वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिन्नतः । यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥७३॥ ॥ युग्मकम् ॥ वारिधेरिति ॥ कराग्राणि वीचय इवेत्युपमितसमासः । वारिधेरिवेति लिङ्गात् । ताभिः कराग्रवीचिभिः । दिगन्तवितताभिरिति भावः । अत एव दिङ्मतङ्गजानां मुखान्यभिघ्नतो रोषातिरेकात्प्रहरतो यस्य सिंहमूर्तेर्हरेर्वारिधेरिव चारुनखाः शुक्तय इव । पूर्ववदुपमितसमासः । स्फुरन्मौक्तिकप्रकरोदिग्गज कुम्भसंभूतमुक्ताव्रातो गर्भेऽन्तर्गतो यासां तासां भावस्तत्ता तां दधुः । एष निर. दारयदिति पूर्वेणान्वयः । एतेन नरहरि क्रोधस्य सामर्थ्यं महासुरेऽपि न पर्याप्त - मिति व्यज्यत इति वस्तुना वस्तुध्वनिः । उपमालंकारः ॥ अथ चतुर्भिर्वामनावतारमाहदीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययैौ ॥ ७४ ॥ दीप्तीत्यादि || आत्मना भवतीति आत्मभूः स्वयंभूरपि । अवरजाश्चरमजा अखिलाः प्रजा जना यस्य सोऽपि । सर्वज्येष्ठोऽपीत्यर्थः । अयं हरिः दीप्तिनिर्जितविरोचनाद् ज्योतिर्विजितमार्तण्डात् । विरोचनः प्रह्लादपुत्रः । ' विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने' इत्युभयत्रापि विश्वः । तस्य सुताइलेग भुवमभीप्सतः प्राप्तुमिच्छतोऽभ्याहर्तुमिच्छतः । सन्नन्तादाप्नोतेर्लटः शत्रादेशः । स्वर्पतेरवरजत्वमिन्द्रानुजत्वं ययौ । बलिध्वंसनार्थमिति शेषः । लोकानुग्रहार्थिनः किं न कुर्वन्तीति भावः । अत्राजत्वावरजसामानाधिकरण्यविरोधो भगवत्प्रभावादाभासीकृत इति विरोधाभासोऽलंकारः ॥ किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥७५॥ किमिति ॥ एष वामनः खर्वः । 'खर्वो ह्रस्वश्च वामनः ' इत्यमरः । किं क्रमिष्यति इत्थमनेन प्रकारेण दानवा यावन्नाहसंस्तावत्ततः प्रागेव लङ्घितेऽतिक्रान्ते अर्कशशिमण्डले येन सोऽस्य हरेः क्रमः पादविक्षेपो नभस्तले न ममौ न परिमाणं गतवान् । यथा न माति तथा ववृधे इत्यर्थः । अत्राधारान्नभस्तलादाधेयस्य क्रमस्याधिक्यकथनादधिकालंकारभेदः । आश्रयाश्रयिणोराधिक्यमधिकमिति लक्षणात् ॥ Page #370 -------------------------------------------------------------------------- ________________ ३५८ शिशुपालवधे गच्छतापि गगनाप्रमुच्चकैर्यस्य भूधरगरीयसायिणा । क्रान्तकंधर इवाबलो बलिः स्वर्गभर्तुरंगमत्सुबन्धताम् ॥७६॥ गच्छतेति ॥ गगनाग्रं गगनोपरिभागं गच्छतापीति विरोधः। भूधरगरीयसेत्युपमा । यस्य वामनस्योच्चकैरुन्नतेनाङ्गिणा क्रान्तकंधरोऽवष्टब्धकण्ठ इवाबलो दुर्बलो बलिवैरोचनिः स्वर्गभर्तुरिन्द्रस्य सुखेन बध्यत इति सुबन्धः । ईषहुःसुषु-' इत्यादिना खलप्रत्ययः। तत्तामगमत् गुरुद्रव्यावष्टब्धकण्ठो हि सुखेन बध्यत इति भावः । 'न लोका-' इत्यादिना कृद्योगलक्षणाया एव षष्ट्या निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी। अत्र क्रान्तकंधर इवेत्युत्प्रेक्षाया भूधरगरीयसेत्यु. पमासापेक्षत्वात्संकरः। विरोधेन त्वनपेक्षिता संसृष्टिः ॥ क्रामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् । व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौषमुत्थितम् ॥७७॥ कामत इति ॥ कामतः पादं विक्षिपतोऽस्य संबन्धिनं दूरमायतमलिनीलं भृङ्गश्याममूरुं सक्थि दिवौकसो देवा व्योनि-दिव्यसरितो मन्दाकिन्या अम्बुपद्धत्या जलप्रवाहेण स्पर्धया उत्थितमूर्ध्वतः प्रवृत्तं यमुनौघं यमुनाप्रवाहमिव ददृशुरित्युत्प्रेक्षेयमुपमासंकीर्णा ॥ अवतारान्तरमाहयस किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः। . कान्तवक्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥ ७८ ।। यस्येति ॥ कायनिग्रहेणामृतविभागकाले देहच्छेदेन गृहीतविग्रहो बद्धवैरः कृती कुशलो राहुर्यस्य हरेः किंचिदपकर्तुमक्षमः सन् कान्तं रम्यं यद्वकं हरिमुखं तेन सदृशी आकृतिर्यस्य तम् । तत्सुहृदमित्यर्थः। इन्दुमधुनापि बाधते पीडयति । उपरागमिषेणेति भावः । अत्र साक्षात्प्रतिपक्षहरिनिग्रहाशक्त्या राहोस्तदीयेन्दुनिग्रहोक्त्या प्रत्यनीकालंकारः । तथा च सूत्रम्- ‘प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम्' इति ॥ दत्तात्रेयावतारमाहसंप्रदायविगमादुपेयुषीरेप नाशमविनाशिविग्रहः। सर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ ७९ ॥ संप्रदायेति ॥ अविनाशिविग्रहोऽनपायस्वरूपः अत एव अप्रतिहता स्मृतिः स्मरणशक्तिर्यस्य स एष हरिः संप्रदाय उपदेशपरम्परा तस्य विगमादपायान्नाशं कालदोषाध्ययनविच्छेदमुपेयुषीः प्राप्ताः । 'उगितश्च' इति ङीप्। श्रुतीर्वेदान् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । स्मर्तुम् । श्रुतिसंप्रदाय प्रवर्तयितुमित्यर्थः । दत्त इति विख्यात इति शेषः । अत्रिगोत्रे जातोऽत्रिगोत्रजोऽभवत् । दत्तात्रे Page #371 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३५९ योऽभूदित्यर्थः । अत्रानपायित्वस्मृत्यप्रतिघातयोर्विशेषणगत्या श्रुतिस्मृतिहेतुवोत्या काव्यलिङ्गम् ॥ परशुरामावतारमाहरेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहतिः । लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ ८॥ रेणुकेति ॥ अयं हरिः रेणुकातनयतां परशुरामत्वमुपागतः सन् । अर्जुनः कार्तवीर्यार्जुनः । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः' इत्यनेकार्थेऽपि रेणुकेयविरोधित्वान्निश्चयः । तदुक्तं हरिणा-'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति । स एव वनं तत् । शातिता छिन्ना प्रचुरा प्रभूता पत्रसंहतिर्वाहनसमूहः पर्णसंघातश्च यस्य तत् । 'पत्रं स्याद्वाहने पर्णे' इति विश्वः । लूनाश्छिन्ना भूरयः प्रचुरा भुजा एव शाखा यस्य तत् । उज्झिता छाया कान्तिरनातपश्च यस्य तत्तथा व्यधाद्विहितवान् । दधातेलुङि 'गातिस्था-' इत्यादिना सिचो लुक् । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । अत्र समस्तवस्तुविषयं सावयवं रूपकं व्यक्तं तच्च छायेति पत्रेति च श्लेषप्रतिभोत्थापिताभेदातिशयोक्त्यानुप्राणितमिति संकरः ॥ रामावतारमाहएष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि । राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ ८१॥ एष इति ॥ किंचेति चार्थः । रक्षितप्रजः एष हरिदशरथस्यापत्यं पुमान्दाशरथी रामः । 'अत इञ्' तस्य भावः दाशरथिभूयं रामत्वम् । 'भुवो भावे' इति क्यप् । एत्य प्राप्य ध्वंसितो हत उद्धृतो दृप्तो दशाननो रावणो यस्यां तामपि राक्षसी रक्षःसंबन्धिनी पुरी लङ्कां तेजसा स्ववीर्येणाधिकविभीषणामन्यन्तभीषणामकृतेति विरोधः। भयहेतोरुद्धतस्य रावणस्य ध्वंसनादधिको महाविभीषणो रावणानुजो यस्यां तामित्यविरोधः । अत एव विरोधाभासोऽलंकारः ।। अथ पञ्चभिः प्रस्तुतं कृष्णावतारमाहनिष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा । संप्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ ८२॥ निष्प्रहन्तुमिति ॥ अथ रामावतारानन्तरं अयं हरिः अमरेशविद्विषां निष्प्रहन्तुम् । चैद्यादी निन्द्रशत्रून्हन्तुमित्यर्थः । 'जासिनिग्रहण-' इत्यादिना कर्मणि षष्ठी । स्वयंभुवा ब्रह्मणा स्वयमात्मनैवार्थितः प्रार्थितः सन् संप्रतीदानीं वसुदेवरूपिणो वसुदेवमूर्तिधरस्य कश्यपस्य पुत्रतां श्रयति व्रजति । कृष्णरूपेणेति भावः । Page #372 -------------------------------------------------------------------------- ________________ ३६० शिशुपालवधे अत्र स्वयंभूप्रार्थनाया विशेषणगत्या वसुदेवपुत्रताप्राप्तिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे । यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः॥ ८३॥ तातेति ॥ सुरौघवल्लभः सुरगणप्रियः । जगत्पतियों हरिः सुरैर्देवैर्बल्लवैर्गोपैश्च हे तात जनक, नेति छेदे, उदधिविलोडनं समुद्रमथनं प्रति, नो इति छेदे, दधिविलोडनं दधिमन्थनं च प्रति त्वद्विना । त्वां विहायेत्यर्थः। 'पृथग्विना-' इत्यादिना विकल्पात्पञ्चमी । अथ वयं न नो वोल्सहामहे न क्षमामहे इति जगदे गदितम् । अत्र हरिवर्णनाङ्गत्वे सुराणां बल्लवानां च प्रकृतानामेव नोदधिशब्दमूलाभेदाध्यवसायलब्धदध्युदधिविलोडनक्षमत्वकर्मसाम्यागम्यौपम्यत्वात्तुल्ययोगिताभेदः । तेन च हरेर्दधिमन्थनकलावदुदधिमन्थनमपीति वस्तु व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् । योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥८४॥ नात्तगन्धमिति ॥ किंचेति चार्थः । यो हरिः शत्रुभिरवधूयाभिभूय नात्तगन्धमनाघ्रातसौरभमनभिभूतं च। 'आत्तगन्धोऽभिभूतः स्यान्' इत्यमरः । नजर्थस्य नशब्दस्य सुप्सुपेति समासः। छाययानातपेन, पालनेन च 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कर्षयोः कान्तिसच्छोभापतिषु स्त्रियाम्' इति विश्वः। शमितामरश्रमं निवारितसुरखेदं पारिजात वृत्रद्विषः शक्रस्याभि'मानमहंकारमिव दिवः स्वर्गादुदमूलयदुन्मूलितवानिति पारिजातहरणोक्तिः । श्लेषसविशेषणेयमुपमेति केचित् । श्लेषवच्चान्ये ॥ यं समेत्य च ललाटलेखया विभ्रतः सपदि शंभुविभ्रमम् । चण्डमारुतमिव प्रदीपवचेदिपस्य निरवाद्विलोचनम् ॥ ८५ ॥ यमिति ॥ किंचेति चार्थः । ललाटमेव लेखा तया ललाटलेखया ललाटदे. शेन शंभोर्विभ्रमं सौन्दर्य विभ्रतः । ललाटलोचनमित्यर्थः । चेदिपस्य शिशुपालस्य लोचनं तृतीयनेत्रं कर्तृ यं हरिमेव चण्डमारुतं चण्डमारुतमिव समेत्य प्रदीपवत्प्रदीपेन तुल्यम् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । निरवान्निति स्म। नष्टमित्यर्थः । निपूर्वाद्वाधातोर्लङ् । 'निरवाप' इति काचित्कः पाठः स न सम्यक् । वातेः प्रक्रियाविरोधादामोतेरसंगतार्थत्वादिति अनेकार्थेयमुपमा ॥ यः कोलतां बल्लवतां च विभ्रदंष्ट्रामुदस्याशु भुजां च गुर्वीम् । मनस तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥८६॥ य इति ॥ यो हरिः कोलतां वराहत्वम् । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । बल्लवतां गोपालत्वं च बिभ्रत् । आशु गुर्वी दंष्ट्रां भुजां Page #373 -------------------------------------------------------------------------- ________________ चतुर्दशः सर्गः। ३६१ च यथासंख्यमिति भावः । उदस्योद्यम्य दुस्तरायां तोयापदि जलसंकटे एकत्र समुद्रकृतायां, अन्यत्र वर्षकृतायां च मग्नस्य गोमण्डलस्य भूगोलस्य, धेनुवृन्दस्य चोद्धरणं चकार । अत्र कोलत्वबल्लवत्त्वयोः प्रकृतयोरेव श्लेषमूलाभेदाध्यवसायेन गोमण्डलोद्धरणस्य दंष्ट्राभुजोद्यमनस्य च साम्यादौपम्यगम्यतायां तुल्ययो. गिता सती यथासंख्येन संकीर्यते । इन्द्रवज्रा वृत्तम् । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति लक्षणात् ॥ एवं देवं स्तुत्वानन्तरं कर्तव्यमुपदिशतिधन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः। दत्त्वाघमत्रभवते भुवनेषु याव संसारमण्डलमवाप्नुहि साधुवादम् ॥ ८७॥ धन्योऽसीति ॥ धनं लब्धा धन्यः पुण्यवानसि । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । 'धनगणं लब्धा' इति यत्प्रत्ययः । यस्य ते एष हरिः समक्ष एव अक्षणोः समीप एव । पुरत एवेत्यर्थः । स्थित इति शेषः । सामीप्येऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तः । अत एव 'तृतीयास. प्सम्योर्बहुलम्' इति सप्तम्या अमभावः। अन्यत्र को विशेषस्तत्राह-यो हरिदूरादपि परोक्षेऽपि ऋतुषु यागेषु यज्वभिर्विधिवदिष्टवद्भिः। 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजो निप्' इति कनिष्प्रत्ययः। इज्यते पूज्यते स ते प्रत्यक्ष इति धन्यस्त्वमित्यर्थः । फलितमाह-अत्रभवते पूज्यायेत्यर्थः । 'पूज्यस्तत्रभवान्' इति सज्जनः । इतरेभ्योऽपि दृश्यते' इति सार्वविभक्तिके बलप्रत्यये सुप्सुपेति समासः । अर्घ पूजां दत्त्वा यावत्संसारमण्डलं वर्तते तावदिति शेषः । भुवनेषु साधुर्वादः शब्दस्तं साधुवाद साधुसमाख्यामवाप्नुहि । लभस्वेत्यर्थः । अत्र राज्ञो धन्योऽसीति विशेषणगत्या यस्येत्यादिवाक्यार्थहेतुत्वात्पदार्थहेतुकं काध्यलिङ्गमलंकारः । वसन्ततिलका वृत्तम् ॥ भीष्मोक्तं तदिति वचो निशम्य सम्य- क्साम्राज्यश्रियमधिगच्छता नृपेण । दर्तेऽर्थे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥ ८८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयङ्के श्रीकृष्णार्घदानो नाम चतुर्दशः सर्गः ॥ १४ ॥ भीष्मेति ॥ 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्' इत्यमरः । सम्राजो भावः साम्राज्यं तदेव श्रीस्तां श्रियमधिगच्छता शिशु० ३१ Page #374 -------------------------------------------------------------------------- ________________ ३६२ शिशुपालवधे भजता नृपेण युधिष्ठिरेण इतीत्थं भीष्मोक्तं तद्वचः सम्यनिशम्य श्रुत्वा । महीभृतां राज्ञां पुरोऽये महति अर्धे पूजायां दत्तेऽपि मधुभिद्धरिः त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्णादित्वात्स्वार्थे प्यञ्प्रत्ययः । तत्र त्रैलोक्ये कृष्णोऽनर्घः पूजारहित एवाभूदिति विरोधः । अमूल्य एवाभूदित्यविरोधः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । अत्रार्घयोरभेदाध्यवसायाद्विरोधः, तदनध्यवसायादविरोध इति विरोधाभासोऽलंकारः । प्रहर्षिणी वृत्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध काव्यव्याख्यायां सर्वकषाख्यायां चतुर्दशः सर्गः ॥ १४ ॥ पञ्चदशः सर्गः। अथ तत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्॥१॥ अथेति ॥ अथ हरिपूजानन्तरं चेदिपतिः शिशुपालः तत्र सदसि सभायां पाण्डुसुतेन युधिष्ठिरेण विहितं मुरद्विषो हरेर्मानं पूजां नासहत । ईर्ष्या चकारेत्यर्थः । 'परोत्कर्षाक्षमा स्याद्दौर्जन्यान्मन्युतोऽपि च' इति लक्षणात् । तथा हि-मानिनामहंकारिणां मनः परवृद्धौ मत्सरि हि। परशुभद्वेषि खल्वित्यर्थः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । अस्मिन्सर्गे उद्गता वृत्तम् । 'सजसादिमे सलघुके च नसजगुरुकेऽप्यथोदता । अङ्गितभजनजला गयुताः सजसां जगौ चरणमेकतः पठेत् ॥' इति लक्षणात् ॥ पुर एव शाङ्गिणि सवैरमथ पुनरमुं तदर्चया । मन्युरभजदवगाढतरः समदोपकाल इव देहिनं ज्वरः ॥२॥ पुर इति ॥ पुरः पूर्वमेव शाहिँणि सवैरं सक्रोधममुं चैद्यं अथ पुनः अतःपरं तदर्चया हरिपूजया अवगाढतरो निबिडतरो मन्युः क्रोधः । रौदरसस्य स्थायीभाव इति भावः । देहिनं शरीरिणं समौ तुलितौ दोषोऽपथ्यसेवा काल: कर्मविपाकश्च यस्य स ज्वर इवाभजत् । उपमालंकारः ॥ अथाष्टभिरस्य गात्रारब्धक्रोधचेष्टां प्रपञ्चयतिअभितर्जयन्निव समस्तनृपगणमसावकम्पयत् । लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्रयं शिरः॥३॥ अभीत्यादि ॥ असौ चैद्यः । समस्तनृपगणमभितर्जयन्निवेत्युत्प्रेक्षा । 'तर्ज Page #375 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३६३ भर्त्सने' चौरादिकस्यानुदात्तत्वेन प्राप्तस्य आत्मनेपदस्य चक्षिङादेशस्य ख्याजः स्थानिवद्भावानादरेण पुनर्जित्करणसामर्थ्यादनित्यत्वज्ञापनात्परस्मैपदम् । अत एव तर्जयतीत्यपि दृश्यते कविष्विति भट्टमल्लः। अशनैरतिमानं प्रकम्पितं जगअयं येन तत् त्रैलोक्यभीषणं शिरः शनैलॊलाश्चपला मुकुटमणिरश्मयो यस्मिन्कर्मणि तद्यथा तथा अकम्पयत् । क्रोधातिरेकादिति भावः ॥ स वमन्रुपाश्रु धनधर्मविगलदुरुगण्डमण्डलः। खेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥४॥ स इति ॥ रुपा रोषेणाश्रु वमन्मुञ्चन् । घनेन सान्द्रेण धर्मेण क्रोधोष्मणा विगलत्स्रवदुरु महत् गण्डमण्डलं यस्य सः। स्विद्यत्कपोल इत्यर्थः। स्वेदजलकणैः स्वेदबिन्दुभिः करालकरो दन्तुरहस्तः स चैद्यः त्रिधा नेकपोलहस्तदेशैः प्रभिन्नो मदस्रावी मत्तः । 'प्रभिन्नो मत्तः स्यात्' इति वैजयन्ती। कुञ्जर इव व्यरुचत् । रुचेः 'द्युयो लुङि' इति विकल्पात्परस्मैपदम् । एतेन स्वेदाख्यः सात्विकभाव उक्तः । उपमालंकारः ॥ ' स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः । क्षिप्तबहुलजलविन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः॥५॥ स इति ॥ राज्ञां समूहो राजकम् । 'गोत्रोक्ष-' इत्यादिना बुञ्प्रत्ययः । तदवधूतमभिभूतं येन स तथोक्तः स वेद्यो निकामं घर्मितं संजातधर्मम् । उद्भवत्स्वेदमित्यर्थः । 'धर्मः स्यादातपे ग्रीष्म उष्णस्वेदाम्भसोरपि' इति विश्वः । तारकादित्वादितच्प्रत्ययः । वपुः प्रलये अर्णवस्तस्मादुत्थितः आदिशूकर इव क्षिप्ताः प्रेरिता बहुलाः सान्द्राः जलबिन्दवो यस्मिन्कर्मणि तद्यथा तथा अभीक्ष्णमधुवत्क्रोधाद्धुवति स्म। 'धून विधूनने' इति धातोस्तौदादिकाल्लङ् । अत्रापि स्वेदः सात्विक एवोक्तः । उपमालंकारः ॥ क्षणमाश्लिपद्धटितशैलशिखरकठिनांसमण्डलः। स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥६॥ क्षणमिति ॥ घटितं सुसंहितं यच्छैलशिखरं तद्वत्कठिनमंसमण्डलं यस्य सोऽसौ चैद्यः उपहितावगाहिता । आरोपितेत्यर्थः । विधूतिः कम्पो यस्मिंस्तम् । अधिकमत्यन्तमवधूनिता कम्पिता समस्ता सकला संसत्सभा येन तं स्तम्भं क्षणं आश्लिषञ्छृिष्टवान् । तेनांसमण्डलेनाहतवानित्यर्थः । अत एव कठिनांसमण्डल इति विशेषणं च । पुषादित्वाच्लेरङादेशः । आलिङ्गनार्थत्वे तु 'श्लिष आलिङ्गने' इति १ 'जित्त्वस्य पदद्वयार्थ कृतत्वेनाज्ञापकत्वादिदमसंगतम् । तस्मात् विचक्षण इत्यत्र युजर्थ. मावश्यकेनानुदात्तेत्वेनात्मनेपदे सिद्धे ङित्करणसामर्थ्यात् 'अनुदात्तेत्त्वलक्षणमात्मनेपद मनित्यम्' इत्यस्य सिद्धिर्वक्तव्या'. Page #376 -------------------------------------------------------------------------- ________________ ३६४ शिशुपालवधे वसादेशः स्यात् । क्रोधान्धाः किमु न कुर्वन्तीति भावः । अत्रांसकाठिन्यस्य विशेषणगत्या स्तम्भाश्लेषहेतुत्वाकाव्यलिङ्गं शैलशिखरोपमया संकीर्यते ॥ कनकाङ्गदद्युतिभिरस गमितमरुचत्पिशङ्गताम् । क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ७ कनकेति ॥ कनकस्याङ्गदयोः केयूरयोः धुतिभिः पिशङ्गतां पिङ्गलवर्णता गमितं प्रापितमिति तद्गुणालंकारः । अस्य चैद्यस्य बाहुमण्डलं क्रोधमयशिखिशिखापटलैः क्रोधाग्निज्वालाजालैः परितः परीतं परिवृतमिवारुचदित्युत्प्रेक्षा । 'शुन्यो लुङि' इति परस्मैपदम् ॥ कृतसंनिधानमिव तस्य पुनरपि तृतीयचक्षुषा । क्रूरमजनि कुटिल गुरुभ्रुकुटीकठोरितललाटमाननम् ॥ ८॥ कृतेति ॥ कुटिले ध्रुवौ यस्य तत्कुटिल । उपसर्जनस्य ह्रस्वः। गुऱ्या भृकुट्या भ्रूभङ्गेन कठोरितं भीषणीकृतं ललाटं यस्य तत् तस्य चैद्यस्याननं पुनरपि तृतीयचक्षुषा कृतसंनिधानं कृतसंसर्गमिवेत्युत्प्रेक्षा। क्रूरमजनि भयंकरमभूत् । जनेः कर्तरि लुङ् 'दीपजन-' इत्यादिना विकल्पाच्चिण्प्रत्ययः॥ अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे । दृष्टिरगणितभयासिलतामवलम्बते स समया सखीमिव ॥९॥ अतिरक्तेति ॥ अमुष्य चैद्यस्य दृष्टिः । अतिरक्तस्य भावो धर्मस्तमतिरक्तभावं रोषातिरेकादत्यरुणतामन्यत्र कर्मातिरेकादत्यनुरागितामुपगम्य प्राप्य । साहसे कृष्णादिवधरूपे, अन्यत्र युद्धे कृतमतिः सर्वथा गमिष्यामि हनिष्यामि इति च कृतनिश्चयोऽर्थनिर्धारणं मतिरिति । अगणितमविचारितं भयं शत्रोर्गुरुजनाञ्च यया सा सती समया समीपे असिलतां सखीमिवालम्बते स्म साधनत्वेन स्वीचकार । क्रोधाजिघांसया खड्गमद्राक्षीदित्यर्थः । अत्र प्रस्तुतदृष्टिविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्तिरुपमासंकीर्णा ॥ करकुङ्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् । त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोचकैः ॥१०॥ करेति ॥ अय चैद्यः उरुतरो महत्तरो नगाश्मवच्छैलशिलेव कर्कश इत्युपमा। तं निजमात्मीयमूरु सक्थि। 'सक्थि क्लीवे पुमानूरुः' इत्यमरः । करः कुङ्मल इवेत्युपमितसमासः । तेन संहतप्रसारिताङ्गुलिना पाणितलेनेत्यर्थः । त्रस्तो भीतः अत एव चपलं चञ्चलं चलमानेन जनेन श्रुतो भीमनादो भयंकरध्वनिर्यस्मिन्कर्मणि तद्यथा तथा उच्चकैराहत आहतवान् । अलब्धलक्ष्याः क्रोधान्धाः स्वात्मानमेव घ्नन्तीति भावः। आपूर्वाद्धन्तेर्लङ् 'आङो यमहनः' इत्यकर्मकाधिका Page #377 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। रेपि 'स्वाङ्गकर्मकाच्चेति वक्तव्यम्' इत्यात्मनेपदे 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः ॥ इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् । याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः॥११॥ इतीति ॥ इतीत्यमनेन प्रकारेण अनेन चैद्येन भृशं चुक्रुधे क्रुद्धम् । भावे लिट् । संवृतिमदपि संवृतिर्विकारगुप्तिः तद्वदपि । धीरमपीत्यर्थः । मनो महद्विप्रियमप्रियमवाप्य विकृतिं विकारं याति ननु प्राप्नोति खलु । यन्मनो निस र्गात्स्वभावान्निरवग्रहम् । चपलमित्यर्थः । ग्रहेः खलप्रत्ययः । तदिति शेषः । किमु । विकृति यातीति किमु वक्तव्यमित्यर्थः । चपलचित्तश्चायं चैद्य इति भावः। अत्र चैद्यक्रोधस्य नन्वित्यादिवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ एवं गात्रारब्धविकारानुक्त्वा वागारब्धान्वक्तुमुपोद्धातयतिप्रथमं शरीरजविकारकृतमुकुलवन्धमव्यथी । भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥१२॥ प्रथममिति ॥ न व्यथते विभेतीत्यव्यथी निर्भयः। 'जिदृक्षि-' इत्यादिना नपूर्वाड्यथतेरिनिः । असौ चैद्यः प्रथमं शरीरविकारैः पूर्वोक्तैः शिरःकम्पनादिभिः कृतो मुकुलवन्धो सुकुलप्रादुर्भावो यस्य तत् । भाविकलहस्य रणस्यैव फलस्य योगो यस्य तत् । 'अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः । कोप एव कुसुमं तत् वचनेन 'यदपूपुज' इत्यादि वक्ष्यमाणवाक्येन व्यचीकस. द्विकासयति स्म । कसेः ‘णौ चड्युपधाया ह्रस्वः' । 'दीर्घो लघोः' इत्यभ्यासदीर्घः । अत्र विकारकलहवचनकोपेषु मुकुलफलविकासकुसुमत्वरूपणात्समस्तवस्तुवर्तिसावयवरूपकम् ॥ ध्वनयन्सभामथ सनीरधनरवगभीरवागभीः। वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरामसौ ॥ १३ ॥ ध्वनयन्निति ॥ अथ सनीरघनरवगभीरवाक् । सजलमेघगर्जितगभीरस्वर इत्यर्थः । अभीः निर्भीकः असौ चैद्यः सभामास्थानं ध्वनयन्नतिरोषवशादतिनिष्टराण्यतिपरुषाणि स्फुटतराणि चाक्षराणि यस्यास्तां वाचमवदत् । धनरवगभीरेत्युपमालंकारः॥ वाचमवददित्युक्तम् , अथ तामेव प्रपञ्चयन्पञ्चभिः पाण्डवोपालम्भमाहयदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते॥१४॥ १ वल्लभेन त्वितः प्रभृति अष्टत्रिंशत्संख्याक (अयमुग्रसेन) श्लोकपर्यन्तं व्याख्यानं न कृतम् । किंतु अग्रे मल्लिनाथेन प्रक्षिप्तत्वेन निर्दिष्टा एव व्याख्याताः। १२९९ शकलिखितपुस्तके त्वेतेऽपि श्लोका उपलभ्यन्ते । तेऽपि च । Page #378 -------------------------------------------------------------------------- ________________ शिशुपालवधे यदित्यादि ॥ हे पार्थ पृथापुत्रेति मातृप्राधान्येनामन्त्रणं मर्मोद्धाटनार्थम् । सतामपूजितम् । सद्भिरपूज्यमानमित्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । 'क्तस्य च वर्तमाने' इति षष्ठी । मुरजितं कृष्णं इह सदसि यद्यस्मादपूपुजः पूजयसि स्म । णौ चङ्युपधाया हूस्वः' । तत्तस्मान्महत्प्रेम विलसति स्फुरति । अन्यथा कथमपूज्ये पूज्यत्वाभिमान इत्यभिप्रेत्याह-जनो लोकः दयितं प्रियं जनं गुणीति मन्यते खलु । अगुणिनमपीत्यर्थः । अहो आश्चर्यम् । कृष्णः प्रेम्णा पूजितो न गुणादिति भावः । अत्र प्रेमविलसितस्योत्तरवाक्यार्थहेतुकं काव्यलिङ्गम् ॥ यदराज्ञि राजवदिहार्यमुपहितमिदं मुरद्विपि । ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥१५॥ यदिति ॥ अराज्ञि। अभिषेकादिराजगुणविरहिणीत्यर्थः । 'नजस्तत्पुरुषात्' इति समासान्तप्रतिषेधः । इहास्मिन्मुरद्विषि कृष्णे। अपात्रत्वद्योतनार्थमसंप्रदानवि. भक्तिनिर्देशः । राजानमहतीति राजवद्वाजाहम् । तदहमिति वतिप्रत्ययः तद्धितश्वासर्वविभक्तिः' इत्यव्ययत्वम् । यदिदमय॑मर्धार्थ द्रव्यम् । अर्हणमित्यर्थः। उपहितमर्पितं तदर्थ्यमयं कृष्णः महीशा अवनिपा वह्नय इवेत्युपमितसमासः । तेषु महीशवहिषु ज्वलत्सु सत्सु, अन्यत्र महीशा इव वह्नयस्तेषु ज्वलत्सु सत्स्वि. त्यर्थः । ग्राम्यमृगः शुनको हविरिव न भजते न प्राप्नोति । उपमालंकारः॥ अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे । निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता॥१६॥ अनृतामिति ॥ हे पार्थ, अनृतामसत्यां गिरं न गदसि न वदसीति जगति लोके पटहैर्वाद्यविशेषैः कर्तृभिर्विघुष्यसे उद्घोष्यसे । अथ च तथापि निन्धं हरिमर्चयतस्तव कर्मणा अपूज्यपूजाकरणेनैवासत्यता सत्यहीनता विकसति प्रकाशते । अनासत्यप्रसिद्धसत्याचरणयोर्विरूपयोर्घटनाद्विरूपघटनारूपो विषमालंकारः॥ तव धर्मराज इति नाम कथमिदमपष्ठ पठ्यते । भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः॥१७॥ तवेति ॥ हे पार्थ, तवेदं धर्मराज इति नाम कथमपतु असत्यमेव पठ्यते । 'अपदुःसुभ्यः स्थः' इत्यौणादिकः कुप्रत्ययः । 'अम्बाम्बगोभूमि-' इत्यादिना षत्वम् । यद्वा युक्तमेव तदित्याह-अथवा जनाः भृशमप्रशस्तमपि भौमदिनमङ्गारकवारं मङ्गलमभिदधति व्यपदिशन्ति तद्वदिदमपीत्यर्थः । लोकैरप्रशस्तं प्रशस्तशब्देन विरुद्धार्थेनापि व्यपदिश्यते तदुच्चारणदोषात्तद्वधर्मराजस्यापि ते धर्मराजव्यपदेश इति भावः । अत्र धर्मराजभौमदिनयोर्निरपेक्षवाक्यद्वये प्रतिबिम्बकरणादृष्टान्तालंकारः॥ Page #379 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३६७ यदि वार्चनीयतम एप किमपि भवतां पृथासुताः। शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमत्रितः॥१८॥ यदि वेति ॥ हे पृथासुताः कौन्तेयाः, एप शौरिर्वा । शौरिरेवेत्यर्थः । 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वः । किमपि कथमपि भवतामर्चनीयतमो यदि पूज्यश्चेत् । तहीति शेषः । अवमानस्तिरस्कारः तस्मै तदर्थमेव । अर्थन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । क्रियाविशेषणम् । निमत्रितैराहते. निखिलैरवनिपतिभिरिह किम् । कोऽर्थः साध्य इत्यर्थः । अत एव साधनक्रियापेक्षया करणत्वे तृतीया । अत्र गम्यमानक्रियापेक्षयापि कारकवृत्तिरिति न्यासद्योते । अत्र सकलराजनिषेधस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ अथ त्रिभिर्भीप्मोपालम्भमाहअथ वा धर्ममसुबोधसमयमवयात वालिशाः । काममयमिह वृथापलितो हतबुद्धिरप्रणिहितः सरित्सुतः॥१९॥ अथेत्यादि ॥ अथवा बालिशा मूर्खाः । यूयमिति शेपः । सुबोधो न भवतीत्यसुबोधो दुर्बोधः समय आचारो यस्य तं धर्मं नावयात न जानीत । अवपूर्वाद्याधातोलॉटः 'तस्थस्थ-' इत्यादिना थस्य तादेशः । किंतु वृथा निष्फलं पलितं यस्य स वृथापलितः। वृथापरिणत इत्यर्थः । 'पलितं जरसा शौक्यम्' इत्यमरः। वृथात्वे हेतुः । हतबुद्धिष्टमतिरयं सरित्सुतो भीमोऽपि काममप्रणिहितोऽनवहितः प्रमतः । बालाः पार्था न जानन्तु हन्त वृद्धोऽपि न जानातीति चित्रमित्यर्थः । अत एव सत्यपि कारणे कार्यानुदयाद्विशेषोक्तिरलंकारः । तथा बालिशत्वधर्मदुर्बोधत्वयोर्विशेषणगत्या धर्मज्ञानाहेतुत्वात्काव्यलिङ्गं चेत्यनयोः सापेक्षत्वात्संकरः ॥ स्वयमेव शन्तनुतनूज यमपि गणमय॑मभ्यधाः। तत्र मुररिपुरयं कतमो यमनिन्द्यवन्दिवदभिष्टुपे वृथा ॥२०॥ स्वयमेवेति ॥ हे शन्तनुतनूज भीष्म । स्वयमेवेत्यर्थः । यमपि गणं वर्गमय॑मर्हि पूज्यम् । 'दण्डादिभ्यो यत्' इति यत्प्रत्ययः । अभ्यधा अवोचः । 'स्नातकं गुरुम्' इत्यादिश्लोक इति भावः । धाधातोर्लडिः 'गातिस्था-' इत्यादिना सिचो लुक् । तत्र स्नातकादिगणे अयं मुररिपुः कतमः । न कोऽपीत्यर्थः । मास्तु अस्तु वा अस्मदुपालम्भे को हेतुरत आह-यमिति । यं मुररिपुमनिन्द्यबन्दिवत्प्रगल्भवैतालिकवदित्युपमा । अभिष्टये मिथ्या स्तौषि । अतस्त्वमेवोपलभ्यस इति भावः । 'उपसर्गात्सुनोति-' इत्यादिना षत्वम् ॥ अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् । नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः २१ अवनीति ॥ अतिजडोऽतिमूढोऽतिशीतश्च चपलोऽस्थिरः सत्वरश्च त्वं समु. Page #380 -------------------------------------------------------------------------- ________________ ३६८ शिशुपालवधे नतमुन्नतमवनीभृतां राज्ञां भूधराणां च गणमपहाय । न्यञ्चतीति न्यङ् तस्सिश्रीचि नीचवृत्ते, निन्ने च । 'अचः' इत्यकारलोपे 'चौ' इति दीर्घः। इहास्सिकृष्णे यद्यस्मानियतं नित्यं निरतोऽनुरक्तः प्रवणश्च स इति शेषः । निम्नं नीचं गच्छतीति निम्नगा नदी। 'डोऽन्यत्रापि दृश्यते' इति डप्रत्ययः। तस्याः सुतो भवसि स्फुटं व्यक्तम् । नीचनिरतत्वादिधर्मसंक्रमादिति भावः । उक्तं च–'न पित्र्यमनुवर्तन्ते मातृकं द्विपदाः' इति । अत्र चतुर्थपादार्थस्य पूर्ववाक्यार्थहे. तुकत्वात्काव्यलिङ्गभेदः ॥ अथ सप्तदशभिः कृष्णोपालम्भं करोतिप्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमहणम् । कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता २२ प्रतिपत्तुमिति ॥ हे अङ्ग, तव नृपयोग्यं राजाहमर्हणं पूजनं प्रतिपत्तुं स्वीकर्तुं न च घटते न युज्यते। नन्वहमपि राजैव कथमहणं मे न युक्तं तत्राहकृष्णेति । हे कृष्ण, अहं क इति कलय । अहं राजा न वेति निजस्वरूपमालोच. येत्यर्थः । अनालोचनेऽनर्थमाह-अनात्मवेदिता अनात्मज्ञत्वं आपदां पदं स्थानं स्फुटं खलु । सत्यमित्यर्थः । आत्मा च कंसकिङ्करस्तस्य पशुपालकत्वादिति भावः । अतो निजस्वरूपं चिन्त्यमिति हेतुमद्भावात्काव्यलिङ्गमिति ॥ असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते । दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥२३॥ असुर इति ॥ मधुरिति कोऽप्यसुरस्त्वया न्यवधि हतः । 'आत्मनेपदेष्वन्यतरस्याम्' इति हन्तेलङि विकल्पाद्वधादेशः। इति कथं प्रतीयते विश्वस्यते । न कथंचिदित्यर्थः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । किंतु दण्डेन दलिता ध्वस्ता सरघा मधुमक्षिका येनेदृशस्त्वम् । 'सरघा मधुमक्षिका' इत्यमरः । अत एव मधु क्षौद्रं सूदयन्पीडयन्मधुसूदन इति प्रथसे प्रथितोऽसि । मक्षिकासूदनमेव मधुसूदनसंज्ञाप्रवृत्तिनिमित्तं, न तु मधुनाम्नो दैत्यस्य सूदनमित्यर्थः । अत्र मधुसूदनसंज्ञायां प्रसिद्धार्थनिषेधस्योत्तरवाक्यस्यान्यथा व्युत्पादनहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः। सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः॥२४॥ मुचुकुन्देति ॥ हे अबल बलहीन, कुतः मुचुकुन्दो नाम कश्चिद्राजा । यस्यासुरविजयश्रान्त्या निदायमाणस्य देवतावरप्रसादान्निद्राविघातकारी दृष्टिपाताभस्मीभवति तस्य तल्पं शय्या तदेव शरणं रक्षकं यस्य तस्य । कालयवनविदावितस्येति भावः । तथा मगधपतिना जरासंधेन शातितौजसः अष्टादशकृत्वो १'यवनपति' इति पाठः. Page #381 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। नष्टवीर्यस्य तव रोहिणीतनयस्य बलापरनाम्नो बलभदस्य साहचर्यतः साहचर्यात्सबलत्वं सिद्धम् । न तु स्वबलसंपत्त्येत्यर्थः । अहो इति कारणं विना कार्यो. दयादाश्चर्यम् । अत एव विभावनालंकारः । पुण्यैर्यशो लभ्यत इति भावः ॥ छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः । प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति संप्रतीयसे ॥२५॥ छलयन्निति ॥ इन्द्रजालं वेत्तीत्यैन्द्रजालिकः । अत एव कपटपटुर्वञ्चनाकुशलस्त्वमनृतेनासत्येन प्रजाश्छलयन्वञ्चयन् इष्टं सत्यं यस्य स इष्टसत्यः प्रियसत्य इति संप्रतीयसे सम्यख्यायसे। 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः। नग्नजितो नग्नजिन्नाम्नो राज्ञः सुतया सत्यभामया सत्यापराख्यया प्रीतिमा. नन्दमनुभवसि । सत्यायोगादिष्टसत्यो न तु सत्ययोगादिति भावः। अत्र हरेः सत्यासंबन्धेऽपि तदसंबन्धोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिः ॥ धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् । चक्रधर इति रथाङ्गमदः सततं विभर्षि भुवनेषु रूढये ॥२६॥ धृतवानिति ॥ आहवे युद्धे अरिचक्रादरिसैन्यायेन चकितं संभ्रान्तम् । 'चकितं भयसंभ्रमः' इति सजनः । निजमात्मीयं चक्रं सैन्यं न धृतवान्नावल. म्बितवान् । न रक्षितवानित्यर्थः । किंतु चक्रधर इति भुवनेषु रूढये प्रसिद्धये । अदः इदं रथाङ्गं चक्रापराख्यं सततं बिभर्षि दधासि । वृथाभारमिति भावः । 'चक्रं सैन्यरथाङ्गयोः' इति हेमसजनौ । अयोविकारधरः चक्रधरो भवान्नारिभी. तिचक्रधारकत्वादित्यर्थः । अत्र हरौ भगवति चक्रधारणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः। ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः २७ जगतीति ॥ श्रिया राजलक्ष्म्या विरहितोऽपि । यदूनां ययातिशापादाज्यानधिकारित्वादिति भावः । ज्ञातिजनेन बन्धुजनेन जनितं प्रवर्तितं नामपदं श्रीरिति पारिभाषिकसंज्ञाशब्दो यस्यास्तामुदधिसुतामब्धिकन्यां यद्यस्मादुपा. यथाः । उदृढवानित्यर्थः । 'विवाहोपयमौ समौ' इत्यमरः । 'उपाद्यमः स्वकरणे' इत्यात्मनेपदम् । 'तनादिभ्यस्तथासोः' इति सिचो लुक् 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः । अतो जगति श्रियः पतिरिति प्रथां ख्यातिमगाः प्राप्तवानसि । 'इणो गा लुङि' इति गादेशः । न राजान्तरवद्गाज्यलक्ष्मीयोगात्तव श्रीपतित्वम् , किंतु श्रीसंज्ञिकायाः कस्याश्चिद्वराक्याः परिग्रहादिति भावः । अत्रोग्रसेनस्याभिषेकसंस्कारेऽपि त्रैलोक्यप्रतिष्टापकस्य हरेरेव सकलराज्यश्रीधुरंधरत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ Page #382 -------------------------------------------------------------------------- ________________ ३७० शिशुपालवधे अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् । व्योग्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः २८ अभीति ॥ संयति युद्धे कदाचित् कदापि अभिशत्रु शत्रुमभिव्याप्य । आभिमुख्येऽव्ययीभावः । अविहितपराक्रमोऽकृतपौरुषोऽपि यद्यस्मात्कथमपि महता प्रयत्नेन व्योम्नि पदं पादक्षेपं चकर्थ कृतवानसि । 'ऋतो भारद्वाजस्य' इति इट्प्रतिषेधः पित्वेनाकित्त्वाद्गुणः । अतो जगति विक्रमी विक्रमवानिति व्यपदिश्यसे व्यवहियसे न तु पराक्रमयोगादित्यर्थः । अत्रापि पराक्रमसंबन्धेऽप्यसंबन्धोक्वेरतिशयोक्तिः ॥ पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते । · भूमिभृदिति परहारितभूस्त्वमुदाहियस्व कथमन्यथा जनैः २९ पृथिवीमिति ॥ पूर्व प्रागपि । संपत्संभवेऽपीति भावः । पृथिवीं बिभर्थ यदि भृतवांश्चेत् । भृजो लिटि भारद्वाजीयेदप्रतिषेधः । पित्त्वेनाकित्वाद्गुणः । इदं भूधारणमपि गुणायोत्कर्षाय वर्तते । भूतपूर्वगत्यापि व्यपदेशत्वात्तदपि नास्तीति भावः । प्रत्युत परैः शत्रुभिः हारितभूः परिहारितभूमिकः जरासंधेन मथुरानगरानिष्कासितत्वादिति भावः । अत्र हर्तुरवहरणक्षमत्वमेव हारयित. त्वमिति णिजर्थोपपत्तिः । जनैः कथमन्यथा अर्थवैपरीत्येन भूमिभृदित्युदाहियस्व उदाहियेथाः। संभावनायां लोट् । असंभावितमेवेत्यर्थः । अत्रापि भूधरणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् । क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥३०॥ तवेति ॥ तवेयं धन्यता पुण्यवत्ता कथं सर्वैर्नृपतिभिस्तुलितोऽवधूतोऽपि । तिरस्कृतोऽपीत्यर्थः । क्षणं क्लान्ते भारवत्तयैव श्रान्ते करतले धृतः अचलकोऽल्पा. चलो येन स सन् पृथिवीतले तुलितभूभृदुद्धृतराजकश्वोच्यस इति यत् इयमप्यपरा ते धन्यतेत्यर्थः । गोवर्धनाख्यक्षुद्रभूधरतोलनात्तुलितभूभृत्त्वं भवति न माहशामिव महावीरातितुलनादिति भावः । अत्र सर्वनृपतितुलितोऽपि तत्तोलक इति विरोधो भूभृदिति श्लेषमूलाभेदाध्यवसायोत्थापित इति विरोधातिशयोक्त्योः संकरः। तेन गोवर्धनोद्धरणमपि नातीवाद्भुतं बाहुबलशालिनामिति वस्तु व्यज्यते॥ त्वमशक्नुवनशुभकर्मनिरत परिपाकदारुणम् । . जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः॥३१॥ त्वमिति ॥ हे अशुभकर्मनिरत पापाचारपर, अत एवाकुशलमतिर्दुर्बुद्धिस्त्वं परिपाके फलकाले दारुणम् । विचित्रपापयातनामयत्वाद्भयंकरमित्यर्थः । नरकं निरयम् । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः। जेतुमशक्नु Page #383 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३७१ वन् । पापिष्टैर्दुर्जयत्वादिति भावः। अधिलोकं लोके। विभक्त्यर्थेऽव्ययीभावः । यशसे नरकविजयीति प्रसिद्धये भुवः सुतं नरकाख्यमजयो जितवानसि । परलोकप्रतारणमात्रपरो न परलोकबाध्योऽसीति भावः । अत्र निरयापराख्यनरकविजयाशक्तेर्विशेषणगत्या तजयस्यार्थिनो हरेनरकासुरविजयप्रकृतिहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च नरकयोः श्लेप्ममूलाभेदात्तदुत्थापितमिति संकरः ॥ सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।। त्यक्तमपगुण गुणत्रितयत्यजनप्रयासमुपयासि किं मुधा ॥३२॥ सकलैरिति ॥ हे अपगुण निर्गुण, सकलैः सर्वदोषैः समुदितं युक्तं तवेदं वपुः सकलैर्गुणैः शौर्यादिभिस्त्यक्तम् । सर्वगुणान्निवर्तितमेवेत्यर्थः । एवं च लति गुणत्रितयस्य त्यजने त्यागे यः प्रयासः तं मुधा वृथा किं किमर्थमुपयासि । मुमुक्षयेति भावः । यत्र सकलगुणस्य त्यागस्तत्र गुणत्रयस्य त्यागोऽन्तर्गत्या सिद्ध एव, अन्यथा साकल्यव्याघातादित्यर्थः । स्वभावतो निर्गुणस्य परवस्तुनः कुतो गुणत्रयचिन्तेति ध्वनिः । गुणत्रयत्यागनिषेधस्य सकलैरित्यादिवाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ ३३ ॥ त्वयीति ॥ हे जाल्म असमीक्ष्यकारिन् , 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । गुणैरपाकृते निरस्ते गुणैर्दीने त्वयि पूजनं कृतं जगति हासकरं परिहासजनकं इदं पूजनम् । अपेतमूर्धजेऽपगतकेशे शिरसि कङ्कतं दारुदन्तादिमयः केश. प्रसाधनविशेषः। 'प्रसाधने कङ्कतिका' इति विश्वामरौ । ककृतमेव कङ्कतिका । 'कंकणम्' इति पाटे शेखरमित्यर्थः । 'कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तदिव नितरामघटते । न संगच्छत इत्यर्थः । 'नजो नलोपस्तिङि क्षेपे' इत्युपसंख्यानमिति निन्दायां तिङयोगेऽपि नलोपः । उपमालंकारः ॥ संप्रति राज्ञां रोषमुत्पादयन्नाहमृगविद्विपामिव यदित्थमजनि मिषतां पृथासुतैः। अस्य बनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ३४ मृगेति ॥ हे भुवोऽधिपा राजानः, मृगविद्विषां सिंहानामिव भवतां मिषतां पश्यतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । 'पष्टी चानादरे' इति विकल्पाद्भावलक्षणे पष्ठी । इत्थं पृथासुतैः कौन्तेयैः । पितरमेतेषां न वेद्मीति भावः । अस्य कृष्णस्य वनशुनो वनशुनकस्येव । जम्बुकस्येवेति यावत् । अपचितिः पूजा अजनि जनिता। कृतेति यत् । जनेय॑न्तात्कर्मणि लुङ् । एष भवतां परिभावः परिभवः । 'परौ भुवोऽवज्ञाने' इति विभाषा घञ्प्रत्ययः ॥ Page #384 -------------------------------------------------------------------------- ________________ ३७२ शिशुपालवधे अवधीजनंगम इवैष यजि हतवृषो वृषं ननु । स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ३५ अवधीदिति ॥ हतवृषो हत्सुकृतः । 'सुकृतं वृषभे वृषे' इति विश्वः । एष कृष्णो जनंगमश्चाण्डाल इव । 'चाण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः' इत्यमरः । 'गमेश्व' इति संज्ञायां जनपूर्वाद्गमधातोः खच्प्रत्ययः 'अरुर्द्विषत्-' इत्यादिना मुमागमः । वृष वृषभरूपिणमरिष्टाख्यमसुरमवधीद्यदि हतवांश्चेत् । 'लुङि च' इति हनो वधादेशः । अत एव अशुचिवपुरशुद्धात्मा स्पर्श नार्हति । नृपोचितां राजाहाँ प्रतिमाननां पूजां तु नितरां नार्हति । स्पर्शायोग्यो गोघ्नः कथं पूज्य इत्यर्थः । उपमा ॥ यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति । स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ३६ यदीति ॥ अस्य कृष्णस्य मतिः पूतना नाम बालग्रह विशेषः तां प्रति अङ्गनेति हेतोम॒दुः कृपा दया नाजनि यदि न जाता चेत् मास्त्विति शेषः । जनेः कर्तरि लुङ् 'दीपजन-' इत्यादिना चिण्प्रत्ययः । अघृणमनसो निघृणचित्तस्य । स्तने भवं स्तन्यं पयः । 'शरीरावयवाच्च' इति यत्प्रत्ययः । पिबतोऽस्य सा पूतना धर्मतः शास्त्रतो जनन्यपि माता च भवति खलु । स्त्रीति कृपाभावेऽपि मातेति जुगुप्साप्यस्य नास्तीत्यहो न केवलं स्त्रीहन्ता, किंतु मातृहन्ता चायम् । स्तनप्रदाया उपमातृत्वादिति भावः । अत्र स्तनपानस्य विशेषणगत्या जननीत्वहेतुत्वाकाव्यलिङ्गम् ॥ शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् । कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः॥३७॥ शकटेति ॥ तरलश्चपलोऽयं कृष्णः शकटव्युदासः शकटासुरमर्दनं तरुभङ्गो यमलार्जुनभञ्जनं धरणिधरधारणं गोवर्धनोद्धरणम् । तान्यादिर्यस्य तत्तथोक्तं यत्कर्माकरोत्तेन कर्मणा स्थिरचेतसां धीरचित्तानां क इव विस्मयः। न कोऽपी. त्यर्थः । अत्र स्थिरचेतस्कताया विशेषणगत्या विस्मयनिषेधहेतुत्वाकाव्यलिङ्गं वृत्त्यनुप्रासेन संसृज्यते ॥ अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् । खामिवधमसुकरं पुरुषैः कुरुते स यत्परममेतदद्भुतम् ॥३८॥ अयमिति ॥ अपरोऽन्यः ना पशुरिवेति नृपशुरित्युपमितसमासः। कार्याकार्यविवेकशून्यत्वादेवेत्यर्थः । अयं कृष्णः उग्रसेनतनयस्य कंसस्य पशूनवन्गाः पालयन्पुरुषैरसुकरं लोकवेदविगीतत्वाद्दुष्करं स्वामिवधं यत्कुरुते स्म । चकारेति यावत् । एतत्परममद्भुतम् । अभूतपूर्ववदिति भावः । अत्र पश्ववनस्य विशेषणगत्या कंसकृष्णयोः स्वामिभृत्यभावहेतुत्वात्काव्यलिङ्गम् ॥ Page #385 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ये चतुस्त्रिंशच्छोकाः 'प्रक्षिप्ताः' इति मन्यमानेन मल्लिनाथेन न व्याख्यातास्ते वल्लभदेवकृतव्याख्यासमेताः प्रदर्श्यन्तेकिमवोचदित्याहननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् । सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र को गुणः॥१॥ नन्विति ॥ हे कुरुनरेन्द्र कौरवनाथ, ननु सर्व एव कश्चित्कमपि पौरुषश्रु. तादिकं गुणं समवेक्ष्य पूज्यतामेति पूज्यते । गुणाः पूजाया निमित्तमित्यर्थः । यदि वा गुणं स्वप्रयोजनं पर्यालोच्य । अतश्चैवंस्थिते अस्य हरेर्वानरतुल्यस्य सर्वैर्गुणैः कृतज्ञत्वादिभिर्विरहितस्य विशेषेण रहितस्य परिपूजनात्को गुणः । एनमर्चयित्वा न कश्चिद्गुणस्त्वया प्राप्तः । ननुरमर्प । कमपि । स्वल्पमपीत्यर्थः । हरिर्वानरः तत्साधाद्भगवानत्र हरिविवक्षितः । यथाग्निर्माणवक इति तत्त्वम् । यादृशस्तादृशस्त्वम् । येनागुणं पूजयसीति 'कुरुनरेन्द्र' इत्यामन्त्रणपदेन सूच्यते ॥ __ अत्र कविरतिभक्तत्वाद्भगवतः कथाक्रमागतामपि निन्दामसहमानः प्रतीयमानां स्तुतिं व्यरचयदिति तदर्थोऽधुना व्याख्यायते-हरेर्विष्णोः परिपूजया कोऽगुणः, अपि तु स्वर्गादिको गुणः । नतु गुण एवेत्यर्थः । यदि वा को गुणो नीरागत्वेन । नैवास्य उपकार इत्यर्थः । कीदृशस्य । सर्वैस्त्रिभिरपि गुणैः सत्त्वरजस्तमोभिर्विरहितस्य । 'निर्गुणो हि पुरुषः' इति सांख्याः । अत्र द्वितीया. धमेव तेन भिद्यते। प्रथमार्धे तु न किंचित्प्रयोजनम् । नहि तत्र ते गुणा निन्दागताः। पूज्यतामेतीतीण्धात्वर्थस्य तु अवेक्षत्येकः कर्ता । य एव हि समीक्षते स एव पूज्यते इति ल्यबू भवत्येव । सर्वो गुणान्दृष्ट्वा पूज्यत इत्यर्थः। वक्रश्लेषोऽत्र । निन्दास्तुतावकारः ॥ तदेव निर्गुणत्वं दर्शयितुमाहन महानयं न च विभर्ति गुणसमतया प्रधानताम् । स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानतां दधत्॥२॥ नेति ॥ अयं हरिन महान् सर्वोत्कृष्टः । सर्वनाम सर्वत्र प्रत्यक्षनिर्देशे । कदाचिदन्येषां प्रधानानां गुणैः समः स्यात्तदापि पूज्यः । एतदपि नेत्याहगुणसमतया गुणसाम्येन या प्रधानतां विवक्षितत्वं तदपि न बिभर्ति । यतो. ऽन्येषां गुणैरसम इत्यर्थः । गुणोत्कर्षा द्धि प्राधान्यमाप्यते । कदाचित् महत्प्रधान च न भवेद्यावद्धतोऽपि (?) न तत्स्यात् । तदपि नेत्याह--अनभिमानितां निर. हंकारित्वं दधत्स्वस्यात्मनः चिराय जगति पृथग्जनतां हीनत्वं कथयति । प्राकृतोऽपि निरभिमानो भवति । इति निन्दा ॥ स्तुतिस्तु-अयं न महान महत्तत्त्वं न भवति । गुणानामुढेके साम्याभावे बुद्धेरेव महत्वम् । अथ गुणानां सत्त्वरजस्तमसा समतया या प्रधानता तामपि शिशु० ३२ Page #386 -------------------------------------------------------------------------- ________________ ३७४ शिशुपालवधे न बिभर्ति । प्रधानमप्ययं न भवतीत्यर्थः । अनुभूतविक्रियाणि प्रकृतिस्थानि सत्वरजस्तमांसि प्रधानशब्देनाहुः। तथाऽनभिमानितामनहकारितां दधत्स्वस्यात्मनः पृथग्जनतां जनव्यतिरिक्तत्वं कथयतीति वा । जनाः पञ्चतन्मात्राणि । पृथग्भूतो जनेभ्यः, पृथग्वा जनो यस्मात्स पृथग्जनः तद्भावस्तत्ता तां कथयति । सर्वातीतत्वात् । तेनायं न महान्, न प्रधानम्, न भूतानि, न तन्मात्राणि, नाहंकारः' इति वाक्यार्थः । पञ्चविंशकोऽयं पुरुषः । चतुर्विंशकबाह्य इति यावत् ॥ भूयोऽपि निर्गुणत्वमाहरहितं कलाभिरखिलाभिरकृतरसभावसंविदम् ।। क्षेत्रविदमपदिशन्ति जनाः पुरवाह्यमेनमगतं विदग्धताम् ॥३॥ रहितमति ॥ एनं हरिं क्षेत्रविदमपदिशन्ति कर्षकमाहुः । अत एव पुरबाह्यं ग्राम्यम् । कार्षिका हि नगराबहिर्वसन्ति । यद्वा पुरस्य वाहनीयो वाह्यः पुरायत्तः । तथा सर्वाभिः कलाभिर्गीतवाद्यादिभिर्वर्जितम् । यतः अकृता रसानां शृङ्गारादीनां भावानां रत्यादिकानां च संविसंकेतः संवचनं येन । विदग्धशास्त्राणां संकेतमपि यो न वेदेत्यर्थः । यतो विदग्धतां वैदग्ध्यमगतमप्राप्तम् । इति निन्दा ॥ _स्तुतिस्तु-एनं भगवन्तं क्षेत्रज्ञमात्मानमामनन्ति । क्षेत्रं शरीरम् । कीटशम् । समग्रामिः कलाभिरवयवै रहितं निष्कलम् । प्रकृतरसा अविहितरागा भावसंवित्पदार्थसंवेदनं यस्य । पुरुषो हि भावान्वेत्ति नतु तत्र रसज्ञतां भजते । यद्वा अविद्यमानाः कृतरसभावाः कर्मरागोत्पत्तयो यस्य स चासौ संवित् चिद्रूपः । पुराइहाद्वाह्यं विलक्षणम् । विदग्धतां विशेषेण दाह्यत्वमगतम् । यदाह 'नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः' इति ॥ अतिभूयसापि सुकृतेन दुरुपचर एष शक्यते । भक्तिशुचिभिरुपचारपरैरपि न ग्रहीतुमभियोगिभिर्नृभिः॥४॥ अतीति ॥ अयमेवंविधैरपि नृभिर्ग्रहीतुमावर्जयितुं न शक्यते । कीदृशैः । भक्त्या तत्त्वतः शुचिभिः शुद्धमतिभिरुपचारपरैराराधनपरैरभियोगिभिः एतन्मनोभिः । कथं तर्हि न शक्यत इत्याह-यतोऽतिभूयसापि बहुतरेणापि सुकृतेनो. पकारेण दुरुपचरो दुराराधः । अकृतज्ञोऽयमिति वाक्यार्थः । इति निन्दा ॥ स्तुतिस्तु-एषोऽभियोगिभिराभिमुख्येन योगिभिरपि नृभिर्ग्रहीतुं परिच्छेत्तुं न शक्यते । आत्मतत्त्वस्य दुर्ज्ञानत्वात् । कीडगेषः । अतिभूयसापि सुकृतेन यज्ञदानादिना दुरुपचरो दुराराधः भक्तिगम्यो हि भगवान् । कीदृशैनृभिः । भक्त्या शुचिभिर्निर्मलीमसैः । केचित्त्वमताशङ्कया नजं काका व्याचक्षते । नैष सुकृतेन दुरुपचरो योगिभिरपि न ग्रहीतुं शक्यते । परंतु तैरेव ज्ञायत इत्यर्थः । यदुक्तम् 'नाहं वेदैर्न तपसा-' इत्यादि ॥ Page #387 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३७५ व्रजति स्वतामनुचितोऽपि सविनयमुपासितो जनैः । नित्यमपरिचितचित्ततया पर एव सर्वजगतस्तथाप्ययम् ॥५॥ व्रजतीति ॥ अयमनुचितोऽप्ययोग्योऽपि स्वतां जन्मना ज्ञातित्वं याति । असमोऽपि शिशुपालस्याहं स्वजन इति वक्तीत्यर्थः । तथा जनैः सविनयं साचारं सेवितोऽपि परः शत्रुरेवायं त्रिभुवनस्य । यद्ययमकृतप्रज्ञः सेवितोऽपि शत्रुस्तत्कथं जनाः सेवन्त इत्याह-अपरिचितचित्ततया चलचित्ततया अविश्वा. सहृदयत्वेन सर्वजगतः परमेवेति योज्यम् । इति निन्दा ॥ स्तुतिश्च-असौ स्वतामात्मत्वं व्रजति प्रतिपद्यते । क्षेत्रज्ञोऽयमित्यर्थः । लोकप्रसिद्ध्यात्र स्वशब्देनानात्मोक्तः । आत्मात्मीयज्ञातिधनवचनः स्वशब्दः । सांख्या ह्यात्मानं स्वामिशब्दवाच्यमाहः । कीदृशोऽयम्-अनुचितोऽप्यनभ्यस्तोऽप्यज्ञेयोऽपि सविनयमेकाग्रेण योगिभिरुपासितश्चिन्तितः । तस्मात्सर्वस्मा. जगतो व्यक्तात्परो विलक्षणः । कुतः। अपरिचितसंगतं चित्तं मनो बुद्धिर्वा यस्य सोऽपरिचितचित्तस्तद्भावस्तत्ता तया । अन्यो ह्यात्मा, अन्या च बुद्धिः, अन्यच्च चित्तम् , जगच्चेदं प्राकृतो भागः ॥ उपकारिणं निरुपकारमनरिमप्रियं प्रियम् । साधुमितरमबुधं बुधमित्यविशेषतः सततमेष पश्यति ॥६॥ उपकारिणमिति ॥ अयमुपकारिणमपकारिणं चाविशेषेण पश्यति । अपकारिणमिवोपकारकमप्यसौ स्वया दृष्ट्या पश्यतीत्यर्थः। इत्यकृतज्ञत्वकथनम् । एवमन्यत्र । तथा अरिंशत्रु वनरिं मित्रम्। नायं नियमो यन्मित्रमुपकार्येव भवति। अनुपकारकश्च शत्रुरेव संभवति । अप्रियं द्वेष्यं प्रियं मनोज्ञम् । साधुमार्यमितरं खलम् । अबुधं मूर्ख बुधं प्रण्डितम् । इति दुरुक्तनिर्देशः । एषा निन्दा ॥ स्तुतौ तु-निर्गुणत्वात्पुरुषस्य समदृष्टित्वम् ॥ उपकारकस्य दवतोऽपि बहुगुणतया प्रधानताम् । दुःखमयमनिशमाप्तवतो न परस्य किंचिदुपकर्तुमिच्छति ॥ ७ ॥ उपकारकस्येति ॥ अयं परस्यान्यस्य किंचिदपि मनागपि नोपकर्तुमिच्छति । उपकारकरणे बुद्धिरेवास्य न भवतीत्यर्थः । कदाचित्परोऽनुपकारी स्यादित्याहउपकारकस्यापि अत एवैतदर्थमनिशं दुःखं क्लेशमाप्तवतःप्राप्तस्य । कदाचिदमुख्यः परः स्यात्तदप्यप्रत्युपकारित्वेन तथा लज्जादोषो भवेदित्याह-बहुगुणतया श्रुत. शौर्यादिसद्भावेन प्रधानतां मुख्यत्वं दधतो बिभ्रतः । तदेतेन पूर्वोक्ताओं दृढीकृतः । इति निन्दा ॥ ___ स्तुतिस्तु-अयं परस्य बुद्धितत्त्वस्य प्रधानसंज्ञकस्य किंचिदपि नोपचिकी. पति । द्रष्टा हि पुरुषो न सक्रियः । कीदृशस्य । पुरुषप्रवृत्तिद्वारेणोपकारकस्य, तथा बहवस्त्रयोऽपि ये गुणास्तभावेन प्रधानतां प्रकृतित्वं दधतः। सत्त्वरजस्त Page #388 -------------------------------------------------------------------------- ________________ ३७६ शिशुपालवधे मासि प्रधानम् । तथा दुःखं जननमरणादिकं सदा प्राप्तस्य । सर्वं हि बुद्धिरनुभवति न पुरुषः ॥ खयमक्रियः कुटिलमेष तृणमपि विधातुमक्षमः । भोक्तुमविरतमलजतया फलमीहते परकृतस्य कर्मणः ॥ ८ ॥ स्वयमिति ॥ एष देवः परकृतस्यान्यनिष्पादितस्य कर्मणः क्रियायाः फलं भोक्तुमीहते वाञ्छति । कथम् । अलजतया नित्रपत्वेन । कदाचिदैश्वर्यादेवं स्यादित्याह-आत्मना तृणमपि कुटिलं कर्तुमक्षमोऽसमर्थोऽनीशः । यतोऽक्रियोऽलसः । अशक्त्या स्वयं निष्क्रियः पराधीनोऽन्यदत्तेन पिण्डेन जीवति । इति निन्दा ॥ अथ च वाक्यार्थपर्यालोचनया स्तुतिः-एष भगवान्परजनितस्य बुद्धिकृ. तस्य कर्मणः शुभाशुभस्य फलं सुखदुःखात्मकं भोक्तुमीहते। आत्मा हि फल. भागीति सांख्याः । कीडगेष इति पुरुषस्य स्वरूपमाह-स्वयमक्रियो निष्कर्मा । तथा तृणमपि कुटिलं कर्तुमनीशः । निर्लजत्वं निर्गुणत्वात् ॥ य इमं समाश्रयति कश्चिदुदयविपदोनिराकुलम् । तस्य भवति जगतीह कुतः पुनरुद्भवो विकरणत्वमेयुषः ॥९॥ य इति ॥ यः कश्चिन्मूर्ख इमं कृष्णं समाश्रयति सेवते तस्यास्मिन्संसारे कुतः पुनरुद्भवो भवति । नैव समुत्थानं भवतीत्यर्थः । य एनमुदये विपदि च निराकुलं निश्चिन्तमाश्रितस्य । यदि संपत्ततोऽस्य नैव सुखम् , यदि वा विप. ततो नैव दुःखमित्यर्थः । तस्य कीदृशस्य । विकारणत्वं मृतिमेयुषः प्राप्तस्य । एतदाश्रयणात्स मृत एव । सामग्रीवैकल्यं वा विकरणस्वम् इति निन्दा ॥ स्तुतिश्च-यः कश्चिद्योगी एनं परमात्मानं सेवते तस्य विकरणत्वमेयुषो नष्टदेहस्य पुनरिह कुत उद्भवो जन्म। मुक्त एवासावित्यर्थः। कीदृशम्-समुदयविपदोनिराकुलमव्ययम् । अक्रियत्वात् । करणानीन्द्रियाणि । एयुष इत्याङ्. पूर्वस्येणः क्वसुः । 'उपेयिवान्-' इत्यत्र हि उपसर्गनिर्देशोऽतन्त्रम् ॥ गुणवन्तमप्ययमपास्य जनमखिलमव्यवस्थितैः। याति सुचिरमतिबालतया धृतिमेक एव परिवारितो जडैः ॥१०॥ गुणवन्तमिति ॥ अयं सर्वमेव गुणिनं जनमतिबालतयातिचापलेन हित्वा अव्यवस्थितैश्चपलैजडैरज्ञैः परिवारितः सन्नजनमेक एव तिमेति प्रीयते । एतद्वज नान्यो नाकलोकमपास्य गोपमध्ये रमते । इति निन्दा ॥ स्तुतिस्तु-एष भगवान्बालतया बालरूपो भवन जलेरद्भिः परिवारित भावृतः सुचिरं धृतिमेति । उक्तं च-'संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥' इति । कीदृशैर्जलैः । अव्य. वस्थितैर्भरितसकलभुवनैः । किं कृत्वा धृति याति । गुणवन्तं सत्वाद्याश्रयं जनमपास्य क्षित्वा विनाश्य । सर्व जनं संहृत्य बालरूपधरो जलमध्येऽयं शेते ॥ Page #389 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः I सुकृतोऽपि सेवकजनस्य बहुदिवसखिन्नचेतसः । सर्वजनविहितनिर्विदयं सकृदेव दर्शनमुपैति कस्यचित् ॥ ११ ॥ ३७७ सुकृत इति ॥ भयं सुकृतोऽप्युपकारकस्याप्याश्रितजनस्य सकृदेकवारमेव दर्शनमुपैति दर्शनं ददाति कस्यचित्, न सर्वस्य । किंभूतः - सर्वजन विहित निविंद सर्वजनस्य विहिता निर्वित्खेदो येन । कीदृशस्य जनस्य - बहुदिवस खिन्नचेतसः बहुभिर्दिवसैः खिन्नं चेतो यस्य तस्य । चिरकालमेवोद्विग्नचित्तस्येत्यर्थः । इति निन्दा || 1 स्तुतिस्तु — अयं कस्यचिदेव सेवकजनस्य भक्तलोकस्य सकृदेव दर्शनमुपैति । नहि क्षेत्रज्ञः सर्वस्य सदैव । कीदृशस्य । सुकृतः पुण्यकृतः । तथा बहुभिर्दिवसैर्भूचसा कालेन खिन्नचेतसः क्षुण्णमनसः । दीर्घेण योगेन श्रान्तचेतस इत्यर्थः नह्यनभ्यासगम्य ईश्वरः । अत एव सर्वजनविहित निर्वेदः । श्रेयस्यपि चिरकालमभ्यसनो निर्विद्यते । यदि वा सर्वेषु जनेषु विगतौ हितनिर्वेदौ यस्य स सर्वजनविहितनिर्विद् | नास्य कश्चित्प्रियो न च द्वेष्य इत्यर्थः । यदि वा सर्वे जना यत्र स सर्वजनः, विगते हितनिर्विदौ सुखदुःखे यस्य स विहित निर्वित् । ततः कर्मधारयः । सर्वजनस्य विहिता निर्वित् निर्वाणो येनेत्यन्ये । आश्रितजनं संसारान्मोचयतीत्यर्थः । शोभनं करोति सुकृदुपकारी, पुण्यकृच्च । निर्विन्निर्वेदो निर्वाणं च ॥ स्वजने सखिष्वनुगतेषु नियतमनुरागवत्स्वपि । स्नेहममृदुहृदयः क्षपयन्निरपेक्ष एष समुपैति निर्वृतिम् ॥ १२ ॥ स्वजन इति ॥ एष बन्धुमित्राश्रितेषु प्रीतिं नाशयन्निर्वृतिं सदा समुपैति सुखं प्राप्नोति । सर्वत्रैव वैरायमाणः सुखायत इत्यर्थः । कदाचिदेते विरक्ताः स्युरित्याह- अनुरक्तेष्विति । कथं तर्हि निःस्नेह इत्याह-यतो हृदयेऽमृदुहृदयः क्रूरचितः । तथा निरपेक्षो निर्विवेकः । इति निन्दा ॥ स्तुतिस्तु - एष स्वजनादिषु अनुरागवत्स्वपि स्नेहं क्षपयंस्तृष्णां तनूकुर्वन्निर्वृतिं समुपैति निर्वाणं याति । तृष्णाक्षयात्किल मुक्तिः । अमृदुहृदयः नार्द्रभावो वीतरागत्वात् । यदि वा अमृदु दुर्बोधं हृदयं स्वरूपं यस्य । निरपेक्षो निःसङ्गः पिर्धापठितोऽपि क्रियावाचित्वात्खचिमिलोकस्यार्घत्वादिक (?) वद्धातुरेव ॥ क्षणमेष राजसतयैव जगदुदयदर्शितोद्यतिः । सच्चहितकृतमतिः सहसा तमसा विनाशयति सर्वमावृतः ॥ १३॥ क्षणमिति ॥ एप राजसतया चापलेन क्षणं जगदुदये लोकहिते दर्शितो - यति दर्शितोद्यम इति क्रिया । राजसिकत्वेन क्षणमुपकुरुते इत्यर्थः । तमसा तु मोहेन पुनरनन्तरमावृतत्वादहित कृतमतिरुपद्भव विहितबुद्धिः सन् सहसैव सर्वं सत् सुकृतं विनाशयति । यदेव पूर्वमुपकृतं तदेव मोहयन्नाशयतीत्यर्थः । सत् सुकृतम् । तु भिन्नक्रमः । इति गर्दा ॥ Page #390 -------------------------------------------------------------------------- ________________ ३७८ शिशुपालवधे नुतिरपि-एष त्रिमूर्तिः राजसतया रजोगुणेनाश्रितः सन् ब्रह्मरूपेण जगदुदये प्रजासतें दर्शितोद्यमः । तथा सत्त्वेन गुणेन हिते रक्षायां विहितचित्तो विष्णु. रूपेण । तथा तमसा गुणेनावृतः सन् सहसैव सर्व व्यक्तं रुद्ररूपेण नाशयति । अभिहन्यते यदभिहन्ति परितपति यच्च तप्यते । नास्य भवति वचनीयमिदं चपलात्मिका प्रकृतिरेव हीदृशी॥१४॥ अभीति ॥ यदेष हरिरन्येनाभिहन्यते ताड्यते यच्चैपोऽन्यानभिहन्ति । तथा यत्परितपति बाधते । यच्च तप्यते उपश्रूयते । अतोऽस्य वचनीयता वाच्यता भवति । यतोऽस्यैवंविधैव चपलात्मिका अविनीता प्रकृतिः स्वभावः । स्वभा. वाञ्चपलस्त्वयोग्यतामहति । इति क्षेपः ॥ स्तुतिस्तु-अस्य परमात्मनो यथोक्तं वचनीयं वचनं न भवति न प्रवर्तते । 'एष हन्ति हन्यते तपति परितप्यते च' इति न वाच्यमित्यर्थः । यत ईदशी चपलात्मिकानेकरूपा प्रकृतिर्बुद्धिः । नत्वेषः । हननादिकं तमसा भवति । पुरुषश्च निर्गुण इत्यर्थः । उक्तं च–'य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥' इति । तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥' तपिः सकर्मकोऽपि । शारीरं दुःखमभिघातः । मानसं तु परितापः ॥ अतिसत्त्वयुक्त इति पुंभिरयमतिशयेन वर्ण्यते । सूक्ष्ममतिभिरथ चापगते समुपैति नाल्पमपि सत्त्वसंकरम् ॥१५॥ अतीति ॥ एष सूक्ष्ममतिभिः स्वल्पप्रज्ञैर्नृभिर्महता सत्त्वेन धैर्येण युक्त इति सुष्ठु वर्ण्यते । अथानन्तरं चापगते प्राप्तचापे गृहीतधनुषि कस्मिंश्चित्स्वल्पमपि सत्वसंकरं पौरुषलेशं न भजति पलायनादिना । परेणोत्तब्धस्यास्य सत्वलेशोऽपि न लभ्यत इत्यर्थः । तस्मादयुक्तं च तैर्वर्ण्यत इति भावः । इति निन्दा ॥ स्तुतिस्तु-चापं गतश्चापगतः । यद्वा चापस्य गतं प्राप्तिश्चापगतं तस्मिंश्चा. पगते। धनुःसंनिधाने सतीत्यर्थः । अथ च सबीजनिर्बीजसमाधौ पुंभिर्योगिभिः सत्त्वेन गुणेन युक्तइति कथ्यते । सूक्ष्ममतिभिः कुशाग्रीयबुद्धिमिर्बहुदृश्वभिरपगते ज्ञाते सति निर्बीजसमाधौ स्वल्पमपि सत्यसंकर नोपैति । निर्गुणो हि पुरुषः । अथ चेति विस्मये ॥ प्रलयं परस्य महतोऽपि सततमिह निःसुखे गुणाः । यान्ति जगदपि सदोषमदः स्वरुचैव पश्यति गुणान्द्विपनयम् १६ प्रलयमिति ॥ परस्यान्यस्य महतोऽपि मुख्यस्यापीह कृष्णे गुणाः सौन्दर्या. दयो नियतमवश्यं प्रलयं यान्ति नश्यन्ति । नैष कस्यचिद्गुणानङ्गीकरोतीत्यर्थः । अविद्यमानं सुखमस्मादिति निःसुखः । गुणापहाराद्धि कुतः सुखम् । यद्वा अविद्यमानं सुखममादिति निःसुखः । अत एव ते नाशमन यान्ति । अतश्वायं गुणा Page #391 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः 1 ३७९ द्विषन्नखिलमध्ये तज्जगद्विश्वं स्वरुचैवात्मेच्छयैव सदोषं पश्यति । गुणद्वेषित्वादन्यानपि सदोषान्वेत्तीत्यर्थः । इति निन्दा ॥ अथ स्तुतिः - इह परमात्मनि कृष्णे परस्य बुद्धितत्त्वस्य महतोऽपि महत्तत्त्वस्य गुणाः सत्त्वरजस्तमांसि प्रलयं यान्ति नाशं गच्छन्ति । पुरुषं प्राप्य निवर्तन्त इत्यर्थः । कीदृशेऽत्र । निःसुखे सुखवर्जिते । अविक्रियत्वात् । सुखासुखे नात्मनः तथैष गुणान्सत्त्वादीन्द्विषन्नभिनन्दन्नस्पृशन्नदो जगत्प्रकृतिं सदोषं क्लेशयुक्तं पश्यतीक्षते । द्रष्टा हि पुरुषः प्रकृतेरिष्यते जगत्प्रकृतिर्हि भागो व्यक्तम् । तच्च सदोषं जननमरणयोगात् । केन पश्यति । स्वरुचा । आत्मभावेनेत्यर्थः ॥ एवं सांख्यदर्शनेन स्तुत्वा अधुना पुराणदर्शनेन तुष्टुपुर्निनिन्दिषुश्वाहक्षितिपीठमम्भसि निमग्नमुदहरत यः परः पुमान् । एष किल स इति कैरबुधैरभिधीयमानमपि तत्प्रतीयते ॥ १७ ॥ क्षितीति ॥ कैरबुधैर्मूखैरिति तदभिधीयमानमप्युच्यमानमपि प्रतीयते । मूर्ख एव सत्यमवगच्छतीत्यर्थः । इतीति किम् । स एष परमपुरुषः । यो वराहरूपेणाम्भसि निमग्नं क्षितिपीठं पृथ्वी मण्डलमुदहरतोद्धृतवान् । इति निन्दा | स्तुतिस्तु — कैश्चिदभिधीयमानं तत् मूर्खेरपि प्रतीयते । मूर्खा अपि सत्यमवगच्छन्तीत्यर्थः ॥ नरसिंहमूर्तिरयमेव दितिसुतमदारयन्नखैः । आप्तजनवचनमेतदपि प्रतिपत्तुमोमिति जनोऽयमर्हति ॥ १८ ॥ नरसिंहेति ॥ नृसिंहवपुः सन्नयमेव नखैर्हिरण्यकशिपुमदारयदिति यदासवचनं तदप्ययं भीष्मादिक एव जन ओमित्येवमेवैतदिति प्रतिपत्तुमङ्गीकर्तुमर्हति । सुहृद एवैनं स्तुवन्ति, तच्च मूर्खेरेव सत्यं बुध्यत इत्यर्थः । इतिशब्दोत्रार्थयोः संबन्धोपादानायाध्याहार्यः ॥ स्तुतौ स्वयमर्थः - अयमेव भगवान्नापरो नरसिंहमूर्तिमाश्रित्य नखै दैत्येन्द्रमद्वारयदित्येतदप्याप्त जनवचनं शिष्टवाक्यमयं मनीषी जनः प्रतिपत्तुमर्हति नान्यः । भोवात्पण्डिता एव सत्यं जानन्तीत्यर्थः । आप्ता अवितथवादिनो व्यासादयः ॥ अपहाय तुङ्गमपि मानमुचितमवलम्ब्य नीचताम् । स्वार्थकरणपटुरेष पुरा बलिना परेण सह संप्रयुज्यते ॥ १९ ॥ 1 1 अपहायेति ॥ एष बलिना बलवता परेणान्येनारिणा वा सह पुरा अचिरात्संप्रयुज्यते संबध्यते । समर्थ चेत्परं वेत्ति तद्भयात्तमेव प्रविशतीत्यर्थः । सर्वनामनिर्देशः सर्वत्र निन्दायामनास्थां सूचयति । स्तुतौ तु गौरवम् । किं कृत्वा । उचितं योग्यं तुङ्गमुन्नतं मानमध्यपहायाहंकारमपि त्यक्त्वा । तथा नीचत प्राकृतत्वमाश्रित्य । यतः स्वार्थकरणपटुरात्मप्रयोजन संपादनचतुरः । शक्तिः किलात्मनो नाशाय । इति निन्दा ॥ Page #392 -------------------------------------------------------------------------- ________________ ३८० शिशुपालवधे स्तुतिस्तु-एष तुझं मानं प्रमाणं हित्वा नीचतां खर्वत्वं चावलम्ब्य । पुरा पूर्वमुस्कृष्टेन बलिना वैरोचनिना सह संप्रयुज्यते संप्रयुयुजे। यतः स्वस्थ ज्ञाते. रिन्द्रस्य योऽर्थः शत्रुवशीकरणलक्षणस्तत्र पटुः कुशलः । इन्द्रप्रीतये वामनरूपत्वमवलम्ब्यैष भगवान्बलिं बबन्धेत्यर्थः ॥ क्रमते नभो रभसयैव विरचयति विश्वरूपताम् । सर्वमतिशयगतं कुरुते स्फुटमिन्द्रजालमिदमेष मायया ॥२०॥ ऋमत इति ॥ एष कृष्णः स्फुटमिन्द्रजालसमद्भूतं मायया हेतुभूतया कुरुते । किमित्याह-रभसया रभसेन युद्धादौ नभः क्रमते आरोहति । वयः पक्षिणः, श्वानः कुक्कुराः तद्रूपा मृगाः तनावं विरचयति । यदि वा विश्वरूपतां नानारूपत्वम् । तथा सर्वमतिशयगतं विशेषप्राप्तं कुरुते । तात्त्विकोऽस्य व्यवहारो न कश्चित् । इति निन्दा ॥ स्तुतिस्तु-इदमीक् स्फुटमेष भगवान्मायया ऋया इन्द्रजालं कुरुते । इन्द्रजालमिवेन्द्रजालं भ्रमकारित्वात् । तदेवाह-नभः क्रमते बलिबन्धनार्थ विश्वरूपत्वं सर्वदेवमयत्वं विरचयति । सर्व च जगदतिशयगतं प्राप्त विशेष कुरुते । कीदृश्या मायया । रभसमौत्सुक्यं करोतीति रभसा तया रभसया । क्रमते इति, 'अनुपसर्गाद्वा' इत्यात्मनेपदम् ॥ | किल रावणारिरयमेव किमिदमियदेव कथ्यते । सत्त्वमतिबलमधिद्युति यत्तदशेषमेष इति धृष्टमुच्यताम् ॥ २१॥ किलेति ॥ अयं हरी रावणारिरिति । एतेन दशास्यो हत इति यदेवैतस्वल्पमात्रक किमिति कस्मादुच्यते । अतिबलं महाशक्ति अधिद्युति महातेजश्च यत्सत्वं प्राणी तत्सर्वमेष एवेति सृष्टं निःशङ्कमुच्यताम् । न ह्यलीकस्यान्तो भवतीति भावः । अतश्च येनासत्यं वाच्यं स बढेव कस्मान्नाह । तस्मान्नैतेन किंचिदपि कृतमिति वाक्यार्थः । इति निन्दा ॥ स्तुतिस्तु-अयं रावणारिरेवेति किमेतावदेवोच्यते । यस्माद्यदतिबलमधिद्युति च सत्त्वं तत्सर्वमेष इति सृष्टं निःशङ्कमुच्यताम् । उक्तं च किलागमे-'यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ॥' इति॥ यश्च बाल्ये शकटमेष एव चिक्षेपेत्युच्यते तदप्यसत्यमिति वक्तुमाहचलतैष पादयुगलेन गुरु शकटमीपदस्पृशत् । । दैवकलितमथ चोदलसद्दलितोरुभाण्डचयमात्मनैव तत् ॥२२॥ चलतेति ॥ एष वै चलच्यां चरणाभ्यां गुरु शकटं किंचिदस्पाक्षीत्। तच्च दैवकलितं दैवचोदितं स्वयमेवोदलसदपप्तत् । न त्वेतस्यात्र किंचित्पौरुषम् । दलितः स्फुटित उरुर्महाभाण्डानां दधिघृतकटादीनां चयो राशियंत्र । इति निन्दा ॥ Page #393 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३८१ स्तुतिस्तु-एष भगवांश्चलता पादयुगलेन गुरु शकटमीषदेवास्पृशत् । अथ चोदलसत्परिवृत्तम् । यत् एतेन देवेन भगवता कलितं प्रेरितम् । अथेति विस्मये । ईषत्स्पर्शमात्रास्किल भङ्गो न युक्तः । शकटशब्दोऽस्त्रीलिङ्गः ॥ स्नुवतामुना स्तनयुगेन जनितजननीजनादरा । स्त्रीति सदयमविधाय मनस्तदकारि साधु यदधाति पूतना ॥२३॥ नुवतेति ॥ अमुना यत् पूतना राक्षसी स्त्री इति सदयं मनः अकृत्वा अघाति हता तत्साध्वकारि युक्तं कृतमिति काका प्रयोजने, नैव साधु कृतमित्यर्थः । कीदृशी सा । नुवता क्षीरं स्रवता स्तनयुगेन कृतो जननीजनादरो मातृस्नेहो यया अतश्च मातृघात्येवायम् । इति निन्दा ॥ स्तुतिस्तु-यदमुना स्त्रुवता स्तनयुगेन कृतमातृस्नेहापि पूतना राक्षसी स्त्रीति मनः सदयमकृत्वा हता तत्साध्वकारि युक्तमेवानुष्ठितमिति स्पष्ट एवार्थः। सा हि राक्षसी स्तनाभ्यां सविषं क्षीरं स्रवन्ती तन्मारणार्थमेवागमदित्यागमार्थः । निष्कारणवधोद्यतस्य वधे कथमधर्मः स्यात् ॥ अभनक्तरू कथमिवैष कृतधरणिरिङ्गणः क्षणात् । बाढमिदमपि न बालकृतं ननु देवताविधिरयं विजृम्भते ॥२४॥ अभनगिति ॥ कृतधरणिरिङ्गणो विहितो/गतिः स कथमिव केन प्रकारेण क्षणेनैव तरू अर्जुनाख्यौ बाढं भृशमभनग्बभञ्ज । न संभावयाम एतदित्यर्थः । ननु सर्वत्रैव तेनैव भिन्नाविति प्रतीतिः तत्कथं भवतो न संभावनेत्याह-इदमपि न बालकृतं न शिशुकर्म । ननु देवताविधिरयं विजृम्भते विलसति । केनाप्यदृष्टेन देवेन तत्कृतं न स्वनेन । यस्य हि गमनमात्रे न शक्तिः स कथममानुपं कर्म कुर्यादिति भावः। ननु अमर्षे । न केवलं शकटभङ्गो देवताविधिविदयमपीत्यपिशब्दार्थः । इति निन्दा ॥ ___ स्तुतिस्तु-यदेप कृतधरणिरिङ्गणः कथमिवावस्विव क्षणादर्जुनौ बभञ्ज इदमपि न बालकृतम् । नन्वयं देवताविधिरुज्जृम्भते । एतस्य देवरूपत्वं देवत्वमाश्रित्यैतदेतेन कृतम् नतु तत्वतो बालेनेत्यर्थः । ननुराभिमुख्ये । अभनगिति भञ्जलङि रूपम् ॥ विहरन्वने विजन एव महति दधदेष गोपताम् । नाम जगति मधुसूदन इत्यगमद्धतेन मधुना महीयसा ॥२५॥ विहरनिति ॥ एष महति विशाले विजने वनेऽरण्ये गोपरूपो विहरन्बृ. हता मधुना माक्षिकपटलेन हतेन जगति मधुसूदन इति नाम प्राप्तवान् । वने मधु सूदितवान् नतु मधुनामानं दैत्यम् । इति निन्दा ॥ स्तुतिस्तु-एष कृष्ण एव महीयसा बलवत्तरेग मधुना दैत्येन मृतिविषयीभूतेन Page #394 -------------------------------------------------------------------------- ________________ ३८२ शिशुपालवधे मधुसूदन इति नाम जगति अगमत्प्राप । कीदृगेषः-वने ते.ये महति सर्वलोक. व्यापिनि विगतजने विहरन् । तथा गां पृथ्वी गोपस्तद्भावं बिभ्रत् ॥ अविमृश्य गोवधसमुत्थमयमघममीमरद्रुषा । रिष्टमुपगु समुपोढमदं यदसौ किलासुर इति प्रमाटि तत् ॥२६॥ अविमृश्येति ॥ अयं गोवधसमुत्थं तन्मारणोद्भवं पापमविमृश्यागणयित्वा यद्रुषा कोपेन रिष्टमनड्वाहममीमरदवधीत्तदकार्यम् । असौ पापी असुर इति किल प्रमार्टि नाशयति । दान्तरूपी असुरो मया हतो न तु गौरिति लोकस्य परिशुध्यति । किलालीके । तत्वतस्त्वसौ गौरव, अयं च गोघातीत्यर्थः । कीदृशं रिष्टम् । उपगु गवां समीपे समुपोढमदं तहर्षम् । सुरभीः कामयमानमित्यर्थः। अतश्च सुरतासक्तदान्तवधपातकित्वान्नायं पूजार्ह इति ॥ स्तुतिस्तु-किलशब्दस्य सत्यार्थत्वात् । यदसावुपगु गोनिकटे रिष्टमतृणेद तदसौ किलासुर इति प्रमाटि । असुर एवानेन हत इत्यर्थः। कीदृशं तम्भविमृश्यश्चिन्तयितुमशक्यो यो गोवधस्तत्र समुत्थ उत्थानमुद्यमो यस्य तमविमृश्यगोवधसमुत्थं यतोऽघं पापिनम् । अघमस्यास्तीति कृत्वा । तथा समुपोढमदं तदर्पम् । अतश्च गोवधसमुत्थस्य दर्पिष्ठस्य पापमतेर्दानवस्य वधाद्भगवतो महती नुतिरेव । अविमृश्येति ल्यप् । 'ऋदुपधात्-' इति क्यप् । अमी मरदिति मारयतेलुङ् चङ् । प्रमार्टीति मृजेर्वृद्धिः ॥ मुखकन्दरान्तरगतोऽपि विकटदशनेन केशिना । नास्य सपदि यदखादि भुजस्तदहो तिरश्चि सहजैव मूढता॥२७॥ मुखेति ॥ अस्य केशिनाम्ना अश्वेन यद्भुजो नाखादि न जग्धः तदहो तिरश्चि तिर्यक्षु सहजैव स्वाभाविक्येव मूढता अज्ञत्वं, तिर्यक्त्वात् । मूर्खेण तेन न भक्षितो न त्वस्य कापि शक्तिरिति वाक्यार्थः। कदाचिदप्राप्तोऽसौ भवेन्ने. त्याह-आस्यदरीविवरप्राप्तः । कदाचिद्दन्ताभावः स्यादित्याह-विकटदशनेन दन्तुरेणापि सपदि अस्य प्रायनन्तरम् । अहो विषादे ॥ स्तुतिरत्र-परमतमाशक्य काकुप्रयोगेण । यदस्य केशिना दैत्येन भुजो नाखादि तत्किं, तिरश्चि सहजैव मूढता न त्वस्य माहात्म्यमित्यर्थः । एतस्यैव ह्येवमसौ शक्तिः । न स तात्त्विकोऽर्थः । अहोशब्दः परस्योल्लुण्ठनाय । तिरश्चीति सप्तमी ॥ यदुदस्य बाहुमयमेकमधृत गिरिमद्भुतं न तत् । भूरि सलिलमविषयमियं जलदे विमुञ्चति गवां सभाग्यता ॥२८॥ यदिति ॥ मेघे दुःसहं प्रभूतं वारि वर्षति यदयं हरिरेकभुजमुक्षिप्य गिरि गोवर्धनमत दधे तन्नाद्भुतं नाश्चर्यम् । इयं गवां सभाग्यता पुण्यवत्त्वम् । गवां महिनासौ तो न त्वेतस्य काचिच्छक्तिरित्यर्थः । इति निन्दा ॥ Page #395 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३८३ स्तुतिस्तु-परमतमाशय काकुप्रयोगेण न तदद्भुतम् , अपि त्वाश्चर्यमेव । तथेयं गवां सभाग्यता किम् , न त्वस्य सा । अयमेव स्वमहिम्ना बभारेत्यर्थः ॥ किमिवात्र चित्रमयमन्नमचलमहकल्पितं यदि । प्राश निखिलमखिलेऽपि जगत्युदरं गते बहुभुजोऽस्य न व्यथा २९ किमिवेति ॥ अयं हरिरचलमहकल्पितं पर्वतोत्सवकृतमन्नं यदि प्राश भुक्तवास्तत्किमिवान चित्रमाश्चर्यम् । कतोऽस्य बहुभुज औदरिकस्य सकलेऽपि जगत्युदरं प्राप्ते न व्यथा पीडा अजीर्णत्वात् । अतश्च यः कुक्षिभरत्वात्सर्वमेव जिवत्सति तस्यौदनमात्रभोजनाको विस्मयः । इत्यात्मभरित्वकथनेन निन्दा ॥ स्तुतिस्तु-अस्यान्नादनात्को विस्मयः । यतोऽस्य जगन्निवासस्य सर्वेषु जगसूदरस्थितेषु न व्यथा । बहु भुनक्तीति बहुभुक् निखिलभुवनपालकः। यदि वा बहवो भुजा यस्य स बहुभुजोऽयम् । पूर्वत्र तु बहु भुङ्क्ते इति बहुभुक् । प्राशेत्यत्राश्नातेर्लिट् ॥ अमुना करेण पृथुदन्तमुसलमुदखानि दन्तिनः। तेन यदवधि म एव पुनर्बलशालिनां क इव तत्र विस्मयः ॥३०॥ अमुनेति ॥ अमुना हरिणा दन्तिनः कुवलयापीडस्य यत्पृथुदन्तमुसलं करेणो. दपाटि उत्खातम् । तेनोखातेन योऽसौ हस्ती अवधि हतः तत्र बलशालिनांक इव विस्मयः । न युक्तस्तत्र विस्मयः। मर्महननाद्धि शिशुरपि मारयति । इति निन्दा । स्तुतिस्तु काका गम्यते-को विस्मयः । विस्मय एवेत्यर्थः । स तु हस्तिनो हन्तुमशक्यत्वादिति भावः । यदुक्तम्-'एकः क्रुद्धो गजो हन्ति षट्सहस्राणि वाजिनाम्' । अवधीति कर्मणि लकारः च्लेश्चिण अकारलोपः ॥ शिशुरेव शिक्षितनियुद्धकरणमकृतक्रियः स्वयम् । मल्लमलघुकठिनांमतटं न्यवधीद्यदेप तददृष्टकारितम् ॥ ३१ ॥ शिशुरिति ॥ एष हरिः शिशुरेव बालः सन् यन्मल्लं चाणूराख्यं न्यवधीजघान तददृष्टकारितं दैवविहितम् । विधिवशाध्य बलोऽपि बलीयांसमभिभवति । तदेव बलवत्वमाह-कीदृशं मल्लम् । शिक्षितानि नियुद्धकरणानि बाहुयुद्धक्रियाः येन तं शिक्षितनियुद्धकरणं युद्धक्षं, तथा अलघु पीनं कठिनमंसतट अन्य तम् । एष तु स्वयमकृतक्रियोऽशिक्षितकरणः । यतः शिशुः इति निन्दा ॥ स्तुतिस्तु-पूर्ववत्काका । तत्किमदृष्टकारितं नैतदेवविजृम्भितम् , अपि त्वस्यै वायं महिमेत्यर्थः ॥ यदयुध्यमानमपि सन्तमुपहितसुरौघसाध्वसम् । कंसमभिमययमभ्यम समुदा जनेन तदपि प्रशंस्यते ॥ ३२ ॥ यदिति ॥ यदयमयुध्यमानं कसं स्वजनमप्यभ्यभवदाचकर्ष तदपि समुदा Page #396 -------------------------------------------------------------------------- ________________ ३८४ शिशुपालवधे जनेन प्रशंस्यते नैवाभिनन्द्यत इति काकुप्रयोगः । निष्क्रियस्य हि वधे का नाम स्तुतिः। कीदृशं तम्-जनितदेवपूगकम्पम् । अभियं त्रासरहितम् । वीरमित्यर्थः । इति निन्दा॥ स्तुतिस्तु-अयुध्यमानमपि सन्तं कंसमभियं त्रासरहितं वीरं यदभ्यभवत्तदपि संतोषवता जनेन प्रशंस्यते स्तूयत एव । यत उपहितसुरौघसाध्वसं, सदर्प च । कण्टकोद्धरणेन चावश्यं प्रहृष्टो जनः प्रशंसां करोति ॥ इति निन्दितं कृतधियापि वचनममुना यदाददे । स्तोतुमनिशमुचितस्य परैः स्तुतिरेव सा मधुनिघातिनोऽभवत् ३३ इतीति ॥ इत्युक्तप्रकारेण अमुना चैद्येन यद्वच आददेऽभ्यधायि। [सा] मधुरिपोर्नुतिरेवाभवत् । कदाचित्तुष्टुपुरसौ स्यादित्याह-निन्दितुं कृतधिया. पीति । किंविधस्य हरेः । परैः शत्रुभिरपि स्तोतुमजस्रं योग्यस्य । अत एतत्स्तुतिरभवत् । एतेन पूर्वेषां वाक्यानामुभयार्थता ख्याता यथा तथा व्याख्यातमेव । आददे इत्यस्य विहरणस्याशब्दार्थत्वात्प्रतिषेधाभावः प्रतीयते । अत्र तन्न तु शब्दोपात्तं यथा आस्यं व्याददातीति । मधुं निहन्तीत्यावश्यके णिनिः । 'कर्मणि हनः' इत्यर्थकुत्सायाम् ॥ यदुवाच दुष्टमतिरेष परिविवदिषुर्मुरद्विषम् । व्यर्थमपि सदसि चेदिपतेस्तदतोऽपराधगणनामगाद्वचः ॥३४॥ यदुवाचेति ॥ एष सभायां यद्वचोऽवोचत्तदुभयार्थ निन्दास्तुतिवाचकमप्यतो हेतोरपराधगणनामगादपराधगणनामध्ये गणितम् । यतो दुष्टत्वान्मुरारि परिविवदिषुर्निनिन्दिषुः । तेन हि तद्वच आक्रोशतयोक्तम् । या तु तस्य स्तोत्ररूपता सा काकतालीयेति भगवतो वा माहात्म्यम् । नैतावतासौ प्रियंवद इति अपराधगगनामगात् । यस्मादेष दुष्टमतिः सन् देवं परिविवदिषुराह इत्येवं वा योज्यम् ॥ इति प्रक्षिप्तश्लोकाः ॥ ३४ ॥ इति वाचमुद्धृतमुदीर्य सपदि सह वेणुदारिणा। सोहरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ ३९॥ इतीति ॥ सोढः क्षान्तो रिपूणां बलभरो वीर्यातिशयो येन सः न सहत इत्यसहनः असहिष्णुः स चैद्य इतीथमुद्धतं निष्ठुरं यथा तथा वाचमुदीर्य सपदि वेणुदारिणा नरकात्मजेन सह दत्तः करतालः परस्परपाणिताडनं यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं जहास । कृष्णदोषोद्धाटनहर्षादट्टहासं चकारेत्यर्थः । स्वभावोक्तिः ॥ कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः । सत्यनियतवचसं वचसा सुजनं जनाचलयितुं क ईशते ॥४०॥ Page #397 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३८५ कटुनेति ॥ माधवः कटुनापि चैद्यवचनेन विकृतिं नागमत् । गमेलुङि 'पुषादि-' इति च्लेरङादेशः । तथाहि सत्ये नियतवचसमस्खलितवचसं सत्यसंधं सुजनं के जनाः वचसा । तीवेणापीति भावः । चलयितुमीशते शक्नुवन्ति । न केऽपीत्यर्थः । 'सहिप्ये शतमागांसी ति प्रतिज्ञाभङ्गभयादसहतेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः । शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥४१॥ न चेति ॥ किंचेनि चार्थः । तदा तत्काले इतीत्थं शपमानमाक्रोशन्तमपि । 'शपतेराकोशे' इति भट्टमल्लः । तं चैद्यं यदुनृपा यादवाः शौरेः कृष्णस्य समयेन संकेतेन निगृहीतधियो निरुद्धबुद्धयः सन्तो न प्रचुक्रुधुः । 'क्रुधद्वहोरुपसृष्टयोः कर्म' इति कर्मत्वम् । तथाहि जनो लोकः प्रभुचित्तमेवानुवर्तते । शौरिसंकेतनिरुन्द्वबुद्धेर्यदुविशेषणगत्या क्रोधाभावहेतुत्वाकाव्यलिङ्गमर्थान्तरन्यासेन संकीर्यते ॥ विहितागसो मुहुरलङ्ग्यनिजवचनदामसंयतः । तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः॥४२॥ विहितेति॥ अलयेन निजवचनदाम्ना स्वप्रतिज्ञापाशेन संयतो बद्धोऽच्युतः मुहुर्विहितागसः पूर्व सहस्रशः कृतापराधस्यापि तस्य चैद्यस्यापराधं स एव प्रथमो यस्मिन्कर्मणि तत्प्रथमं यथा तथा कतिथः । कतीनां पूरण इति तस्य पूरणे डट्' इति डट्प्रत्ययः । 'षट्कतिकतिपयचतुरां थुक्' इति थुगागमः । मनसा समाख्यद्गणनां चकार । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरडादेशः । अत्र प्रतिज्ञापाशबन्धनस्य विशेषणगत्या प्राचीनापराधानन्त्येऽपि तात्कालिकापराधगणनाहेतुत्वाकाव्यलिङ्गभेदः ॥ स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः । स्मर्तुमधिगतगुणसरणाः पटवो न दोपमखिलं खलूत्तमाः॥४३॥ स्मृतीति ॥ विद्विषश्चद्यस्य संबन्धि समस्तमपकृतमपकारजातम् । नपुंसके भावे क्तः । तस्य हरेः कृष्णस्य स्मृतिपथं नेयाय न प्राप । न तमपकारं सस्मारेत्यर्थः । अर्थान्तरं न्यस्यति-अधिगतगुणस्मरणाः परिचितोपकारस्मृतय उनमाः सजना अखिलं दोषमपकारं स्मर्तुं न पटवः खलु । नालं भवन्तीत्यर्थः । 'पर्याप्तिवचने वलमर्थेषु-' इति तुमुन्प्रत्ययः । उपकारमेव स्मरन्ति साधवो नापकारमित्यर्थः ॥ नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः। माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥४४॥ नृपताविति ॥ अथ नृपतौ चेदिपे शौरि हरिमधिक्षिपति सति सुरसरि शिशु० ३३ Page #398 -------------------------------------------------------------------------- ________________ ३८६ शिशुपालवधे सुतो भीष्मः मरुति प्रलयमारुते भुवं चलयति कम्पयति सति क्षुभितस्यो - लस्याम्बुधेर्नादमनुकुर्वत्तद्वद्गभीरं वच आह स्म उवाच । 'लट् स्मे' इति भूतार्थे लट् । 'बुवः पञ्चानामादित आहो ब्रुवः' इति णल्याहादेशः । यद्यपि 'न पादादौ खल्वादयः' इत्याह वामनस्तथापि कविप्रौढ्या स्मशब्दस्य पादादौ प्रयोगः । उपमालंकारः ॥ उक्तमेवार्थं वक्तुराशयाविष्कारार्थमाह अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः । ग्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः || ४५ || अथेति ॥ अथ शिशुपालप्रलापानन्तरं मुररिपुतिरस्करणेन हरिनिन्दया क्षुभितः कलुषमना जाह्नवीसुतो गाङ्गेयः गौरवेण धैर्येण तमात्मनः परिवादं 'काममयं वृथापलित' इत्यादि स्वनिन्दामपरिगणयन् इति वक्ष्यमाणप्रकारेण वाचं प्राह स्म प्रोक्तवान् । गतमेतत् । धीराः स्वनिन्दामेव सहन्ते न गुरुदेवादिनिन्दामिति भावः । अत्र क्षोभस्य विशेषणगत्या वचनहेतुत्वात्काव्यलिङ्गभेदः ॥ विहितं मया सदसीदमपमृपितमच्युतार्चनम् । यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ||४६ ॥ विहितमिति ॥ मया अद्य सदसि सभायां विहितं कृतं इदमच्युतार्चनं यस्यापमृषितमतितिक्षितम् । असोढमित्यर्थः । ' मृष तितिक्षायाम्' इति धातोः कर्मणि क्तः । उपसर्गवशाद्विपरीतार्थता । अत एव मृषस्तितिक्षायामेव कित्व - निषेधादतितिक्षार्थत्वान्न गुणः । ' मतिबुद्धिपूजार्थेभ्यश्च' इति चकाराद्वर्तमानार्थता । 'क्तस्य च वर्तमाने' इति षष्ठी । सोऽपभ्रष्टा पुरुषश्चापं नमयतु आरोपयतु । सर्वभूभृतां मिषतामिति भावः । शिरस्ययं चरणः कृतो न्यस्तः । अयमिति भूमौ पात्यमानस्य चरणस्य हस्तेन निर्देश: । अयं कोपामर्प इत्यनुसंधेयम् ॥ इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात् । क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥४७॥ इतीति ॥ इतीत्थं भीष्मेण भाषितस्योक्तस्य वचसोऽर्थमभिधेयं शिरसि पादन्यासरूपं क्षणादधिगतवताम् । प्राप्तवतामिव सतामित्यर्थः । शिशुपालस्य पक्षा ये पृथिवीभृतो राजानस्तेषामसौ गणोऽतिमात्रं क्षोभं क्रोधं विकारमगमत् । एतेनैषामात्मविनाशावसायी रौद्रस्थायी क्रोधः प्रादुरभूदित्युक्तम् । उत्प्रेक्षा ॥ अथैषां दशभिगीत्रारम्भान्क्रोधानुभावानाह — शितितारकानुमितताम्रनयन मरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ||४८॥ शितीत्यादि ॥ कुधा क्रोधेन अरुणीकृतमत एव शिती श्यामे ये तारके Page #399 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३८७ कनीनिके ताभ्यामनुमितेऽनुमापिते ताने नयने यस्य तत्। 'तारकाक्ष्णः कनीनिका' इत्यमरः । सर्वमुखस्य रक्तत्वादिति भावः । बाणो नृपस्तस्य वदनं सकीलं कीलाकारच्छायासहितम् । परिधियुक्तमिति यावत् । सूर्यमण्डलमिव जगतो भिये भयाय उददीपि प्रजज्वाल । दीप्यतेः कर्तरि लुङि 'दीपजन-' इत्यादिना चिण्प्रत्यये तलुक् । अत्र नयनयोः स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणः । तत्सापेक्षत्वादौत्पातिकसूर्यमण्डलोपमासंकरः ॥ प्रविदारितारुणतरोग्रनयनकुसुमोज्वलः स्फुरन् । प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्रुमः॥४९॥ प्रवीति ॥ प्रविदारितेऽतिविकासिते अरुणतरे क्रोधादतिरक्ततरे अत एवोग्रे भयंकरे ये नयने ते एव कुसुमे ताभ्यामुज्वलो दीप्तः स्फुरन्स्वतेजसा दीप्य. मानः प्रातरहिमकरताम्रतनुः प्रभातार्कारुणविग्रहः प्रसिद्धो दुमो दुमाख्यो नृपः अपरो विषजगुम इवाभवदित्युत्प्रेक्षा रूपकसंकीर्णा ॥ अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् । कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले ॥ ५० ॥ अनिशान्तेति ॥ अनिशान्तोऽनिर्वाणो वैरदहनो विरोधाग्निर्यस्य तेन अतः एवान्तरभ्यन्तरे आर्द्रतां सारस्यं विरहितवता त्यक्तवता । रहयतेः क्तवतुप्रत्ययः । कोपो मरुदिव तेनाभिहतः प्रज्वलितः तेन नरकात्मजेन वेणुदारिणा तरुण वृक्षेणेव भृशं जज्वले ज्वलितम् । भावे लिट् । उपमालंकारः॥ अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत । ग्रस्तशशधरमिवोपलसत्सितदन्तपति मुखमुत्तमौजसः ॥५१॥ अभीति ॥ किमप्यभिधित्सतोऽभिधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शत्रादेशः । उत्तमौजसो नाम राज्ञः संबन्धि राहुवदनविकृतं व्यात्तत्वादाहुवक्रवत्करालम्, उपलसन्ती लक्ष्यमाणा सिता दन्तपतिर्यस्य तन्मुखं ग्रस्तशशधरमिव संदष्टचन्द्रमिव व्यभाव्यतातर्यंत । इत्युत्प्रेक्षा ॥ कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् । क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥५२॥ कुपितेति ॥ प्रथमं प्रागेव । अकुपितावस्थायामपीत्यर्थः । कुपितस्येवाकृतिर्मुखरागो यस्येत्युपमा । अरिचक्रभीषणं परबलभयंकरं दन्तवत्रं दन्तवक्रना. मानं राजानम् । अशनिदलितस्य वज्रहतस्याद्रितटस्य ध्वनिरिव ध्वनिर्यस्या तदित्युपमा अशनैः उच्चैर्ह सितमट्टहासः । क्रुद्धमसूचयत् । सर्वदा मुखरागस्य विशेषणादनुभावान्तरवेद्यः क्रुद्ध इत्यर्थः । अत्र कोपव्यञ्जकसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा ॥ Page #400 -------------------------------------------------------------------------- ________________ ३८८ शिशुपालवधे प्रतिषः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् । जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः॥५३॥ प्रतिघ इति ॥ प्रतिघः कोपः। 'कोपक्रोधामर्षरोपप्रतिघा-' इत्यमरः । कुतोऽपि समुपेत्यागत्य नरपतिगणं राजमण्डलं समाश्रयत्समाविशत् । रुक्मिणस्तु जामिः वसा । 'जामिः स्वसृकुलस्त्रियोः' इत्यमरः । तस्या रुक्मिण्या हरणेन जनितोऽनुशयो हा कष्टमापन्नं कदा निर्यातयामीत्यनुतापो यस्मिन्सः । 'अथानुशयो दीर्घद्वेषानुतापयोः' इत्यमरः । निजो नित्य एव प्रतिघः । 'निजमात्मीयनित्ययोः' इति विश्वः । समुदाचचार समुद्दिदीपे । भीष्मवाक्यमन्येषां कोपोत्पादकमासीत् , रुक्मिणस्तु प्रागेव विरूपकोपस्योद्दीपकमासीदित्यर्थः । अत्रानुशयस्य विशेषणगत्या कोपोद्दीपनहेतुत्वात्काव्यलिङ्गभेदः ॥ चरणेन हन्ति सुबलः स शिथिलितमहीध्रवन्धनाम् । तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ ५४॥ चरणेनेति ॥ सुबलो नाम राजा महीं धारयन्तीति महीध्राः पर्वताः । 'कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्' इति कप्रत्ययः । शिथिलितानि विश्लेषितानि महीध्राणां बन्धनानि संधयो यस्यास्ताम् । तीरेण तरलानि भूकम्पाञ्चलितानि जलराशेरम्बुधेर्जलानि यस्यास्ताम् । अवभुग्नं कुटिलम् । अतिभारादित्यर्थः । भोगिनः फणानां मण्डलं फणासमूहो यस्यास्तां भुवं चरणेन हन्ति स जघान । 'लट् से' इति भूतार्थे लट् । अत्र पादाघाताद्भुवः कम्पासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ कुपितेषु राजसु तथापि रथचरणपाणिपूजया । चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥५५॥ कुपितेष्विति ॥ रथचरणपाणेश्चक्रपाणेः पूजया राजसु तथा कुपितेष्वपि चित्ते कलितं निश्चितं कलहागमनं युद्धलाभो येन स आहुकिः आहुकिर्नाम राजा शोभनं हृदयं यस्य स सुहृन्मित्रमिव । कृष्णपक्षपातीवेत्यर्थः । 'सुहृदुईदौ मित्रा. मित्रयोः' इति निपातः । अधिकां मुदं दधौ संतोषं धृतवान् । सुदुःसहोऽपि कृष्णोत्कर्षः कलहकण्डूलबाहोराहुकेर्मोदहेतुरासीदित्यर्थः । उपमालंकारः ॥ गुरुकोपरुद्धपदमापदसितयवनस्य रौद्रताम् । व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥५६॥ गुर्विति ॥ विवक्षतः किमपि वक्तुमिच्छतः । वचः सन्नन्ताल्लटः शत्रादेशः । असितयवनस्य कालयवनस्य राज्ञः संबन्धि सर्वजगदशितुमत्तुमिव व्यात्तं विवृतम् । अतएव विकरालमतिविकृतम् । 'करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च' इति वैजयन्ती । गुरुणा कोपेन रुद्धपदं प्रतिबद्धवचनमास्यकुहरं वक्रविवरं रौद्रतां भयंकरतामापत् । अनाशितुमिवेति फलोत्प्रेक्षा व्यादानक्रियानिमित्ता ॥ Page #401 -------------------------------------------------------------------------- ________________ ३८९ पञ्चदशः सर्गः। विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता । हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ५७ विवृतेति ॥ अखिलनृपतीन्हन्तुं विवृतः प्रसारित उरुबाहुरेव परिघ आयुधविशेषो येन तेन । 'परिघः प्रतिघातेऽस्त्री' इति हैमः । सरभसं ससत्वरं यत्पदं तन्निधित्सता निधातुमिच्छता। दधातेः सन्नन्ताल्लटः शत्रादेशः। वसुना तन्नाम्ना राज्ञा विलम्बिनि उत्पातवेगाद्विखंसिनि निजे वसने स्वाम्बरे विचस्खले स्खलि. तम् । तद्ध्यस्य दुनिमित्तमिति भावः । भावे लिट् । अत्र वस्त्रसंसनस्य विशेषणगत्या स्खलनहेतुत्वात्काव्यलिङ्गं तद्वाहुपरिघेति रूपकेण संसृज्यते ॥ इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् । मारवलमिव भयंकरता हरिबोधिसत्त्वमभि राजमण्डलम् ॥५८॥ इतीति ॥ इतीत्थं तदा तस्मिन्काले विकृतरूपं रोषभीषणाकारं तद्राजमण्डलं मारबलमिव मदनसैन्यमिव । 'मदनो मन्मथो मारः' इत्यमरः । अविभिन्नचेतसमविकृतचित्तं बोधिसत्वो बुद्धः । 'बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः' इति वैजयन्ती । स हरिरिवेत्युपमितसमासः। तं हरिबोधिसत्त्वमभि । तत्समक्षमित्यर्थः । 'अभिरभागे' इत्यभेः कर्मप्रवचनीयत्वाचद्योगे द्वितीया। भयं करोतीति भयंकरः । 'मेघर्तिभयेपु कृत्रः' इति खच्प्रत्यये मुमागमः । तस्य भावस्तत्तामभजत् । उपमालंकारः । तेन भगवतो बुद्धस्य समाधिभङ्गाय प्रवृत्तं मारबलं यथा तेन भग्नं तथा राजमण्डलमपि हरिणा भज्यत इति वस्तु व्यज्यते ॥ रभसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः। सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ५९ - रभसादिति ॥ अथानन्तरमनुचितभियोऽनभ्यस्तसाध्वसाः । 'अभ्यस्त. ऽप्युचितम्' इति यादवः । अतएव युद्धमभिलापुका युद्धार्थिनः । 'लषपत-' इत्यादिना उकञ्प्रत्यये 'न लोका-' इत्यादिना षष्टीप्रतिषेधः । सदसि मेदिनीभृतः सदसि स्थिताश्चैद्यपक्षीया राजानः । सान्नैर्मुकुटकिरणैरुच्छलिताः स्फटिकांशवः सभाभित्तिस्फटिकमणिमयूखा यैस्ते तथोक्ताः सन्तो रभसाद्वेगादुद. स्धुरुत्थिताः । 'उदोऽनूर्ध्वकर्मणि' इत्यस्य प्रत्युदाहरणमेतत् । अत्र युद्धाभिलाषुकस्य विशेषणगत्योत्थानहेतुत्वात्काव्यलिङ्गभेदः ॥ स्फुरमाणनेत्रकुसुमोष्ठदलमभृत भूभृदचिपैः।। धूतपृथुभुजलतं चलितैर्दुतवातपातवनविभ्रमं सदः ॥ ६० ॥ स्फुरमाणेति ॥ स्फुरमाणानि नेत्राण्येव कुसुमान्योष्ठा एव दलानि च यस्मिकर्मणि तद्यथा तथा धूताः कम्पिताः पृथवो भुजा एव लताः शाखा यस्मि१ 'निपित्सता' इति पाठः. Page #402 -------------------------------------------------------------------------- ________________ ३९० शिशुपालवधे कर्मणि तद्यथा तथा । चलितैः भूभृतो राजानस्त एव अधिपाः पादपास्तैः सदः सभामण्डलं द्रुतः शीघ्रो वातपातो वायुप्रचारो यस्य तस्य वनस्य विभ्रम शोभाम् । 'विभ्रमः संशये भ्रान्तौ शोभायां च' इति वैजयन्ती । अभृत बभार । भृजो लुङि तङ् 'उश्च' इति सिचः कित्त्वाद्गुणाभावः 'हस्वादङ्गात्' इति सलोपः । अत्र वनविभ्रममिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना नेत्रकुसुमेत्यादिरूपकोत्थापितेति संकरः ॥ हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा । मानतुलितभुवनत्रितयाः सरितः सुतादविभयुर्न भूभृतः ॥६१॥ हरिमिति ॥ मानतुलितभुवनत्रितया अहंकारावधीरितजगत्रयाः भूभृतश्चै. द्यपक्षा राजानः । हरिमपि तृणायामंसत तृणसमममन्यन्त । तथा लघु मेनिर इत्यनादरोक्तिः । मन्यतेः कर्तरि लुङि च्लेः सिच् । अनुदात्तत्वादिदप्रतिषेधः । 'मन्यकर्मणि-' इति चतुर्थी । कुरुपतिं च नाजीगणन् । न धर्मराजं गणयन्ति स्मेत्यर्थः । गणेौँ चङि 'ई च गणः' इत्यभ्यासस्येकारः। सरितः सुताद्भीष्मा. दपि नाविभयुर्न भीताः । विभेतेलुंडि 'लौ' इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' इति झेर्जुसादेशः । 'जुसि च' इति गुणः । अत्र राजसु हर्यवमानाद्यनेकक्रियायोगपद्यात्समुच्चय इति सर्वस्वकारः ॥ गुरु निःश्वसनथ विलोलसदवथुवपुर्वचोविषम् । कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥६२॥ गुर्विति ॥ अथैष चेदिपः फणवान्फणीव। गुर्वधिकं निःश्वसन्फूत्कुर्वन् विलोलं सदवथु ससंतापम् । 'संतापो दवथुः' इत्यनेकार्थादिति सजनः । तद्वपुर्यस्य स विलोलसदवथुवपुः । 'द्वितोऽथुच्' । कीर्णा विक्षिप्तः दशनकिरणा अग्निकणा इव यस्य स तथा सन् वचो विषमिव तद्वचोविषं विससर्ज । विषप्रायं वच उजगारे. त्यर्थः । अतः फणवानिवेति व्यस्तोपमालिङ्गात्सर्वनोपमितसमासाश्रयणम् ॥ अथैतद्वचोविषमेव चतुर्भिराहकिमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः । वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥६॥ किमित्यादि ॥ हे नृपाः, अमीभिः पञ्चभिरुपपतिसुतैः समं जारजैः सह । पाण्डवानां क्षेत्रजवादित्थं प्रलापः । अनया स्थविरराजकन्यया क्षत्रियाङ्गनया च सह । 'कन्या कुमारिकानार्योः' इति विश्वः । भीष्मस्योर्ध्वरेतस्कत्वेन निन्दा । वध्यं वधार्हम् । अराज्ञो राजाहणग्रहणापराधादिति भावः । अराजत्वं व्यनक्ति । अमुं भुजिष्यं किंकरम् । कंसपशुपालनादिति भावः । 'भुजिष्यः किंकरो मतः' इति १ 'अहंकाराद्धारित' इत्यपि पाउः. Page #403 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३९१ हलायुधः । किं नाभिहत किमिति न मारयत । किंत्वभिहतेत्यर्थः । हन्तेर्वधार्थे लोट् । 'लोटो लत्' इति थस्य तादेशः । 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः । अहो अतिवध्योऽपि न हन्यत इत्याश्चर्ये । अत्रामर्षानुभावो वागारम्भः । 'क्रोधः कृपापराधेषु स्थिरोऽमर्ष इतीर्यते' इति ॥ अथवाध्वमेव खलु यूयमगणितमरुदणौजसः । वस्तु कियदिदमयं न मृधे मम केवलस्य मुखमीक्षितुं क्षमः ६४ अथवेति ॥ अथवा अगणितमरुद्गणौजसोऽवधीरितसुरसङ्घसत्वाः यूयमाध्व. मेव तूष्णीं तिष्टतैव खलु । आस्तेलौटि 'धि च' इति सकारलोपः । इदं कृष्णहननं कियद्वस्तु कियत्कार्यम् । अल्पमित्यर्थः । कुतः। अयं कृष्णो मृधे युद्धे । 'मृधमास्कन्दनं संख्यम्' इति युद्धपर्यायेष्वमरः । केवलस्यैकाकिनो ममैव मुख. मीक्षितुं न क्षमः युष्माकं का वातेति भावः । एतेनास्य बलगर्यो व्यज्यते । 'आत्मोत्कर्षोऽन्यधिक्कारो यल्लावण्यविभूतिभिः' इति लक्षणात् ॥ विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ । यातु निकपमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥६५॥ विदतुरिति ॥ किंच नदीजधर्मजो भीष्मयुधिष्ठिरौ । अशेषपरिषदि समग्रसंसदि । 'परिपत्संसत्' इति विश्वः । यं कृष्णमुत्तमं विदतुः । विदितवन्तावित्यर्थः । 'विदो लटो वा' इति तसोऽतुसादेशः । असौ कृष्णः। अधियुद्धं युद्धे । विभक्त्यर्थेऽव्ययीभावः । निकषं निकषणं यातु । परीक्ष्यतामित्यर्थः । ततः साधूत्कर्षोऽसाध्वनुत्कर्षों वा भवतु । व्यक्तमस्त्वित्यर्थः । वचनेन किम् । वृथा वाग्वीयरलमित्यर्थः । अत्रापि गर्वामर्षों व्यज्यते ॥ अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः । तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥६६॥ अचिरादिति ॥ किंच मया सह समरं गतस्योरगारिलक्ष्मणो गरुडध्वजस्य संबन्धि तीक्ष्णैर्विशिखमुखैः पीतम् । मद्राणोच्छिष्टमित्यर्थः । असृक् रक्तमुर्वरा भूमिः। 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । पततां गणैः पक्षिसमूहैः । 'पतत्पत्ररथाण्डजाः' इत्यमरः । सार्धमचिरात्पिबतु । अद्यैवाहमेनं हनिप्यामीत्यर्थः । अत्राप्यमर्ष एवेति भावः ॥ अभिधाय रूक्षमिति मा म गम इति पृथासुतेरिताम् । वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः॥६७॥ अभिधायेति ॥स चैद्य इतीत्थं रूक्षं परुषमभिधाय ततः पृथासुतैः पार्थैरीरितामुक्तामनुनयपरां मा म गमो न गच्छेति वाचम् । ‘स्मोत्तरे लङ् च' इति चकाराद्गमेराशिषि लुङि 'पुषादि-' इति च्लेरङादेशः 'न माङयोगे' इत्यडभावः । Page #404 -------------------------------------------------------------------------- ________________ ३९२ शिशुपालवधे अवकर्ण्य अनादरेण श्रुत्वा सहसा संसदः सदसो निरियाय निर्ययौ । अमर्षादेवेति भावः ॥ गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ६८ गृहमिति ॥ निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसंपन्नाः । परच्छन्दानुवतिन इत्यर्थः । 'त्रिपु वाक्कुशलावामपरच्छन्दानुवर्तिषु । दक्षिणा' इति वैजयन्ती । किंच क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किंच गृहमागताय । अभ्यागतायेत्यर्थः । किंच जननीस्वसुर्मातृप्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपीत्यर्थः । न चुकुपुः न चुक्रुधुः। सद्योवध्यस्यापि तस्याभ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वाद्दाक्षिण्यात्कृपया च कथमपि जिघांसां न चारित्यर्थः। 'क्रुधद्रुह-' इत्यादिना संत्रदानत्वाच्चतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच्च परिकरः काव्यलिङ्गे सति सापेक्षत्वात्संकीर्यते ॥ चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः । तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ ६९ ॥ चलितमिति ॥ अथ चैद्यनिर्याणानन्तरं अवनीशसूनवस्तत्पक्षराजपुत्रास्ततस्तस्याः अवनिपतेयुधिष्ठिरस्य यज्ञभूमितो यज्ञभूमेदेवयजनात् । पञ्चम्यान्तसिल । अनभिहतेच्छमप्रतिहतमनोरथं यथा तथा चलितं प्रस्थितं दमघोषसूनुं शिशुपालम् । याति परलोकमिति ययुः परलोकप्रापकोऽश्वमेधीयोऽश्वः । 'ययुरश्वोऽश्वमेधीयः' इत्यमरः । 'यो द्वे च' इति यातेरौणादिक उक् द्वित्वं च ।तं ययुमित्र तूर्णमनुययुः । ययुरपि राजकै राजपुत्रैरन्वीयते । 'चतुःशता रक्षन्ति' इति श्रुतेः। अश्वमेधीयाश्वोपमया चैद्यस्य वध्यत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः । द्रष्टुमलघुरभसापतिता वनिताश्चकार न सकामचेतसः ॥ ७० ॥ विशिखान्तराणीति ॥ स चैद्यः सपदि जवनैवेंगशालिभिर्वाजिभिरश्ववि. शिखान्तराणि । रथ्यान्तराणि । 'रथ्या प्रतोली विशिखा' इत्यमरः। अतिपपात अतिचक्राम । अतएव द्रष्टुमलघुरभसेनातिवेगेनापतिता आधावन्तीर्वनिताः सकामानि साभिलाषाणि चेतांसि चित्तवृत्तयो यासां ताः सकामचेतसः । सफलमनोरथा इत्यर्थः । न चकार । अतिशीघ्रलङ्घनान्न दर्शनावकाशस्तासामासीदित्यर्थः । अतएव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः। प्राप्य शिविरमविशङ्किमनाः समनीनहदुतमनीकिनीमसौ ॥७१॥ Page #405 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। क्षणमिति ॥ असौ चैद्यः पथि किमिदमिति मिथः जल्पता कोऽयमनर्थः संवृत्त इति परस्परमालपता जनेन क्षणमीक्षितः सन् शिबिरं स्वकटकं प्राप्याविशङ्किमना निःशङ्कचित्तः द्रुतं शीघ्रमनीकिनी सेनां समनीनहत्संनाहयति स्म। नह्यतेः संपूर्वकाल्लुङि ‘णौ चड्युपधाया ह्रस्वः' अभ्यासदीर्घश्च । शिबिरं शकटमिति केचित् । एतेनास्य रौद्रस्थायिनः कोपस्य प्ररूढत्वं वेदितव्यम् ॥ त्वरमाणशालिकसवेगवदनपवनाभिपूरितः। शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः॥७२॥ त्वरमाणेति ॥ शङ्खः शिल्पमस्येति शाङ्खिकः । तदस्य शिल्पम्' इति ठक् । स्वरमाणस्य जवमानस्य शाङ्खिकस्य यः सवेगो वदनपवनो मुखमारुतः तेनाभिपूरितः प्रध्मातः शैलानां कटकतटेषु नितम्बप्रदेशेषु भिन्नरवो मूछितप्रतिध्वनिरस्य चैद्यस्य संबन्धि संनहनं प्रयोजनमस्येति सानहनिकः । योधानां रणसंनाहप्रवर्तक इत्यर्थः। तदस्य प्रयोजनम्' इति ठक् । वारिजः शङ्खः । 'वारिजः शङ्खपद्मयोः' इति विश्वः । प्रणनाद दध्वान । संनहनशङ्ख दध्मावित्यर्थः । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । एतेनास्य महानुत्साहो वीररसस्थायी व्यज्यते ॥ जगदन्तकालसमवेतविषदविषमेरितारवम् । धीरनिजरवविलीनगुरुप्रतिशब्दमय रणतूर्यमावधि ॥ ७३ ॥ जगदिति ॥ जगदन्तकाले कल्पान्ते समवेता मिलिता ये विषदास्तोयदाः पुष्करावर्तकादयो मेघाः । 'विषं तु गरले तोये' इति विश्वः । तैर्विषमं दारुणं यथा तथेरित उत्पादितो य आरवः स इवावरो यस्य तत् । धीरे गम्भीरे निजरवे विलीना अन्तर्गता गुरवः प्रतिशब्दाः शब्दान्तराणि यस्य तत् । अस्य चैद्यस्य रणतूर्य रणदुन्दुभिरावधि आहतम् । आहन्तेः कर्मणि लुङ्। 'आत्मनेपदेष्वन्यतरस्याम्' इति हनो वधादेशः । अत्राप्युत्साहो व्यज्यते । उपमालंकारः ॥ सहसा ससंभ्रमविलोलसकलजनतासमाकुलम् । स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥७४॥ सहसेति ॥ अथ रणदन्दभिताडनानन्तरं सहसा झटिति ससंभ्रमं सव्यग्रं यथा तथा विलोलया चलन्त्या सकलया समग्रया जनतया जनसमूहेन समाकुलं संकीर्णं तत्स्थानं परितश्चलितं प्रस्थितमुडुमण्डलं ज्योतिश्चक्रं यस्मिंस्तस्य नभः. स्थलस्योपमां सादृश्यमगमत् । अत्रोडुमण्डलस्य चलनासंबन्धेऽपि संभावनया तत्संबन्धोक्तेरतिशयोक्तिः । उपमा तु तदुजीविता प्रतीतिमात्रसारा तदङ्गम् । तत्रैव चमत्कारस्फुरणात् । 'पुष्पं प्रवालोपहितं यदि स्यात्' इत्यादिवत् ॥ दधतो भयानकतरत्वमुपगतवतः समानताम् । धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥ ७५ ॥ Page #406 -------------------------------------------------------------------------- ________________ ३९४ शिशुपालवधे दधत इति ॥ मेदिनीभृतो राजानः । धूमपटलेन पिहितस्य छादितस्य मत एव भयानकतरत्वमतिभयंकरत्वमुपगतवतो गिरेः समानतां सादृश्यं दधतो दधानाः सपदि समवर्मयन्संवर्मयन्ति स्म । सम्यग्वर्मणानह्यन्नित्यर्थः । 'सत्यापपाश-' इत्यादिना णिच् । उपमालंकारः ॥ परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् । वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ ७६ ॥ परिमोहिणेति ॥ परोऽन्यो नृपः । परिमुह्यतीति परिमोही । 'संपृच-' इत्यादिना घिनुण्प्रत्ययः । तेन । खेदयुक्तेनेत्यर्थः। परिजनेन सेवकजनेन कथमपि विलम्बेन कष्टसृष्ट्या चिरादुपाहृतमानीतं महद्वर्म संनाहं करतलयुगेन पाणितलद्वयेन तनुचूर्णपेषं पिष्ट्वा । 'शुष्कचूर्णरूक्षेषु पिषः' इति णमुलप्रत्ययः । अपिषचूर्णितवान् । तच्च जिगीषोर्दुनिमित्तमिति भावः । 'कषादिषु यथाविध्यनुप्रयोगः' इत्यनुप्रयोगः । पिषेलुङि 'पुषादि-' इति च्लेरङादेशः । अत्र वर्मणः पेषणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तया चामानुषं वीर्यमस्य व्यज्यते ॥ रणसंमदोदयविकासिबलकलकलाकुलीकृते । शारिमशकदधिरोपयितुं द्विरदे मदच्युति जनः कथंचन ॥७॥ रणेति ॥ रणेन रणारम्भेण यः संमदो हर्षः । 'प्रमदसंमदौ हर्षे' इति निपातः। तस्योदयेन जन्मना विकासिभिर्विस्तारिभिर्बलकलकलैः सैन्यकोलाह. लैराकुलीकृते संक्षोभिते । अतएव मदं च्योततीति मदच्युति मदनाविणि । क्विप् । द्विरदे गजे जनः परिजनः शारि पर्याणम् । 'ना पर्याणे विरङ्गे स्त्री शारिद्यूतगुडे न पुम्' इति वैजयन्ती। 'शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थे गजपर्याणे व्यवहारान्तरे क्वचित् ॥' इति विश्वप्रकाशश्च । अधिरोपयितुमारोपयितुं कथंचन कृच्छ्रादशकच्छशाक । शकेलृङि 'पुषादि-' इति च्लेरङादेशः । अत्र विशेषणगत्या सेनाकलकलस्य मदहेतुत्वान्मदस्य शारिदु. रारोपत्वहेतुत्वाच्च काव्यलिङ्गद्वयं तत्सापेक्षत्वात्संकीर्यते ॥ परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः। तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः॥८॥ परित इति ॥ किं चेति चार्थः । धौतेषु शोधितेषु मुखरुक्मेषु मुखस्य रुक्माभरणेषु विलसत्प्रत्येकं प्रतिफलदहिमांशुमण्डलमर्कबिम्बं येषां ते तथोक्ताः । अतएव स्फुटलक्ष्यमन्तर्गत्वा बहिः स्फुरितं तेजोऽन्तःसारो येषां ते इव स्थिता इत्युत्प्रेक्षा । तेजो व्याख्यातं पञ्चमे तेजोनिरोधेत्यत्र । अतनुवपुषो महाकायाः श्रिय आत्मजा अश्वाः। 'लक्ष्मीपुत्रोऽश्व आढ्ये च' इति वैजयन्ती। परितः पृथिवीं तेनुर्व्याप्तवन्तः ॥ Page #407 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३९५ प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः । पेतुरशनय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥ ७९ ॥ प्रधीति ॥ 'चक्रधारा प्रधिनेंमिः' इति हलायुधः । प्रधिमण्डलैनैमिवलयैरुद्धता उत्थापिताः परागाः पांसव एव घना मेघास्तेषां वलयानि मण्डलानि तेषां मध्यवर्तिनः गुरुभिर्निःस्वनैः स्वघोषैर्व्यथिता भीषिता जन्तवः प्राणिनो यैस्ते रथा अशनयः वज्रा इवाशनकैः पेतुस्तीव्रमधावन् । अत्र रथानामशनित्वेनोत्प्रेक्षा परागाणां घनत्वरूपणसापेक्षेति संकरः ॥ दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः। चक्रुरथ सह पुरन्ध्रिजनैरयथार्थसिद्धि सरकं महीभृतः ॥ ८० ॥ दधत इति ॥ लसन्नुरश्छदः कवचो यस्मिन्कर्मणि तद्यथा तथा । 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्' इत्यमरः। अतएव शशाङ्कितो मृगलाञ्छितो यः शशाङ्क इन्दुस्तस्य रुचिरिव रुचिर्यस्येत्युपमा । तद्वपुर्दधतो दधानाः महीभृतो राजानः पुरन्ध्रिजनैरङ्गनाजनैः सह । अयथार्था असत्या सिद्धिर्मदकार्योंपत्तियस्मिंस्तद्यथार्थसिद्धिरहितम् । अनिर्वृतचित्तत्वादमादकमित्यर्थः । सरकं मधुपानं चक्रुः । उत्साहवर्धनार्थमिति भावः । 'मणौ शीधौ शीधुपाने सरकं मधुभाजनम्' इति वैजयन्ती ॥ ___ अथासर्गसमाप्तेः प्रायाणिकामन्त्रगाय प्रियासंगतानां भटानामागामिशुचः. सूचिकास्तात्कालिकचेष्टा वर्णयतिदयिताय सासवमुदस्तमपतदवसादिनः करात् । कांस्यमुपहितसरोजपतद्भमरौघभारगुरु राजयोषितः॥ ८१ ॥ दयितायेत्यादि ॥ दयिताय प्रेयसे उदस्तं पानार्थमुक्षिप्तं सासवं समर्थ अत एवोपहिते वासनार्थं निहिते सरोजे पतन भ्रमरौध एव भारस्तेन गुरु दुर्भरम् । 'गुरुस्तु वाक्पती श्रेष्ठे तुङ्गे पितरि दुर्भरे' इति शब्दार्णवे । कांस्यं पानभाजनम् । 'कंसोऽस्त्री पानभाजनम्' इत्यमरः । 'वृतृवदिहनिकमिकषिभ्यः सः' इति कमेर्धातोरोणादिकः सप्रत्ययः । तस्मै हितं कंसीयं लोहविशेषः । 'प्राक्कीताच्छः' इति छप्रत्ययः । तस्य विकारः कांस्यं पानपात्रम् । 'कंसीयपरशव्ययोर्यअजौ लुक्च' इति यञ्प्रत्यये छस्य लुक् । राजयोषितः कस्याश्चिद्राजवध्वाः संब. न्धिनः अवसादिनः शैथिल्यभाजः करादपतत् । तच्च दुर्निमित्तमिति भावः । एतेनास्या भाविविरहशोकादेवाप्रसन्नदृष्टेः काचिच्चिन्ता व्यज्यते । अत्रावसादभारगौरवयोर्विशेषणगत्या पात्रपातहेतुत्वात्काव्यलिङ्गम् ॥ भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः । वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥२॥ भृशमिति ॥ शुचो भाविविरहभावनाप्रसूताः शोकाः अविशददृशः शोका Page #408 -------------------------------------------------------------------------- ________________ ३९६ शिशुपालवधे देवाप्रसन्नदृष्टेः । कस्याश्चिदिति शेषः । मदमपास्य तदुत्पत्तिं प्रतिरुध्य तदीयं गुणं तद्धर्मम् । मदकार्यभूतमित्यर्थः । अङ्गसादमङ्गशैथिल्यं कपोलयोररुणत्वमसकलमसमाप्तं वाक्यं चात्मना स्वयम् । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । भृशं विदधुः । करुणेन शृङ्गारस्तिरस्कृत इत्यर्थः । अत्र मदाभावेऽपि तत्कार्योदयात्तस्यावलोकननिमित्तकत्वोक्त्या उक्तनिमित्ताख्यो विभावनाभेदः ॥ सुदृशः समीकगमनाय युवभिरथ संबभाषिरे । शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ ८३ ॥ सुदृश इति ॥अथास्मिन्नवसरे युवभिः समीकगमनाय युद्धगमनाय । 'समीकं सांपरायिकम्' इत्यमरः । सुदृशः शोकपिहिते शोकावृते गले कण्ठे रुद्वगिरः प्रतिबद्धोत्तरवाचस्तथापि तरसा वेगेनागतमश्रुजलमेव केवलं निर्णीतमुत्तरं यासां ताः । 'निर्णीतं केवलं चोक्तम्' इति विश्वः । संबभाषिरे संभाषिताः । योद्धं गच्छामेत्यामन्त्रिताः। हा कष्टमिदमेवान्तिमदर्शनमिति वाक्यभेदेऽप्यश्रुपातेनैवानक्षरं दत्तोत्तराश्चासन्नित्यर्थः । अत्राप्यश्रुपातो दुनिमित्तमिति भावः । एतेन गन्तव्यं चेद्दम्यतां, वयं च युष्मत्सालोक्यकामा इत्यनिष्टविध्याभासरूपाक्षेपालंकारो व्यज्यते । अनिष्टविध्याभासश्चेति सूत्रेणेष्टनिषेधाभासवदस्यापि लक्षणात् ॥ विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः। पीनकुचतटनिपीडदलद्वरवारवाणमुरसालिलिगिरे ॥ ८४ ॥ विपुलेति ॥ जिगमिषुभियुद्धाय गन्तुमिच्छुभिः । प्रियैः कर्तृभिः अङ्गनाः विपुलं यदचलस्य स्थलं तद्वद्धनेन दृढेनोरसा निजवक्षसा करणेन पीने कुचतटे निपीडो नितरां पीडनं तेन दलन्तो विदीर्यमाणा वराः श्रेष्ठा वारबाणाः कञ्चका यस्मिन्कर्मणि तद्यथा तथा । 'कञ्जुको वारबाणोऽस्त्री' इत्यमरः । आलिलिगिरे आलिङ्गिताः । अत्र वारबाणानां दलनासंवन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ न मुमोच लोचनजलानि दयितजयमङ्गलैपिणि । यातमवनिमवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥ ८५॥ नेति ॥ दयितस्य जयमङ्गलम् । तदर्थमङ्गलमित्यर्थः । अश्वघासादिवत्तदर्थं षष्ठीसमासः । तदिच्छतीति तदेषिणी विलासिनी काचिदङ्गना लोचनजलान्यधूणि न मुमोच । अश्रुपातस्यामङ्गलत्वादिति भावः । अमङ्गलं तदन्यतः प्रवृत्तमेवेत्याह -यातमिति । अवसन्नभुजाच्छोकशिथिलात्कराद्गलद्रश्यदेवावनिं भुवं यातं प्राप्त वलयं कङ्कणं न विवेद । अवश्यभाविनां को निवारक इति भावः । एषा च दैन्यचिन्तेति । अत्रावसादस्य विशेषणगत्या वलयपातहेतुत्वाकाव्यलिङ्गम् ॥ प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् । नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ ८६ ॥ Page #409 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३९७ प्रेति ॥ अचिरोढसुन्दरी काचिन्नवोढा स्त्री प्रविवत्सतः प्रवासं कर्तुमिच्छतः । वसेः सन्नन्तालटः शत्रादेशः । प्रियतमस्य प्रतिपादयुग्मं पादयुग्मे । विभक्त्यर्थेऽव्ययीभावः । नीलनलिनदलदामरुचि नीलोत्पलमालासच्छायमित्युपमा । निगडमिव शृङ्खलामिव चक्षुर्नेत्रमक्षिपत् । प्रेरयदित्यर्थः । चक्षुषो दूरे पदमपि गन्तुं न शशाकेत्यर्थः । तच्च दुर्निमित्तमिति भावः । प्रयाणे ख्यवलोकननिषेधात् । उक्तोपमासापेक्षा चक्षुषो निगडत्वोत्प्रेक्षेति संकरः ॥ व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् । धैर्यमभिनदुदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ॥ ८७॥ ब्रजत इति ॥ जनन्याः अपशकुनभीतायाः मातुर्निभर्त्सनाद्विवृद्धमन्युना प्रवृद्धकोपेन शिशुना बालकेन हे तात जनक । 'तातस्तु जनकः पिता' इत्यमरः । व वजसि कुत्र व्रजसि इत्यस्फुटमुदितमुक्तम् । वदेः कर्मणि क्तः । 'वचि. स्वपि-' इत्यादिना संप्रसारणम् । व्रजसीति सरेफपदमपाटवादरेफमुच्चारितमित्यर्थः । तथापि परिचयादभ्यासपाटवागतार्थम् । पितृभ्यां केवलावगताभिधेयं वचनमिति शेषः । व्रजतः प्रस्थातुः धैर्य प्रयाणोत्साहमभिनत् । गमनकारिणो दुनिमित्तत्वादिति भावः । उक्तं च योगयात्रायाम्-'यानात्पुरा निपतनं बृहतीव काचिद्गर्भेण भारबृहती स्वपुरः स्थिता स्त्री। आगच्छ तिष्ठ कुत इत्यल. मर्थवाचिशब्दाश्च राजगमने प्रतिषेधकाः स्युः ॥' इति । अत्र दंपत्योदैन्यवि. पादचिन्ताशङ्कादयः संचारिणोऽनुसंधेयाः ॥ शठ नाकलोकललनाभिरविरतरतं रिरंससे । तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ण्ययापरा ॥ ८८ ॥ शठेति ॥ अपरा स्त्री रणरागिणं युद्धोत्साहिनं रमणं हे शठ वञ्चक, नाकलोकललनाभिः । अप्सरोभिः सहेत्यर्थः । 'सहयुक्तेऽप्रधाने' इति सहार्थे तृतीया वृद्धो यूनेतिवत् । अविरतरतमविच्छिन्नसुरतं यथा भवति तथा रिरंससे रन्तुमिच्छसि । रमेः सन्नन्ताल्लए । 'पूर्ववत्सनः' इत्यात्मनेपदम् । तेनाप्सरोरिरंसाकरणेन मुदं वहसीति ईय॑या सापल्याक्षमया अवदत् । अर्थाद्विरहासहनया प्रस्थानप्रतिषेधपरया व्याहृतमिदमेवास्य मरणशंसिनी दुरुपश्रुतिरिति भावः । ईात्र कण्ठोक्त एव संचारी ॥ ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रवः । स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ ८९ ॥ ध्रियमाणमिति ॥ दयिते चलति प्रतिष्ठमाने सति नतध्रुवः वध्वाः अश्रु ध्रियमाणममङ्गलभिया धार्यमाणमपि । धरतेः कर्मणि लटः शानजादेशः । अगलदस्रवत् । शोकातिरेकाद्धारयितुमशक्यमासीदित्यर्थः । तथाहि अकृतकरसमकृत्रिमरागं स्नेहं प्रेम दधताम् अतएव अतिमुग्धचेतसामत्यन्ताकपटबुद्धीनामिदमेवासंवरणं युक्तम् । अन्यथा स्नेहव्याघातेन तत्कालविरुद्धमश्रुमोचनं नानुचितमिति शिशु० ३४ Page #410 -------------------------------------------------------------------------- ________________ ३९८ शिशुपालवधे भावः । रसस्नेहयो रागप्रेमापरनाम्नोरवस्थाभेदाढ़ेदः। 'रागस्तत्संबन्धी प्रेम तद्वियोगासहिष्णुता' इति रससागरे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ सह कजलेन विरराज नयनकमलाम्बुसंततिः। गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥९०॥ सहेति ॥ सुतनोः शुभाझ्याः गण्डफलकमभितः । गण्डस्थलयोरित्यर्थः । 'अभितःपरितः-' इत्यादिना द्वितीया । नयनकमलाम्बुसंततिरश्रुधारा कजले. नाञ्जनेन सह शोक एव शोकमयस्तस्य कृष्णवर्मनः शोकाग्नेः पदवीव निःसरणमार्ग इव विरराज शुशुभे । येन वर्मनाग्निर्गच्छति तत्कृष्णं भवतीति कृष्णवर्मा । अत्राप्यश्रुपात एव दुर्निमित्तमिति भावः ॥ क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रवः। स्रस्तभुजयुगगलद्वलयस्खनितं प्रति क्षुतमिवोपशुश्रुवे ॥ ९१॥ क्षणेति ॥ कतिपयं च तत्पदं च तत् । जातावेकवचनम्। कतिचित्पदानीत्यर्थः । पदशब्दस्य तदवच्छिन्नदेशवाचित्वादत्यन्तसंयोगे द्वितीया । चलितेन प्रस्थितेन । केनचिदिति शेषः । क्षणमात्रमरोधि क्षणमात्रप्रतिबन्धकम् । प्राणदानकजीविनामवसरे सत्यधिकं स्थातुमनौचित्यादिति भावः। नतध्रुवः स्रस्तानामगसादेन झटिति प्रकोष्ठाग्रे पतितानां भुजयुगगलद्वलयानां हस्तद्वयचलत्कङ्कणानां स्वनितं रणत्कारं प्रति प्रतिमुखं क्षुतमिवोपशुश्रुवे उपश्रुतम् । 'स्त्री क्षुत्क्षुतं क्षवः पुंसि' इत्यमरः । रणत्कारे क्षुतभ्रान्त्या निवृत्तम् । क्षणमात्रं स्थितमित्यर्थः । अक्षुते क्षुतभ्रान्त्या भ्रान्तिमदलंकारः। दैन्यविषादाख्याः संचारिणः ॥ अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका । भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥९२॥ अभीति ॥ वल्लभतमस्य प्रियतमस्याभिवर्माभिमार्ग विगलदङ्गसादात्स्रंसमानममलमायतं चांशुकं वस्त्रं यस्याः, अन्यत्र विगलन्तो विशीर्यमाणा अमला उज्वलाः आयता दीर्धीभूता अंशवो रश्मयो यस्याः सा । शैषिकः कप्रत्ययः । भूमिर्नभ इव तस्मिन्भूमिनभसि रभसेन वेगेन यती यान्ती। इणः शतरि 'उगितश्च' इति ङीप् । काचनाङ्गना महोल्कया समं सदृशं विरराज । अत्र प्रस्थातुरग्रे स्वकान्तया महोल्कासादृश्यभवनमेव दुर्निमित्तमिति भावः । उपमालंकारः ॥ समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः। दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे ॥९३॥ समरेति ॥ नृपगणे समरोन्मुखेऽपि तस्य नृपगणस्यानुमरणे सहमरणे उद्यतो. द्युक्ता अत एवैका मुख्या धीर्यस्य सः । दीनेनाप्यशोच्येन परिजनेन कृताश्रुजलो मुक्तबाष्पः । दासीमुक्ताश्रुबिन्दुरित्यर्थः । तथापि स्वयं स्थिरमना अचलितचित्तो Page #411 -------------------------------------------------------------------------- ________________ पञ्चदशः सर्गः। ३९९ भटीजनो भटस्त्रीलोकः । जातावेकवचनम् । 'पुंयोगादाख्यायाम्' इति डीप् । न विचक्लमे न तत्रास । सहमृत्युप्रियाणां कुतः संत्रास इति भावः । अत्र मरणोद्यो. गस्य विशेषणगत्या अक्लैब्यहेतुत्वात्काव्यलिङ्गभेदः ॥ विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः । यान्तमनिमिषमवितृप्तमनाः पतिमीक्षते स्म भृशमा दृशः पथः ९४ विदुषीवेति ॥ युवतिः काचिदङ्गना अमुष्य पत्युदर्शनं पुनः पश्चादतिदुर्लभम् । तस्यापुनरावृत्तेरिति भावः । विदुषी जानतीवेत्युत्प्रेक्षा । 'विदेः शतुर्वसुः' इति वस्वादेशः 'उगितश्च' इति डीप् । अवितृप्तमना अवितृप्तचित्ता सती यान्तं योढुं गच्छन्तं पतिं भर्तारं आ दृशः पथः आ दृष्टिपथात् । दृष्टिपथातिक्रमपर्यन्तमित्यर्थः । 'आमर्यादाभिविध्योः' इति विकल्पादाङो न समासः । भृशमनिमिषं निमेषरहितं यथा तथा ईक्षते स्म ॥ संप्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता । सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ९५ संप्रतीति ॥ संप्रतीदानीमेव कुशली अक्षतः सन् युधो युद्धात्पुनः उपेयाः प्रत्यावर्तस्वेति सस्नेहं भर्तुरीरिता भā प्रयुक्ता आशीराशीर्वादः सद्यः प्रसह्य बलाद्गलदम्भसा स्रवदश्रुणा तस्या भटस्त्रियास्तस्य वध्वा एव । अस्त्रीति प्रति धान्नदीत्वादाडागमः । नेत्रयोर्द्वितीयेन प्रत्याचचक्षे प्रत्याख्याता । निराकृते. त्यर्थः । अमङ्गलेनाश्रुपातेन निष्फलीकृतेत्यवश्यं भवितव्यं भवत्येवेति भावः । 'वा लिटि' इति विकल्पान्न चक्षिङः ख्याजादेशः । अत्राश्रुपातस्य नेत्रविशेषणद्वारा आशीःप्रत्याख्याने हेतुत्वात्काव्यलिङ्गभेदः ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्रेन्दुलक्ष्मी रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः॥९६॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के पञ्चदशः सर्गः ॥ १५॥ काचिदिति ॥ काचित्स्त्री रजोभिरातवैरङ्गसंस्कारत्यागात्पांशुभिर्वा कीर्णा । 'स्याद्रजः पुष्पमार्तवम्' इति । 'पांशुर्ना न द्वयो रजः' इति चामरः । दिवस्त्वौत्पातिकपांसुवर्षणाद्रजःकीर्णता । वक्रमिन्दुरिव अन्यत्र वक्रमिवेन्दुर्भिन्नास्तस्य लक्ष्म्यो यस्याः सा भिन्नवक्रेन्दुलक्ष्मीः। बहुवचनान्तो बहुव्रीहिः । एवमपि एक. वचनान्तस्यैव लक्ष्मीशब्दस्योरःप्रभृतिषु पाठान्न तन्निमित्तः कप्प्रत्ययः। शैषिक Page #412 -------------------------------------------------------------------------- ________________ ४०० शिशुपालवधे स्तु वैभाषिक इत्यविरोधः । काचिन्नारी दिवमनुविदधेऽनुचकार । काश्चिन्नार्यो दिश इवाश्रीका वीतशोभाः । उद्रान्तसत्त्वा उडान्तचित्ता उङ्गान्तजन्तुकाश्च सत्यः। अन्तरात्मनि मध्ये च दाहं संतापम् , अन्यत्रौत्पातिकं प्रज्वलनं दधिरे दधुः । अन्या नार्यों वात्या इव वातसमूहा इव । 'शाखादिभ्यो यः' इति यप्रत्ययः । प्रतिदिशं दिशि दिशि । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इषि समासान्तष्टच्प्रत्ययः । भेमुर्बभ्रमुः । 'वा भ्रमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपौ । अपरा नार्यो भूमिवत् भूम्या तुल्यं कम्पमापुः। इतीत्थं पार्थिवानां प्रस्थाने प्रयाणे नायौँ भाव्य शुभं पुरः पूर्वं शशंसुः। सूचयामासुरित्यर्थः । अत्र नारीणां भाव्यशुभसूचनस्य रजोदाहादिवाक्यार्थहेतुकं काव्यलिङ्गम् । तत्र नारीणां द्युदिगाद्युपमाभिस्तद्रजोदाहादिवन्नारीरजोदाहादीनामशुभसूचकत्वमित्युपमाकाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः । संचारिणश्च पूर्ववद्विषादादयः सुगमाः । अत्र 'काश्चित्कीर्णा रजोभिर्दिवमनुविदधुर्भिन्नववेन्दुलक्षम्यो निश्रीकाः काश्चित्' इति पाठे काचित्कीर्णेत्येकवच. नप्रक्रमभङ्गे दोषो नास्ति । न चैवमुपमानोपमेययोभिन्नवचनत्वदोषः । लोकेषु चन्द्रादिष्वेकन नियतेषु दोषबुड्यनुदयात् । यथाह दण्डी-'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥' इति । स्रग्धरावृत्तम् । 'म्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरि विरचितशिशुपालवध. काव्यव्याख्यायां सर्वकषाख्यायां पञ्चदशः सर्गः ॥ १५ ॥ षोडशः सर्गः। अथानन्तरसर्गे हरेश्चैद्यदूतसंवादं वर्णयतिदमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ । उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥१॥ दमघोषेत्यादि ॥ अथ संनाहानन्तरं दमघोषसुतेन शिशुपालेन प्रतिशिष्टः प्रहितः प्रतिभानमस्यास्तीति प्रतिभानवान् । अवसरोचितोत्तरस्फुरणशक्तिमानित्यर्थः । कश्चन कश्चिहूतः हरि कृष्णमुपगम्य प्राप्य सदसि सभायां स्फुटौ भिन्नार्थों पृथगर्थौ प्रियाप्रियरूपौ यस्मिंस्तत्स्फुटभिन्नार्थम् । युगपदुभयार्थाभिधायकमित्यर्थः । तथैव वक्ष्यति-'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते' इति । अदः इदं वक्ष्यमाणं वचः उदाहरयाहरत् । अस्मिन्सर्गे वैतालीयाख्यं मात्रावृत्तम् । षड्विषमेऽष्टौ समे कलाश्च समे स्युनों निरन्तराः । न समानपराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥' इति लक्षणात् ॥ Page #413 -------------------------------------------------------------------------- ________________ ४०१ षोडशः सर्गः। स्फुटभिन्नार्थमुदाहरद्वच इत्युक्तं तदेव चतुर्दशभिः श्लोकैरभिधत्तेअभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः। भवतोऽभिमना समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २॥ अभिधायेत्यादि ॥ शिशुपालस्तदाघस्वीकारकाले तत्तादृशमप्रियमभिधाय परमनुशयमनुतापं गतः अभिमना उत्कण्ठितचित्तः सन् उपेत्यागत्य सरुषः समन्योर्भवतस्तव माननां पूजां कर्तुं समीहते । अनुनेतुमिच्छतीत्यर्थः । अयं मधुरोऽर्थः ॥ ॥ परुषस्तु-तदा तदप्रियमभिधाय परं अनुशयं-केवलं न शप्तव्यः, किंतु हन्तव्यश्चेति दीर्घद्वेषं गतः प्राप्तः । 'रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुता. पयोः' इत्युभयत्राप्यमरः । अत एव नास्ति भीर्यस्येत्यभि निर्भीकं मनो यस्य सोऽभिमनाः निःशङ्कचित्तः सन् उपेत्य स्वयमागत्य सरुषः सकोपस्य भवतो मानना हननं कर्तुं समीहते । 'मानना हनने माने' इत्युभयत्रापि केशवः । भवन्तं हन्तुमिच्छतीत्यर्थः । 'मन स्तम्भे' इति धातोश्चौरादिकाल्लयुद णिचो लुक् । अत्र चतुर्दशश्लोक्यां परहृदयपरीक्षापराणां दूतानां प्रियाप्रिये द्वे अपि वक्तव्ये, चमत्काराय तु श्लेषभङ्गयाभिधीयते इति प्रियाप्रिययोर्द्वयोरपि प्रकृतत्वादभिधेयत्वाच्छब्दमानसाधाच केवलप्रकृतगोचरः श्लेषः । 'प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् । श्लेषोऽयमिति लक्षणात् । नचोभयगतः, निन्दास्तुत्योरन्यतरगम्यतया तदुत्थापनात् । इह 'उभयं युगपन्मयोदितं स्वरया सान्त्वमथेतरच ते' इति वक्ष्यमाणलिङ्गादुभयोर्वाच्यत्वावगमादित्यलं प्रपञ्चेन ॥ विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः। प्रचुराधिगताङ्गनिति परितस्त्वां खलु विग्रहेण सः॥३॥ विपुलेनेति ॥ उन्मना उत्सुकचेताः स चैद्यः परितः प्रचुरं प्रभूतं यथा तथा अधिगता प्राप्ता अङ्गनिर्वृतिः सुहृत्स्पर्शकृतमङ्गसुखं येन तं त्वां विपुलेन विशिष्टपुलकेन 'पुलः स्यात्पुलके नापि पुलं तु विपुलेऽन्यवत्' इति विश्वः । विग्रहेण वपुषां निर्दयं गाढं निपीड्यालिङ्गय नितान्तं मुदमायातु खलु ॥ ॥ परुषस्तु-उन्मना मनस्वी स चैद्यः प्रचुरेणाधिना मनोव्यथया गताङ्गनिर्वृति विगतशरीरसौख्यं त्वां विपुलेन महता विग्रहेण समरेण । 'विग्रहः समरे काये' इति विश्वः । निर्दयं निष्कृपं निपीड्य हत्वा मुदमायातु ॥ प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपः। तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः॥४॥ प्रणत इति ॥ भूपतिः चैद्यः सकलैर्धराधिपैः समं सह एत्यागत्य शिरसा प्रणतः प्रणामं कृतवान् । कर्तरि क्तः । आशु तव शासनमाज्ञां करिष्यते त्वदाज्ञाकरो भवि. प्यति । कुतः यतः स चैद्योऽस्मिन्नवसरे त्वयैव परवांस्त्वदेकपरतत्रः ॥ ॥ परुपस्तु-शिरसा प्रणतो नमस्कृतः । नराधिपैरिति भावः । कर्मणि क्तः । भूपति Page #414 -------------------------------------------------------------------------- ________________ शिशुपालवधे स्तव शासनं शास्ति शिक्षा करिष्यते यतस्त्वयैव परवाशत्रुमान् । त्वमेक एवास्य शत्रुरवशिष्ट इति भावः । अन्यत्समम् । 'शासनं राजदत्तोा लेखाज्ञाशास्त्रशास्तिषु' इति विश्वः ॥ प्रणामे हेतुमाहअधिवह्नि पतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः। तव सर्वविधेयवर्तिनः प्रणति विभ्रति केन भूभृतः ॥५॥ अधीति ॥ अधिगतं वहिपतङ्गयोरग्निभान्बोरिव तेजो येन तस्य । तत्तुल्यतेजस इत्यर्थः । नियतस्वान्तो नियतचित्तः स चासौ समर्थकर्मा च खञ्जकुजवहिशे. षणसमासः। तस्य तथोक्तस्य सर्वे विधेयवर्तिनो वशवर्तिनः कर्मकरा यस्य तस्य तव के भूभृतः प्रणति नतिं न विभ्रति । सर्वेऽपि विभ्रतीत्यर्थः ॥ ॥ परुषस्तु-प्रणामे हेतुमाह-अधिवह्नि अग्नौ पतङ्गस्य शलभस्येव तेजः पौरुषं यस्य तस्य । 'पतङ्गः शलभे भानौ' इति विश्वः । नियते अव्यभिचारे स्वान्ते स्वविनाशे समर्थं हेतुभूतं कर्म यस्य तस्य सर्वेषां विधेये वर्तते विधेयं वर्तयति वा सर्वविधेयवर्तिनः सर्वकिंकरस्य निष्पौरुषस्य तव केन गुणेन भूभृतः प्रणतिं बिभ्रति । न केनापीत्यर्थः । जनतां भयशून्यधीः परैरभिभृतामवलम्बसे यतः । तव कृष्ण गुणास्ततो नरेरसमानस्य दधत्यगण्यताम् ॥६॥ जनतामिति ॥ हे कृष्ण हे हरे, भयशून्यधीनिर्भीकचित्तः सन् परैः शत्रुभिरभिभूतां जनतां जनसमूहम् । 'ग्रामजन-' इत्यादिना समूहे तल प्रत्ययः । यतोऽवलम्बसे परिगृह्णासि । रक्षसीत्यर्थः। ततोहेतोर्नरैरसमानस्य सर्वोत्कृष्टस्य तव गुणा आर्तभूतभरणादयः अगण्यतामसंख्येयतां दधति ॥ ॥ परुषस्तु-हे मलिनात्मक, भयशून्यधीर्मूढबुद्धिः परैस्त्वदन्यैः । परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः' इत्युभयत्रापि वैजयन्ती । अभिभूतामवधीरितां जनतां पशुपालनपारतत्र्यादिना पृथग्जनत्वम् । भावेऽर्थे तल्प्रत्ययः । यतोऽवलम्बस आश्रयसि । ततो नरैरसमानस्य । ततोऽपि हीनस्येत्यर्थः । तव गुणाः लेशतः स्वभावतोऽपीति भावः । अगण्यतामनादरणीयतां दधति ॥ अहितादनपत्रपत्रसन्नतिमात्रोज्झितभीरनास्तिकः । विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ॥७॥ अहितादिति ॥ त्वया सदृशोऽन्यो गुणवान्गुणाढ्यः कुतः । न कुत्रापीत्यर्थः । कुतस्त्वं अहितादनाबसन् । अधर्मभीरुरित्यर्थः । अपत्रपो निस्पो न भवतीत्यनपत्रपस्त्रपावान् । अकार्यजुगुप्सुरित्यर्थः । अतिमात्रमत्यन्तमुज्झितभीः । त्यक्तारिभय इत्यर्थः । नास्तीति मतिरस्येति नास्तिकः नास्तिपरलोकः । 'अस्तिनास्तिदिष्टं मतिः' इति ठक् । स न भवतीत्यनास्तिकः । आस्तिक इत्यर्थः । विनयेनानौद्धत्येनोपहितो विशिष्टः । विनयवानित्यर्थः । विस्मयो विशिष्टगर्वो न भवतीत्यविस्मयोऽगर्वः ॥ Page #415 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। परुषस्तु-त्वया सदृशोऽन्यो गुणवान्न भवतीत्यगुणवान्निर्गुणः कुतः । न कुत्रापीत्यर्थः । कुतः त्वमहिताच्छनोस्त्रसन् भीरुः । नास्त्यपत्रपा लज्जाविशेषो यस्येत्यनपत्रपो निर्लजः । 'लज्जा सापत्रपान्यतः' इत्यमरः । नतिमात्रेण प्रणामेनैवोज्झितभीरपाकृतारिभयः न तु पराक्रमेणेति भावः । अम्ति मतिरस्येत्यास्तिकोऽस्तिपरलोकः । पूर्ववट्ठक् । स न भवतीत्यनास्तिकः । नास्तिक इत्यर्थः । विनयो नयातीतः अपहितो हितादपेतः विस्मयो विगर्यो न भवतीत्यविस्मयो गर्वी । गर्वयुक्त इत्यर्थः । अत्राहितादित्यर्थश्लेषः । अन्यत्र शब्दश्लेष इत्यनयोः संकरः ॥ कृतगोपवधूरतेनतो वृषमुग्रे नरकेऽपि संप्रति । प्रतिपत्तिरधः कुतैनसो जनताभिस्तव साधु वर्ण्यते ॥ ८॥ कृतेति ॥ गोप्य एव वध्वो गोपवध्वः । 'स्त्रियाः पुंवत्-' इत्यादिना पुत्रद्भावः । तासु रतिः कृता येन तस्य । गोपीजनवल्लभस्येत्यर्थः । वृषं वृषभरूपिणमरिष्टाख्यमसुरं नतो मारयतः। हन्तेर्लटः शत्रादेशः । अधःकृतैनसो निरस्तकल्मषस्य तवोग्रे भयंकरे नरके नरकासुरे प्रतिपत्तिः प्रवृत्तिः । पुरुषकार इति यावत् । संप्रति जनताभिर्जनसमूहैः साधु वर्ण्यते । अहो महदुष्करं कृतमित्युपश्लोक्यते ॥ ॥ परुषस्तु-गोपानां वधूषु रतिः कृता येन तस्य पारदारिकस्य वृषं धर्म, वृषभं वा नतः । 'सुकृते वृषभे वृषः' इति विश्वः । अत एव कृतैनसः पापकृतः तेन उग्रे दारुणे नरके निरये अधःप्रतिपत्तिरधःप्राप्तिः । 'प्रतिपत्तिः पदप्राप्तौ पौरुषे गौरवेऽपि च' इति विश्वः । जनताभिः साधु वर्ण्यते । दुस्तरोऽस्य पापिष्टस्य नरकपात इत्युद्धोध्यत इत्यर्थः । अत्र गोपपरदारिकोऽप्यधःकृतैना इति विरोधाभासः.श्लेषेण संकीर्यते ॥ विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः। भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥९॥ विहितेति ॥ सहानुचरः सानुचरः सभृत्यो महीभृता चैयेन विहितापचितिः कृतपूजः लोकवेदयोः सानुचरस्यैव राज्ञः पूज्यत्वप्रसिद्धेरिति भावः । अत एव बलैः सैन्यैर्द्विषतां शत्रूणामाहितसाध्वसो जनितभयः सन् महतामपि क्षमाभृतां राज्ञामुपर्युच्चकैरुन्नतस्त्वं भव सर्वोत्कर्षेण वर्तस्व ॥ ॥ परुषस्तु-महीभृता चैद्येन विहितापचितिः कृतहानिः । 'भवेदपचितिः पूजाव्ययहानिषु निष्कृतौ' इति विश्वः । अत एव द्विषतां बलैराहितसाध्वसो भीषितः सन् महतां क्षमाभृतां भूधराणामुपरि सानुषु चरतीति सानुचरः स भव । चरेष्टः । अत्रापि शब्दार्थश्लेषसंकरः ॥ घनजालनिभर्दुरासदाः परितो नागकदम्बकैस्तव । नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥१०॥ घनेति ॥ तव नगरेषु वीथयो रथ्या घनजालनिर्भर्मेघसमूहकल्पैः वनजैबनभवैर्मुगादिभिः मृगप्रभृतिभिः। भद्रो मन्द्रो मृगश्चेत्येवं विविधैरपीत्यर्थः । Page #416 -------------------------------------------------------------------------- ________________ शिशुपालवधे नागकदम्बकैर्गजवृन्दैः परितः परिकीर्णा व्याप्ताः अत एव दुरासदा दुष्प्रवेशा भवन्तु । राज्ञा संघाने महैश्वर्यं च ते भविष्यतीत्यर्थः ॥ ॥ परुषस्तु - घनजालनिभैः सान्द्रानायतुल्यैः । ‘आनायः पुंसि जालं स्यात्' इत्यमरः । नागकदम्बकैः सर्पसंधैर्वनजैर्मृगादिभिर्मृगव्याल पुलिन्दप्रभृतिभिः । अथवा मृगादिभिः मृगभक्षकैः शार्दूलादिभिः दुरासदा भवन्तु । राजविग्रहादरण्यप्रायं गता भवन्त्वित्यर्थः ॥ 1 ४०४ सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः । रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ ११ ॥ सकलेति ॥ उन्नतमुदारं धीरमविकारं चेतो यस्य तस्य ते तव रिपुः सकलैरपिहितं तिरस्कृतं स्वपौरुषं यस्य सः नियता नित्याः व्यापदो विशिष्टापदो यस्य सः | अवर्धितोदयोऽसंपूरिताभ्युदयः सततव्याधिः सततरोगः अनीतिनतिरहितः एवंविधोऽस्तु ॥ ॥ परुषस्तु – अचेतसोऽमनस्विनः ते रिपुश्चैद्यः सकलैरपिहितस्वपौरुषः अतिरस्कृतात्मविक्रमः । ' वष्टि भागुरिरलोपमवाप्यो रुपसर्गयोः' इत्यलोपे नञ्समासः । नियतं नित्यं व्यापद्विगतापत् अवर्धितोदयोऽच्छिन्नोदयः । 'वृधु च्छेदने वृद्धौ' इति धातोः कर्मणि क्तः । उन्नतधीरुदारबुद्धिः सततव्याधिविगताधिर्मनोव्यथारहितः । अनीतिरीतिबाधारहितोऽस्तु । ' अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः पडेता ईतयः स्मृताः ॥' अत्र सर्वत्र पदभङ्गेनार्थद्वयप्रतिपादनाज्जतुकाष्ठवदेकशब्दप्रतीतेः शब्दश्लेषः ॥ विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः । यदुपुंगव बन्धुसौहृदाच्वयि पाता ससुरो नवासवः ॥ १२ ॥ विकचेति ॥ पुमान्गौरिव पुंगवः पुरुषर्षभः । उपमितसमासः । 'गोरतद्धितलुकि' इति समासान्तष्टच्प्रत्ययः । यदुषु पुंगव यदुश्रेष्ठ । 'श्रेष्ठोक्षाणौ तु पुंगat' इति वैजयन्ती । चैद्येन कर्त्रा घटां घनसंधिमुपेयुषस्तव संबन्धीनि विकचोत्पलानि वासनार्थविहितानि तान्येव चारुलोचनानि यस्य सः । सह सुरया माध्ध्या गौड्या वा ससुरः 'गौडी पैष्टी च माध्वी च विज्ञेया सा सुरा त्रिधा' इति वचनात् । अत्र क्षत्रियवैश्ययोः पैष्ट्यामेवमेव निषेधः । नवासवो नवमद्यं नालिकेरादिकमिति सुरासवयोर्न पौनरुक्तत्यम् । बन्धुसौहृदान्धव स्नेहात्पाता पास्ते हे सह पानं करिष्यते । संप्रति ते सत्प्रतिपथत्वादिति भावः । पिबतेः कर्मणि लुट् ॥ ॥ परुषस्तु – हे यदुपुंगव यादवबलीवर्द, चैद्येन सह घटामुपेयुषः समराभियोगं गतस्य तव विकचोत्पलचारुलोचनः ससुरः सदेव वासवोsपि बन्धुसौहृदात् । उपेन्द्रे त्वयि सौभ्रात्रादित्यर्थः । पाता त्राता न किं पुनर्मका भीष्मादय इति भावः । पातेस्तृच् । सुहृदयस्य भावः सौहृद - मिति विग्रहः । युवादित्वादण्प्रत्ययः 'हृदयस्य हृल्लेख-' इति हृद्भावविधानसामर्थ्यान्न 'हृद्भग-' इत्युभयपदवृद्धिः । अतएव 'सौहृदौहशब्दाभ्यामणि हृद्भावो' इति वामनः । सुहृदस्तु सौदार्हमेव । शब्दार्थ श्लेषसंकरः ॥ Page #417 -------------------------------------------------------------------------- ________________ षोडशः सर्गः । ४०५ चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् । समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥ १३ ॥ चलितेति ॥ रभसाद्धर्षादुपागतः प्राप्तस्तं चैद्यं त्वं पुरश्चलितानकदुन्दुभिः पुरोगतवसुदेवः । 'वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः' इत्यमरः । सबलो बलभद्रसहितः । सारणेन सारणाख्येन पुत्रेण सह सगदः गदाख्येनानुजेन सहितः समितौ सभायां संप्रतिपत्तुं संभावयितुमर्हसि । सर्वबन्धुसमेतः प्रत्येतुमर्हसीत्यर्थः ॥ ॥ परुषस्तु – समितौ समरे रभसाद्वेगादुपागतः । रभसो वेगहर्षयोः । समितिः समरे साम्ये सभायामपि संगता' इत्युभयत्रापि विश्वः । तं चैद्यं पुरतश्चलिता आनकाः पटहाः, दुन्दुभयो भेर्यश्च यस्य सः । ' आनकः पटोsar स्याद्भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । सबलः ससैन्यः । सगदः गदया कौमोदक्या सहितः सन् सहसा झटिति रणेन युद्धेन संप्रतिपत्तुमभियोतुमर्हसि । अत्रापि शब्दार्थश्लेषसंकरः ॥ समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति । सुचिरं सह सर्वसात्वतैर्भव विश्वस्त विलासिनीजनः ॥ १४ ॥ 1 समरेष्विति ॥ किंच समरेषु रिपुन्विनिघ्नता । अतिशूरेणेत्यर्थः । शिशुपालेन समेत्यैक्यं प्राप्य संप्रति सुचिरं बहुकालं सत्वतः अपत्यानि पुमांसः सात्वता यादवाः । 'उत्सादिभ्योऽञ्' । तैः सर्वैः सर्वसात्वतैः सह विश्वस्त विलासिनीजनः शिशुपालभयनिवृत्तिविश्रब्धविलासिनीजनो भव । 'समौ विश्रम्भविश्वासौ' इत्यमरः ॥ ॥ परुषस्तु — रिपुघातिना शिशुपालेन सह समरेषु समेत्य संगत्य संप्रत्येव सर्वसात्वतैः सह विश्वस्तविलासिनीजनो भव । 'विश्वस्ता विधवे समे' इत्यमरः । ‘आदितश्च' इति चकारादनुक्तसमुच्चयार्थाच्छ्रसेर्निष्ठायामिदप्रतिषेधः । शिशूनामनुद्धतानामेवायं पालयिता नोडतानामिति सर्वथा यादवा - नचैव हनिष्यतीति भावः ॥ विजितक्रुधमीक्षतामसौ मदतां त्वामहितं महीभृताम् । असज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ।। १५ ।। विजितेति ॥ असौ महीपतिश्चैद्यः मुदितः सन् विजितक्रुधं मैत्रीबन्धान्निरस्तक्रोधं महतां महीभृतां राज्ञां महितं पूजितम् । 'मतिबुद्धि-' इत्यादिना वर्तमाने क्तः । तद्योगे षष्ठी । असकृद्बहुशो जिताः संयतः आजयो येन स तम् । 'समुदायः स्त्रियां संयत्समित्याजि समिद्युधः' इत्यमरः । सप्रमदं सहर्षं त्वा त्वाम् । 'वामौ द्वितीयायाः' इति त्वादेशः । पुरोऽग्रे ईक्षतां पश्यतु ॥ ॥ परुषस्तु — विजितक्रुधं संत्यक्तक्रोधं महतां महीभृतां चैद्यादीनामहितमरिमस कृजितश्चासौ संयतश्च । स्नातानुलिप्तवत्पूर्वकालेति समासः । ' बद्धो नद्धश्च संयतः' इति वैजयन्ती । सप्रमर्द सखीकं त्वामिति पदच्छेदः । असकृदीक्षताम् ॥ Page #418 -------------------------------------------------------------------------- ________________ ४०६ शिशुपालवधे इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः। वदति स वचोऽथ चोदितश्चलितैकश्रु रथाङ्गपाणिना ॥१६॥ इतीति ॥ इतीत्थं गां वाचम् । 'अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । अभिधाय जोपमवस्थितम् । 'तूष्णीं जोपं भवेन्मौने' इति वैजयन्ती । द्विषः प्रणिधिं दूतं सात्यकिः शैनेयः अथ दूतवाक्यानन्तरं रथाङ्गं चक्र पाणौ यस्य तेन रथाङ्गपाणिना हरिणा । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । चलिता प्रेरिता एका भूर्यस्मिन्कर्मणि तत् । 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । चोदितः । अस्योत्तरं देहीति भूसंज्ञया प्रेरितः सन्नित्यर्थः । वचो वदति स्मावादीत् ॥ किं तद्वचस्तदेकविंशतिश्लोकैराहमधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया। सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १७ ॥ मधुरमित्यादि ॥ कृतिना कुशलेन त्वया बहिः प्रकाशे मधुरं प्रियं अन्तनर्भऽप्रियं वचस्तथा तेन प्रकारेणावाचि उक्तम् । वचेः कर्मणि लुङि चिणि वृद्धिः । यथा येन प्रकारेण सकलार्थतया संपूर्णोभयार्थतया हेतुना अन्तःप्रिय बहिरप्रियं विभाव्यतेऽवधार्यते । अप्रियगर्भे प्रियं यदुक्तं तदस्माकं तु प्रियगर्भमप्रियमेव प्रतीयते । इदमुक्तिचातुर्यं तवैवेत्यभिप्रेत्योक्तं कृतिनेति । अतो न श्रद्धयमिदं वच इति भावः ॥ अथवा बहिरेव प्रियं अन्तरेवाप्रियं तथापि न ग्राह्यमित्युपमया व्यनक्तिअतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृन्तकर्कशम् । वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १८॥ अतीति ॥ एकतो बहिरतिकोमलम् , अन्यतः अन्तः सरसमाई यदम्भोरुहस्य वृन्तं प्रसवबन्धनं तदिव कर्कशं परुषं एकमेव ते तव वचनं ईषदसमाप्तं शाकपलाशं महापत्राख्यतरुपत्रं तत्तुल्यम् । 'शाकः पलाशसारः स्याद्वरदारुः करच्छदः । महापत्रो महाशाकः स्थिरदारुहनीटकः (2)॥' इत्यभिधानरत्नमालायाम् । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति देश्यप्रत्ययः। कल्पदेश्यदेशीयानि सादृश्यवाचकानीति दण्डी । तस्य भावस्तत्ता तां स्फुटं वहति । अन्त:परुषस्य बहिर्माधुर्यं शाकपलाशवदिति भावः । अत्र शाकपलाशोपमायाः पद्मवृन्तोपमासापेक्षत्वात्संकरः॥ प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा। " शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशात् ॥१९॥ Page #419 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। - प्रकटमिति ॥ प्रकाशं प्रकटं मृदु नाम मृदुकल्पं जल्पतः कथयतः । अन्तरान्तः परुषमनिष्टमर्थं सूचयतः ईदृशादन्तःशुद्धिशून्यात्पुरुषादीदृशः शकुनादिव बहिः शुभंकरं कुर्वतोऽन्तरा परुषं सूचयतः पिङ्गलादिपक्षिण इव मार्गवर्तिभिः सन्मार्गवर्तिभिरध्वगैश्चोद्विजितव्यम् । नचांशतोऽपि ग्राह्यम्, विषसंपृक्तान्नवदखिलस्यानर्थहेतुत्वादिति भावः । 'विज इट्' इतीटः कित्त्वान्न गुणः ॥ एवं दूतं निर्भय॑ अथ चैद्यं तद्दोषोद्घाटनपूर्वकं भर्त्सयतेहरिमर्चितवान्स भूपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः। न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ २० ॥ हरिमित्यादि ॥ स भूपतियुधिष्ठिरो हरिमर्चितवान्यदि पूजितवांश्चेत् । अत्र हर्यर्चनेन तव राज्ञश्चैद्यस्य मत्सरः कः । निरर्थक इत्यर्थः । ससौरभस्य परिमलयुक्तस्य तरुसूनस्य । तरुग्रहणं सूनस्य साधारणताद्योतानार्थम् । शिरसि न्यसनायार्पणाय कोऽसूयति । न कोऽपीत्यर्थः । 'क्रुधद्रुह-' इत्यादिना संप्रदानसंज्ञा । सर्वत्र गुणवद्वस्तु गुणज्ञैर्बहु मन्यते, तटस्थानां किमत्र वृथा संता. पेनेति भावः । अत्र हरितरुसूनयोर्वाक्यद्वये बिम्बप्रतिबिम्बभावेना_शिरोधारणरूपसमानधर्मनिर्देशादृष्टान्तालंकारः ॥ अथ कथं महान्महतः पूजां सहत इत्याशङ्कय हरिचैद्ययोर्महदन्तरं मनसि निधाय सामान्यतः सुजनदुर्जनयोरन्तरं चतुर्भिराह सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः। सहसैव समुगिरन्त्यमी क्षपयन्त्येव हि तन्मनीषिणः ॥२१॥ सुकुमारमित्यादि ॥ लघीयसामल्पीयसां हृदयं सुकुमारं तुच्छम् । कुतः यतोऽमी लघीयांसस्तद्गतं हृदयगतमप्रियं सहसैव झटित्येव समुद्रिन्ति समु. चारयन्ति । मनीषिणस्तु तदप्रियं कथंचित् । संभाव्यमानमपीति शेषः । अन्त. रेव क्षपयन्ति जरयन्ति । न तूगिरन्तीत्यर्थः । अहो इत्याश्चर्ये । चैद्यश्चोद्भिरति नैवं हरिरित्यहो महदन्तरमनयोरिति भावः । अत एवाप्रस्तुतात्सामान्यात्प्रस्तु. तविशेषप्रतिपत्तिरूपोऽयमप्रस्तुतप्रशंसाभेदः । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥' इति लक्षणात् । आदिशब्दा. त्सामान्यविशेषसंग्रहः । एवमुत्तरश्लोकत्रयेऽपि द्रष्टव्यं, विशेषं तु वक्ष्यामः ॥ उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः॥ २२ ॥ उपकारेति ॥ किंच सज्जनः स्वभावतः सततं सर्वजनस्योपकारपरो भवति । नतूपाधिवशात्कदाचित्कस्यचिदेवेति भावः । तथापि सर्वोपकारित्वेऽपि तदुन्नति. स्तस्य सज्जनस्योत्कर्षः असतामसाधूनामनिशं गुरुहृद्रोगकरी अत्यन्तहृदयसंताप Page #420 -------------------------------------------------------------------------- ________________ ४०८ शिशुपालवधे कारिणी अहो आश्चर्यम् । 'कृजो हेतु-' इत्यादिना ताच्छील्ये टप्रत्यये 'टिड्डाणञ्-' इत्यादिना ङीप् । हरिचैद्यावेवभूताविति सैवाप्रस्तुतप्रशंसा ॥ परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः । परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ २३ ॥ परितप्यत इति ॥ किंच उत्तमः परवृद्धिभिर्न परितप्यते न व्यथत एव । उत्तमस्यापरशुभद्वेष इव नास्तीत्यर्थः । अपरो मध्यम एवेत्यर्थः । परितप्तोऽपि शोभना संवृतिः परितापगोपनं यस्य सः सुसंवृतिः । सन्तमपि परशुभद्वेषं न प्रकाशयतीत्यर्थः । अधमस्तु परवृद्धिभिराहितव्यथः उत्पादितसंतापः तथा स्फुटं निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः । परशुभद्वेषं प्रकाशयत्येवेत्यर्थः । चैद्यश्चाधमो हरिस्तूत्तम इति प्रतीतेः पूर्वोक्त एवालंकारः॥ ननु मानिनां परोत्कर्षे परद्वेषो भूषणमेवेत्याशक्य नेत्याह अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् । खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ २४ ॥ अनिराकृतेति ॥ अनिराकृता अनिवारिता तापसंपत्तापातिशयो यया ताम् । एकत्र संतापजननैकस्वभावादपरत्रासतच्छायाविरहाच्चेति भावः । तथा फलहीनाम् । एकत्र इहामुत्र चोपकारशून्यां प्रत्युतोभयत्राप्यनर्थकरी चेति भावः। अन्यत्र सर्वार्थरहितां सुमनोभिर्बुधैरुज्झितां अन्यत्र पुष्पैर्वर्जिताम् । 'सुमना पुष्पमालत्योः स्त्री देवबुधयोः पुमान्' इति वैजयन्ती। असती दुष्टाम्, अन्यत्र निरुपाख्यां खलस्य भावः खलता तां खलतां दुर्जनत्वम् । खस्य लता तां खलतां गगनलतिकामिव बुधो जनः सदसद्विवेककुशलो जनः कथं प्रतिपद्येता. वलम्बेत । न कथमपीत्यर्थः । वृथा मत्सरो न कस्यापि गुण इति भावः। तथापि स खलतां प्रतिपद्यते न चैवं हरिरिति प्रतीतेः सैवाप्रस्तुतप्रशंसा खलतामिवे. त्युपमया संकीर्यते । 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति न्यायाद. सत्याया अपि खलतिकायाः प्रतीतिसत्यतया खलतोपमत्वप्रसिद्धिः ॥ नन्वेवं महानुभावो हरिः किमर्थं तथा सदसि राज्ञा निर्भय॑मानो मौनमास्थित इत्याशङ्कय सत्यमनादरान्न तु कातर्यादित्याहप्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे । अनुहुंकुरुते धनध्वनिं न हि गोमायुरुतानि केसरी ॥ २५ ॥ प्रतीति ॥ केशवः शपमानाय क्रोशते। स्वरितेत्त्वादात्मनेपदम् । चेदिभू. भुजे । क्रियाग्रहणात्संप्रदानत्वम् । प्रतिवाचं प्रत्युत्तरं नादत्त । केसरी सिंहो धनध्वनिमनुहुंकुरुते प्रतिगर्जति । गोमायुरुतानि शिवारुतानि नानुहुंकुरुते । 'स्त्रि. Page #421 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। ४०९ यां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । महतामधमेष्ववज्ञैव नीतिरिति भावः । दृष्टान्तालंकारः ॥ किंच राज्ञो हरिणा विरोधोऽपि न योग्य इत्याहजितरोपरया महाधियः सपदि क्रोधजितो लघुर्जनः। विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥२६॥ जितेति ॥ महाधियः सुधियो जितो रोषरयो यैस्ते तथोक्ताः । लघुरल्पो जनस्तु सपदि क्रोधजितः । एवं विजितेन जितस्य । जितेन क्रोधेन जितस्येत्यर्थः । दर्मतेमवस्य मतिमद्भिः पण्डितैः सह विरोधिता स्पर्धा का । मूर्खपण्डितयो. मैत्रीव स्पर्धापि न संगतेत्यर्थः । मूर्खश्वायं चैद्य इत्यप्रस्तुतात्सामान्याद्विशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः॥ नापि चैद्यप्रलापैः कृष्णस्य किंचिल्लाघवमित्याशयेनाहवचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतः । किमपैति रजोभिरौर्वरैवकीर्णस्य मणेर्महार्यता ॥ २७ ॥ वचनैरिति ॥ उद्धतैर्निष्ठुरैरसतां दुर्जनानां वचनैर्महीयसो महत्तमस्य गुरुत्वं गौरवं न व्येति नापैति खलु । और्वरै मैः । 'उर्वरा सर्वशस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । रजोभिरवकीर्णस्य छन्नस्य मणेर्महार्यता महामूल्यस्वम् । मूल्ये पूजाविधावर्घः' इत्यमरः । अपैति किम् । नापैत्येवेत्यर्थः । अत्र मणिमहीयसोवाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । महीयस इति सामान्याद्धरेरिति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः । हरिमण्योरुपमाध्वनिश्च ॥ युक्तं चैतत्पारुष्यं दुरात्मनामित्याहपरतोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः । परदोपकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ २८ ॥ परेति ॥ यस्य देहिनो जन्तोः परतोषयिता परेषामानन्दयिता स्वगतो गुणः कश्चन कश्चिदपि नास्ति । अल्पकः तुच्छः स इति शेषः । यत्तदोर्नित्यसंबन्धात् । परदोषकथाभिरन्यजनदोषोक्तिभिः स्वजनं । न तु मध्यस्थमिति भावः । तोपयितुमिच्छति किल ईहते खलु ! चैद्यस्यापि निर्गुणत्वात्परदूषणं युक्तमिति । अत एवाप्रस्तुतप्रशंसाभेदः ॥ नन्वात्मनो निर्दोषत्वाभिमानादित्थं विजृम्भणमित्याशङ्कयाहसहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोचगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥२९॥ सहजेति ॥ असाधवः खलाः स्वदुर्नये स्वदोषे । महत्यपीति भावः । सहजा स्वाभाविकी अन्धा अपश्यन्ती इग्येषां ते । जात्यन्धा इत्यर्थः । परदोषाणां ३५ शिशु Page #422 -------------------------------------------------------------------------- ________________ ४१० शिशुपालवधे सूक्ष्माणामपीति भावः । ईक्षणे दर्शने दिव्यचक्षुषोऽप्रतिहतदृष्टयः । किं च स्वगुणेषूच्चगिरः । आत्मप्रशंसायामतिप्रगल्भवाच इत्यर्थः। परवर्णग्रहणेषु परस्तुतिवचनेषु । 'स्तुतौ वणं तु वाक्षरे' इत्यमरः । मुनिव्रता मौनव्रतिनः । 'मर्शआदिभ्योऽच्' । चैद्यश्चैवंविध इति प्रतीतेरप्रस्तुतप्रशंसा ॥ साधवस्तु नैवमित्याहप्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ ३० ॥ प्रकटानीति ॥आर्यचेतसां सुमनसां प्रकटान्यपि परवाच्यानि परदूषणानि चिराय गोपितुं गोपायितुम् । संवरीतुमित्यर्थः । 'आयादय आर्धधातुके वा' इति विकल्पादायप्रत्ययाभावः । महन्नैपुणं कौशलम् । अथेति वाक्यारम्भे । अथात्मनो गुणान्विवरीतुं प्रकटयितुम् । आत्मप्रशंसां कर्तुमित्यर्थः । भृशमाकौशलमत्यन्तमकौशलम् । साधवो न परान्निन्दन्ति न वात्मानं प्रशंसन्ति । 'आत्मप्रशंसां परगर्हामिव वर्जयेदि'त्यापस्तम्बीये निषेधस्मरणादिति भावः । 'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' इति विकल्पान्नपूर्वपदस्यापि वृद्धिः । कृष्णश्चैवंभूत इति विशेषप्रतीतेरप्रस्तुतप्रशंसैव ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । बदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥३१॥ किमिति ॥ किंच महामना महात्मा। अखिललोककीर्तितं स्वत एव सर्वैलोकैः प्रख्यातमात्मगुणं किमिव किमर्थ कथयत्येव । स्वत एव सवैलौकैः कीर्त्यमानत्वादित्यर्थः । लघीयसस्तुच्छस्य तु स्वगुणं वदिता वक्ता । वदेस्तृचूप्रत्ययः । अत एव 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । अपरोऽन्यो नास्ति तेन कारणे. नासौ लघीयान्स्वगुणं स्वयमेव वदति न केवलं निषेधात् । किंच प्रयोजनाभावादपि महानात्मप्रशंसां न करोति, तुच्छस्तु वक्रन्तरासंभवात्स्वयमेव तां प्रलपतीत्यर्थः । पूर्वार्ध पदार्थहेतुकं काव्यलिङ्गम्, उत्तरार्ध वाक्यार्थहेतुकं चोन्नेयम् । कृष्णचैद्यौ चैवंविधाविति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः ॥ किंच महात्मानः क्रुद्धाः काले पराक्रमन्ति, दुरात्मानस्तु केवलं प्रलपन्तीत्याहविसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ ३२ ॥ विसृजन्तीति ॥ परे नराः सत्पुरुषाः विषमाशीविषवत्क्रूरसर्पवदित्युपमा । अविकस्थिनोऽनात्मश्लाधिन एव क्रुधं क्रोधं विसृजन्ति वमन्ति । पराक्रमन्तीत्यर्थः । अन्तरभ्यन्तरे असाररूपतां निःसाररूपतां दधतो दधानाः । 'नाभ्यस्ता च्छतुः' इति नुमभावः । इतरेजना दुर्जनाः पटहा इव ध्वनिरेव सारो बलं येषां ते Page #423 -------------------------------------------------------------------------- ________________ पोडशः सर्गः। ४११ ध्वनिसारा वाक्शूरा एव । न तु बाहुबलशालिन इति भावः। अनापीदशौ कृष्णचैद्यावित्यप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥ अभिधाय तदा तदप्रियमित्यादिना यहृतेन युगपत्प्रियाप्रिये अभिहिते तत्रोत्तरमाहनरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः। द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ ३३ ॥ नरकेति ॥ स महीपतिश्चेदिभूपतिर्येन विधिना येन प्रकारेण संधिना विनहेण वा नरकच्छिदं नरकस्याप्यन्तकम् । किमन्येषामशक्तानामिति भावः । ईक्षितुमिच्छति तस्य विधेः सदृशमुत्तरं प्रतिक्रिया स्नेहो विरोधो वा विधातुं न हापयिष्यते । अविलम्वेन विधास्यत इत्यर्थः । जहातेय॑न्ताकर्मणि लट् । विधानक्रियया अमभिधानेऽपि प्रधानभूतक्रिययाभिहितत्वादुत्तरमिति न कर्मणि द्वितीया। द्रुतं शीघ्रमेतु आगच्छतु । आगमने स्वयमेव हीयत इति भावः ॥ ___नन्वभिधायेत्यादौ मया सान्त्वमेव विवक्षितं न विग्रहस्तत्किमुभयाभ्यनुज्ञयेत्याशङ्कयाहसमनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना। हरिराक्रमणेन संनतिं किल विभ्रीत भियेत्यसंभवः ॥ ३४ ॥ समनद्धति ॥ अङ्गे त्यामन्त्रणे । असौ भूपतिश्चैद्योऽमुना हरिणा सह संधि त्सुर्यदि संधातुमिच्छुश्चेत् । दधातेः सन्नन्तादुप्रत्ययः । किं समनद्ध किमर्थ संनद्धवान् । ततो नायं संधिसुरिति भावः । नह्यतेः स्वरितेत्वाकर्तरि लुडि तङ् 'झलो झलि' इति सकारलोपः । कृष्णभीषणार्थ संनाह इत्यत आहहरिः सिंहः कृष्णश्च किलाक्रमणेनाभिभवेन या भीस्तया संनतिं नम्रतां बिभ्रीत बिभृयादित्यसंभवः । संभवो नास्ति खल्वित्यर्थः ॥ अथाक्रमणेऽनिष्टमाचष्टेमहतस्तरसा विलचयन्निजदोषेण कुधीविनश्यति । कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥३५॥ महत इति ॥ कुधीरासन्न विनाशत्वाद्विपरीतबुद्धिमान्महतो महानुभावांस्तरसा बलेन । 'तरसी बलरंहसी' इति विश्वः । विलङ्घयन्नाकामन्निजदोषेण स्वापराधेनैवोल्लङ्घनरूपेण विनश्यति । तथाहि इद्धदीधितिर्दीप्तार्चिरग्निः स्वया निजयेच्छया शलभान्पतङ्गान् । 'समौ पतङ्गशलभौ' इत्यमरः । इन्धनं दाह्य न कुरुते खलु, किंतु त एव निजौद्धत्यान्निपत्य दह्यन्त इत्यर्थः । इतः परं न क्षम्यत इति भावः । दृष्टान्तालंकारः ॥ नन्वसहने शाङ्गिणः शतापराधसहनप्रतिज्ञाभङ्गः स्यादित्यत्राहयदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् । अथ संप्रति पर्यपू पुरत्तदसौ दूतमुखेन शाङ्गिणः ॥ ३६॥ Page #424 -------------------------------------------------------------------------- ________________ ४१२ शिशुपालवधे यदिति ॥ पुरा पूर्व महीपतिश्चैद्यो मुखेन स्ववाचा यदागसामपराधानां शतम् । 'भागोऽपराधो मन्तुश्च' इत्यमरः । शाङ्गिणः कृष्णस्य स्वयं नापूरि । नापूरयदित्यर्थः । पूरयतेः कर्तरि लुङ् 'दीपजन-' इत्यादिना विकल्पाञ्चिण्प्रत्यये चिणो लुक् । अथ स्वप्रलापानन्तरं संप्रतीदानीमसौ चैद्यः दूतमुखेन दूतवाचा तत् आगसां शतं पर्यपूपुरत्परिपूरयामास । दूतमुखत्वाद्राज्ञां तेन कृष्णक्रोधावसरदानेन महदुपकृतमायुष्मतेति भावः । पूरयतेलुङि ‘णो चङ्युपधाया हस्त्रः' । अभ्यासदीर्घः ॥ निगमयन्फलितमाहयदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किंचिदप्रियम् । विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरंक्षितां क्रुधम् ।। ३७ ।। यदिति ॥ अनर्गलमविष्कम्भम् । विकृतमिति यावत् । 'तद्विष्कम्भोऽगलं न ना' इत्यमरः । यद्दोपुरं पुरद्वारं तदिवाननं यस्य सः । वाच्यावाच्यविवेकशून्य इत्यर्थः । त्वमितः इतःपरं यदप्रियं वक्ष्यसि तदप्रियं चिरस्य चिरात्प्रभृति । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यव्ययेष्वमरः । समयोद्वीक्षणेन संवित्प्रतीक्षणेन रक्षितां, रुद्वामित्यर्थः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । क्रुधं क्रोधं विवरिष्यति । 'वृतो वा' इति दीर्घविकल्पः । इतः परं स्वमपि दण्ड्य एवेति भावः ॥ निशमय्य तदुर्जितं शिनेर्वचनं नमुरनानुरेनसाम् । पुनरुज्झितसाध्वसो द्विषामभिधत्ते स वचो वचोहरः ॥ ३८ ॥ निशमय्येति ॥ एनसामनाप्रसंस्प्रष्टुः । सत्यवादिन इति भावः । आमोतेस्तृच् । शिनेः शिनिनाम्नः कस्य चिद्यादवस्य नप्तुः पौत्रस्य । सात्यकेरिति भावः। तदूर्जितमर्थयुक्तं वचनं निशमय्य श्रुत्वा । 'ल्यपि लघुपूर्वात्' इति णेरयादेशः । पुनर्भूयोऽप्युज्झितसाध्वसं त्यक्तभयं यथा तथा द्विषां वचो हरतीति वचोहरो दूतः । 'हरतेरनुद्यमनेऽच्' । वचोऽभिधत्ते स्म अभिहितवान् ॥ विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः । यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ३९ ॥ विविनक्तीति ॥ बुद्ध्या दुर्विधो दरिद्रः । बुद्धिशून्य इत्यर्थः । 'निःस्वस्तु दुविधो दीनो दरिद्रो दुर्गतोऽपि सः' इत्यमरः। पृथग्जनः पामरजनः स्वयमेव परोपदेशं विनैवात्महितं न विविनक्ति तद्युक्तमेवेति भावः। किंतु परैरुदीरितमुपदिष्ट. मप्यदो हितं न विजानातीति यत्तन्महदद्भुतम् । यतः सूक्तं न गृह्णातीति भावः । १ रक्षिताः क्रुधः' इति पाठः. Page #425 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। ४१३ अथ किमद्भुतं मूर्खस्वित्याशयेनाहविदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः । न परोपहितं न च स्वतःप्रमिमीतेऽनुभवाहतेऽल्पधीः ॥४०॥ विदुरिति ॥ बुधा बुद्धिमन्तः एष्यन्तमागामिनमपायमनर्थमात्मना स्वयमेव । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया। विदुर्विदन्ति । 'विदो लटो वा' इति विकल्पाजसादेशः । अथ वा परतोऽन्यस्मादाप्ताच्छ्रद्दधते विश्वसन्ति । आप्तोतं गृह्णन्तीत्यर्थः । 'श्रदन्तरोरुपसंख्यानम्' इत्युपसर्गसंज्ञोपसंख्यानाद्धातोः प्राक्प्रयोगः। अल्पधीर्मूढस्वनुभवादृते स्वानुभवं विना । 'अन्यारादितरते-' इति पञ्चमी । न प्रमिमीते न जानाति । अधमस्तु स्वानुभवैकप्रमाण इत्यर्थः । अधमस्त्वमिति भावः । अत एवाप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥ अतः प्रस्तुते किमायातं तत्राहकुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् । उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ ४१ ।। · कुशलमिति ॥ हे कृष्ण, अहं यद्वचनमभ्यधाम् । अभिधायेत्यादिना राज्ञां संधिर्गुणाय विग्रहस्त्वना येत्येवमवोचमित्यर्थः । तद्वचनं तुभ्यमेव कुशलं हितम् । 'चतुर्थी चाशिप्यायुष्यमद्भद्रकुशलसुखार्थहितैः' इति चतुर्थी । नन्वहितेषु हितोपदेशात्प्रत्ययः कथमित्याशङ्यार्थान्तरन्यासेन परिहरति । साधवः सुजनाः स्वविनाशाभिमुखेषु । प्रबलविरोधादात्मविनाशहेतुभूतकर्मप्रवृत्तेन्वित्यर्थः । परेषु शत्रुप्वप्युपदेशपरा उपदिशन्त्येव । कृपालुतयेति भावः॥ तथाप्यर्थद्वये स्वद्वाक्ये किं ग्राह्यं तत्राहउभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच ते । प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ ४२ ॥ उभयमिति ॥ मया सान्त्वं सामादि । अथेति पक्षान्तरे । इतरदसान्त्वम् । विग्रहश्चेत्यर्थः । युगपदुदितं, त्वं तु मनीषया बुद्ध्या पृथग्भेदेन प्रविभज्य विविच्य यत्स्वगुणं तत्र द्वयेऽपि त्वरया यच्छुभोदकं तत्करिष्यसि किल खलु । हंसः क्षीरमिवाम्भसीति भावः ॥ अथवा सुजनस्वभावात्कृतोऽपि हितोपदेशो मूर्खेषु निष्फल इत्याहअथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ ४३ ॥ अथवेति ॥ अथवा अभिनिविष्टबुद्धिषु दुराग्रहग्रस्तचित्तेषु विषये सुभापितं हितोपदेशवचनं रविरागिषु कमलाकरेषु शीतरोचिषः शीतभानोः करजालमिव व्यर्थकतां निरर्थकतां व्रजति । तस्मादलमेव त्वयि हितोपदेशचिन्तयेति भावः ॥ Page #426 -------------------------------------------------------------------------- ________________ ४१४: शिशुपालवधे नन्वभिनिविष्टोऽपि सुजनैर्बलादपि हिते प्रवर्तयितव्य इत्याशक्य न शक्यत इत्याहअनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति । अपहाय महीशमार्चिचत्सदसि त्वां ननु भीमपूर्वजः॥४४॥ अनपेक्ष्येति ॥ जनस्वादृशः पृथग्जनः । गुणागुणौ गुणदोषौ । 'विप्रतिपिद्धं चानधिकरणवाचि' इति विभाषया न द्वन्द्वैकवद्भावः । अनपेक्ष्याविमृश्य निश्चयतः स्वनिश्चयादेव स्वरुचिं स्वेच्छामनुधावति । न तु स्वहितमनुसरतीत्यर्थः । तत्र पार्थ एव प्रमाणमित्याह-भीमपूर्वजः भीमाग्रजो युधिष्ठिरः मूर्खाग्रणी रिति भावः । महीशं चेदिपमपहाय सदसि त्वामार्चिचदर्चितवान्खलु । अर्चयतेो चडि 'भजादेर्द्वितीयस्य' 'नन्द्राः संयोगादयः' इति रेफवर्जितस्यैकाचो द्विर्भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः। प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः॥४५॥ त्वयीति ॥ हे कृष्ण, त्वयि भक्तिमता प्रेमवता । कुरूणां राट् । 'सत्सूद्विप-' इत्यादिना विप् । तेन कुरुराजा कुरुराजेन पार्थेन सत्कृतो नार्चितश्चेदिपो गुरुरेव पूज्य एव । तथा हि प्रियं मांसं यस्य तेन मांसगृनुना मृगाधिपेन सिंहेनोझि. तस्त्यक्तः करिकुम्भजो मणिर्मुक्तामणिरवद्यो गीः किम् । अनवद्य एवेत्यर्थः । मूर्खानादरान महतां किंचिल्लाघवमित्यर्थः । 'कुपूयकुत्सितावद्यखेटगाणकाः समाः' इत्यमरः । 'अवधपण्य-' इत्यादिना निपातः । दृष्टान्तालंकारः ॥ विदुषां तु पूज्य एव चैद्य इत्याशयेनाहक्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः । शिरसौघमधत्त शंकरः सुरसिन्धोर्मधुजित्तमत्रिणा ॥ ४६॥ क्रियत इति ॥ धवलो निर्मलो धवलैनिर्मलैरेवोच्चकैरुन्नतः क्रियते खलु । सितेतरैमलिनैरधः क्रियते । तथाहि शंकरः शिवः सुरसिन्धोरोघं मन्दाकिनीपूर शिरसा अधत्त । उभयो मल्यादिति भावः । मधुजिन्मधुशत्रुर्विष्णुस्तु तमोघमङ्किणा अधत्त । स्वयं मलिनत्वादिति भावः। अतो विशेषेण विदुषां राजा पूज्य एवेति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ किंच यथा पार्थानादराद्राज्ञो न किंचिल्लाघवं तथा तदादराच्च न ते किंचिगौरवमित्याह अबुधैः कृतमानसंविदस्तव पार्थः कुत एव योग्यता । सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ ४७ ॥ अवुधैरिति ॥ अबुधैरज्ञैः पार्थैः कृते मानसंविदौ पूजातोषणे यस्य तस्य । 'संविस्त्रियां प्रतिज्ञायां संकेताचारनामसु । संभाषणे तोषणे च' इति विश्वः । तव Page #427 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। ४१५ योग्यता कुत एव । न कुतोऽपीत्यर्थः । तथा हि सहसि मार्गशीर्षे । 'मार्गशीर्ष सहा मार्गः' इत्यमरः । प्लवगैरुपासितं सेवितं गुञ्जाफलं काकफलानि । जाताबेकवचनम् । 'काकचिञ्चीगुळे तु कृष्णला' इत्यमरः । सोष्मतामुष्णतां नैति हि । न हि पुंसां मूढपरिग्रहापरिग्रही गौरवागौरवयोः प्रयोजकावित्यर्थः । अत्र कृष्णगुञ्जाफलयोर्विशेषयोरेव वाक्यभेदेन प्रतिबिम्बीकरणादृष्टान्तालंकारः ॥ यदपूरीत्यादिना यत्सात्यकिना शतापराधक्षमत्वमुक्तं तत्रोत्तरमाहअपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया। हतवत्यपि भीप्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥४८॥ अपराधेति ॥ नृपश्चैद्यः अपराधशतस्य क्षमं राज्ञः शतापराधसहिष्णु भवन्तं एकया क्षमया । एकापराधसहनेनेत्यर्थः । अत्येति अतिक्रामति । अपराधकोटीनामपि तदंशेनापि साम्यासंभवादिति भावः। तामेव क्षमां दर्शयति-त्वयि भीष्मकात्मजां रुक्मिणी हृतवत्यपि समर्थः प्रतीकारक्षम एव सन्नपि चक्षाम क्षाम्यति स्मेति यत् तया क्षमयेत्यर्थः ॥ . 'राक्षसः क्षत्रियस्येव' इति स्मरणादाक्षसोद्वाहस्य क्षात्रधर्मत्वादुक्मिणीहरणे कोऽस्माकमपराधः, राज्ञो वा कात्र क्षमेत्याकाङ्कायामाह गुरुभिः प्रतिपादितां वधूमपहत्य स्वजनस्य भूपतेः । जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ ४९ ॥ गुरुभिरिति ॥ हे जनार्दन, गुरुभिः पित्रादिभिः प्रतिपादितां राज्ञे दत्ताम् अत एव स्वजनस्य बन्धोभूपतेर्महारजस्य वधू जायामपहृत्य हतौ धर्मार्थों येन तत्तया हतधर्मार्थतया हेतुना स्फुटं मनोभुवः कामस्य जनकोऽसि । धर्मार्थबाधेन काममात्रनिष्ठोऽसीत्यर्थः । नायं राक्षसो विवाहः । 'हत्वा छित्त्वा च भित्त्वा च क्रोशन्ती रुदतीं तथा । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥' इति कन्याहरणस्य राक्षसत्वलक्षणात् । अयं तु परदारापहरणे बन्धुदोहो राजद्रोहश्चेत्यहो पापिष्टस्य कामान्धस्य ते परमसाहसिकत्वमिति भावः ॥ सत्यमीगेवाहं ततः किमित्याशक्य किमन्यद्वधादित्याह-- अनिरूपितरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः । तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥ ५० ॥ अनिरूपितेति ॥ अनिरूपितरूपसंपदः शैलूपवद्वहुरूपधारित्वादशातरूपविशेषस्यावामानसगोचररूपवैभवस्येति च गम्यते । अन्यत्र आरोपितकृष्णरूपं तमः, तेजोविशेषाभावस्तम इति च मतद्वयेऽपि प्रमाणानवतरूपसंपद इत्यर्थः । अन्याभृतच्छदच्छवेः कोकिलपक्षकान्तेस्तव तमसो वा तिमिरस्येव । 'वा स्याद्विकल्पोएमयोः' इति विश्वः । सर्वगतस्य क्षितिपश्चेदिपोऽभीशुमानंशुमानिव संप्रतीदानीमेव क्षिप्नुः क्षेप्ता । आहन्तेत्यर्थः । शास्तासौ दुरात्मनामिति भावः । 'बसिगृधिध Page #428 -------------------------------------------------------------------------- ________________ ४१६ शिशुपालवधे पिक्षिपेः नुः' इति नुप्रत्ययः । 'न लोका-' इत्यादिना कृद्योगे षष्ट्या निषेधे तवेति शेषे षष्ठी । पर्यवसानात्तु कर्मत्वलाभः । 'अभीषुः प्रग्रहे रश्मा' इत्यमरः । विश्वप्रकाशादयः सर्वेऽप्याभिधानिका मूर्धन्यान्तेषु पेठुः । लोकवेदयोस्तालव्यान्तो दृश्यते । 'अभीशूनां महिमानम्' इत्यादि ॥ तर्वस्मदर्थं त्वया राजा सान्त्वयितव्य इत्याशङ्कय नेत्याहक्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम । प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥५१॥ क्षुभितस्येति ॥ त्वयि विषये क्षुभितस्यातिक्रुद्धस्य महीभृतो राज्ञो मम प्रशमोपन्यसनं शान्त्युपदेशो वृथा निष्फलः । तथा हि प्रलयोल्लसितस्य कल्पान्तक्षुभितस्य वारिधेः जगतः परिवाहो जगत्कृतो जलनिगममार्गः किं करोति । न किंचिदित्यर्थः । दृष्टान्तालंकारः॥ तीसंधित्सुना राज्ञा किमर्थं भवानिह प्रहितस्तत्राहप्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता । न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ ५२ ।। प्रहित इति ॥ प्रधनाय युद्धाय माधवान् यादवानाकारयितुमाह्वातुम् । 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' । 'हूतिराकारणाह्वानम्' इति चामरः । महीभृता राज्ञाहं प्रहितः प्रेरितः । ननु रन्ध्र हन्तव्याः शत्रदो नाह्वातव्या इत्यत्राह-नेति । महौजसो महावीराः परेप्वरिषु मलिम्लुचाः पाटञ्चरा इव । 'पाटच्चरमलिम्लुचाः' इत्यमरः । छलात्कपटान्नापकुर्वन्ति । तस्मादाह्वानं कर्तव्यमिति वाक्यार्थहेतुकं काव्यलिङ्गमुपमालंकारसंकीर्णम् ॥ तदेवागमनप्रयोजनमुक्त्वा हितमुपदिशतितदयं समुपैति भूपतिः पयसां पूर इवानिवारितः । अविलम्बितमेधि वेतसस्तरुवन्माधव मा म भज्यथाः॥५३॥ तदयमिति ॥ तत्तस्मायुद्धार्थत्वादयं भूपतिश्चैद्यः पयसां पूरः प्रवाह इवानिवारितः समुपैति । हे माधव, अविलम्बितं शीघ्रं वेतसः एधि भव । तद्वन्नम्रमास्मानं रक्षेत्यर्थः । अस्तेर्लोट् सिपि हेधिः 'ध्वसोरेद्धावभ्यासलोपश्च' इति एवम् । 'धि च' इति सकारलोपः । माधव, त्वं तरुवन्महावृक्षवत् मा स्म भज्यथा मा भज्यस्व । अतः आत्मानं न विनाशयेत्यर्थः । भजेः कर्मण्याशिषि लिङः (अर्थ) 'स्मोत्तरे लङ् च' इति लङ् 'न माङयोगे' इत्यडभावः । उपमालंकारः॥ ननु राज्ञि शिशुपाले यूनामफलमित्याशङ्कयाहपरिपाति स केवलं शिशूनिति तन्नामनि मा म विश्वसीः। १ उपन्यस्तसूत्रेण सकारस्यैवालोन्त्यपरिभाषया एत्रे 'श्नसोरल्लोपः' इत्यकारलोपे रूपसिद्धौ 'घि च' इत्यस्योपन्यासो भ्रममूलकः। Page #429 -------------------------------------------------------------------------- ________________ पोडशः सर्गः। ४१७ तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ ५४ ॥ परिपातीति ॥ शिशुपालः। केवलमित्यवधारणे क्रियाविशेषणम् । शिशून्परिपातीति शिशूनेव पालयतीति तन्नामनि तस्य शिशुपालसंज्ञायां मा स विश्वसीः । मा विश्वासं कुर्वित्यर्थः । श्वसेः 'स्मोत्तरे लङ् च' इति लडि 'रुदश्च पञ्चभ्यः' इतीडागमः । चकारालुङि वा तत्र 'अस्ति सिचोऽपृक्ते' इति ईडागमः 'हयन्तक्षणश्वसजागृणिश्व्येदिताम्' इति वृद्धिप्रतिषेधः । 'न माङयोगे' इत्यड. भावस्तूभयत्र । किंतु क्षमी क्षमावान् । व्रीह्यादित्वादि निः । शरणे रक्षणे साधुः शरण्यः रक्षणक्षमः । 'तत्र साधुः' इति यत्प्रत्ययः । स शिशुपालः शरणं रक्षितारमागतान्प्राप्तान् । 'शरणं गृहरक्षित्रोः' 'शरणं रक्षणे गृहे' इत्युभयत्रापि विश्वः । द्विषः शत्रूस्तरुणान्यूनोऽपि रक्षति । अतो निःशई शरणमागच्छेत्यर्थः॥ ननु वयं द्रोग्धारः सोऽप्यतिक्षुभितः किल कथं नः पालयेदित्याशङ्कयाहन विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् । भजते कुपितोऽप्युदारधीरनुनीति नतिमात्रकेण सः॥ ५५ ॥ • नेति ॥ स्वार्थपराः स्वार्थनिष्ठाः परे शत्रवो महतोऽधिकस्य कथमप्रियमपकारम् अशकं यथा तथा न विदध्युः । कुर्युरेव कार्यवशादित्यर्थः। किंतु उदारधीमहामतिः । 'उदारो दातृमहतोः' इत्यमरः । स राजा कुपितोऽपि नतिमात्रकेण प्रणतिमात्रकेणानुनीतिमनुनयं भजते । अनुग्रहीष्यतीत्यर्थः। 'प्रणिपातप्रतीकारः संरम्भो हि महात्मना मिति भावः ॥ किं बहुना तवायं हितोपदेशसंग्रह इत्याशङ्कयाहहितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि । अनृतैरथ तुष्यसि प्रियैर्जयताजीव भवावनीश्वरः ॥५६॥ हितमिति ॥ श्रुतम् अप्रियं हितमिच्छसि यदि । अप्रियं हितं श्रुतमाप्तादाकर्णितं ग्रहीतुमिच्छसि चेदित्यर्थः। संधत्स्व राज्ञा संधेहि । पुरा न नश्यसि । अन्यथा विनयसीत्यर्थः । 'यावत्पुरानिपातयोर्लटू' इति भविष्यदर्थे लट् । अथेति पक्षान्तरे । अनृतैरसत्यैः प्रियैस्तुष्यसि यदि जयताजयतु । 'तुह्योस्तातडाशिष्यन्यतरस्याम्' इति तोस्तातङादेशः । जीव अवनीश्वरः सार्वभौमो भव । ततः किमेभिः प्रियालापैः । अप्रियमपि हितमेव गृहाणेति भावः ॥ ननु कंसाधनेकविजयी कृष्णः कथं विजेप्यते राज्ञेत्याशङ्कयाहप्रतिपक्षजिदप्यसंशयं युधि चैयेन विजेष्यते भवान् । ग्रसते हि तमोदहं मुहुर्ननु राबाहमहर्पतिं तमः ॥ ५७ ॥ प्रतिपक्षेति ॥ प्रतिपक्षजिदनेकारिहन्तापि भवानसंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । युधि सङ्ग्रामे चैद्येन शिशुपालेन विजेष्यते । जयतेः कर्मणि लट् । शेषे प्रथमः । तमांस्यपहन्तीति तमोपहं सर्वतमोपहारिणम्। 'अपेः Page #430 -------------------------------------------------------------------------- ________________ ४१८ शिशुपालवधे क्लेशतमसोः' इति हन्तेर्डप्रत्ययः। अह्नां पतिमहर्पति सूर्यम् । 'अहरादीनां पत्यादिषूपसंख्यानम्' इति वैकल्पिको रेफादेशः । राबाह्र राहाख्यं तमः । 'आख्याह्वे अभिधानं च' इत्यमरः । मुहसते ननु गिलति हि । अत्र हरिसूर्ययो राहुचैद्ययोश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः ॥ किं न भवानेक एव विजेप्यते, किंतु सर्वैर्यादवैः सहेत्याहअचिराजितमीनकेतनो विलसन्वृष्णिगणैनमस्कृतः। क्षितिपः क्षयितोद्धतान्धको हरलीलां स विडम्बयिष्यति ॥५८।। अचिरादिति ॥ स क्षितिपः राजा अचिरादविलम्बितमेव जितो मीनके तनः काणिः प्रद्युम्नः, स्मरश्च येन सः। वृष्णयो यादवभेदास्तेषां गणैरोधैर्नमस्कृतो भीत्या प्रणतः सन् । अत एव विलसन्दीप्यमानः । अन्यत्र वृष्णीति पदच्छेदः । वृष्णि उक्षणि विलसन् । वृषारूढ इत्यर्थः । गणैः प्रमथैनमस्कृतः । 'गणाः प्रमथसंख्यौघाः' इति, 'वृषा महेन्द्रे वृषभे' इति च वैजयन्ती । क्षयिता नाशिता उद्धता दृप्ता अन्धका यादवभेदाः । अन्यत्रान्धकोऽसुरो येन सः हरलीलां शंभुविभ्रमं विडम्ब यिष्यत्यनुकरिष्यति । अत्र हरलीलामिति सादृश्याक्षेपानिदर्शना श्लेषसंकीर्णा ॥ ननु देवासुरैरप्यजय्या यादवाः कथं राज्ञा जेष्यन्ते तत्राहनिहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।। न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥५९ । निहतेति ॥ क्षितिपश्चेदिपो निहत उन्मदो दुष्टकुञ्जरः कुवलयापीडाख्यो येन तस्मात् , अन्यत्र हतानेकमत्तमातङ्गात् । अत एव क्रमार्जितं भूरि यशो दधतः। हरेः कृष्णासिहाच्चेति ध्वनिः । रणे न बिभेति । अस्यैतादृशश्चद्यस्य वृष्णिषु यादवेषु मेषेषु च । 'वृष्णिस्तु यादवे मेषे' इति विश्वः । का गणना ! कृष्णमगणयतो यादवाः के इत्यर्थः । अत्र कुञ्जरघातिनः सिंहस्य का कथा अपेवित्यर्थान्तरप्रतीतिध्वनिरेव न श्लेषः। हरेर्वृष्णिविशेषस्यापि श्लिष्टत्वात्प्रकृ. ताप्रकृतश्लेषे तदङ्गीकारादित्युक्तं प्राक् ॥ हरेरपि न बिभेतीत्युक्तं तदेवं संभावयितुं तस्य पराक्रमानासर्गसमाप्तेर्वर्णयतिन तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः । द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विपाम् ॥ ६० ।। नेति ॥ युधि शत्रवो भियास्य मुखं न पश्यन्तीति यत्तन्नाद्भुतम् , कुतः सोऽपि न ईक्षते ननु खलु । द्रवतां भयात्पलायमानानां विद्विषां पृष्ठं कायपाङ्गिमीक्ष्यते । जातु कदाचित् वदनं न ईक्षते ननु खलु । द्वयोरन्यतरमुखेध्वन्योन्यस्य मुखविलोकनासंभवात्स्वयं विमुखानां विद्विषामभिमुखस्याप्यस्य मुखादर्शनादद्भुतमित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ Page #431 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। ४१९ प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः । दधतेरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ ६१ ।। प्रतन्विति ॥ शरदं ऋतुं प्राप्य विखण्डितायुधाः खण्डितेन्द्रचापाः अन्यत्र शरान्ददातीति शरदस्तं शरदं शरवर्षिणं प्राप्य खण्डितशस्त्राः प्रतनूल्लसिताचिरघुतोऽल्पस्फुरितविद्युतः । अन्यत्र प्रतनूल्लसिताः स्वल्पोल्लसितास्त एवाचिरद्युतोऽस्थिरद्युतः। पयोभृतो मेघा आसारभृतः वृष्टिमन्तः न यदि । शरदि वृष्टिशून्यत्वादिति भावः । सुहृद्धलशून्या इत्यर्थः । 'आसारः स्यात्प्रसरणे वेगवृष्टी सुहृद्धले' इति वैजयन्ती । अस्यारिभिस्तुल्यतां दधते । अत्र पयोभृतामुपमानानामुपमेयभावोक्तेः प्रतीपालंकारः । तेषामासारासंबन्धेऽपि संभावनया तदसंबन्धोक्तेरतिशयोक्तिभेदश्चेति संकरः ॥ मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः । नृपमौलिमरीचिवर्णकैः खलु यस्यात्रियुगं विलिप्यते ॥ ६२॥ मलिनमित्यादि ॥ मुहुरसकृत् । रणरेणुभिर्मलिनमत एव द्विषतामङ्गनाश्रुभिः क्षालितं । नाहत्वारीन् रणान्निवर्तत इति भावः। यस्याशियुगं चरणयुगलम् । अथ रेणुक्षालितानां नृपाणां प्रणतानां राज्ञां मौलिमरीचयो मुकुटमणिरश्मयस्तरेव वर्गकैविलेपनैश्चन्दनैः । 'चन्दने चापि वर्णकम्' इति विश्वः । विलिप्यते विशेष्यते । अत्राङ्गियुगस्य विशेषणमहिना स्नातानुलिप्तपुरुषसाम्य. प्रतीतेः समासोक्तिः ॥ समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च । धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ ६३ ॥ समरायेति ॥ किंचेति चार्थः । निकामकर्कशमतिकठिनम् । दुर्धर्षमित्यर्थः । समराय संप्रहारायाकृष्टमाहूतमावर्जितं च क्षणम् आशङ्कितभङ्गं मनसोत्प्रेक्षित. स्वपराजयम् ; अन्यत्रातिकर्षणात्संभावितदलनं यस्य विद्विषां कुलमाशु धनुषा सममानतिं नम्रतामुपैति । अत्र धनुनमनकार्यस्य द्विषन्नमनस्य तत्सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविपर्ययनिमित्तरूपातिशयोक्तिमूला सहोक्तिरलंकारः ॥ तुहिनांशुममुं सुहृजनाः कलयन्त्युष्णकरं विरोधिनः । कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ ६४ ॥ तुहिनेति ॥ अमुमेवंविधं चैद्यं सुहृजनाः तुहिनांशुं कलयन्ति आह्लादकत्वाच्चन्द्रं मन्यन्ते । विरोधिनः उष्णकरं तपनं कलयन्ति । एकस्यानेकप्रतीतिमुपमिमीते । कृतिभिरिति । कृतिभिः कुशलैरैन्द्रजालिकादिभिः कृतदृष्टिवि. भ्रमा जनितदृष्टिविपर्यया एके नराः यथा स्रजं मालां कलयन्ति, अपरे तु भुजगं कलयन्ति एकमेव रज्वादिकमिति शेषः । उपमालंकारः स चैकस्य निमित्तवशाद्गृहीतेनेदन्तादस्तानेकधोल्लिखनात्मकेनोल्लेखेन संकीर्यते ॥ . .. Page #432 -------------------------------------------------------------------------- ________________ शिशुपालवधे दधतोऽसुलभक्षयागमा स्तनुमेकान्तरताममानुषीम् । भुवि संप्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः || ६५ ॥ दधत इति ॥ असुलभक्षयागमाः दुर्लभ गृहप्राप्तयः, अन्यत्रामरत्वाद्दुर्लभनाशयोगाः । 'निलयापचयौ क्षयौ' इत्यमरः । एकान्तरतां भयाद्विजनस्थाने निरताममानुषीं कार्यमालिन्यादिना पिशाचादिवत्प्रतीयमानाम्, अन्यत्रैकान्तरतां नियतसुरतां नित्यभोगाममानुषीं दिव्यां तनुं दधतो दधानाः भुवि संप्रति वचन न प्रतिष्ठिताः राज्यभ्रंशात्क्वापि स्थितिमप्राप्ताः, अन्यत्र च भुवं न स्पृशन्तीत्यर्थः । देवस्वाद्यस्यारातयः सुरैः सदृशाः । अत्राप्यमुमिति पूर्वेण संबन्धः । श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥ अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किंचन । यदमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ ६६ ॥ ४२० अतीति ॥ अतिविस्मयनीयकर्मणोऽत्यन्तविस्मितपौरुषस्य । स्मयतेरनीयरप्रत्ययः । यस्य नृपतेश्चैद्यस्य विरोधि चेष्टितं द्वेषिरूपं न किंचिदस्तीत्यर्थः । यस्मादमुक्तनयोऽत्यक्तनीतिमार्गोऽसौ अक्षयमविनाशि । पूर्वं केनापि क्षयं न नीतमित्यर्थः । अहितानां कुलं शत्रुजातं क्षयं नाशं नयति । नीतिपौरुषाभ्यां द्विषन्निमूलयितुरस्य का विरोधिवार्तेति भावः । अक्षयमपि क्षयं नयतीति विरोधस्य तृभेदेन परिहाराद्विरोधाभासोऽलंकारः ॥ चलितोर्ध्वकबन्धसंपदो मकरव्यूहनिरुद्धवर्त्मनः । अतरत्स्वभुजौजसा मुहुर्महतः संगरसागरानसौ ॥ ६७ ॥ चलितेति ॥ असौ चैद्यश्चलिताः प्रवृत्ता ऊर्ध्वा उत्थिताः कबन्धसंपदः शिरोहीन कलेवर संपद एव कबन्धसंपद उदकसमृद्धयो येषु तान् । श्लिष्टरूपकम् । ‘कबन्धं सलिले प्रोक्तमपमूर्ध कलेवरे' इति वैजयन्ती । मकरव्यूहाः मकराकारसैन्यविन्यासाः त एव मकरव्यूहा इति श्लिष्टरूपकम् | 'व्यूहौ समू हविन्यासौ' इति वैजयन्ती । निरुद्धवर्त्मनो निरुद्धप्रवेशमार्गान् । अत एव महतो दुस्तरान्संगरसागरान्समरसमुद्राभ्वभुजौजसा निजभुजबलेनैव मुहुर सकृदतरत् । भुजेनाब्धितरणमदृष्टचरमत्यद्भुतमिति भावः । अत्र कबन्धा एव कबन्धाः मकरव्यूहा एव कच्छपादिव्यूहा इति श्लिष्टरूपकस्य संगरेषु सागररूपण हेतुत्वात्केवलं श्लिष्टपरम्परितरूपकम् ॥ न चिकीर्षति यः स्मयोद्धतो नृपतिस्तच्चरणोपगं शिरः । चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ॥ ६८ ॥ नेति ॥ मयोद्धत गर्वेण दुर्विनीतो नृपतिः शिरो निजोत्तमाङ्गं तस्य शिशुपालस्य चरणमुपगच्छतीति तच्चरणोपगं तत्पादगतं यो न चिकीर्षति कर्तुं नेच्छति तदीये तस्य नृपतेः संबन्धिनि मूर्धनि गतस्मयो विगर्वोऽसौ शिशुपाल एव Page #433 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। ४२१ रवं चरणं कुरुते । निधत्त इत्यर्थः । अनम्रान्सद्यो नमयति नम्रानवतीति तात्पर्यम् ॥ स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् । बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥६९॥ स्वेति ॥ स चैद्यश्चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तां चतुरङ्गां वाहिनी सेनामपहाय स्वभुजद्वयं केवलमेकमायुधं यस्य सः सन् शक्रदन्तिना ऐरावतेन सह । चत्वारो दन्ता यस्मिंस्तं चतुर्दन्तम् । आहवं रणं बहुशोऽगच्छत् । चतुर्दन्तेन शक्रदन्तिना दोर्द्वयेन योद्धं चैद्यं विना कोऽन्यः शक्त इति भावः । दन्तिनो. राहवश्चतुर्दन्त इत्युक्तं नतु मनुष्यदन्तिनोरिति विरोधः, स च शक्रदन्तिनेति परिहृतः, तस्य चतुर्दन्तत्वादिति विरोधाभासः ॥ अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया । युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः॥ ७० ॥ अविचालितेति ॥ अविचालितं परैरपर्यासितं अत एव चारु शोभनं चक्र सुदर्शनं, राष्ट्रं च ययोस्तयोः । 'चक्र राष्ट्ररथाङ्गयोः' इति विश्वः । श्रिया कमलया, संपदा चानुरागादुपगूढयोराश्लिष्टयोर्युवयोस्तव तस्य च । 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषः । इदमेव भिद्यते विशेप्यते । कर्मकर्तरि लट् । किं तदित्यत्राह-त्वमिन्द्रमुपगत उपेन्द्र इन्द्रानुजः । तदनुचर इति यावत् । स तु इन्द्रमतिकान्तः अतीन्द्रः । इन्द्रविजयीति यावत् । इदमेव भिद्यते इति संबन्धः । इन्द्रकिङ्करेन्द्रजयिनोः का साम्यकथेति भावः । अत्रोपमानात्कृष्णा. दुपमेयस्य चैद्यस्याधिक्या दप्राधान्यसाधर्मोक्तेर्व्यतिरेकालंकारः ॥ किंच त्वत्तोऽप्यधिको राजेत्यवाच्योऽयमर्थः यदीश्वरादप्यधिक इत्याह भृतभूतिरहीनभोगभाग्विजितानेकपुरोपि विद्विषाम् । रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥७१ ॥ भृतेति ॥ भृता भूतिर्भस, संपञ्च येन स भृतभूतिः । 'भूतिर्भस्म नि संपदि' इत्यमरः । अहीनां भोगिनामिनोऽहीनः तस्य भोगं कायं भजतीत्यहीनभोगभाक् । शेषभूषण इत्यर्थः । अन्यत्र अहीनमन्यूनं भोगं सुखानुभवं भजतीत्यहीनभोगभाक् । 'भोगः सुखे स्यादिभृतावहेश्च फणकाययोः' इत्यमरः । विद्विषां विजितानेकपुरः । विजितानेकविद्विदपुर इत्यर्थः । एकत्र त्रिपुरविजयादन्यत्र शत्रुनगरविजयाचेति भावः । सापेक्षत्वेऽपि गमकत्वात्समासः । एवंभूतोऽप्यजो हरः । 'अजा विष्णुहरच्छागाः' इत्यमरः । इन्दुदले दन्द्रखण्डे विषये रुचिमभिलाषं करोति । इन्दुदले या रुचिः शोभा तां करोति दधातीति चार्थः । सामान्यशब्देन विशेपलक्षणा । महीपतिस्तु परिपूर्णेन्दो रुचिरिव रुचिः शोभा यस्य सः तस्मिन्रुचिरभिलाषो यस्येति च परिपूर्णेन्दुरुचिः। 'रुचिर्मयूखे शोभायामभिषगाभिला. शिशु० ३६ Page #434 -------------------------------------------------------------------------- ________________ ४२२ शिशुपालवधे पयोः' इति विश्वः । अत्र हरखण्डेन्दुरुचिः, राजा पूर्णेन्दुरुचिरिति व्यतिरेकः । स च रुच्योरभेदाश्रयणादिनि श्लेषमूलाभेदातिशयोक्त्या संकीर्णः ॥ अथ कलापकमाहनयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गरोदयः। गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ ७२ ॥ नयतीति ॥ यः तद्रुमैः सरितामुदकस्य पूर एव भूभृतां गणैः क्रीडतीति चतुर्थे वक्ष्यति । तत्क्रीडाप्रकारं त्रिभिर्वर्णयति । अभङ्गुरोदयः स्थिरवृद्धिः य उद्धतिश्रित औद्धत्यभाजः । अनम्रानिति यावत् । श्रयतेः विप् । नृपान्द्रमांश्चेत्यर्थः । द्रुतं शीघ्रं प्रसभं प्रसह्य भङ्गं नयति । अवनीतले स्फुरन्यौ भुजौ शाखे इव भुजशाखे यस्य तम् । भुजौ प्रसार्य भुवि प्रणिपतितमित्यर्थः । अन्यं नृपं द्रुमं च वेतसादिकं भृशमुन्नतिं गमयति ॥ अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः । खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥७३॥ अधिगम्येति ॥ किंचेति चार्थः । अन्तरा मण्डलमध्ये, आलवालमध्ये च रन्ध्रमवकाशं शुषिरं चाधिगम्य । अन्यतः मण्डलस्यामात्यादिचक्रस्य भेदमुपजापं जनयन् , अन्यत्र मण्डलस्याधारदेशस्य भेदं विदारणं कुर्वन्नित्यर्थः । क्षता संहतिरैकमत्यं, मूलानामाश्लेषश्च यस्मिन्कर्मणि तद्यधा तथा क्षणात्कस्यचिद्राज्ञः, द्रुमस्य च महान्ति मूलानि मुख्याञ्जनानपि खनति तापयति, अन्यत्रादीनपि खनत्यवदारयति ॥ घनपत्रभृतोऽनुगामिनस्तरसाकृप्य करोति कांश्चन । दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ ७४ ॥ घनेति ॥ घनानि सान्द्राणि पत्राणि वाहनानि, पर्णानि च बिभ्रतीति घन. पत्रभृतः कांश्चन नृपान्द्रुमांश्च तरसा बलेन, वेगेन च । 'तरसी बलरंहसी' इति विश्वः । आकृष्यानुगामिनोऽनुचरान्करोति । दृढं यथा तथा प्रतिष्ठितं प्रतिष्टां गतमपि । प्रतिकूलं प्रातिकूल्यभाजमपरं नृपं, द्रुमं च नितरां निरस्यति उत्पाट्यान्यतः क्षिपति । द्रुमपक्षे प्रतिकूलं कूले क्षिपतीति चार्थः ॥ इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः । क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥७५॥ ॥कलापकम् ॥ इतीति ॥ इतीत्थं वचनाप्यखण्डितप्रसरः । सर्वत्राखण्डितप्रवृत्तिरित्यर्थः । महान्यः शिशुपालः प्रावृषि जातः प्रावृपिजः । 'सप्तम्यां जनेर्डः' इति डप्रत्ययः । 'प्रावृट्शरत्कालदिवां जे' इत्यलुक् । 'प्रावृषिकः' इति पाटे तत्र जात इत्यर्थे 'प्रा. Page #435 -------------------------------------------------------------------------- ________________ षोडशः सर्गः। ४२३ वृषष्ठक्' इति ठक् प्रत्ययः । ठस्येकः । सरितामुदकानां पूरस्तटद्रुमैरिव भूभृतः राज्ञां गणैः साधनैः क्रीडति । 'महतः कुकुरे'त्यागामिश्लोके स महीपतिरित्यने. नास्य संबन्धः ॥ अथ विशेषकमाहअलघूपलपशिशालिनीः परितो रुद्धनिरन्तगम्बराः । अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥७६॥ अलध्वित्यादि ॥ यस्यारिस्त्रियः संपद्यनुभूतमापद्यप्यनुभवन्तीति वक्ष्यति तत्प्रकारमेवाह । अधिरूढनितम्ब भूभय उन्नतश्रोणिभागाः अलघुभिरुपलानां मणीनां, पाषाणानां च पतिभिः शालन्त इति तच्छालिनीः। 'उपलौ मणिपाषाणौ' इति विश्वः । परितो रुद्धमावृतं निरन्तरं सान्द्रं संनिहितं च अम्बरं वसमाकाशं च याभिन्ताः अधिरूढनितम्बभूमीराकान्तश्रोणिभागाः प्राप्तकटकाश्चेति विभक्तिविपरिणामः । मेखला रशनाः पर्वतमध्यभूमीश्च चिराय न विमुञ्चन्ति । अत्र संपदादिविषयत्वेनोभयेषामपि मेखलादीनां वर्ण्यत्वेन प्रकतत्वात्केवलप्रकृतगोचरः श्लेषः ॥ कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।। नियतं दधते च चित्रकैरवियोग पृथुगण्डशैलतः ।। ७७ ।। कटकानीति । किंच नवमुक्ताफलानि नूतनमौक्तिकानि भूषणानि येष तेश्वारुभिः भुजैः कटकानि वलयानि भजन्ति, अन्यत्र नवमुक्तान्यचिरत्यक्तानि अतः अफलानि वैधव्यान्निष्फलान्याभरणानि यैस्तैर्भुजैरुपलक्षिताः कटकानि तटानि भजन्ति । किं चेति चार्थः । पृथुगण्डशैलतः पृथुगण्डस्थलेषु चित्रकैः पत्ररचनाभिर्नियतमवियोग संपर्क दधते । अन्यन्न च्युतस्थूलोपलेषु चित्रकैगविशेषैः सह वासं दधते । अत्रापि प्रकृतगोचरः श्लेषः । इति यस ससंपदः पुरा यदयापुर्भवनेष्वरिस्त्रियः । स्फुटमेव समम्तमापदा तदिदानीमवनीभ्रमूर्धम् ।। ७८ । ॥विशेषकम् ।। इतीति ॥ यस्यारिस्त्रियः पुरा पूर्व ससंपदः सश्रीकाः भवनेषु सदनेषु यदवापुर्मेखलादिकमनुबभूवुः । समस्तमशेषं तदिदानीमापदा अवनीध्रमूर्धसु शैलशृङ्गेषु इतीत्थं स्फुटमेवावापुः । न हास्य वैरिणां जीविताशेति भावः । अत्रापि यदर्थस्योत्तरश्लोकेनान्वयः ॥ महतः कुकुरान्धकट्ठमानतिमात्रं दववदहन्नपि । अतिचित्रमिदं महीपतिर्यदकृष्णां पृथिवीं करिष्यति ॥ ७९ ॥ महत इति ॥ यत्तदोर्नित्यसंबन्धात् । स महीपतिर्महतोऽधिकान्कुकुराश्चा Page #436 -------------------------------------------------------------------------- ________________ ४२४ शिशुपालवधे न्धकाश्च यादवभेदास्तानेव गुमानतिमात्रं दवववाग्निवत् । 'दवदावौ वनारपयवह्नी' इत्यमरः । दहन्नपि अवनीमकृष्णामश्यामां करिष्यति इति यत् इदमतिचित्रम् । विरुद्वमित्यर्थः । कृष्णरहितामित्यविरोधः । अतएव विरोधाभासोऽलंकारः । कुकुरान्धकैः सह कृष्णं हनिष्यतीति श्लेषार्थः ।। अथ युग्मेनाहपरितः प्रमिताक्षरापि सर्व विषयं प्राप्तवती गता प्रतिष्ठाम् । न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥८॥ परित इति ॥ प्रकर्षेण मिताक्षरापि एकत्र मितभापित्वादन्यत्र तु सूत्रत्वाच्चाल्पाक्षरापि सर्व विषयं राष्ट्रकार्य, देशं च परितो व्याप्तवती । सर्वत्र प्रवृत्तेत्यर्थः । प्रतिष्ठा प्रामाण्यं स्थिति गता गरीयसी भूयिष्ठार्था यदाज्ञा यस्य राज्ञः शासनं परिभाषा अनियमनिवारको न्यायविशेषः सेव कुतश्चित्कुत्रापि न प्रतिहन्यते खलु न बाध्यते हि । परिभाषा ह्येकदेशे स्थित्वा सर्वशास्त्रमभिज्व. लयतीति भाष्यकारः । 'इको गुणवृद्धी' इत्यादिका परिभाषा । 'सिचि वृद्धि:-' इत्यादिर्विषयः । उपमालंकारः । औपच्छन्दसिकं वृत्तम् ॥ यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः। तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुन ः ॥ ८१ ॥ यामिति ॥ यां भुवमादौ पूर्व पुराणपुरुषो विष्णुः ऊढवराहमूर्तिर्धतवरहशरीरः स च नतु स्वरूपेणेति भावः । मुहूर्त क्षणमात्रमूढवान्तवान् क्षता. रिणा संहृतसकलविपक्षेण अत एवैनां पुनस्तेन राज्ञा । अविकृतेनेति भावः । अक्षतैव विपक्षैरनुपद्रुतैवासौ भूः सांप्रतमद्यापि न तु मुहूर्तमिति भावः । सम्यक् यथाशास्त्रमुह्यते धार्यते । वहेः कर्मणि लट् 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अत्र राज्ञो विष्णोराधिक्यकथनान्यतिरेकः । अत्र ध्वनिः । कश्चिवृद्धः स चोढवराहमूर्तिर्यामविकृतिमादौ प्रथम मुहूर्तमूढवान्परिणीतवानिति अत एव अक्षता पूर्वेण अक्षतयोनिका । अत एवासौ भूर्वोदुः क्षतारिणा । शौर्यादिगुणाढ्येनेत्यर्थः । तेन केनचियूना सांप्रतं पुनरुह्यते पुनः पुनः परिणीयते। 'सा चेदक्षतयोनिः स्यात्पुनःसंस्कारमर्हति' इति स्मरणादिति भावः । सा पुनर्भूरुच्यते इति योज्यम् । 'पुनर्भूर्दिधिधूरूढा द्विस्तस्या दिधिषुः पतिः' इत्यमरः । अत्राभिधायाः प्रकृतार्थ एव नियन्त्रणादप्रकृतार्थप्रतीतेनिरेव ॥ भूयांसः क्वचिदपि काममस्खलन्त स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि । कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः॥ ८२ ॥ भूयांस इति ॥ द्वयेऽपि समुद्रोर्मयो गुणोर्मयश्चेति द्वितया अप्यूर्मय इति । Page #437 -------------------------------------------------------------------------- ________________ ४२५ षोडशः सर्गः। द्वेस्तयप् तस्य 'द्वित्रिभ्याम्-' इत्यनेनायजादेशः 'प्रथमचरम-' इत्यादिना जसि विभाषया सर्वनामसंज्ञा । भूयांसो बहुतराः क्वचिदप्यस्खलन्तः । अप्रतिहतप्रसरा इत्यर्थः । कामं तुङ्गत्वं दधति यद्यपि दधत्येव । 'यद्यपीत्यवधारणे' इति केशवः । तथापीति शेषः । सलिलनिधेः समुद्रस्य कल्लोला महोर्मयः। 'अथोमिषु। महत्सूल्लोलकल्लोलौ' इत्यमरः । पारं तीरमवाप्य शीर्यन्ते विलीयन्ते । शीर्यतेर्दैवादिकात्कर्तरि लट् । तदीया गुणमहोर्मयस्तु पारमवाप्य न शीर्यन्ते । भत्र गुणमहोर्मीणां भूयस्वादिति साधम्र्येण गुरुत्वेन समुद्रस्याधिक्यान्यतिरेकः । अनेन राज्ञोऽपि समुद्रादाधिक्यं व्यज्यते । प्रहर्षिणी वृत्तम् ॥ अध युग्मेनाह लोकालोकव्याहतं धर्मरश्मे शालीनं वा धाम नालं प्रसर्तुम् । लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ ८३ ॥ लोकालोकेत्यादि ॥ लोक्यते आलोक्यते च पार्थान्तरेणेति लोकालोकः । 'लोकालोकश्चक्रवालः' इत्यमरः । विशेषणसमासः । तेन व्याहतं निरुद्धप्रसारं लोकस्यालोकेन चक्षुःप्रकाशेन व्याहतमित्यपि स्फुरति । अतएव शालीनमधष्टम् । लजया भग्नधा_मित्यर्थः । 'शालीनकौपीने अष्टाकार्ययोः' इति निपातः । इवाथै वाशब्दः तद्वदुत्प्रेक्षा । धर्मरश्मेर्धाम तेजः पश्यतो लोकान् उच्चैर्भूभृतः पर्वतान्राज्ञश्च प्रसतु व्याप्तुं नालं न समर्थम् । लोकालोकव्याप्तस्य लोकाग्रे संचारत्वादित्यर्थः । यस्य राज्ञस्तु तेजः पश्यतो लोकस्याग्रत एव पृष्टं केनाप्यव्यातहत्वात्प्रगल्भं सत् उच्चैर्भूभृतो राज्ञः पर्वतांश्च कामति व्याप्नोति । भत्राप्रतिहतप्रतापत्वेन राज्ञः सूर्यादाधिक्याद्यतिरेकः स च द्वयोर्लोकालोकयो. ईयानां भूभृतामभेदाध्यवसायाच्छेषमूलातिशयोक्तयुस्थापितया शालीनत्वोत्प्रेक्षया संकीर्यते । शालिनी वृत्तमेतत् ॥ विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकै रच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः । प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषा मित्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ॥८४॥ विच्छित्तिरिति ॥ वपुषो नवचन्दने विच्छित्तिर्वियोग आपदि, अन्यत्र चन्दनालेपनमिति यावत् । अधरोष्टोऽलतकै क्षारागैभिन्नो वियुक्तः, अन्यत्र युक्तः । नयने च पतिताञ्जने गलितकज्जले अत एवाच्छाच्छे अच्छप्रकारे। 'प्रकारे गुणवचनस्य' इति द्विर्भावः ‘कर्मधारयवत्-' इति सुपो लुक् । अन्यत्र अच्छाच्छे नयने पतिताञ्जने प्राप्ताञ्जने। श्रोण्यो नितम्बाः लसन्मेखला न भवन्तीत्यलस Page #438 -------------------------------------------------------------------------- ________________ ४२६ शिशुपालवधे न्मेखलाः । निर्मेखला इत्यर्थः । अन्यत्र लसन्मेखला इति पदच्छेदः । उन्नतः कुचाभोगः कुचविस्तारो मौक्तिकानां हारं हरणं प्राप्तः । अन्यत्र मुक्तादामप्राप्तः । इत्थमुक्तरीत्या तदीयद्विषां युवतयः संपत्सु चापत्स्वपि नित्यविभूषणाः । अत्रापत्संपदोः प्रकृताप्रकृतयोः युवतिविशेषणद्वारा वर्णनाच्छेषः । शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तम् ॥ सत्यमीदृशस्ते राजा ततः किमित्याशक्य तर्हि तत्त्वमाकर्णयेत्याहविनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् । रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यतेऽसौ ॥८५॥ ___ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके षोडशः सर्गः ॥ १६ ॥ विनिहत्येति ॥ अर्जितश्रीरधिकैश्वर्योऽसौ राजा युधि भवन्तं सद्यो विनिहत्य हत्वा रुदतां क्रन्दतां भवदङ्गानागणानां करुणान्तःकरणः कृपाविष्टचित्तः सन् शिशुपालतां यथार्थी करिष्यते । अङ्गनागणान्प्रति तच्छिशुपालनेन निजां शिशुपालसंज्ञामन्वर्थी करिष्यतीत्यर्थः । अन्न रोदनकरुणापदार्थयोर्विशेषणगत्या क्रमात्करुणाशिशुपालनहेतुकत्वाकाव्यलिङ्गयोः संकरः । औपच्छन्दसिकं वृत्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध काव्यव्याख्यायां सर्वकषाख्यायां षोडशः सर्गः ॥ १६ ॥ सप्तदशः सर्गः। इतीरिते वचसि वचखिनामुना युगक्षयक्षुभितमरुद्गरीयसि । प्रचुक्षुमे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः॥१॥ इतीति ॥ इतीत्वममुना वचस्विना वाग्मिना । 'मनस्विना' इति पाठे मनस्विना धीरेण दूतेन युगक्षये कल्पान्ते क्षुभित उद्धतो मरुत्तद्वद्गरीयसि वचमि ईरिते सति । तदम्बुराशिना युगक्षयवर्धिना समं तुल्यं यथा तथा सदो हरेरास्थानं महाप्रलये सर्वसंहारे समुद्यतमुधुक्तं सत् सपदि प्रचुक्षुभे प्रचुकोप । कल्पो. द्धतमहामारुतेन महार्णव इव तद्वचनेन तत्सदः क्षुभितमासीदित्यर्थः । उपमा । रुचिरा वृत्तम् । 'चतुर्ग्रहैरिह रुचिरा जभरजगा' इति लक्षणात् ॥ अथाष्टादशभिः सभाक्षोभं वर्णयतिसरागया स्रतघनधर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविखण्डितोष्टया रुपा नृपाः प्रियतमयेव भेजिरे ॥२॥ Page #439 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः। ४२७ सरागयेत्यादि ॥ नृपा राजानः सह रागेण पाटलिम्ना, अनुरागेण च सरागया। 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । श्रुतं धनं सान्द्रं धर्मतोयं स्वेदोदकं यस्यां सा तया कराहत्या पाणितलास्फालनेन ध्वनितं पृथु महदुरु पीठमिव उरुपीठं यस्यां तया मुहुर्मुहुर्दशनविखण्डितोष्टया दन्तदष्टाधरया । रुषा प्रियतमयेव भेजिरे । आविष्टोऽनाविष्टश्च रौद्रस्थायी क्रोधः प्रादुर्भूत इत्यर्थः । उपमालंकारः ॥ अथ सप्तदशभी राज्ञां क्रोधानुभावानाहअलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि । समुल्लसच्छकलितपाटलोपलस्फुलिङ्गवान्स्फुटमिव कोपपावकः॥३॥ ___ अलक्ष्यतेत्यादि ॥ करोदरप्रहितं पाणितलास्फालितं निजमंसधाम स्वांस. प्रदेशो येन तस्मिन् । अत एव क्षणाद्दलिताङ्गदे भन्नकेयूरे गदे गदाख्ये कृष्णानुजे समुल्लसद्भिरुत्पतद्भिः शकलितैः शकलीकृतैर्दलदङ्गदगलितैः पाटलोपलै: पद्मरागैः कोपपावकः स्फुलिङ्गवानिव स्फुटं व्यक्तमलक्ष्यतेत्युत्प्रेक्षा । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः ॥ अवज्ञया यदहसदुच्चकैर्वलः समुल्लसद्दशनमयूखमण्डलः । रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिम् ॥४॥ अवशयेति ॥ बलो बलभद्रः समुल्लसत्समन्ततः प्रसरद्दशनमयूखमण्डलं दन्तरश्मिपटलं यस्य स सन् अवज्ञयानादरेण उच्चैरहसदिति यत् तेन हासेन रुषारुणीकृतमपि निजं वपुः तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । पुननिजां रुचिं धावल्यमेवानयत् । अत्र वपुषः स्वधावल्यत्यागेन दन्तधावल्यस्वीकारात्तद्गुणालंकारः । 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः' इति लक्षणात् ॥ . यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः।। बृहच्छिलातलकठिनांसघट्टितं ततोऽभवद्भमितमिवाखिलं सदः ५ __ यदिति ॥ उल्मुको नाम राजा उत्पतदुल्लुठस्पृथुतरं हारमण्डलं मुक्ताकलापो यस्मिन्कर्मणि तद्यथा तथा अभिदूतं दूताभिमुखं व्यवर्तत विवृत इति द्रुतं यत् ततो विवर्तनादखिलं सदः बृहता शिलातलकठिनेनांसेन स्कन्धेन घट्टितं भ्रमितमिवाभवत् । विवर्तवेगवशोत्थादसघट्टनामितमिवाभूदित्युत्प्रेक्षा ॥ अकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः । युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमविदत् ॥६॥ प्रकुप्यत इति ॥ अकुप्यतोऽतिक्रुध्यतो युधाजितो नाम राज्ञो वदनसरोज श्वसनसमीरणस्य निःश्वासमारुतस्याहतिभिः स्फुटः प्रकट ऊष्मा उष्णत्वं येषां तैः तनुवसनान्तमारुतैः सूक्ष्मवस्त्राञ्चलवातैः कृतं परिपूर्णवीजनं शीघ्रविधूननं यस्य तत् । अतिशीघ्र वीज्यमानमपीत्यर्थः । पुनस्तरां पुनरत्यन्तम् । अव्ययादा Page #440 -------------------------------------------------------------------------- ________________ ४२८ शिशुपालवधे मुप्रत्ययः । अस्विदत्स्विद्यति स्म । स्विदेलुंङि पुषादित्वादप्रत्ययः । अत्रोप्मविशेषणगत्या स्वेदहेतुत्वाकाव्यलिङ्गम् । वीजनेऽपि स्वेद इति विरोधः । विजिरयं चुरादिप्वन्वेषणीयः ॥ प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयज्वरमिव रौद्रमुद्धतम् । समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥७॥ प्रजेति ॥ जनः सपदि विद्विषां वधाय समुद्यतमुद्युक्तं उद्धतं तीव्रम् अत एवातिक्रुधमधिकक्रोधि । अनौषधम् । अप्रतीकारमित्यर्थः । निषधं निषधाख्यं नृपं प्रजापतिक्रतुनिधनार्थ दक्षाध्वरध्वंसनार्थमुत्थितं रुद्रस्येमं रौद्रं रुदसंबन्धिनं ज्वरमिव वीरभद्ररूपिणमित्यर्थः । व्यतर्कयत् । अन्न राज्ञोऽपि प्रजापतित्वात्पुनः प्रजापतिक्रतुनिधनार्थमुत्थितः साक्षादक्षाध्वरविध्वंसी वीरभद्र इवायमित्युत्प्रेक्षितवानित्यर्थः । उपमा ॥ परस्परं परिकुपितस्य पिषतः क्षतोमिकाकनकपरागपङ्किलम् । करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः॥८॥ परस्परमिति ॥ परिकुपितस्यातिक्रुद्धस्य अत एव परस्परं पिंपतः पीडयतः । करद्वयमित्यर्थः । सपदि सुधन्वनो राज्ञः क्षतानां पिष्टानामूर्मिकाणामङ्गुलीयकानां कनकपरागेण सुवर्णचूर्णेन पङ्किलं पङ्कवत् । पिच्छादित्वान्मत्वर्थीय इलप्रत्ययः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । करद्वयं पाणियुग्मं निजैः करद्वयजन्यैरेवानारतस्रुतिभिरविरतस्रावैरम्बुभिः स्वेदोदकैरधाव्यताक्षाल्यत । 'धावु गतिशुद्ध्योः' इति धातोः कर्मणि लङ् । अत्रोर्मिकाणां करद्वयस्य च परागस्वपङ्किलत्वासंबन्धेऽपि संबन्धोक्तरतिशयोक्ती तयोः संकरः ॥ निरायतामनलशिखोज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदम् । अविभ्रमद्भमदनलोल्मुकाकृति प्रदेशिनी जगदिव दग्धुमाहुकिः ९ निरिति ॥ आहुकिर्नाम राजा निरायतां प्रसारितां अनलशिखाग्निज्वाला तद्वदुज्वलां ज्वलन्तीभिनखप्रभाभिः कृता परिवेषसंपत्परिधिशोभा यस्यास्ताम् । अत एव भ्रमतोऽनलोल्मुकस्यालातस्येवाकृतिः संस्थानं यस्यास्ताम् । 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः । प्रदेशिनी जगदग्धुमिवेत्युत्प्रेक्षा। अविभ्रमझमयति स । भ्रमेौँ चङ्। दूतसंतर्जनाय भाग्यमाणनखप्रभापटला तर्जनी जगद्दाहाय भ्राम्यमाणालातचक्रवदलक्ष्यतेत्यर्थः ॥ दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्यया । ध्रुवं पुनः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा १० दुरीक्षतामिति ॥ मन्मथः प्रद्युम्नावतारः कामस्तथा दुरीक्षतां दुर्दर्शनत्वम् । ईक्षतेः खलन्तात्तलप्रत्ययः । अभजत । यथा हरोऽपि पुरा पूर्वजन्मनि परिचित. Page #441 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः ४२९ मभ्यस्तं दाहधा दहनसाहसं यस्यास्तया तृतीयया हशा सशरममुं मन्मथं ध्रुवं पुनर्वीक्षितुं न व्यसहत न शक्तः । 'परिनिविभ्यः सेवसितसयसिवु सहसुद्रस्तुस्वञ्जाम्' 'सिवादीनां वाङ्व्यवायेऽपि इति विकल्पान्न षत्वम् । अनयोत्प्रेक्षया रुद्रस्यापि भीषणः किमुतान्येषामिति वस्तु व्यज्यते ॥ विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना । परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ ११ ॥ 1 विचिन्तयन्निति ॥ पृथुर्नाम राजा उपनतं प्राप्तमाहवं युद्धं रसाद्रणरागाद्विचिन्तयन्कदेति ध्यायन् कठिनेन कर्कशेन कठोरेण प्रवृद्धेन कामिन्याः कुचस्थलेन प्रमुषितमपहृतं चन्दनं यस्य तत् । एतेनास्य सुरतसमरयोः समरसत्वं व्यज्यते । अत एव स्फुरत्तनुरुह मुदञ्चत्पुलकमुरः । अग्रश्चासौ पाणिश्चेति समानाधिकरणसमासः । अत एव 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदयो' रिति वामनः । तेनाग्रपाणिना पाणितलेन परामृशत्परामृष्टवान् । रणकण्डूलपाणित्वादिति भावः । अत एव यदन्येषां रोषजनकं दूतवाक्यं तदागा मिरणकारणतयास्य हर्षहेतुरिति श्लोकार्थः ॥ विलङ्घितस्थितिमभिवीक्ष्य रूक्षया रिपोगिरा गुरुमपि गान्दिनीसुतम् । जनैस्तदा युगपरिवर्तवायुभि विवर्तिता गिरिपतयः प्रतीयिरे ॥ १२ ॥ विलङ्घितेति ॥ गुरुं स्वभावतो धीरमपि सन्तं रूक्षया परुषया रिपोर्गिरा दूतवाचा विलङ्घितस्थितिमुल्लङ्घितमर्यादं क्रोधादुन्मर्यादम् । विकुर्वाणमित्यर्थः । गान्दिनीसुतमक्रूरमभिवीक्ष्य जनैस्तथा अक्रूरविक्रियालोकनसमये युगपरिवर्तवायुभिः कल्पान्तवातैर्विवर्तिताः स्थानादुच्चालिता गिरिपतयोऽद्वयः प्रतीयिरे विशश्वसिरे । अक्रूरविक्रियादर्शनाद्विरिचलनमपि युगान्ते संभावितमेवेति जनैर्विश्वस्तमित्यर्थः । ' प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । प्रतिपूर्वादिणः कर्मणि लिट् । अत्र कल्पान्ते गिरिचलनविक्रियाकल्पेयमक्रूरविक्रियेति वाक्यभेदेन सादृश्याक्षेपान्निदर्शनालंकारः । तेनारस्य लोकोत्तरं धैर्य नैसर्गिकमिति वस्तु व्यज्यते ॥ विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः । क्रुधा दधत्तनुमतिलोहिनी मभृत्प्रसेनजिद्गज इव गैरिकारुणः ॥ १३ ॥ विवर्तयन्निति । मदो मद्यविकारो दानं च | 'मदो मद्येभदानयोः' इति विश्वः । तेन कलुषीकृत आकुलीकृते दृशौ विवर्तयन्वर्णयन्करेण पाणिना शुण्डादण्डेन चाहतायां क्षितौ भूमौ कृतो भैरवारवो भयंकरध्वनिर्येन सः । क्रोधात्सध्वानं करेण क्षितिमाघ्नन्नित्यर्थः । क्रुधा क्रोधेन अतिलोहिनीमतिलोहिताम् । 1 Page #442 -------------------------------------------------------------------------- ________________ ४३० शिशुपालवधे 'वर्णादनुदात्तात्तोपधात्तो नः' इति विकल्पान्ङीष् तकारस्य च नकारः। तनुं वपु. दधत्प्रसेनजिन्नाम राजा गैरिकारुणो धातुरक्तो गज इवाभूत् । तद्वदलक्ष्यतेत्यर्थः॥ सकुङ्कुमैरविरलमम्बुविन्दुभिर्गवेषणः परिणतदाडिमारुणैः । स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः१४ ___ सकुङ्कमैरिति ॥ स प्रसिद्धो गवेषणो नाम राजा सकुङ्कुमैः सर्वाङ्गीणकश्मीरजलेपरित्यर्थः । अत एव परिणतदाडिमारुणैः परिपक्वदाडिमबीजरक्तैरम्बुबिन्दुभिः । क्रोधसात्त्विकैः स्वेदबिन्दुभिरित्यर्थः । मत्सरेणान्तःसंभृतेनात्युत्कटवैरेण स्फुटितान्निभिन्नाद्वपुषो विनिःसृतैरसृजां लवैरसृग्विन्दुभिरविरलं निरन्तरं निचितो व्याप्त इव चिरं बभौ । उत्प्रेक्षा ॥ ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः । रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥१५॥ . ससंभ्रममिति ॥ शिनिः सात्यकेः पितामहः ससंभ्रमं ससत्वरं चरणतला. भिताडनेन पादतलाभिघातेन स्फुटन्त्या दलन्त्या मह्या विवरैश्छिट्टैर्वितीर्णवर्मभिर्दत्तमार्गः । तत्प्रसरणैरित्यर्थः । रवेः करैरनुचितं पूर्वमपरिचितमिदं यथा तथा तापिताः संतापं गमिता उरगा यसिंस्तत् रसातलं प्रकाशतां प्रकटत्वमनयत् । अत्र महीरविकरोरगरसातलानां क्रमेण स्फुटनान्तःप्रवेशताप्रकाशनैरसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः। पादाहननैरमानुषी तीव्रतां ब्रजति स्मेति ध्वनिः ॥ प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः। अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव१६ प्रतीति ॥ शारणे नाम राज्ञि प्रतिक्षणं शिरो विधुवति क्रोधात्कम्पयति सति । धुवस्तौदादिकालटः शत्रादेशः 'अचि क्षुधातु-' इत्यादिनोवङादेशः । शिखिवयोतन्त इति शिखिद्युतोऽग्निप्रभाः। विप् । कनककिरीटरश्मयो नीराजनकर्तारः अमी भूपाः अधुना अशङ्कितं निःशकं युधमाजिम् । 'समित्याजिसमिधुधः' इत्यमरः । विशन्त्विति क्षमापतीन्निरराजयन्निव नीराजयन्ति स्मेवेत्युत्प्रेक्षा । 'नीराजनात्स्याद्विजय' इत्यागमः ॥ दधौ चलत्पृथुरसनं विवक्षया विदारितं विततवृहद्भुजालतः । विदूरथः प्रतिभयमास्सकंदरं चलत्फणाधरमिव कोटरं तरुः ॥१७ दधाविति ॥ वितते विस्तृते बृहत्यौ भुजे लते इव यस्य स विदूरथो नाम राजा। विवक्षया किमपि वक्तुमिच्छया विदारितं व्यात्तं अत एव चलन्ती पृथुर्महती रसना जिह्वा यस्मिंस्तम् । 'रसज्ञा रसना जिह्वा' इत्यमरः । प्रतिभयं भयंकरमास्यं कंदर इवास्यकंदरस्तम् । 'दरी तु कंदरो वा स्त्री' इत्यमरः । चलन्फणाधरः फणी यस्मिंस्तत्कोटरमिव । 'निष्कुहः कोटरं वा ना' इत्यमरः । दधौ । श्रौती पूर्णोपमा ॥ Page #443 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः। ४३१ समाकुले सदसि तथापि विक्रियां मनोगमन्न मुरभिदः परोदितैः। घनाम्बुभिवहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः १८ __ समाकुल इति ॥ परोदितैः शत्रुवाक्यैः सदसि आस्थाने तथा समाकुले क्षुभितेऽपि मुरभिदो हरेर्मनो विक्रियां क्षोभं नागमत् । तथा हि बहुलितानि बहुलीकृतानि क्षोभितानि निम्नगाजलानि यैस्तैर्घनाम्बुभिमघोदकैरम्बुधे लं विकारं न व्रजति । यथा वर्षोदकैर्नद्यः क्षुभ्यन्ति न समुद्रस्तद्वदिति भावः । दृष्टान्तालंकारः ॥ परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति । निनाय नो विकृतिमविस्मितः सितं मुखं शरच्छशधरमुग्धमुद्धवः॥ परानिति ॥ अमी खलाः परानन्यानपवदन्ते निन्दन्ति । 'अपाद्वदः' इत्यात्मनेपदम् । आत्मनः स्वान् स्तुवन्ति चेति यत् असावसतां खलानां स्थितिः प्रकृतिरिति । इति मत्येत्यर्थः । गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुक्त्यमित्यालंकारिकाः । विस्मितो न भवतीत्यविस्मितो दूतप्रलापैविस्मयं न गतः उद्धवः । स्मितं स्मेरम् । उभयत्र कर्तरि कः। अत एव शरच्छशधरमुग्धं शरदिन्दुसुन्दरमित्युपमा । मुखं विकृतिं न निनाय न प्रापयामास । न हि महतां निन्दा स्तुतिर्वा विकारकारणमिति भावः ॥ निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् । . मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनाताजये॥२०॥ निराकृत इति ॥ तत्र सदसि इतीत्थं प्रकोपिभिरतिक्रुद्धैर्यदुभिः विद्विषां स्पशे चरे। 'अपसर्पश्चरः स्पशः' इत्यमरः । निराकृते धिकृते शनैर्गतवति गच्छति सति । सागसोऽपि दूतस्यावध्यत्वादिति भावः । अथ दूतगमनानन्तरं स्वनितेन ध्वनिना भयानका भयंकरा आनकाः पटहा यसिंस्तन्मुरद्विषो बलं क्षणादाजये युद्धाय समनह्यत संनद्धम् ॥ मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः। अदंशयन्नरहितशौर्यवंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥२१॥ मुहुरिति ॥ वृष्णिभूभृतो यादवनरेन्द्राः मुहुरसकृधुधि प्रतिस्खलितपरायुधाः भग्नप्रतिपक्षायुधाः स्थवीयसीः स्थूलतराः । पराक्रमानुरूपप्रकर्षवतीरित्यर्थः । स्थूल दूर-' इत्यादिना पूर्वस्य गुणलोपौ । अचल नितम्बनिर्भरा अद्रिकटकनिबिडाः । अन्तःसारवतीरित्यर्थः । अरहितमव्यक्तं शौर्य मेव दंशनं वर्म यासां तास्तनूदेहान् अयं नय इति वर्मधारणं नीतिरिति हेतोः न तु भयादिति भावः । अदंशयन्नवर्मयन् । दशेरनुदात्तत्वात्परस्मैपदं चिन्त्यमित्याहुः । अत एव भट्टमल्लः- 'संवर्मयति संनह्यत्यात्मने सजतीत्यमी । संदंशते दंशयते संनाहे पदपञ्चकम् ॥' इति । केचित्तु चुरादिपूभयपदिषु पटन्ति । अत्र साभि. प्रायविशेषणत्वात्परिकरालंकारः ॥ Page #444 -------------------------------------------------------------------------- ________________ ४३२ शिशुपालवधे दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति । महीभुजां महिमभृतां न संममुर्मुदोऽन्तरा वपुषि वहिश्च कञ्चकाः २२ दुरुद्वहा इति ॥ महिमभृतामैश्वर्यवतां महीभुजां राज्ञां संबन्धिनी रणश्रवाद्युद्धश्रवणादाशु शीघ्रमुपचयं वृद्धिं बिभ्रति बिभ्राणे वपुषि अपरैरन्यैः क्षणं क्षणमपि दुरुद्वहा दुर्भराः मुदः संतोषाः अन्तरा अन्तराले न संममुः। बहिः कञ्चकाश्च न संममुः न मान्ति स्म । नावर्तन्तेत्यर्थः । पूर्वत्र आधेयाधिक्यादुत्तरत्राधाराधिक्यादिति विवेकः । अत्र मुदा कञ्जुकानां च प्रकृतानामेव विशेषणसाम्यादौपम्यगम्यतायां केवलकृतास्पदा तुल्ययोगिता ॥ सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्व वाजिनः । त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनःपुनस्तदधिकृतानतत्वरन् २३ सकल्पनमिति ॥ द्विरदगणं सह कल्पनया सकल्पनं यथोचितसंनाहस. हितम् । 'कल्पना सजना समे' इत्यमरः । वरूथो रथगुप्तिरेषामस्तीति वरूथिनो रथान् । 'रथगुप्तिर्वरूथो ना' इत्यमरः। तुरङ्गिणोऽश्वयुक्तान् वाजिनोऽश्वा. अयनयुजः पल्ययनादिसंयुक्तान् । संपदादिभ्यः क्विप् । 'जयनः स्यात्तुरङ्गादिसंनाहे विजयेऽपि च' इति विश्वः । स्वयं त्वरायुजः त्वरायुक्तान्स्वतः कुर्वतोऽपि । स्वत एव त्वरया कुर्वाणानपीत्यर्थः । तदधिकृतान्हस्त्यादिषु नियुक्तपुरुषानपाः पुनः पुनरतत्वरन्त्वरयन्ति स्म । तेषां तथा रणौत्सुक्यादिति भावः । त्वरेणौ चडि 'अत्स्मृद्दृत्वरप्रथम्रदस्तृस्पशाम्' इत्यभ्यासस्याकारः ॥ युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया । अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् २४ युध इति ॥ अथ परैः सह युधे युद्धाय दृढबद्धा कक्षा मध्यबन्धनं यस्यास्तया । 'कक्षा बृहतिकायां स्यात्काञ्चयां मध्येभबन्धने' इति विश्वः । अन्यत्र दृढोद्योगयेत्यर्थः । कलं क्वणता मधुपकुलेनालिगणेनोपगीतया बन्दिमागधस्तुतया चेति गम्यते । द्विपघटया का स्वयं सवारिभिः सोदकैः करोदरैः पुष्करात्रैः पाणितलायैश्चाक्षयमपरिमितं दानं मदः अदीयत, दानं द्रव्यं चादीयत दत्तम् । जन प्रस्तुतगजघटाविशेषणसाम्येनाप्रस्तुतदानकर्तृप्रतीतेः समासोक्तिरलंकारः ॥ सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः । रणैषिणां पुलकभृतोऽधिकंधरं ललम्बिरे सदसिलताः प्रिया इव २५ सुमेखला इति ॥ शोभना मेखला बन्धनसूत्राणि काग्यश्च यासां ताः सुमेखलाः । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । सिततरैर्दन्तैर्दन्तमयत्सरुभिर्दशनैश्च चारवः उल्लसन्त्यः तनवः सूक्ष्माः परिधानसंपदः कोशसंपदो वस्त्रसंपदश्च यासां ताः पुलकभृतः छायाभृतः रोमाञ्चधारिण्यश्च सदसिलताः चारुखगवल्यः प्रिया इव रणैषिणां रणाकाटिणां कंधरास्त्र Page #445 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः। ४३३ धिकंधरमधिकण्ठम् । विभक्त्यर्थेऽव्ययीभावः । ललम्बिरे । लग्ना इत्यर्थः । श्लेषः श्लिष्टोपमा वा मतभेदात् ॥ मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः । सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥२६॥ मनोहरैरिति ॥ अथ प्रकृतिमनोरमाकृतिः स्वभाव सुन्दरमूर्तिः समितिषु युद्धेषु भीमं दर्शनं यस्य स भीमदर्शनो मुरजिद्धरिर्मनोहरैः प्रकृतिमनोहरैः समितिषु भयप्रदः सदैवतैः अधिदेवतायुक्तः सततमनपायिभिरायुधैः शार्ङ्गद्विभिर्निजाङ्गवत्पृथगवस्थितैः शरीरैरिवेत्युत्प्रेक्षा । असेव्यत सेवितः ॥ अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि । मुहुर्युधि क्षतसुरशत्रुशोणितप्लुत प्रधिं रथमधिरोहति स्म सः ॥२७॥ अवारितमिति ॥ अथायुधसंनिधानानन्तरं स हरिरुभयेषु द्वयेषु । द्विविधेष्वित्यर्थः । क्षमाभृतां राज्ञां, गिरीणां च कटकान्तरेष्वपि शिबिराभ्यन्तरेषु, नितम्बावकाशेषु च भूरिशो बहुशः अवारितमप्रतिहतं गतं प्रस्थितं मुहुरसकृधि क्षतानां सुरशत्रूणामसुराणां शोणितैः ताः सिक्ताः प्रधयो नेमयो यस्य तम् । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । रथमधिरोहति स्म आरुरोह ॥ उपेत्य च खनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः । प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ २८ ॥ उपेत्येति ॥ किंचेति चार्थः । पतत्पतिरण्डजमण्डलेश्वरः । 'पतत्पत्ररथाण्डजाः' इत्यमरः । त्विषा कान्त्या कपिशितानि कपिलीकृतानि दूराणि दिड्युखानि येन सः । स्वनेन गुरुर्महान्पक्षमारुतो यस्मिन्कर्मणि तत्तथा दिवः स्वर्गादुपेत्यागत्य तत्क्षणं तस्मिन्क्षणे प्रकम्पिता स्थिरतरा निश्चला यष्टिरावास. स्तम्भो यस्मिंस्तत्तथा । अधिकेतनं केतने । विभक्त्यर्थेऽव्ययीभावः । पदं दधौ निहितवान् ॥ गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया । प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥ २९ ॥ गभीरतेति ॥ अथ गरुडागमनानन्तरं स रथो नवघनवत् नवघनेन नवाम्बुदेन तुल्यम् | 'तेन तुल्यम् -' इति वतिप्रत्ययः । गभीरतया गाम्भीर्येण विजितो मृदङ्गनादो यथा तथा हतो रिपुहंसानां हंसानामिव रिपूणां हर्षो यया तमा स्वनश्रिया ध्वनिसंपदा मुखरान्कूजतः कलापिनो मयूरान्प्रमोदयन्प्रतिष्ठते स्म १ ' गभीरया' इति पाठः० शिशु० ३७ Page #446 -------------------------------------------------------------------------- ________________ ४३४ शिशुपालवधे प्रतस्थे । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । 'लट् से' इति भूते लट् । तद्धितगता श्रौती पूर्णोपमा ॥ निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्धलमवलोकयञ्जनः । विकौतुकः प्रकृतमहाप्लवेऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ३० निरन्तरेति ॥ ततो रथास्थानानन्तरं निरन्तरं नीरन्ध्र स्थगितान्याच्छा. दितानि दिगन्तराणि येन तत् । समुच्चलत्प्रतिष्ठमानं तद्धलं सैन्यमवलोकयन् जनो लोकः प्रकृतः प्रक्रान्तो महाप्लवो महापूरो जगत्संप्लवरूपो येन तस्मिन विशृङ्खलमप्रतिघातं प्रचलितं क्षुभितं यसिन्धोरब्धेर्वारि तस्मिन्विकौतुको निवृ. त्तकौतूहलोऽभवत् । कल्पान्तक्षुभितवारिधेर्वारिवञ्च तद्बलं सकलजगत्संहारश यालक्ष्यतेत्यर्थः । अत्रान्यदर्शनादन्यदिदृक्षानिवृत्तेर्बलवारिधिवारिणोरेकत्वा. क्षेपे बाधात्सादृश्याक्षेपाद्वाक्यभेदेन प्रतिबिम्बकरणान्निदर्शनालंकारः ॥ वहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेपिरे । असंभवद्भिरिवरगह्वरैरभूत्तदा रवैर्दलित इव व आश्रयः॥३१॥ बहिर इति ॥ गजपतयो बब्रूहिरे बव॒हुः । बृंहणं चक्रुरित्यर्थः । 'बृहि वृद्धौ शब्दे च' आत्मनेपदं चिन्त्यम् । अत एव भट्टमल्लः-'हेषते हेपतेऽश्वानां हस्तिनां बुंहतीति च' इति । महानकाः प्रदध्वनुः । जयशीलास्तुरगा जयतुरगा जिहेषिरे । हेषां चक्रुरित्यर्थः । 'हेपृ हे अव्यक्ते शब्दे'। तदा तस्मिन्काले असं. भवन्त्यन्तर्धातुमपर्याप्नुवन्ति गिरिवरगह्वराणि येषां तैः गिरिवरगह्वरेषु अमाद्भिः । अवर्तमानैरित्यर्थः । रवैबृंहणादिघोषैः । स्व आश्रयः स्वसमवायिकारणमाकाशो दलित इव विदारित इवाभूदित्युत्प्रेक्षा तया तेषामतितीव्रत्वं व्यज्यते ॥ अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः। विनिष्पतन्मृगपतिभिगुहामुखैर्गताः परां मुदमहसन्निवाद्रयः॥३२॥ अनारतमिति ॥ मधुद्विषो हरेः दुन्दुभौ रणभेयाँ जयायानारतमश्रान्तं रसति ध्वनति सति फलन्तः संक्रामन्तोऽलघवो महान्तः प्रतिस्वनाः प्रतिध्वनयो येषु तैः । विनिष्पतन्तः क्षोभान्निर्गच्छन्तः मृगपतयः सिंहा येभ्यस्तैर्गुहाभिरेव मुखैरद्रयः परां मुदं गताः सन्तः अहलन्निव । सिंहानां धावल्यावनियोगाच हसनोत्प्रेक्षा ॥ जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकंदराः। अनर्थकैरजनि विदग्धकामिनीरतान्तरक्कणितविलासकौशलैः।।३३॥ जडीकृतेति ॥ दिवमोको येषां तेषां दिवौकसां देवानाम् । कंदरान्तर्गतानामित्यर्थः । जडीकृतश्रवणपथे बधिरीकृतश्रोत्रमार्गे । सापेक्षत्वेऽपि गमकत्वात्समासः । चमूरवे सेनाघोषे सुराद्विकंदराः मेरुगह्वराणि विशति सति । विदग्धकामिनीनां प्रौढाङ्गनानां रतान्तरे सुरतमध्ये वणितविलासाः कृजितसंपदस्तासु Page #447 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः। यानि कौशलानि तैरनर्थकैरजनि जातम्।प्रेयसां बाधिर्यादिति भावः । अत्र श्रोत्रजा. ड्यस्य विशेषणगत्या क्वणितानर्थक्य हेतुत्वाकाव्यलिङ्गम् । तदुपजीवितेन वणितानामानर्थक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरित्यनयोरङ्गाङ्गिभावेन संकरः ॥ अरातिभियुधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः । अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनं ॥३४ अरातिभिरिति ॥ सह युध्यन्त इति तान्सहयुध्वनः । 'सहे च' इति क्वनिप् । अत एवारातिभिर्युधि हतान् जिघृक्षवो ग्रहीतुमिच्छवः स्वयंवरणकामाः । ग्रहेः सन्नन्तादुप्रत्ययः। सुरगणिका अप्सरसः श्रुतरणतूर्यनिःस्वनाः सत्यश्विरोज्झितम् । प्रायेण प्रवीरसंवादाभावादिति भावः । प्रथमसमागमोचितम् । अतिमोहनमित्यर्थः । प्राथम्यं च पुंसामिदं प्रथमत्वादिति भावः । प्रसाधनमकुर्वत । परिष्कृतवत्य इत्यर्थः। 'प्रतिकर्म प्रसाधनम्' इत्यमरः । अत्र स्वयंवरणतूर्यश्रवणयोर्विशेषणगत्या प्रसाधनहेतुत्वाकाव्यलिङ्गम् ॥ प्रचोदिताः परिचितयन्तृकर्मभिनिषादिभिर्विदितयताङ्कशक्रियः । गजाः सकृत्करतललोलनालिका हता मुहुःप्रणदितघण्टमाययुः ३५ प्रचोदिता इति ॥ परिचितं यन्तृकर्म सादिकृत्यं यैस्तैः । स्वभ्यस्तगजशास्त्रैरित्यर्थः । अत एव विदिते यताङ्कुशक्रिये यतयाताख्ये पादाङ्कुशकर्मणी यैस्तैः । 'पादकर्म यतं प्रोक्तं यातमङ्कुशवारणम्' इति हलायुधः । निषादिभिर्यन्तृभिः प्रचोदिताः प्रेरिता गजाः सकृदेकवारमेव करतललोलाभिः पाणितलचलिताभिर्नालिकाभिरन्तर्नाडिकाभिहतास्ताडितास्तथापि मुहुः प्रणदिता असकृद्धनन्ती घण्टा यस्मिन्कर्मणि तत्तथा आययुः प्रस्थातुमागताः । स्वभावोक्तिः ॥ सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः। व्यरंसिपुर्न खलु जनस्य दृष्टयस्तुरंगमादभिनवभाण्डभारिणः॥३६ सविक्रमेति ॥ सविक्रमेण साङ्गिविन्यासविशेषेण क्रमणेन गमनेन चलैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । क्षिते रजः स्वखुरोद्धतमितस्ततः क्षिपतो निरस्यत इव स्थितादित्युत्प्रेक्षा । अभिनवभाण्डभारिणः प्रत्यग्राभरणधारिणः । 'स्याद्भाण्डमश्वाभरणे' इत्यमरः। तुरंगमात्तुरंगमेभ्यः । जातावेकवचनम् । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इत्यपादानत्वम् । जनस्य दृष्टयो न व्यरंसिपुर्न विरताः खलु । रमेछुङि 'व्यापरिभ्यो रमः' इति परस्मैपदं 'यमरमनमातां सक्च' इति सगिडागमौ । इटि 'नेटि' इति वृद्धिप्रतिषेधः ॥ अथ विशेषकेणाहचलाङ्गुलीकिसलयमुद्वतैः करैरनृत्यत स्फुटकृतकर्णतालया । मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥३७॥ Page #448 -------------------------------------------------------------------------- ________________ ४३६ शिशुपालवधे चलेत्यादि ॥ स्फुटं कृतः कर्णतालः कर्णताडनं यया तया द्विपघटया का चलाङ्गुल्य एव किसलया यस्मिन्कर्मणि तत्तथोद्धतैः करैर्हस्तैरनृत्यत अनति । भावे लङ् । तथा मदोदकेन द्रवास्वार्दासु कटभित्तिषु गण्डस्थलेषु सङ्गिभिरासक्तैः मधुपगणैर्भमरगणैः कलस्वरं मधुरस्वरमगीयत गीतम् । भावे लङ् ॥ असिच्यत प्रशमितपांसुभिर्मही मदाम्बुभिधृतनवपूर्णकुम्भया । अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥३८॥ सिच्यतेति ॥ धृतौ नवौ पूर्णकुम्भौ शिरःपिण्डकलशौ यया तया द्विपघटया का । 'कुम्भौ घटेभमू(शौ' इत्यमरः । प्रशमितपांसुभिर्मदाम्बुभिर्मही असिच्यत सिक्ता । आननैर्मुखैः करणैः श्रवणयोः सुखयतीति सुखं सुखकरम् । 'सुखहेतौ सुखे सुखम्' इति शब्दार्णवे । समुन्नमत्पयोधरध्वनिगुरु उद्यन्मेघगर्जितगम्भीरं तूर्यमवाद्यत वादितम् । स्वमुखबृंहणैरेव तूर्य संपादितमित्यर्थः ॥ उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः। यतः पुरः प्रतिरिपु शाङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलं ३९ ॥ विशेषकम् ॥ उदासिर इति ॥ पवनेन विधूतवाससः कम्पितपटाः गगनलिहोऽभ्रंकषाः केतवो ध्वजाश्च ततस्तत उदासिरे उत्क्षिप्ता इतीत्थं द्विपघटया प्रतिरिपु रिपू प्रति । आभिमुख्येऽव्ययीभावः । यतो गच्छतः । इणो लटः शत्रादेशः । शाङ्गिणः पुरोऽग्रे स्वयं मङ्गलं व्यधीयत विहितम् । अत्र श्लोकत्रये प्रस्तुतद्विपघटविशेषणसाम्यादप्रस्तुतमङ्गलाचरणपरपुरन्ध्रीप्रतीतेः समासोक्तिरलंकारः ॥ न शून्यतामगमदसौ निवेशभूः प्रभृततां दधति बले चलत्यपि । पयस्यभिद्रवति भुवं युगावधौ सरित्यतिन हि समुपेति रिक्ततां ४० नेति ॥ प्रभूततां भूमानं दधति दधाने बले सैन्ये चलति प्रतिष्ठमानेऽपि असौ निवेशभूः सेनानिवेशभूमिः शून्यतां रिक्ततां नागमत् । तथाहि युगा. वधौ युगान्ते पयसि भुवमभिद्रवत्यभिप्लवमाने सति सरित्पतिः समुद्रो रिक्ततां न समुपैति हि । दृष्टान्तालंकारः ॥ यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् । पुरः पतत्परबलरेणुमालिनीमलक्षयदिशमभिधूमितामिव ।। ४१॥ यियासितामिति ॥ अथ मधुभिद्धरिरेव विवस्वान् तेन यियासितां यातु. मिष्टां जिगमिषिताम् । यातेः सन्नन्तात्कर्मणि क्तः । पततोऽभिधावतः परबलस्य शत्रुसैन्यस्य रेणूमलते धारयतीति तन्मालिनी । मलतेणिनिप्रत्ययः । अत एव जरतो वृद्धस्य महिषस्य विषाणवद्धसरां धूम्रो पुरोऽये दिशमभितो धूमोऽस्याः संजातस्तामभिधूमितामिव जनो लोकोऽलक्षयत् । मधुभिद्विवस्वतेति रूपकोत्था Page #449 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः। ४३७ पिताग्रदिशि धूमितत्वोत्प्रेक्षेति संकरः । अत्राहुः-'अङ्गारिणी दिग्रविविप्रयुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता । प्रधूमिता यास्यति यां दिनेशः शेषाः प्रशस्ताः शुभदाश्च ताः स्युः ॥' इति ॥ मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः। यथा पुरःसमरसमुद्यतद्विपदलानकध्वनिरुदकर्षयन्मनः ॥ ४२ ॥ मनस्विनामिति ॥ उदिता उत्पन्ना गुरुर्गभीरा प्रतिश्रुतिः प्रतिध्वनिर्यस्य सः निजमृदङ्गनिःस्वनः स्वसेनातूर्यघोषः श्रुतः सन् तथा मनस्विनां मनो नोदकर्षयन्नाचकर्ष । कृषिरयं स्वार्थण्यन्तः । यथा पुरोऽने समरसमुद्यते समरोद्युक्ते द्विपद्धले शत्रुसैन्ये ये आनकास्तेषां ध्वनिरुदकर्षयत् । एतेनैषां वीरस्थायी महोत्साह उक्तः । अत्र भयंकरस्यापि परसैन्यघोषस्योत्साहजनकत्वं महावीरेषु न विरुध्यत इति विरोधाभासोऽलंकारः । भीहेतौ सत्यपि भयानुत्पत्तेर्विशेषोक्तिविरुद्धकार्योत्पत्तेर्विषमभेदश्चेति संकरः ॥ यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतःसरः। तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥४३॥ यथा यथेति॥हरिर्वरोजामातेव हरिवरः। 'वरो जामातृवर्ययोः' इति विश्वः । तस्याग्रतः सरतीत्यग्रतःसरोऽग्रेसरः । 'पुरोऽग्रतोऽग्रेषु सर्तेः' इति टप्रत्ययः । स पूर्वोक्तः पटहरवो यथा यथा यावद्यावत्समीपतामासन्नतामुपागमत् तथा तथा तावत्तावद्विषतां चमूर्जनीव वधूरिव । 'जनी सीमन्तिनी वधूः' इति विश्वः । चेतसा मुदाकुला आनन्दाविला हृषितवपू रोमाञ्चिताङ्गी । 'हृषेर्लोमसु' इतीडागमः । अजनि जाता। जनेः कर्तरि लुङ् 'दीपजन-' इत्यादिना चिण् प्रत्ययः । वधूवरसमागमवत्प्रतिद्वन्द्विसमागमो महोत्साहवर्धनो वीरसेनाया इत्युपमार्थः । तेन सैन्ययोरन्योन्यशब्दश्रवणकारिणी प्रत्यासत्तिरासीदिति व्यज्यते ॥ प्रसारिणी सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता । व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ४४ प्रसारिणीति ॥ ततः श्रवणानन्तरं सपद्यविलम्बेन नभस्तले प्रसारिणी व्याप्ता समीरणेन वायुना भ्रमितेन परागेण रूषिता रूक्षीकृता अत एव प्रलयजायाः कल्पान्तप्रादुर्भूतायाः कालिकाया महाकाल्या आकृतिरिवाकृतिर्यस्याः सा प्रतिबले प्रतिपक्षसैन्ये केतनावलिर्ध्वजपतिर्विदूरतो दूरादलक्ष्यत । एतावता प्रत्यासत्तिरासीदित्यर्थः । उपमालंकारः॥ क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना । भयंकरा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥४५॥ क्षणेनेति ॥ प्रतिमुखस्याभिमुखस्य तिग्मरश्मेरुष्णांशोः प्रतिप्रभाभिः प्रतिफलितदीप्तिभिः स्फुरद्भिर्देदीप्यमानैरसिभिः खङ्गैर्दुःखं दुष्करं दर्शनं यस्याः सा । Page #450 -------------------------------------------------------------------------- ________________ ४३८ शिशुपालवधे दुर्दशेत्यर्थः । असावसुरचमूश्चैद्यसेना क्षणेन च भूभृतां हरिसैनिकानां भृशं भयं करोतीति भयंकरापि । 'मेघर्तिभयेषु कृञः' इति खच्प्रत्ययः । दर्शनीयतां मनोहरतामिति विरोधः । दृष्टिविषयतां ययावित्यविरोधः । अत एव विरोधा. भासोऽलंकारः ॥ पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः । समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे॥४६॥ पयोमुचामिति ॥ अथासुरसेनादर्शनानन्तरं समविपमेषु निम्नोन्नतेषु समक्रमस्तुल्यसंचारः बलजलराशिः सैन्यसागरः दिवि व्योम्नि द्रुतमभिपततामभिधावतां पयोमुचां संबन्धी आतपस्य विपर्ययः छायेव परितः क्षणात्क्षमातलं भूतलमानशे । 'अशू व्याप्तौ' 'अत आदेः' इत्यभ्यासदीर्घः । 'अश्नोतेश्च' इति नुमागमः । उपमालंकारः ॥ ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् । विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ४७ ममाविति ॥ पुरोऽग्रे क्षणमिव पश्यतः क्षणमात्रं विलोकयतः । इवशब्दो वाक्यालंकारे । तनौ क्षोदीयस्युदरे कुक्षौ स्थितं भुवनत्रयं यस्य तस्य मधुमथनस्य हरेः संबन्धिनि विशालतां वैपुल्यं दधति दधाने नितान्तमायते दीर्घ द्वाघीयसि चक्षुषि महत् द्विषां बलं ममौ ववृते । क्षणमीक्षणादेव परबले इयत्तां परिचिच्छेदेत्यर्थः । क्षोदीयस्यपि कुक्षौ भुवनत्रयं परिच्छिदन्तो हरेरतिमहति चक्षुषि अल्पबलपरिच्छेदः कियानिति भावः । अत्र भुवनत्रयापेक्षया आधारस्य कुक्षेरल्पत्वाच्चक्षुरपेक्षया आधेयस्य बलस्याल्पत्वाच्चाधिकालंकारौ संकीर्यते ॥ भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः । मुखे युधः सपदि रतेरिवाभवन्ससंभ्रमाः क्षितिपचमूवधूगणाः ४८ भृशेति ॥ क्षितिपचम्बो वध्व इवेत्युपमितसमासः । रतेरिवेति लिङ्गात् । तासां गणाः युधो मुखे युद्धारम्भे रतेर्मुखे रत्यारम्भ इव सपदि भृशं स्विद्यन्तीति भृशस्विदः । क्विप् । पुलकविकासिमूर्तयो रोमाञ्चोदञ्चितगात्राः रसः वीरः शृङ्गारश्च तेनाधिके निर्भरे मनसि निविष्टसाहसाः प्रविष्टधााः ससंभ्रमाः ससत्वराश्चाभवन् । यादृशी वधूनां सुरतरसकर्मण्युत्कण्ठा तादृशी चमूनां समरकर्मणी-युपमार्थः । तेनैतासां समरसुरतयोः समरसत्वं व्यज्यते ॥ ध्वजांशुकैर्धवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः । यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ ४९ ॥ ध्वजांशुकैरिति ॥ अरयः चैद्यपक्षाः अनुकूलमारुतेन प्रसारितैर्ध्वजांशुकधुवं प्रसभेन बलात्कारेण कृतोपहूतयः । कृताद्वाना इवेत्यर्थः । यदूनभि यादवान्प्रति द्रुततरमुद्यतायुधा उत्क्षिप्तायुधाः सन्तः क्रुधा क्रोधेन परमधिकं रयं त्वरां प्रपे Page #451 -------------------------------------------------------------------------- ________________ ४३९ सप्तदशः सर्गः। दिरे । धांशुकदर्शनोत्थक्रोधहेतुकस्य शीघ्राभिपातस्य ध्वजाह्वानहेतुकत्वमुप्रेक्ष्यते ध्रुवमिति ॥ हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः। विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः हरेरिति ॥ हरेरपि चमूपु चरन्तीति चमूचराः सैनिकाः। चरेष्टः । परेषामिमाः परकीया वाहिनीः सेनाः प्रति अधिस्यदमधिकरयं यथा तथा । 'रंहस्तरसी तु रयः स्यदः' इत्यमरः । प्रववृतिरे प्रवृत्ताः । तथाहि मनस्विनो धीराः कलहं युद्धं विधित्सतः विधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शतरि रूपम् । तान्विद्विषः शत्रूनवेश्य विलम्बितुम् । 'शकष-' इत्यादिना तुमुन्प्रत्ययः । सहन्त इति सहाः क्षमाः । पचाद्यच् । न खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः । निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥५१॥ उपाहितैरिति ॥ रणाजिरे रणाङ्गणे नरपतयो राजानो वपुषि उपाहितैरामुक्तैः स्फुरन्तो मणिप्रसृता रत्ननिर्गता मरीचय एव सूचयो येषां तैः निवातवमभिरच्छिद्रकञ्चकैः । 'निवातो दृढसंनाहे निर्वाते चाश्रयेऽपि च' इति विश्वः । 'तनुत्रं वर्म कञ्जुकम्' इत्यमरः । निरन्तरं नीरन्धं शरनिकरैराचिताः प्रोता इव, रराजिरे । 'फणां च सप्तानाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । मणिरो. चिषः सादृश्याच्छरनिकरत्वोत्प्रेक्षा ॥ अथोचकैर्जरठकपोतकंधरातनूरुहप्रकरविपाण्डुरद्युति ।। बलैश्चरचरणविधूतमुच्चरद्वनावलीरुदचरत क्षमारजः॥५२॥ __ अथेति ॥ अथानन्तरं उच्चकैरुन्नतं जरठकपोतकंधरातनूरुहप्रकरविपाण्डुरद्युति जीर्णपारावतकंधरारोमनिकरधूसरच्छायमित्युपमा । 'पारावत: कलरवः कपोतः' इत्यमरः । बलैः सैन्यैश्चलनिश्चरणैर्विधूतमुद्भूतं प्रेरितं सदुचरदुत्पतत्क्षमारजो भूरेणुर्घनावलीर्घनपतीरुदचरत् । प्रचक्रामेत्यर्थः । 'उदश्वरः सकर्मकात्' इत्यात्मनेपदम् । अस्य प्रत्युदाहरणमुच्चरदिति । अत्र भूरेणोर्मेघमण्डलाक्रमणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा ॥ विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरंगमैरुपरि निरुद्धनिर्गमाः। चलाचलैरनुपदमाहताः खुरैर्विवभ्रमुश्चिरमध एव धूलयः॥५३॥ विषङ्गिभिरिति ॥ चलाचलैश्चटुलैः खुरैरनुपदं प्रतिपदमाहता उद्धताः भृशमितरेतरं परस्परम् । 'निरन्तरम्' इति पाठेऽभितो निरन्तरं नीरन्ध्र विषङ्गिमिर्मिथः श्लिष्टैस्तुरङ्गमैरुपरि निरुद्वो निर्गमो यासां ताः धूलयः क्वचित् चिरमध Page #452 -------------------------------------------------------------------------- ________________ ४४० शिशुपालवधे एव विबभ्रमुर्नोत्पेतुरिति भावः । अत्रोद्धतानामधोभ्रमणविरोधस्योपरिनिर्गमरो. धेन विशेषणगत्या परिहारात्काव्यलिङ्गसंकीर्णो विरोधाभासोऽलंकारः॥ गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवब्यवहितसत्त्वमुत्कटम् । सिसृक्षतः सरसिजजन्मनो जगदलस्य तु क्षयमपनेतुमिच्छतः ५४ गरीयस इति ॥ गरीयसः सर्वलोकपितामहत्वात्पूज्यतरस्य, अन्यत्र महत्तरस्य प्रचुरमुखस्य । चतुर्मुखस्येत्यर्थः । अन्यत्र बहुप्रवाहस्य रागिणो रक्तवर्णस्य, अन्यत्र रणे रागिणोऽनुरागवतः एवंभूतस्य सरसिजजन्मनो ब्रह्मणो जगत्सिसृक्षतः जगत्स टुमिच्छतः सतः । सृजेः सन्नन्तालटः शत्रादेशः । व्यवहितसत्त्वं तिरस्कृतसत्वगुणकं, अन्यत्र तिरोहितजन्तुकं रजो रजोगुणो रेणुश्चोत्कटमुद्रिक्तमभवत् । बलस्य सैन्यस्य तु जगत्क्षयमपनेतुमिच्छतः सतोऽभवत् । अत्र ब्रह्मबलयोर्गरीयस्त्वादिसाधयेऽपि रजःशब्देनैकस्य सिसृक्षोरन्यस्य संजिहीर्षोरिति व्यतिरेकः श्लेषोत्थापित इति संकरः ॥ पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् । इति ध्रुवं व्यलगिपुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः॥५५॥ पुरेति ॥ संयुगे युद्धे सति शरक्षतिजनितानि क्षतजानि असृद्धि रुधिराणि नोऽस्मान्प्रसभं प्रसह्य पङ्कता पुरा नयन्ति नेष्यन्ति । 'यावत्पुरानिपातयोर्लट' इति भविष्यदर्थे लट् । इतीत्थमालोक्य ध्रुवमात्तभीतयः प्राप्तभयाः सन्तोऽन. लसखस्याग्निमित्रस्य वायोः केतवो रेणवः । तल्लिङ्गत्वात्तस्येति भावः। उच्चकैरुन्नतं खमाकाशं व्यलगिषुः । वियदारूढा इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् ॥ क्वचिल्लसद्धननिकुरम्बकधुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः। कचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥५६॥ क्वचिदिति ॥ क्वचिल्लसन्धननिकुरम्बवन्नवाभ्रपटलवत्कर्बुरः शबलः । क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः कनकचूर्णराशिकपिशः । कचिच्छरच्छशधरखण्डपाण्डुरः खुरैः क्षतस्य क्षितितलस्य रेणुरुद्ययौ उज्जगाम । अत्रोपमात्रयस्य संसृष्टिः ॥ महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिाणि । विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः५७ महीयसामिति ॥ महति अनीकजे सेनासमुत्थे रजसि महीयसां दिगन्ता एव दन्तिनः तेषां मुखानि पुरोभागा एव मुखान्याननानीति श्लिष्टरूपकम् । तेष्वनुषङ्गिणि लग्ने सति । कोकिलावलीवन्मलीमसा मलिना जलदा दिङ्मुखसङ्गिन एव ये मेघास्त एव मदाम्बुराजयो मदरेखाः विसारितां प्रसृमरत्वमजिहता. गच्छन् । प्राप्ता इत्यर्थः । पांशुपातस्य दन्तिनां मदहेतुत्वादिति भावः । तदुक्तं १ समुन्नमद्धन-' इति पाठः. २ 'बहुल' इति पाठः. Page #453 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः । ४४१ महाभारते – 'खियो जारेण तुष्यन्ति गावः स्वच्छन्दचारतः । कुञ्जराः पांशुवर्षेण ब्राह्मणाः परनिन्दया ॥' इति । दिगन्तलम्बिनो मेघाः सेनारजोमेलनाद्वहुलीबभूवुरित्यर्थः । अत्र दिगन्तेषु तन्मेघेषु च दन्तित्वतन्मदत्व रूपणात्समस्तव स्तुवर्ति सावयवरूपकं मुखमेव मुखमिति श्लिष्टपरम्परितमिति संकरः । अजिहतेति, ओहाङो लङि तङ् 'श्नाभ्यस्तयोरातः' इत्याकारलोपः 'अदभ्यस्तात्' इत्यदादेशः ॥ शिरोरुहैर लिकुलको मलैरमी मुधा मृधे मृषत युवान एव मा । बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥५८॥ शिरोरुहैरिति ॥ अलिकुल कोमलैर्भ्रमरवृन्दमनोरमैः शिरोरुहैः केशैरुपलक्षिता अमी राजानो युवान एव सुधा वृथा मृधे युद्धे । 'मृधमास्कन्दनम् ' इति युद्धपर्यायेष्वमरः । मा मृबत न म्रियन्ताम् । म्रियतेर्माङि लुङि 'न माङ्योगे' इत्यडभावः । 'उश्च' इति सिचः कित्त्वान्न गुणः । इति । इत्थमालोच्येत्यर्थः । बलोद्धतं रजः कर्तृ । धवलितमूर्धजान्धवलीकृतकेशाञ्जनान् जरत इवाकरोत् । वृद्धानिवाकरोदित्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् | अत्रेवशब्दस्यावधारणार्थत्वान्न तेन पौनरुक्त्यम् । 'इवौपम्येऽवधारणे' इति विश्वः । ' प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि' इत्यमरः । ' जीर्यतेरनृन्' इत्यतॄन्प्रत्ययः ॥ सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः । यतः क्षितेरवयवसंपदोऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ ५९ ॥ सुसंहतैरिति ॥ धाम तेजो दधदपि दधानोऽपि । तेजन्यपीत्यर्थः । परैरन्यैः सुसंगतैः सुसंहतैः परैरैक्यं गतैश्च बहुभिस्तिरस्कृतिं नीयते । असंशयं निश्चितम् । अर्थाभावेऽव्ययीभावः । कुतः । यतोऽणवः सूक्ष्माः क्षितेरवयवसंपदो रेणुसमृद्धयः त्विषां निधेः सूर्यस्यापि वपुरावरीषत आच्छादितवत्यः । वृङो लुङि 'वृतो वा' इतीटो दीर्घः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्व हुलर जोवगुण्ठितम् । युगक्षयक्षण निरवग्रहे जगत्पयोनिधेर्जल इव मनमाबभौ ॥ ६० ॥ द्रुतेति ॥ द्रुतं शीघ्रं द्रवतां धावतां स्थानां चरणैश्वकैः क्षतात्क्षुण्णात्क्षमातलादुल्लसता पतता बहुलेन सान्द्रेण रजसावगुण्ठितमाच्छादितं जगद्युगक्षयक्षणे कल्पान्तकाले निरवग्रहे निष्प्रतिबन्धे पयोनिधेर्जले मग्नमिवावभावित्युत्प्रेक्षा ॥ समुल्लसद्दिनकरवक्रकान्तयो रजखलाः परिमलिताम्बरश्रियः । दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ६१ समुल्लसदिति ॥ समुल्लसन्ती दिनकरस्येव वक्रस्य कान्तिर्यासां ताः रजो रेणुरेव रज आर्तवमासामस्तीति रजस्वलाः । ' रजः कृष्या सुतिपरिषदो वलच्' इत्यादिना मत्वर्थीयो वलच्प्रत्ययः । धूलिधूसरा उदक्यश्च । परिमलिताः परितः संजातमला अम्बरस्याकाशस्येवाम्बरस्य वस्त्रस्य च श्रीर्यासां ताः अत एवाविलो - Page #454 -------------------------------------------------------------------------- ________________ ४४२ शिशुपालवधे कनक्षमा विलोकनानर्हाः दिश एवाङ्गना दिगङ्गनाः शरीरिणां प्राणिनां क्षणमी. षत्कालं परिहरणीयतामगम्यतां ययुः । तस्मात् 'मलवद्वाससं न संविशेदेवे. त्यादिनिषेधादिति भावः । श्लिष्टपरम्परितरूपकम् ॥ निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् । रजस्ततावनिमिपलोचनोत्पलव्यथाकृति त्रिदशगणेः पलाय्यत ६२ निरीक्षितुमिति ॥ त्रिदशगणदेवगणैः समरमुखे रणारम्भे महीभृतां राज्ञां पराक्रमं निरीक्षितुं वियति कौतुकात्समेत्य रजस्ततौ रजःस्तोमे न निमिषन्त्यनिमिषाणि पक्ष्मपातरहितानि । मिषेः पचाद्यच् । कुटादित्वान्न गुणः । तेषां लोच. नोत्पलानां व्यथाकृति दुःखकारिण्यां सत्याम् । कृजः किप् । पलाय्यताधाव्यत । भावे परापूर्वादयतेर्लङि तङ् 'उपसर्गस्यायतो' इति रेफस्य लत्वम् । अन्न लोचनोत्पलानां व्यथाऽसंबन्धेपि संबन्धोक्तेरतिशयोक्तिभेदः ॥ विषङ्गिणि प्रतिपदमापिवत्यपो हताचिरातिनि समीरलक्ष्मणि । शनैः शनैरुपचितपकभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ ६३ ॥ विषङ्गिणीति ॥ विषङ्गिणि विपक्ते अत एव हताचिरातिनि विरमिता. चिरद्युतिनि समीरलक्ष्मणि वातकेतौ रजसि प्रतिपदं प्रतिक्षणमपोऽम्भांस्यपिबत्याकर्षति सति अत एवापेतवृष्टयो निवृत्तवर्षाः पयोमुच उपचिताः प्रवर्धिताः पङ्कभारिकाः पङ्कभरणानि येषां ते उपचितपङ्कभारिकाः सन्तः । 'पर्यायाहणो. त्पत्तिषु ण्वुल' इत्यर्हणाथै ण्वुल प्रत्यथः । अर्हणं च करणसामर्थ्यम् । अत एव भाराच्छनैः शनैः प्रययुः प्राप्ताः । अत्र पयोमुचां पङ्कभरणासंबन्धेऽपि तत्संब. न्धोक्तेरतिशयोक्तिः ॥ नभोनदीव्यतिकरधोतमूर्तिभिर्वियद्तैरनधिगतानि लेभिरे । चलचमूतुरगखुराहतोत्पतन्महीरजानपनसुखानि दिग्गजेः॥६४॥ नभोनदीति ॥ नभानदीव्यतिकरेणाकाशगङ्गाया अवगाहेन धौतमूर्तिभि. क्षालिताङ्ग वियद्गतैः खेचरः अत एव दिग्गजैरनधिगतान्यननुभूतचराणि चलद्भिश्चमूतुरगखुरैराहतम् अत एवोत्पतदुद्गच्छन्महीरजस्तेन स्नपनमभिषेचनं तेन यानि सुखानि तानि लेभिरे । कुञ्जराः पांसुवर्षेणेत्युदाहृतम् । अत्रापि दिग्गजानां रजःस्नपनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तः ॥ गजबजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा । नभस्तलं बहुलतरेण रेणुना ततोऽगमत्रिजगदिवेकतां स्फुटम् ६५ गजेति ॥ यद्यस्माद्गजबजानामाक्रमणभरेण पादक्षेपगौरवेणावनम्रया भुवा. खिलं रसातलं पातालमानशे व्याप्तम् । यद्यस्माच्च नभस्तलं बहुलतरेण रेणुनानशे ततः कारणात्रिजगजगत्रयम् । 'तद्धितार्थ-' इत्यादिना समाहारे द्विगुः । 'द्विगुरेकवचनम्' । एकतां भूलोकतामिवागमत् । स्फुटमित्युत्प्रेक्षायाम् ॥ Page #455 -------------------------------------------------------------------------- ________________ सप्तदशः सर्गः। ४४३ समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः। रहस्त्रपाविधुरवधूरतार्थिनां नमःसदामुपकरणीयतां ययुः ॥६६॥ समेति ॥ समस्थलीकृतानि विवराणि निम्नस्थानानि येन तेन बलरजसा पूरिताः महीभृतां भूधराणां महागुहा । रहो रहसि । अत्यन्तसंयोगे द्वितीया । त्रपया विधुराणां विलक्षाणां वधूनां रतं सुरतमर्थयन्त इति तदर्थिनां नभःसदां सुराणामुपकरणीयतामुपकारकत्वं ययुः । तासां रजःपूरणात्पुंसामन्धकरणत्वादिति भावः । 'कृत्यल्युटो बहुलम्' इत्यनीयरः कर्बर्थता । अत्र रजःपूरणस्य विशेषणगत्योपकारकहेतुत्वात्काव्यलिङ्गभेदस्तथोपकारकत्वासंबन्धेऽपि संबन्धोते. रतिशयोक्तिरिति संकरः ॥ गते मुखच्छदपटसादृशी दृशः पथस्तिरो दधति घने रजस्यपि । मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥६७॥ गत इति ॥ छाद्यतेऽनेनेति छदः । मुखस्य छदो मुखच्छदः । 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः 'छादेर्धेऽद्वयुपसर्गम्य' इति ह्रस्वः । स चासौ पटश्च तत्सादृशीं तत्सादृश्यम् । ब्राह्मणादित्वात्ष्य-प्रत्यये 'षिद्गोरादिभ्यश्च' इति ङीष् । स च 'व्यजः पित्करणादीकारो बहुल'मिति वामनवचनाद्वैकल्पिकः । गते प्राप्ते । गजानां युद्धपूर्वकालेषु मुखावरणकारणात्तत्सदृशे घने सान्द्रे रजसि दृशो दृष्टेः पथो मार्गास्तिरोदधति छादयति सत्यपि । अधिमधोरधिकमकरन्दस्य चूतस्येव गन्धो येषां तैः । 'उपमानाच' इति गन्धस्येत्ये तदेकान्तग्रहणं तु व्यभिचारि । मदानिलैरभिज्ञानैर्द्विपा गजाः द्विपान्गजान्प्रति रंहसा वेगेनाभिययुरेव । अत्र तिरोहितदृष्टेरभियानविरोधस्य मदानिलैः परिहाराद्विरोधाभासोऽलंकारः ॥ मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः। उपर्यवस्थितघनपांसुमण्डलानलोकयत्ततपटमण्डपानिव ॥ ६८ ॥ मदाम्भसेति ॥ सप्तधा 'कराकटाभ्यां मेढाच नेत्राभ्यां च मदस्रतिः' इति पालकाप्ये । सप्तभिः स्रोतोभिः परिगलितेन स्रुतेन मदाम्भसा अधः शमितो रजश्चयो यैस्तान उपर्यवस्थितानि तथैव स्थितानि घनानि सान्द्राणि पांसुमण्डलानि पूर्वोत्थरजःपुना येषां तान्गजाआनो लोकस्तता उपरि वितताः पटमण्डपा येषां तानिवेत्युत्प्रेक्षा । अलोकयत् ॥ । अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृत स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः । वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः॥६९।। इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के यदुवंश क्षोभणो नाम सप्तदशः सर्गः ॥ १७ ॥ Page #456 -------------------------------------------------------------------------- ________________ ४४४ शिशुपालवधे अन्यूनेति ॥ अन्यूनोन्नतयो महोच्छ्रायाः अतिमानपृथवोऽत्यन्तविपुलाः अत एव पृथ्वीधरश्रीभृतः शैलशोभाधारिण इति निदर्शनालंकारः । कनकावलीभिरावरणहेतुहेमराजिभिः करणैः । सुदाम्ना पर्वतेनैकदिशः सौदामन्यो विद्युतः । तेनैकदिक्' इत्यण्प्रत्यये डीप् । ताभिर्दामभिरिव सौदामनीदामभिविद्युल्लताभिरुपमां सादृश्यं तन्वन्तः । तडित्सौदामनी विद्युत्' इत्यमरः । 'अतु. लोपमाभ्याम्-' इति सदृशवचनस्यैव निषेधादिह सादृश्यवाचित्वात्तृतीया । उपलसन्तः शृङ्गाराः सिन्दूरादिमण्डलान्येव लेखायुधानि सुरधनूंषि येषां ते तथोक्ताः । 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । लेखो लेख्ये सुरे' इति च विश्वः । कालियस्य कालियनागस्य कायवत्कालवपुषः कृष्णदेहाः। गजा एवा. म्भोमुचो मेघाः काले योग्यकाले वर्षन्तो मदाम्बु मुञ्चन्तः पासून्शमं शान्तिमानयन्प्रापयन् । रूपकालंकारः । शार्दूलविक्रीडितं वृत्तमुक्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितशिशुपालवध. काव्यव्याख्यायां सर्वकषाख्यायां सप्तदशः सर्गः ॥ १७ ॥ अष्टादशः सर्गः। अथानिमसर्गे तुमुलयुद्धवर्णनाय सेनयोर्मेलनं तावदाहसंजग्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण । पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥१॥ संजग्माते इति ॥ अपायोऽपगमो युद्धादपसरणं तस्यानपेक्षौ तमनिच्छन्तौ । युद्धादनिवर्तिनावित्यर्थः । ईक्षतेः पचाद्यचि नन्समासः । धीरनादौ गम्भीरघोषौ तौ सेनाम्भोधी सेनासागरौ । पक्षच्छेदात्पूर्व पश्चादसंभवादिति भावः । एकत्र देशे एकस्थाने निलेतुं वस्तुम् । 'लीङ् गतौ' इति धातोस्तुमुन्प्रत्यये गुणः । वाञ्छन्ताविच्छन्तौ सह्यविन्ध्यौ वा सह्यविन्ध्याख्यौ पर्वताविव । 'वा स्याद्विकल्पोपमयोः' इति विश्वः । संजग्माते मिलितवन्तौ । संपूर्वाद्च्छतेरकर्मकाल्लिटि 'समो गम्यच्छि-' इत्यादिना आत्मनेपदम् । अत्र सह्यविन्ध्ययोः सपक्षयोरप्येकत्र मिलनस्याप्रसिद्धस्य संभावनामात्रेणोक्तत्वादुपमानाप्रसिद्धेर्नोपमा किंतूत्प्रेक्षेति संक्षेपः । अस्मिन्सर्ग शालिनी वृत्तम् । 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकः' इति लक्षणात ॥ 'सेनाम्भोधी संजग्माते' इत्युक्तं तत्संगतिप्रकारं तावद्वर्णयतिपत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् । इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥२॥ पत्तिरिति ॥ पत्तिः पदातिः पत्ति पदातिम् । ‘पदातिपत्तिपदगपादातिकपदातयः' इत्यमरः । एयाय प्राप । आपूर्वादिणो लिट् । वाज्यश्वो वाहमश्वमेयाय । Page #457 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः 1 ४४५ 'वाजिवाहार्वगन्धर्व' इत्यमरः । नागो गजो नागमेयाय । स्यन्दनस्थो रथस्थमेयाय, न तु व्युत्क्रमेण, धर्मयुद्धत्वादिति भावः । इतीत्थमुक्तरीत्या सेना रागाद्ररागाद्रतिरागाच्च । अङ्गेन स्वाङ्गेन पत्यादिना, करचरणादिना च वल्लभस्य प्रियतमस्येव प्रत्यनीकस्य प्रतिबलस्य । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । अङ्ग पत्यादिकं, करचरणादिकं च भेजे यथा कान्ता कान्तस्योरुमूरुणा करं करेण मुखं मुखेन भजति तथा सेना प्रतिसैन्यस्य पत्ति पत्तिना अश्वमश्वेनेत्यादिक्रमेण भेजे न तु व्युत्क्रमेणेत्यर्थः । वल्लभस्येवेत्युपमया समरसुरतयोः समरसत्वं व्यज्यते ॥ रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां हेषया च । व्योमव्यापी संततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः ||३|| रथ्येति ॥ संततं व्योमव्यापी गगनस्पृक् अन्यत्र सर्वगत इत्यर्थः । दुन्दुभीनां रणभेरीणां प्रणादो महाघोषः । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । रथानां समूहो रथ्या । 'त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे' इत्यमरः । 'खलगोरथात्' इति यत्प्रत्ययः समूहार्थे । तासां घोषैः वारणानां बृंहणैः कण्ठघोषैः । 'बृहणं गजगर्जितम्' इति वैजयन्ती । वाजिनामश्वानां द्वेषया हेषणेन च । 'हेपा हेषा च निस्वनः' इत्यमरः । ' गुरोश्च हलः' इत्यप्र ये टापू । ऐक्यं मेलनं गच्छन् । अन्यत्र तत्त्वंपदार्थशोधनादद्वितीयतां गच्छन् । ईशिता ईशयिता ईश्वरत्वोपाधिमान्परमात्मेव । ईशेस्तृच् । अव्यक्तोऽभूत् अयं दुन्दुभिघोष इति दुर्भेदो बभूव । अन्यत्र जीवेश्वरोपाधिविलयादयमीश्वरोऽयं जीव इति भेदरहितोऽभूदित्यर्थः । अत्रैक्यगमनस्य विशेषणगत्या अव्यक्तहेतुत्वात्काव्यलिङ्गमुपमाङ्गमिति संकरः ॥ रोपावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहु ध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भेजिरे खड्गलेखाः ||४|| रोपावेशादिति ॥ रोषावेशात्प्रत्यमित्रमभिशत्रुम् | आभिमुख्येऽव्ययीभावः । गच्छतां धावतां द्रवतां दूरादुत्क्षिप्ता उद्यताः स्थूलाः पीवराः बाहुध्वजाः ध्वजस्तम्भा इव बाहवो येषां तेषां पादातानां पदातिसमूहानाम् । 'पादातं पत्ति संहतिः' इत्यमरः । 'षिद्भिदादिभ्योऽङ्' । तिर्यग्दीर्घाः । तिर्यगायता इत्यर्थः । लेखा इव खड्गाः खड्गलेखाः वैजयन्तीसदृश्यः । पताकासदृश्यः सत्य इत्यर्थः । 'वैजयन्ती पताका स्यात्' इत्यमरः । दृशेः 'समानान्ययोश्च' इति 'कञ् च वक्तव्यः' इति समानशब्दोपपदाद्दृशेः कन्प्रत्ययः । 'दृक्षे चेति वक्तव्यम्' इति समानस्य सभावः । भ्रेजिरे रेजिरे । 'भ्राजू दीप्तौ' इति धातोः कर्तरि लिट् । 'फणां च सप्तानाम्' इति विकल्पा देवाभ्यासलोपौ । आर्थीयमुपमा ॥ १ अत्र दृक्षशब्दपरत्वाभावेनास्य वार्तिकस्योपन्यासो भ्रममूलकः । तस्मात् 'दृग्दृशव तुषु इति सूत्रेण सभावो बोध्यः । शिशु० ३८ Page #458 -------------------------------------------------------------------------- ________________ शिशुपालवधे. वर्धाबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुचलन्तः । रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥५॥ वर्धेति ॥ धौरितेन धौरिताख्येन गतिविशेषेण प्रयातां धावताम् । यातेर्लटः शत्रादेशः । अश्वीयानामश्वसमूहानाम् । 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' इति छप्रत्ययः । उच्चकैरुच्चलन्तो गतिवशादूर्ध्वमुत्पतन्तः वर्धन्ते इति वर्धाणि पर्याणबन्धनवरत्राः । 'वधं त्रपुवरत्रयोः' इति विश्वः । 'वृधुवधिवपिभ्यो रन्' इति रन्प्र. त्ययः । लघूपधगुणो रपरः । तेष्वाबद्धाः स्थापिता रौक्माः सौवर्णाः स्थासकाः बुद्बुदाकारमण्डलानि व्याप्तदेहस्य सर्वाङ्गीणस्य मूर्तिभाजो मूर्तिभृतः दर्पस्यान्तरस्य तेजसः शेषाः अन्तरमानाद्वहिर्निर्गता अतिरेका इव रेजुरित्युत्प्रेक्षा ॥ सान्द्रत्वकारतल्पलाश्लिष्टकक्षा आङ्गी शोभामाप्नुवन्तश्चतुर्थीम् । कल्पस्यान्ते मारुतेनोपनुन्नाश्वेलुश्चण्डं गण्डशैला इवेभाः ॥६॥ सान्द्रेति ॥ सान्द्रत्वकाः सान्द्रवर्माणः । शैषिकः कप्प्रत्ययः । तल्पलाः पृष्ठवंशास्तेषु श्लिष्टाः कक्षाः मध्यबद्धवरना येषां ते। 'दूष्या कक्षा वरना स्यात्' इत्यमरः । गजानां विंशत्युत्तरशतायुषां द्वादश दशा भवन्ति तत्र चतुर्दशारू. ढाप्रौढशोभा। तदेवाह-अथ चतुर्थीमाङ्गी शारीरी शोभामामुवन्तः । चत्वारिंशद्वर्षदेश्या इत्यर्थः । इभा गजाः कल्पस्यान्ते मारुतेनोपनुन्नाः। प्रलयमारुतप्रेरिताः गण्डशैलाः स्थूलोपला इव चण्डं तीव्र चेलुः प्रतस्थिर इत्युपमा ॥ संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य । रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥७॥ संक्रीडन्तीति ॥ संक्रीडन्ती संघर्षात्कूजन्ती । 'समोऽकूजने च वक्तव्यम्' इति वचनात्कूजने 'क्रीडोऽनुसंपरिभ्यश्च' इति नात्मनेपदम् । रंहोभाजां वेगभाजां स्यन्दनानां रथानामक्षस्य चकाधारकाष्ठस्य धूरग्रमक्षधूः । 'अक्षं रथाङ्ग आधारे' इति वैजयन्ती । अनक्षे इति निषेधात् 'ऋक्पू:-' इत्यादिना न समासान्तः । रागात् आरां प्रतोदमुद्यम्य तेजिता उत्साहिता अश्वा येन तस्य अग्रं चासौ कायश्च स उत्थितो यस्य तस्य । उत्थितपूर्वकायस्येत्यर्थः । आहितान्यादित्वात्साधुः । प्राजितुः सारथेः। 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः । हाहाकारमुत्साहवर्धनार्थं हाहाशब्दम् । एवकार इत्यत्रैवग्रहणस्योपलक्षणत्वादन्यत्रापि यथादर्शनं शब्दनिर्देशात्कारप्रत्ययः। अथवा हाहाकारं हाहाकरणम् । भावे घञ् प्रत्ययः । प्रत्यनन्दत्साधुसाध्वित्यन्वमोदत किमित्युत्प्रेक्षा ॥ कुर्वाणानां सांपरायान्तरायं भूरेणूनां मृत्युना मार्जनाय । संमार्जन्यो नूनमुद्भूयमाना भान्ति सोचैः केतनानां पताकाः ॥८॥ कुर्वाणानामिति ॥ उच्चैरुन्नताः केतनानां ध्वजस्तम्भानां पताका वैजयन्त्यः सांपरायान्तरायं युद्धविघ्नं कुर्वाणानाम् । 'अनीकं सांपरायिकम्' इत्यमरः । Page #459 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः। ४४७ भूरेणूनां मार्जनाय प्रमार्जनार्थ मृत्युनान्तकेनोद्धूयमानाः प्रकम्प्यमानाः संमार्जन्यः शोधन्य इव भान्ति स्म । 'संमार्जनी शोधनी स्यात्' इत्यमरः। नूनमित्युत्प्रेक्षा ॥ उद्यन्नादं धन्विभिनिष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ९ उद्यन्नादमिति ॥ धन्विभिर्धनुष्मद्भिः । ब्रीह्यादित्वादिनिप्रत्ययः । निष्ठु. राणि कर्कशानि स्थूलानि पीवराण्युच्चैरुन्नतानि मण्डलत्वं दधन्ति वर्तुलत्वं दधा. नानि । एकत्राकर्षणादन्यत्र स्वभावाच्चेति भावः । कर्मणि प्रभवन्तीति 'कर्मण उकञ्' कार्मुकाणि धनूंषि । उद्यन्नादमुजम्भमाणघोषं यथा तथा काममास्फाल्यन्ते स्म पाटवपरीक्षार्थं पाणिभिरास्फालितानि । हस्तिनं रोहन्तीति हस्त्यारोहैनिपादिभिः । कर्मण्यण् । कुञ्जराणां शिरांसि आस्फाल्यन्ते स्म । उत्साहार्थमिति भावः । अत्र कार्मुकाणां कुञ्जरशिरसां च प्रकृतानामेव निष्ठुरत्वादिविशेषणसाम्येनौपम्यावगमात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ घण्टानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो इंहितानि । आमेतीव प्रत्यवोचत् गजानामुत्साहार्थं वाचमाधोरणस्य ॥१०॥ घण्टानाद इति ॥ घण्टानादः किङ्किण्यादिवोषः डिण्डिमानां वाद्यविशेषाणां निस्वनः । ग्रीवासु भवानां ग्रैवेयाणां कण्ठशृङ्खलानां ग्रीवाभ्य एवेति ढक् प्रत्ययः । आरवः बृंहितानि बृंहणानि गजानां उत्साहार्थमाधोरणस्य हस्तिपकस्य । 'आधो. रणा हस्तिपकाः' इत्यमरः । 'वाचं बृंहणादिशब्दं आमेति प्रत्यवोचन्निवैवमेवेत्यनुकूलमूचिर इवेत्युत्प्रेक्षा । 'आमानुगुण्ये स्मरणे' इत्यमरः ॥ यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच । शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः॥११॥ यातैरिति ॥ आयुधेन जीवन्तीत्यायुधीया आयुधजीविनः । 'शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः' इत्यमरः । 'आयुधाच्छ च' इति छप्रत्ययः। शिक्षाशक्तिमभ्यासपाटवं दर्शयन्तः अस्त्रादिभेदादस्वमहास्त्रादिकभेदाच्चातुर्विध्यं यातैः प्राप्तैः । सुष्टुभावः सौष्ठवं नैशित्यादिगुणवत्वं तस्मात् । उद्गात्रादित्वादप्रत्ययः । लाघवाद्वेगवत्त्वाच्च । 'इगन्ताञ्च लघुपूर्वात्' इत्यण्प्रत्ययः । अव्यासङ्गैरप्रतिषिद्धैः मुच्यन्त इति मुक्तानि शरादीनि न मुच्यन्त इत्यमुक्तानि खड्गादीनि च तैस्तैर्मुक्ता. मुक्तैरिति द्वन्द्वः । आयुधैः प्राहरन् । स्वभावानुप्रासयोः संसृष्टिः ॥ रोपावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ।। हित्वा हेतीमल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥१२॥ रोषावेशादिति ॥ कौचिद्योधौ रोषावेशादोषपारवश्यादाभिमुख्येन रहसा वेगेनेवोपयातौ मिथः प्रत्यासन्नौ अतएव पाणिग्राहमन्योन्यं पाणिं गृहीत्वा । Page #460 -------------------------------------------------------------------------- ________________ ४४८ शिशुपालवधे 'द्वितीयायां च' इति णमुल्प्रत्ययः । हेतीः शस्त्राणि हित्वा त्यक्त्वा । वैकल्यादिति भावः । 'हेतिस्तु शस्त्रे द्वयोः' इति केशवः । मल्लवन्मल्लाभ्यां तुल्यम् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । मुष्टिघातं मुष्टिभिर्हत्वा । 'करणे हनः' इति णमुलनत्ययः । नन्तौ प्रहरन्तौ । हन्तेर्लटः शत्रादेशः । कषादित्वादनुप्रयोगः । मुष्टिभि न्तावित्यर्थः । बाहुभ्यां बाहुभ्यां प्रहृत्य प्रवृत्तमिदं युद्धं वाहूबाहवि बाहुयुद्धम् । 'तत्र तेनेदमिति सरूपे' इति बहुव्रीही 'इच्कर्मव्यतिहारे' इतीच्प्रत्ययः समासान्तः । 'अन्येषामपि दृश्यते' इति दीर्घः । तिष्टगुप्रभृतिषु पाठादव्ययीभावत्वादव्ययत्वम् । तत्र व्यासृजेतां व्यासक्तवन्तौ । 'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । मल्लवमिति तद्धितगा श्रौती पूर्णोपमा ॥ शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः । अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः १३ शुद्धा इति ॥ शुद्धा निर्विषाः । 'न कर्णिभिर्नापि दग्धैर्नाग्निज्वलिततेजनैः' इति निषेधादिति भावः। अन्यत्र जात्येत्यर्थः । क्वचित्कुत्रापि सङ्गं प्रतिबन्धं न प्राप्तवन्तः न प्राप्ताः । दुर्वारा इत्यर्थः । दूरान्मुक्ता दूरत एव विसृष्टाः । 'स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन' इति समासः । ‘पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । शीघ्रतां जवनत्वं दर्शयन्तः । विद्विषां सेनास्वन्तः अन्तःसेनम् । विभक्त्यर्थे - व्ययीभावः । आविशन्तः । सेनामध्यं प्रविशन्त इत्यर्थः । सायका बाणाः वाजितायाः पक्षवत्तायाः अश्वत्थस्य च । 'वाजो निःस्वनपक्षयोः' इति विश्वः । युक्तमनुरूपं कर्म चक्रुः । एवंविधसेनाप्रवेशस्य वाजिनामेव संभवादिति भावः । अत्राभिधायाः प्रकृतपक्षतामात्रोपक्षीणत्वाद्वाजिताशब्देन प्रकृतस्यैव प्रतीतेः ध्वनिरेवेति न श्लेषावकाशः । किंतु शुद्धादिपदार्थपुञ्जविशेषणगत्या सायकानां युक्तकारिताहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च । हेलालोला वर्त्म गत्वातिमत्र्य द्यामारोहन्मानभाजः सुखेन ॥१४॥ आक्रम्येति ॥ मानभाजोऽभिमानवन्तः । उच्चैरुन्नतं आजेयुद्धस्याग्रिमस्कन्धमग्रभागमंसप्रदेशं चाक्रम्यारुह्य वीतशकं शिरःसंमुखमुत्तमकायं चास्थायारुह्य हेलासु युद्धक्रीडासु, लीलासु च लोला उत्सुकाः सन्तः अतिमत्यं वर्म गत्वा । अमानुषं युद्धं कृत्वेत्यर्थः । अन्यत्रामानुपगम्यमारोहणमार्ग गत्वा सुखेनानायासेन द्यां स्वर्गमभ्रंकषं गिरिशिखरादि क्रीडास्थानम् । 'द्यौः स्वर्गसुखवफ्नोः ' इति विश्वः । आरोहन्नारूढाः 'युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः' इति मनुस्मरणादिति भावः । यथाकथंचित्कश्चित्स्कन्धमूर्धारोहणक्रमेण किंचिदुरारोहमद्रितटादिकमारोहति तद्वदिति प्रतीतेर्विशेषणमहिम्नागता समासोक्तिः ॥ रोदोरन्ध्र व्यश्नुवानानि लोलैरङ्गस्यान्तापितैः स्थावराणि । केचिद्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स प्राणमूल्यैर्यशांसि ॥१५॥ Page #461 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः। ४४९. रोदोरन्ध्रमिति ॥ केचिद्वीराः गुर्वी महतीं संयतो युध एव निषीदन्त्यस्यामिति निषद्यामापणम् । 'आपणस्तु निषद्यायाम्' इत्यमरः । 'संज्ञायां समजनिपद-' इत्यादिना क्यप् । एत्य प्राप्य । आङ्पूर्वादिणः क्त्वो ल्यप् । देहस्यान्तरभ्यन्तरे मापितैः परिच्छिन्नैः । मातेर्माडो वा ण्यन्ताकर्मणि क्तः । 'अर्तिीं-' इत्यादिना पुगागमः । लोलैरस्थिरैः प्राणैरेव मूल्यैः प्राणमूल्यै रोदसो-वापथिव्यो रन्ध्रमन्तरालं व्यश्नुवानानि व्यामुवन्ति । अश्नोतेर्लटः शानजादेशः । स्थावराणि स्थिराणि । यशांसि क्रीणन्ति स्म । स्वीचक्रुरित्यर्थः । अत्र न्यूनैः प्राणैस्ततोऽधिकयशःपरिवर्तनान्यूनपरिवृत्तिरलंकारः । 'समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥ वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लजितानाम् । अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म ननाः॥१६॥ वीर्योत्साहेति ॥ सङ्ग्रामाग्रे रणाग्रे वीर्योत्साहाभ्यां श्लाध्यते इति श्लाघि विक्रमाहंकारशोभि अवदानं महत्कर्म कृत्वा । 'अवदानं कर्म वृत्तम्' इत्यमरः । लजितानाम् । मानित्वात्स्वनामाख्याने संकोचवतामित्यर्थः । शत्रुभिरज्ञातानामज्ञातनामकानां मानिनां मानशालिनां शुराणां संबन्धि श्रीमत् शौर्यश्रीयुक्तं नाम नग्नाः बन्दिनः। 'बन्दिनि क्षपणे नग्नः' इति विश्वः । उच्चैः श्रावयन्ति स्म । अयमसाविति कथयामासुरित्यर्थः । युक्तम् । सर्वमेतदुचितमित्यर्थः । अत्र लज्जमानाज्ञातयोर्विशेषणगत्या बन्दिश्रवणहेतुत्वाकाव्यलिङ्गभेदः ॥ आधावन्तः संमुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् । वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्राविशन्पुष्कराणि ॥१७॥ आधावन्त इति ॥ क्रोधेनान्धा अपश्यन्तोऽन्ये भटाः आधावन्तोऽभिमुखमापतन्तः सन्तः अन्यैः सैन्यैः प्रतिद्वन्द्वाभिसंमुखं धारितानां कृतानां तीक्ष्णकौक्षेयकाणां निशितासिनाम् । 'कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' इति ढकञ् प्रत्ययः । पुष्कराणि फलानि । खड्गसुखानीत्यर्थः । 'पुष्करं तूर्यवत्रे च. काण्डे खगफलेऽपि च' इति विश्वः । वक्षांसि पीठानीव वक्षःपीठैर्वक्षस्थलैः आत्सरोरामुष्टेः । 'त्सरुः खगादिमुष्टौ स्यात्' इत्यमरः । 'आङ् मर्यादाभिविध्योः' इति विकल्पादसमासः । आत्मना स्वयमेव । परप्रयत्नं विनेत्यर्थः । प्राविशन्प्रविष्टाः । अत्र क्रोधान्धविशेषणगत्या पुष्करप्रवेशहेतुत्वात्काव्यलिङ्गभेदः ॥ मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः । आत्मीयास्ते ये पराश्चः पुरस्तादम्यावर्ती संमुखो यः परोऽसौ १८ मिश्रीभूत इति ॥ तत्र युद्धे सैन्यद्वयेऽपि मिश्रीभूते मिलिते सति प्रायेणायं विशेषोऽसाधारणधर्मों व्यक्तमासीत् । क इत्याह-पुरस्तादने ये पराञ्चः पराङ्मुखाः । परेऽपीति भावः । ते आत्मीयाः । अवध्या इत्यर्थः । 'न भीतं न परा Page #462 -------------------------------------------------------------------------- ________________ ४५० शिशुपालवधे वृत्तम्' इति वधनिषेधश्रवणात् । यः पुरस्तादभ्यावर्ती परावर्ती संमुखोऽभिमुखः । स्वकीयोऽपीति भावः । असौ परः शत्रुर्वध्य इत्यर्थः । प्राणलुब्धस्य स्वामिद्रोहित्वादित्यर्थः ॥ सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणाववद्धा । नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी १९ सदिति ॥ सद्वंशत्वाच्छुद्धाकरत्वात्कुलीनत्वाच्चाङ्गसंसङ्गिनीत्वमङ्गसंबन्धित्वं नीत्वा । अगुणत्वविवक्षायां त्वतलोर्गुणवचनस्य' इति न पुंवद्भावः । कामं गौरवेणादरेणावबद्धा संयता च कस्यचित्स्वा स्वकीया कृपाणी असिलता । परेणान्येन वञ्चयित्वा प्रतार्य हस्तं नीता स्वायत्तीकृता सती दोहं हिंसां व्यभिचारं च चके कृतवती । अन्न प्रकृतकृपाणीविशेषणसाम्यादप्रकृतस्वैरिणीप्रतीतेः समासोक्तिः ॥ नीते भेदं धौतधाराभिघातादम्भोदामे शात्रवेणापरस्य । सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥२०॥ नीत इति ॥ शात्रवेण शत्रुणा । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । धौताया उत्तेजिताया धारायाः खड्गधाराया अभिघाताद्धेदं नीते विदारितेऽम्भोदामे मेघश्यामे अपरस्य भटस्य कङ्कटे कवचे। 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रि. याम्' इत्यमरः । सहासृग्राज्या सासृग्राजिः सरक्तरेखः तीक्ष्णमार्गस्य खड्गस्य मार्गः । प्रहारो विद्युद्दीप्तस्तडिदुज्वलो लक्ष्यते स्म । उपमालंकारः ॥ आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः। प्राप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यचर्म नान्यस्य पाणेः ॥२१॥ आमूलान्तादिति ॥ अन्यस्य भटस्य बाहौ आयतेन दीर्येण सायकेन आमूलान्तान्मूलप्रदेशपर्यन्तम् । आकक्षमित्यर्थः। विकल्पादसमासः। स्यूते प्रोते सति असह्या वेदनां व्यथां प्राप्य अत एवास्तधैर्यात्त्यक्तधैर्यादपि धारयितुमक्षमादपि मण्डुके संग्राहे श्लिष्टा संदष्टा मुष्टियस्य तस्मात्पाणेश्चर्म फलकम् । 'फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः' इत्यमरः । नाभ्रश्यन्नापतत् । अत्र सायकप्रोतमुष्टिश्लेषयोर्विशेषणगत्या धैर्यत्यागचर्मभ्रंशौ प्रति हेतुत्वाकाव्यलिङ्गभेदः ॥ भित्त्या घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्धपक्षेण विद्धः। शिक्षाहेतोर्गाढरज्वेव बद्धो हतु वक्रं नाशकदुर्मुखोऽपि ॥ २२ ॥ भित्त्वेति ॥ आयसेनायोमयेन गा| गृध्रसंबन्धी पक्षः पत्रं यस्य तेन गार्धपक्षण बाणविशेषेण घोणां नासां भित्त्वा । 'घोणा नासा च नासिका' इत्यमरः । अधिवक्षो वक्षसि । विभक्त्यर्थेऽव्ययीभावः । विद्धः प्रहतः । व्यधेः कर्मणि क्तः 'अहिज्या-' इत्यादिना संप्रसारणम् । स्थूरीपृष्टो नवारूढोऽश्वः। शिक्षैव हेतुः तस्य शिक्षाहेतोः शिक्षया निमित्तेन । शिक्षार्थमिति यावत् । 'षष्टी हेतुप्रयोगे' इति षष्ठी । गाढरज्वा गाढपाशेन बद्ध इवेत्युत्प्रेक्षा । दुर्मुखोऽप्यशिक्षितमुखोऽपि Page #463 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः। ४५१ वत्रं हर्तुमपाक्रष्टुं नाशकन्न शक्तः । शकेलृङि 'पुषादि-' इति च्लेरङादेशः । शिशितो हि शिक्षावशादबद्धोऽपि बद्धवदास्ते, अशिक्षितस्तु निबद्धोऽपि झटिति मुखमपहरतीति भावः । अपिर्विरोधे । अत एव विरोधाभासोऽलंकारः॥ . कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म।। कर्मोदारं कीर्तये कर्तुकामान्किवा जात्याः स्वामिनो हेपयन्ति २३ कुन्तेनेति ॥ आजानेयः कुलीनाश्वः । 'आजानेयाः कुलीनाः स्युः' इत्यमरः । 'शुभ्रादिभ्यश्च' इति ढक् प्रत्ययः । सादिनाश्वारोहेण का । उच्चैरुन्नतेन कुन्तेन प्रासेन करणेन हन्तुं प्रहर्तुमिष्टादभिप्रेताद्दन्तिनो न त्रस्यति स्म न त्रस्तः । 'वा भ्राश-' इत्यादिना श्यन्प्रत्ययः । तथा हि जात्याः कुलीनाः । भवार्थे यत्प्रत्ययः । कीर्तये उदारं कर्म महापौरुषं कर्तुं कामो येषां तान्कर्तुकामान् । 'तुं काममनसोरपि' इति मकारलोपः । स्वमेषामस्तीति स्वामिनो भर्तृन् । 'स्वामिन्नैश्वर्य' इति निपातः । हेपयन्ति लज्जयन्ति किम् । न हेपयन्तीत्यर्थः । 'अर्तिही-' इत्यादिना पुगागमः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽयो लोकमस्तेषुजालाः । नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥२४॥ जेतमिति ॥ जेतार एव जैत्रा जयशीलाः । जेतृप्रकृतेः प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः । लोकं जनमधः पश्यन्तः स्वयमुपर्यवस्थानाल्लोकमधोदेशे पश्यन्तः, अधःकृतंमन्यमानाश्च । अस्तेपुजालाः क्षिप्तशरनिकराः त्रासहीना दुर्गस्थत्वान्निर्भीका नागारूढा गजारोहास्त्रस्यन्ति गच्छन्तीति सानि जङ्गमानि । 'चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्' इत्यमरः । पार्वतानि पर्वतसंबन्धीनि दुर्गाणि । गिरिदुर्गाणीत्यर्थः । श्रयन्तोऽधितिष्ठन्त इत्युत्प्रेक्षा । तेऽष्वेवंभूता एवेति भावः । अरिसैन्यैः कर्तृभिः जेतुं न शेकिरे। अशक्ता बभूवुरित्यर्थः । शकेः कर्मणि लिट् । अत्र मनुः-'धनुर्दुर्ग महीदुर्गमब्दुर्ग वनमेव च । नृदुर्ग गिरिदुर्ग च समाश्रित्य वसेन्नृपः ॥ सर्वेणैव प्रकारेण गिरिदुर्ग समाश्रयेत् । तेषां हि बहुगुण्येन गिरिदुर्ग विशिष्यते ॥' इति ॥ विष्वद्रीचीविक्षिपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् । बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोराहः॥२५॥ विष्वगिति ॥ एकः कोऽपि वीरः । विष्वगञ्चतीति विष्वद्रीचीः सर्वव्यापिनीः। 'विष्वग्देवयोश्च टेरयञ्चतावप्रत्यये' इति टेरयादेशः धातोरप्यञ्चतेरुपसंख्यानात् 'उगितश्च' इति डीप 'अचः' इत्यकारलोपे 'चौ' इति दीर्घः । सैन्यानि वीचय इव सैन्यवीचीरित्युपमितसमासः। सिन्धौ वेति लिङ्गाद्विक्षिपन्नपाकुर्वन् अन्तराजिमध्ये क्वापि दूरं प्रयातमिष्टं बन्धुं दिदृक्षुष्टुमिच्छुः सन् । दृशेः सन्नन्तादुप्रत्ययः । क्वापि प्रयातं मग्नं गोभूमेर्मण्डलं भूगोलं दिक्षुराद्यो वराहः सिन्धौ Page #464 -------------------------------------------------------------------------- ________________ '४५२ शिशुपालवधे वा समुद्रे । 'उपमायां विकल्पे वा' इत्यमरः । आजौ बभ्राम । एकवीरस्य कुतो भयमित्यर्थः ॥ यावचक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य । सेनाखानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः॥२६॥ यावदिति ॥ व्युत्थानं गजोत्थापनं जानातीति व्युत्थानज्ञः हस्तिना चरतीति हस्तिचारी यन्ता । मदस्य बोधनायोत्थापनायाञ्जनमुद्दीपनं कर्म यावन्न चक्रे तावत्प्रागेव । असमाप्ते विधावित्यर्थः । सेनास्वानात् । सेनाकलकल श्रवणादित्यर्थः । दन्तिनामात्मना स्वयमेव स्थूला महत्यो दानकुल्या मदसरितः प्रावहन्निति दन्तिनामुत्साहातिरेकोक्तिः । अञ्जनात्याग्दानसंबन्धोक्तरतिशयोक्तिः ॥ क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धृतमूर्धावमत्य । घोरारावध्वानिताशेषदिके विष्के नागः पर्यणंसीत्स्व एव ॥२७॥ क्रुध्यन्निति ॥ दूरादरत एव गन्धान्मदगन्धाघ्राणात् अन्यनागाय प्रतिगजाय क्रुध्यन् । तं जिघांसुरित्यर्थः । 'क्रुधद्रुह-' इत्यादिना संप्रदानत्वम् । नागो धूतमूर्धा विधूतमस्तकः सन् । आरोढारं यन्तारमवमत्यावधूय घोरारावैरिणकन्दनैः ध्वानिता अशेषदिशो येन तस्मिंस्तथा उच्चैराक्रोशतीत्यर्थः । शैषिकः कप्प्रत्ययः । स्वे स्वकीय एव । स्वपुत्र एवेत्यर्थः । 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पान्न मिन्नादेशः । अत एव स्वे स्वपुग्ने विष्क इति श्लिष्टगत्या व्याख्याय पुत्रस्यापि ज्ञातित्वान्न सर्वनामसंज्ञेति वल्लभोक्तिः प्रामादिकी। विपके विंशतिवर्षके डिम्भे । 'विष्को विंशतिवर्षकः' इति वैजयन्ती । पर्यणंसीत् । तिर्यक्प्रजहारेत्यर्थः । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । 'यमरमनमातां सक्च' इति नमेलङि सगिडागमौ 'नेटि' इति वृद्धिप्रतिषेधः ।। प्रत्यासन्ने दन्तिनि प्रातिपक्षे यत्रा नागः प्रास्तवऋच्छदोऽपि । क्रोधाकान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किंचिन्मदान्धः २८ प्रत्यासन्ने इति ॥ प्रातिपक्षे प्रतिपक्षसंबन्धिनि । 'तस्येदम्' इत्यण् । दन्तिनि गजे प्रत्यासन्ने सति यत्रा सादिना प्रास्तवक्रच्छदोऽपि निरस्तमुखपटोऽपि क्रोधाक्रान्तः अत एव क्रूरं घोरं निर्दारिताक्षः तथापि मदान्धो नागो गजो न किंचिदेव प्रेक्षांचक्रे । किमपि पुरोगतं प्रातिपक्षमन्यद्वा न ददर्शेत्यर्थः । आवरणान्तराभावेऽपि मदावरणस्यानपायादिति भावः । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । अत्रानावृतोन्मीलिताक्षस्याप्यदर्शनविरोधस्य मदान्धेनाविरोधाद्विरोधाभासोऽलंकारः॥ तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य । तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥ २९ ॥ तूर्णमिति ॥ निषादी यन्ता वारणस्य गजस्य चक्षुर्वारणं नेत्रावरणं वासो Page #465 -------------------------------------------------------------------------- ________________ ४५३ अष्टादशः सर्गः। मुखपटं यावत्तर्ण नापनिन्ये नापचकार तावदन्यनागाधिरूढः प्रतिगजाधिरोहः एक एककालीनः पातो येषां तैरेकपातैर्युगपत्पातिभिरिति शीघ्रतोक्तिः । काद. म्बानां शराणाम् । 'कदम्बमार्गणशराः' इत्यमरः । पूगैातैरसीव्यत् । चक्षुषा सह तद्वासः स्यूतवानित्यर्थः । सीव्यतेर्लङ् । अत्र चक्षुषः सीवनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ आस्थदृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य । मनस्योच्चबहेभारेण शङ्कोरावबाते वीक्षणे च क्षणेन ॥ ३० ॥ आस्थदिति ॥ यन्ता प्रमत्तः सन् प्रत्यरीभमरिगजं प्रति । आभिमुख्ये. ऽव्ययीभावः । यातुर्गन्तुः । यातेस्तृच् । द्विपस्य दृष्टेराच्छदमावरणम् । पुंसि संज्ञायां घः । आस्थन्निरस्तवान् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरडादेशः 'अस्यतेस्थुक्' इति थुगागमः । मन्नस्य मुखनिमग्नस्य शङ्कोः शल्यायुधस्य । 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरः । उच्चैर्बर्ह भारेण पिच्छपटलेन वीक्षणे चक्षुषी क्षणेनावबाते आवृते । वृणोतेः कर्मणि लिट् । अन्योन्यसमुच्चयचकाराभ्यामावरणनिरासे पुनरावरणयोरेककाले संबन्धोक्तेरतिशयोक्तिः ॥ यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चित्यान्यश्चेतसा भावितेन । अन्त्यावस्थाकालयोग्योपयोगं दधेऽभीष्टं नागमापद्धनं वा ॥३१॥ यत्नादिति ॥ अन्यः गजारोहः भावितेनालोचितेन चेतसा सुस्थितत्वादनपायिदेशत्वादनाशमनपायं निश्चित्य यत्नाद्रक्षन् वञ्चकेभ्यस्त्राय( माणः )न् सन् । अन्त्यावस्थाकाले साधनान्तरकाले नाशकाले योग्योपयोग अत एवाभीष्टं नागं गजमापद्धनं वापद्धनमिव दधे अन्यतोपसार्य धारयामास । धरतेः स्वरितेत्त्वात्कर्तरि लिट् तङ्॥ अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः। उन्मूर्धानः संनिपत्यापरान्तःप्रायुध्यन्त स्पष्टदन्तध्वनीभाः॥३२॥ ___ अन्योन्येषामिति ॥ इभा गजाः अन्योन्येषां परस्परेपाम् । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यावित्वम् । 'समासवच्च बहुलम्' इति विकल्पादसमासत्वपक्षे पूर्वपदस्य प्रथमैकवचनं वक्तव्यम् । उद्भिद्यन्ते एग्विति उद्भेदाः । 'अकर्तरि च कारके संज्ञायाम्' इत्यधिकरणाथै घञ् प्रत्ययः । दानोद्भेदान्कटादिमदस्थानानि पुष्करैर्हस्ताग्रैः । 'पुष्करं करिहस्ताग्रे' इत्यमरः । आमृशन्तो जिघ्रन्त उच्चकैरुन्नता भुग्नवालाः प्रह्वीकृतपुच्छाः । 'वाल: केशे शिशौ मूर्खे बालो वाजीभपुच्छयोः' इति विश्वः । उन्मूर्धान उन्नतमस्तकाः सन्तः स्पष्टदन्तध्वनि यथा तथा संनिपत्यापरान्तैः सह प्रायुध्यन्त । दिवादिकस्य युध्यतेः कर्तरि लङ् । स्वभावोक्तिः ॥ द्राधीयांसः संहताः स्थेमभाजश्वारूदग्रास्तीक्ष्णतामत्यजन्तः। दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः॥३३॥ Page #466 -------------------------------------------------------------------------- ________________ ४५४ शिशुपालवधे द्राधीयांस इति ॥ द्राधीयांसो दीर्घतराः । 'प्रियस्थिर-' इत्यादिना दीर्घस्य ईयसुनि द्राघादेशः । संहताः सुघटिताः अत एव स्थेमभाजः स्थैर्यभाजः। "प्रियस्थिर-' इत्यादिना स्थिरशब्दस्येमनिचि स्थादेशः । चारवो रम्या उदय़ा उन्नताश्च ते चारूदग्राः । विशेषणसमासः । तीक्ष्णतां नैशियं अत्यजन्तः सामजानां गजानां दन्ता दन्तैः प्रतिगजविषाणैराहताः सन्तो भङ्ग भेदं जग्मुः बभक्षुः । सामजाता दन्तिनस्तु स्वयं भङ्गं पराजयं न जग्मुः । दन्तभङ्गेऽपि स्वयं न परावर्तन्त इत्यर्थः । अत्रापरावर्तित्वेन वर्ण्यतया प्रकृतत्वादुपमेयानां दन्तिनामुपमानदन्तापेक्षया अभग्नत्वेनाधिक्योक्तेर्व्यतिरेकस्तुल्ययोगिताया बाधक इति गमयितव्यम् ॥ मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः। लग्नोऽप्यग्निश्वामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स सैन्यैः॥३४॥ ___ मातङ्गानामिति ॥ मातङ्गानां दन्तिनां दन्तसंघट्टजन्मा दन्तसंघर्षोत्थः हेमच्छेदच्छायानि कनकपरागवर्णानि चञ्चन्ति चलन्ति च शिखाग्राणि ज्वाला. ग्राणि यस्य सोऽग्निः मञ्जिष्ठया ओषधिविशेषेण रक्तेषु माञ्जिष्टेषु । 'तेन रक्तं रागात्' इत्यण्प्रत्ययः । 'मञ्जिष्टा विकसा जिङ्गी' इत्यमरः । चामरेषु लग्नोऽपि सैन्यैः प्रकामं न व्यज्यते न विविच्यते स्म । सावादिति भावः । अतः सामा. न्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । स च विशेषणोत्थकाव्यलिङ्गसंकीर्णः ॥ ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः। । योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ३५ ॥ ओषामासे इति ॥ मत्सरो वैरमेवोत्पातवात आकस्मिकवायुस्तेनालि. ष्यतां संयुज्यमानानां दन्तानामेव मारुहां वृक्षाणां घर्षणेनोत्था जन्म येषां तैर्वह्निभियौगान्तैर्वा युगान्तभवैर्वह्निभिरिव वारणानामुच्चैरुन्नतैः मूर्धा व्योमेव तस्मिन्मूर्धव्योम्नि नक्षत्रमाला हारविशेषः । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । ज्योतिर्मण्डलं च ओषामासे । दग्धेत्यर्थः । 'उष दाहे' इति धातोः कर्मणि लिट् । 'उपविदजागृभ्योऽन्यतरस्याम्' इत्याम्प्रत्ययः । लघू. पधगुणः 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेश्चानुप्रयोगः । अत्र नक्षत्रमालयोरभेदाध्यवसायेन निर्देशाद्रूपकश्लेषसंकीर्णेयमुपमा ॥ सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम्। दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ३६ सान्द्राम्भोदेति ॥ सान्द्रं च तदम्भोदश्यामलं च तस्मात्सामजानां गजानां वृन्दे शोणितैः शोणिमानमारुण्यं नीता दन्ताः अम्भोनिधीनां वारिनिधीनां वारिणीव विद्रुमाणां प्रवालानामिमे वैद्रुमाः । 'विद्रुमः पुंसि प्रवालं पुनपुं. सकम्' इत्यमरः । कन्दो मूलपिण्डः तस्योद्भेदाः प्ररोहा इव शोभामापुरित्युपमा ॥ Page #467 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः। ४५५ आकम्प्राणैः केतुभिः संनिपातं तारोदीर्णग्रेवनादं व्रजन्तः। मनानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्खनन्ति स नागाः ॥३७ ___ आकम्प्रागैरिति ॥ आकम्प्राणि दन्तोत्खननसंक्षोभाभृशं कम्प्राण्यग्राणि येषां तैः केतुभिर्ध्वजैः संनिपातं संघर्ष व्रजन्त इति दुःखहेतूक्तिः । नागा गजास्तारमुच्चैरुदीर्ण उत्पन्नः ग्रैवाणां ग्रीवासूत्पन्नानां शृङ्खलभूषणादीनां नादो यस्मिन्कर्मणि तत्तथा अन्यद्विपानां प्रतिगजानामङ्गे गाढं मन्नानन्तःप्रविष्टान्दन्तान्दुःखादुत्खनन्ति स्म । तेषां गाढमन्नत्वात्स्वयं केतुभाराकान्तत्वाच्च कृच्छ्रादुजहुरित्यर्थः । अत्रोक्तभारमजनयोर्विशेषणगत्या दुःखोत्खननहेतुत्वात्काव्यलिङ्गम् ॥ उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीपादन्तः कुञ्जरं शात्रवीयम् । ' शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ ३८ ॥ उत्क्षिप्येति ॥ ईथे लाङ्गलदण्डाविव दन्तौ यस्य स ईषादन्तो महादन्तो दन्ती । 'ईषा लाङ्गलदण्डः स्यात्' इत्यमरः । प्रस्फुरन्तं प्राणोत्क्रमणदुःखादुल्लसन्तं शात्रवस्येदं शात्रवीयं कुञ्जरं रदाभ्यां दन्ताभ्यां उच्चैरुत्क्षिप्योर्ध्वमुद्यम्य शृङ्गे शिखरे प्रोतः स्यूतः प्रावृषेण्यः प्रावृषि भवोऽम्बुदो यस्य तस्य । 'प्रावृष एण्यः' इत्येण्यप्रत्ययः । उर्वीधरस्य गिरेः साम्यं सादृश्यं स्पष्टं प्रापत् । आफ्नोतेलुंङि 'पुषादि-' इति च्लेरङादेशः ॥ भन्नेऽपीभे खे परावर्त्य देहं योद्धा साधु वीडया मुञ्चतेषून् । साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि॥३९॥ भग्नेऽपीति ॥ स्वे स्वकीये इभे गजे भन्नेऽपि देहं स्वाङ्गं परावर्त्य प्रतिपक्षाभिमुखमावर्त्य । वृतेय॑न्ताल्लयप् । अण्यन्तस्त्वपपाठः। अकर्मकस्य कर्मानन्वयात् । बीडया सामिषून्मुञ्चता । इषुमोक्षणेन स्वगजभङ्गबीडां निरस्यतेत्यर्थः । योड्रा भग्नेभस्थेन भटेन का अभीक्ष्णं दून इषुभिस्तप्तः । 'ल्वादिभ्यः' इति निष्ठानत्वम् । अनुबध्नातीत्यनुबन्धी वारणो यन्तुः प्रतिगजारोहस्य संमदेन साकं स्वेभजयजन्येन हर्षेण सह । 'प्रमदसंमदी हर्षे' इति निपातः । प्रत्यरोधि प्रतिरुद्धः । तत्प्रतिरोधेन तत्संमदस्यापि प्रतिरोधव्याप्तेरिति भावः । 'साकं साधं समं सह' इत्यमरः । अत्र वीडितेषुमोक्षयोः संमदयन्तृप्रतिरोधयोश्च कार्यकारणयोस्तत्पौर्वापर्यरूपातिशयोक्त्या सहभावोक्तेः सहोक्तिः संकीर्यते ॥ व्याप्तं लोकैदुःखसभ्यापसारं संरम्भित्वादेत्य धीरो महीयः । सेनामध्यं गाहते वारणः स ब्रह्मैव प्रागादिदेवोदरान्तः॥४०॥ व्याप्तमिति ॥ वारणः कश्चिदन्ती संरम्भित्वात्क्रोधित्वात् । 'संरम्भः संभ्रमे कोपे' इति विश्वः । धीरो निर्भीकः सन् एत्यागत्य महीयो विपुलं लोकैर्जनैः अन्यत्र भुवनैश्च व्याप्तम् । 'लोकस्तु भुवने जने' इत्यमरः । अतो दुःखलभ्योऽप Page #468 -------------------------------------------------------------------------- ________________ ४५६ शिशुपालवधे सारोऽपसरणं यत्र तत्सेनामध्यं प्राक् पुरा आदिदेवस्य विष्णोः उदरान्तरुदराभ्यन्तरं ब्रह्मा स्रष्टेव गाहते स्म प्रविवेश । पुरा किल बाह्य सिसृक्षुब्रह्मा पूर्वसृष्टिदिदृक्षया विष्णोः कुक्षि प्राविशदिति पौराणिकी कथा । केचिद्ब्रह्मा ब्राह्मणो मार्कण्डेय इति व्याचक्षते, सोऽपि भगवन्महिमावलोकनकौतुकात्तदनुज्ञया महाप्रलये तदुदरं प्रविश्य बभ्रामेत्यागमः । ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । उपमालंकारः ॥ भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः । निर्भीकत्वादाहवेऽनाहतेच्छो हृप्यन्हस्ती हृष्टरोमेव रेजे ।। ४१ ।। भृङ्गेति॥ शृङ्गश्रेणीव श्यामभासां कृष्णवर्णानां नाराचानामयोमयेषुविशेषाणां समूहैः विद्धो नीरन्ध्रो निर्विवरो देहो यस्य सः। तथापि निर्भीकत्वादाह. वेऽनाहतेच्छः अव्याहतोत्साहः अत एव हृष्यन्मोदमानो हस्ती हृष्टरोमेव हर्षात्पुलकित इवेत्युत्प्रेक्षा । 'हृषेर्लोमसु' इति विकल्पादिडभावः । रेजे शुशुभे । 'फणां च सप्तानाम्' इति विकल्पादेत्वाभ्यासलोपौ ॥ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन । निश्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा॥४२॥ __ आतानेति ॥ रोषभाजः क्रुद्धस्य नागराजस्य महेभस्य कटान्ताद्गण्डस्थलानिश्श्योतन्ती प्रागेव स्रवन्ती दानस्य मदस्य धारा आताम्राभा क्रोधादरुणवर्णा जज्ञे जाता। आहो धूर्गतेन पुरोगतेन यत्रा मार्गणे शरे आशूत्खाते लोहितस्य क्षतजस्येव धारा जज्ञे । जनेः कर्तरि लिट् । किमियं क्रोधारुणा मदधारा शरो. द्धरणजन्या रक्तधारा वेत्युभयकारणसंभवात्सादृश्याच्च संशयः स च विकल्पितसादृश्यमूल इत्यलंकारः॥ क्रामन्दन्तो दन्तिनः साहसिक्यादीपादण्डौ मृत्युशय्यातलस्य । सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योचैरर्धमार्गाधिरूढः ॥४३॥ कामन्निति ॥ मृत्युशय्यातलस्यान्तकपर्यङ्करूपस्य । 'अधस्वरूपयोरस्त्री तलम्' इत्यमरः । ईषादण्डौ दारुविशेषौ तत्सदृशौ । आयतावित्यर्थः । दन्तिनो दन्तौ। सहसा वर्तत इति साहसिकः । 'ओजः सहोम्भसा वर्तते' इति ठक् प्रत्ययः । तस्य भावात्साहसिक्यात्क्रामन् । साहसवानित्यर्थः । अन्यस्तत्क्षणादुच्चैरूव॑स्य स्वर्गस्य अर्धश्चासौ मार्गश्चेति तदर्धमार्गाधिरूढ इति सैन्यैराशशके उत्प्रेक्षित इत्युत्प्रेक्षा ॥ कुर्वज्योत्स्नाविग्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारितादन्तिकुम्भादाभाति स प्रोच्छलन्मौक्तिकौघः ४४ कुर्वन्निति ॥ ज्योत्स्नाविग्रुषां तुल्यरूपः चन्द्रिकाबिन्दुस्वरूपः तारः शुद्धः । 'तारो मुक्तादिसंशुद्धौ' इति विश्वः । खड्गावातैदारिताद्दन्तिकुम्भात्योच्छलन्नुत्पतन्मौक्तिकोघो मुक्तापुञ्जो द्यामाकाशं ताराजालसारां नक्षत्रशबलितां तारकितां कुर्वन्नित्युत्प्रेक्षा । 'सारः शबलपीतयोः' इति विश्वः । आभाति स्म बभौ ॥ Page #469 -------------------------------------------------------------------------- ________________ ४५७ अष्टादशः सर्गः। दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ ४५ ॥ दूरोत्क्षिप्तेति ॥ मत्तो हस्तिराजः करीन्द्रः दूरादुक्षिप्तेन प्रास्तेन अत एव क्षिण सत्वरेण चक्रेण कृत्तं अत एव भूमौ लोलमानं लुठमानम् । 'लोलतेस्नात्मनेपदित्वात्' 'ताच्छील्यवयोवचनशक्तिषु चानश' इति ताच्छील्ये चानश प्रत्ययः । अत एव 'लोलमानादयश्चानशी'ति वामनः । भीमं भयंकरं स्वं स्वकीयमेव हस्तं सरोषः सन् पादेनाङ्किणा असृक्पङ्केन पङ्कीभूतेनासृजा पिनष्टीत्यसृक्पङ्कपेषम् । 'स्नेहने पिपः' इति णमुल । पिपेष । कषादित्वादनुप्रयोगः। रक्तपङ्केन स्नेह द्रव्येण ममर्देत्यर्थः । क्रुद्धमत्तयोः कुतो विवेक इति भावः । अत्र पेषणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ आपस्कारालूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवा खस्य । लब्धायामं दन्तयोयुग्ममेव स्खं नागस्य प्रापदुत्तम्भनत्वम् ॥४६॥ आपस्कारादिति ॥ गात्रमूलमापस्कारं आपस्कारादामूलात् । आङो विकल्पादसमासः । लूनगात्रस्य च्छिन्नजङ्घस्य । 'द्वौ पूर्वपश्चाजङ्घादिदेशी गात्राऽवरे क्रमात्' इत्यमरः । अत एवावाङ्मुखस्य सतः साधारं सावलम्बनं न भवतीति निःसाधारं यथा तथा भूमि गच्छतः । पतत इत्यर्थः । नागस्य लब्धायाम जातदेयम् । आयतमित्यर्थः । स्वं स्वकीयं दन्तयोयुग्ममेवोत्तम्भनत्वमवलम्बनत्वं प्रापत् । जवाच्छे देऽपि दन्तावष्टम्भादपतित इत्यर्थः । अत्र स्वभावातिशयोक्त्योः संसृष्टिः ॥ लब्धस्पर्श भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले । ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥४७॥ ___ लब्धस्पर्शमिति ॥ भूव्यधात् । दन्ताभ्यां भुवो विद्धत्वादित्यर्थः । 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः। अव्यथेन स्वयमविद्धत्वादव्यथेन सतान्येन केनचिद्भटेन दन्तयोरन्तराले किंचिल्लब्धः स्पर्शी यस्मिन्कर्मणि तदन्ताभ्यां भटस्पर्श यथा तथा स्थित्वा ऊर्ध्व प्रसारितेनार्धासिना खङ्गैकदेशेन च्छिन्नश्चूर्णितो इन्तप्रवेष्टो दन्तवेष्टनं यस्य तं नागं जित्वा सद्य एव उत्तस्थे उत्थितम् । भावे लिट् । अत्रापि तथोत्थानाद्यसंबन्धेऽपि संबन्धोक्तरतिशयोक्तिः ॥ हस्तेनाग्रे वीतभीतिं गृहीत्वा कंचिद्यालः क्षिप्तवानूर्ध्वमुच्चैः ।। आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम् ॥४८॥ हस्तेनेति ॥ व्यालो दुष्टदन्ती। 'व्यालो दुष्टगजे सर्प' इति विश्वः । अग्रे वीतभीति निर्भीकम् । भीरोः स्वर्गाभावादिति भावः। कंचिद्वीरं हस्तेन गृहीत्वा ऊर्ध्वमुपयुच्चैः क्षिप्तवान् । उत्प्रेक्ष्यते । तस्यैव हेतोस्तेनैव हेतुना । तद्धरणार्थमेवे ३९ शिशु० Page #470 -------------------------------------------------------------------------- ________________ ४५८ शिशुपालवधे त्यर्थः । 'सर्वनाम्नस्तृतीया च' इति चकारात्षष्टी । व्योम्नि आसीनानामवस्थितानाम् । 'ईदासः' इति शानच ईकारः । स्वर्गस्त्रीणाममरनारीणामर्पयामास नूनम् ॥ कंचिद्रादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन । हस्ताग्रेण प्राप्तमेवाग्रतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ ४९ ॥ कंचिदिति ॥ दूरादायतेनान्तःक्षतेन विक्षतेन अत एव दृढीयसा प्रासेन प्रोतं स्रोतो यत्र तेन हस्ताग्रेण करणेन अग्रतः प्राप्तमपि कंचिद्भटें ग्रहीतुमादातुं वारणस्यानीश्वरस्य भाव आनैश्वर्यमसामर्थ्यमभूत् । 'नजः शुचीश्वर-' इत्यादिना नपूर्वपदोभयपदवृद्धिः । अत्रानैश्वर्यासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटिताया गजेन । दिव्या मूर्तिव्योमगैरुत्पतन्ती वीक्षामासे विसितैश्चण्डिकेव ॥५०॥ तन्वा इति ॥ गजेन स्फोटिताया विदारितायाः पुंसः कस्यचिद्वीरस्य तन्वाः शरीरारकंसेन स्फोटितायाः नन्दगोपात्मजाया नन्दकन्याया इवोत्पतन्ती दिव्या मूर्तिः चण्डिकेव नन्दकन्याशरीरादाविर्भवन्ती कालिकेव विस्मितोमगैः खेचरैर्वीक्षामासे वीक्षिता । ईक्षतेः कर्मणि लिट् । 'इजादेश्व गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । मनुष्यभावमुत्सृज्य देवभावं गतेत्यर्थः। उपमा व्यक्ता । पुरा किल दुरात्मनः कंसस्य प्रतारणाय भगवदाज्ञया तन्मायाशक्तिनन्दगोपाजाता कंसेन हिंसितेति पौराणिकाः ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । सास्थिस्वानं दारुवदारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ५१ आक्रस्येति ॥ दारुणात्मा क्रुद्धचित्तो दन्ती एका जङ्घामग्रपादेनाक्रम्यान्यां जङ्घामुच्चैरुन्नतेन करेणाददान आकर्षयन् । सास्थिस्वानं भज्यमानास्थिचटचटाशब्दयुक्तं यथा तथा कंचिद्वीरं दारुवाकाष्ठवन्मध्यात्पाटयामास । मध्यं विभज्य पाटयामासेत्यर्थः । ल्यब्लोपे पञ्चमी । उपमालंकारः ॥ शोचित्वाग्रे भृत्ययोर्मृत्युभाजोर्यः प्रेम्णा नो तथा वल्लभस्य । पूर्व कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः॥५२॥ शोचित्वेति ॥ ऋच्छतीत्यर्यः । 'अर्यः स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपातः । अग्रे समक्षमेव मृत्युभाजोमरणं गतयोभृत्ययोः शोचित्वा वल्लभस्यैतयोर्मध्ये प्रियभृत्यस्य संबन्धिना प्रेम्गा। तद्गतप्रेम्णेत्यर्थः । तथा तेन प्रकारेणान्तर्दाहं संतापं नो आप । यथा येन प्रकारेणेतरस्याऽवल्लभस्य पूर्व जीवनकाले प्रसादं प्रीतिदानाद्यनुग्रहं न कृत्वा पश्चात्तापाद्धतोऽयमस्माभिरप्रीणित एव प्राणान्प्रादादित्यनुशयाद्दाहमाप। प्रियभृत्यमरणादप्यसमानितभृत्यमरणमेव खामिनो दुःसहदुःखहेतुरासीदित्यर्थः । स्वभावोक्तिः ॥ Page #471 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः। ४५९. उत्प्लुत्यारादर्धचन्द्रेण लूने वक्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो विभ्ये वल्गतः सासिपाणेः ५३ उत्प्ठत्येति ॥ अर्धचन्द्रेण बाणेन लूने छिन्ने तथापि क्रोधेन दष्टा ओष्टौ यैस्तथाभूता दन्ता यस्य तस्मिन् अन्यस्य योधस्य वने आरादनतिदूरमुप्लुत्य ! 'आरादरसमीपयोः' इत्यमरः । भूयः पुनरपि कण्ठस्य छेदः छिन्नदेशः तत्र लीने स्थिते सति वल्गतो नृत्यतः सासिः पाणिर्यस्य तस्मात्कबन्धादपमूर्धकलेवरात् । 'भीत्रार्थानां भयहेतुः' इति पञ्चमी । सैन्यैर्बिभ्ये भीतम् । भावे लिट् । लूनस्यापि वक्रस्य पुनः स्वस्थानपातित्वावलगनासिधारणाभ्यां कबन्धादप्यकबन्धभ्रान्त्या सर्वे बिभ्यरित्यर्थः । अत एव भ्रान्तिमदलंकारः॥ तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः । नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुचैहास ॥ ५४ ॥ तूर्यारावैरिति ॥ आहिताः संपादिता उत्तालाः प्रस्फुटास्तालाः करपुटादिकालक्रियामानानि येषु तैः। 'तालः कालक्रियामानम्' इत्यमरः। तूर्यारावैर्मृदङ्गादिवाघघोषैस्तथा काहलं भृशं गायन्तीभिः ध्वनन्तीभिः काहलाभिः शुष्कैर्वाद्यविशेषैश्च कारणैः । 'काहलं भृशशुष्कयोः। वाद्यभाण्डविशेषे तु काहलः काहला खले' इति विश्वः । काये अपमूर्ध्नि कलेवरे। अत एव चक्षुःशून्यो दृष्टिरहितो हस्तप्रयोगो यस्मिन्कर्मणि तत्तथा नृत्ते नृत्यति सति । कर्तरि क्तः । कूजन्ध्वनन्कम्बुः शङ्खः । तटस्थ इवेत्यर्थः । उच्चैस्तरां जहास । दृष्टिशून्याभिनयस्य नाट्यशास्त्रविरोधादट्टहा. समकरोदित्यर्थः । व्यञ्जकाप्रयोगाद्दम्योत्प्रेक्षा । 'अङ्गैरालापयेद्गीतं हस्तेनार्थ प्रद. शयेत् । दृष्टिभ्यां भावयेद्भावं पादाभ्यां तालनिर्णयः ॥' इति नाट्य विदः ॥ प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तेराकिरन्ति स्म कंचित् । एकौधेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा माल्यैः साधुवादद्वयेऽपि ॥५५॥ प्रत्यावृत्तमिति ॥ स्वसैन्ये भङ्गभाजि सति प्रत्यावृत्तमभ्यमित्रं कंचिद्वीरं तुल्यमेककालं मुक्तैः स्वर्णपुङः शरविशेषैः एकौघेन एकप्रहारेण द्विषन्तः आकिरन्ति स्म । सिद्धाः खेचराः माल्यैर्दिव्यमालाभिः । चातुर्वर्ष्यादित्वात्प्यप्रत्ययः । आकिरन्ति स्म । द्वयेऽपि द्विषन्तः सिद्धाश्च साधुवादैः साधु साध्विति वाक्यराकिरन्ति स्म । एतत्रितयमपि युगपत्प्रवृत्तमित्यर्थः । अत्र स्वर्णपुङ्खसुरमाल्यसाधुवादानां प्रकृतानामेव तुल्यकालैकौघप्रवृत्तिसाम्यादौपम्यावगमास्के. वलप्रकृतास्पदा तुल्ययोगिता ॥ बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् । संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः ससरे वारणानाम् ५६ बाणेति ॥ बाणैराक्षिप्ताः पातिताश्चारोहाः सादिनो येभ्यस्तानि अत एव शून्यानि रिक्तान्यासनानि आस्तरणानि येषाम् । अत एवान्यैः सैन्यैः परसैनिकै Page #472 -------------------------------------------------------------------------- ________________ शिशुपालवधे ग्रहीतुं प्रक्रान्तानामारब्धानाम् । समन्तादवरुध्यमानानामित्यर्थः । अत एव संर. ब्धानां क्षुभितानां अत एव आजिभूमौ भ्राम्यतामनवतिष्ठमानानां वारणानां वा. रैर्वृन्दैः वारी बन्धनस्थानम् । 'वारः सूर्यादिदिवसे वारो वरणवृन्दयोः । वारी कटीभबन्धन्योः' इति विश्वः । सस्मरे स्मृता । तद्धर्मयोगादिति भावः । कर्मणि लिट् । अत्र शून्यासनत्वादीनां विशेषणगत्या वारीस्मरणहेतुत्वाकाव्यलिङ्गम् ॥ पौनःपुन्यादसगन्धेन मत्तो मृगन्कोपालोकमायोधनोाम् । पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥५७।। पौनःपुन्यादिति ॥ अत्र आयोधनोा युद्धभूमौ पौनःपुन्यात् । पुनःपुनरावृत्तेरित्यर्थः ! ब्राह्मणादित्वात्ष्यन्प्रत्ययः। अव्ययानां भमात्रे टिलोपस्य सायंप्रातिकाद्यर्थमुपसंख्यानमिति टिलोपः । अस्रगन्धेन । रक्तगन्धाघ्राणादित्यर्थः । मत्त इभेन्द्रो महागजः कोपाल्लोकं जनं मृद्गन्क्षुन्दन् पादे लग्नामीषदसमाप्तां पाशी. कल्पां पाशबन्धसदृशीम् । 'पाशस्त्वश्वादिबन्धनम्' इति विश्वः । 'बह्वादि. भ्यश्च' इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप-' इत्यादिना इस्वो न भवति । आयतां दीर्घा मालामाचकर्ष । पाशीकल्पेत्यत्र तद्धितगता पूर्णोपमा । कश्चिन्मूच्र्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य । उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्याकूता नाकनारी मुमूर्छ ।।५८।। कश्चिदिति ॥ गाढः प्रहारो यस्य सः कश्चिद्वीरो मूर्छामेत्य वारणस्य शीतैः शीकरैः पुष्करतुषारैः सिक्तः सन् उच्छश्वास उज्जीवति स्म, किंतु तं मूर्छामागतं जिवृक्षुर्ग्रहीतुमिच्छुः । ग्रहेः सन्नन्तादुप्रत्ययः । प्रस्थिता । तं वरीतुमागतेत्यर्थः । नाकनारी व्यर्थाकूता तदुजीवनाद्विफलमनोरथा सती मुमूर्छ । अत्राकृतवैयर्थ्यस्य विशेषणगत्या नाकनारीमूर्छा हेतुत्वाकाव्यलिङ्गं मूर्छासंबन्धातिशयोक्त्या संकीर्यते ॥ लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । से मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्रचन्द्रैः ॥ ५९॥ लूनग्रीवादिति ॥ अपरस्य सायकेन लूनग्रीवाच्छिन्नकण्ठात् अत एवं द्यामाकाशं प्रति आशु उच्चैरुत्पतिष्णोरुत्पतनशीलात् । 'अलंकृञ्-' इत्यादिना इष्णुच्प्रत्ययः । अत एव सिंहिकाया अपत्यं पुमान्सँहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुतुदः' इत्यमरः। 'स्त्रीभ्यो ढक्' । तमनुकरोतीति तदनुकारात् । तत्सदृशादित्यर्थः । कर्मण्यण्प्रत्ययः । रौद्राकारागीषणाकृतेरस्य वीरस्य आननान्मुग्धैः सुन्दरैरप्सरसां वरेव चन्द्रस्त्रेसे त्रस्तम् । भावे लिट् । अत्र राहुहेतुकबासस्य चन्द्र एव संभवाद्वऋचन्द्ररिति रूपकं सिद्धम् । तस्य सैंहिकेयानुकारादिति स्पष्टोपमापेक्षत्वात्संकरः ॥ Page #473 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः। ४६१ वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुचं जगाम । त्यक्त्वा नाग्नौ देहमेति स यावत्पनी सद्यस्तद्वियोगासमर्था ॥६०॥ वृत्तमिति ॥ काचिदमरनारी युद्धे वृत्तं मृतम् । 'वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते' इति विश्वः । शूरमाश्लिष्य रन्तुं तूर्ण मेरोः कुझं गह्वरं जगाम यावत्तद्वियोगासमर्था तद्विरहासहा पत्नी सद्योऽग्नी देहं त्यक्त्वा नैति स्म नाजगाम । अत्र मेरुकुासंबन्धेऽपि संबन्धोकेरतिशयोक्तिः ॥ त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः । प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वेव कंचित्पुरंधी ॥६१॥ त्यक्तेति ॥ संयुगे युद्धे त्यक्तप्राणं कंचिद्वीरं हस्तिन्यां तिष्ठतीति हस्तिनीस्था करिणीमारूढा सती वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुर्गतप्राणा स्वैव पुरंध्री स्वभा. र्यैव सतीत्वात्पतिव्रतात्वादखण्डमक्षयं देवभूयं देवत्वम् । 'भुवो भावे' इति क्यप् । प्राप्याशिश्लेष । स्त्रीणां पातिव्रत्यमेव पतिसालोक्यनिदानं नाभिप्रवेशा. दिकमिति भावः । अत्र सतीत्वस्य विशेषणगत्या देवभूयहेतुत्वानुक्तेन काव्यलि. ङ्गम् । अतिशयोक्त्यादिकं तु यथासंभवमूह्यम् ॥ स्वर्गवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्भेजे दिव्यनार्या परमिंल्लोके लोकं प्रीणयन्त्येह कीा ॥६२॥ स्वर्गवासमिति ॥ कश्चिद्वीरश्चिराय चिरकालं स्वर्गेवासम् । 'शयवासवासिप्वकालात्' इति विकल्पादलुक् । कारयन्त्या अनुभावयन्त्या अहन्यहनि प्रत्यहम् । 'नपुंसकादन्यतरस्याम्' इतव्ययीभाव समासान्तष्टचूप्रत्ययः। 'अव्ययानां भमात्रे टिलोपः' इत्युक्तम् । प्रत्यग्रत्वं नूतनत्वं धारयन्त्या । परप्रेमास्पदत्वादिति भावः । लोकं प्रीणयन्त्या अद्भुतत्वं प्रापयन्त्या । प्रीजो ण्यन्ताल्लटः शतरि डीप् 'धूप्री. जोर्नुग्वक्तव्यः' इति नुगागमः । दिव्यनार्या, परस्मिल्लोके इह लोके कीर्त्या च भेजे प्राप्तः। भजेः कर्मणि लिट्र । रणमरणाल्लोकद्वयमपि जिगायेत्यर्थः । अत्र दिव्याङ्गनाकीयोः प्रकृतयोरेव तुल्यधर्मसंबन्धात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ गत्वा नूनं वैबुधं सम रम्यं मूर्छाभाजामाजगामान्तरात्मा । भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥६३॥ गत्वेति ॥ मूर्छाभाजामन्तरात्मा जीवः रम्यं वैबुधं सद्म दिव्यभवनं गत्वा आजगाम मूर्छासमये सुरलोकरामणीयकं दृष्ट्वा आजगाम । नूनमुत्प्रेक्षायाम् । कुतः। यद्यस्मात्प्राप्तसंज्ञा लब्धबोधाः सन्तः दृष्टप्रत्ययाः दृढविश्वासाः भूयः पुनरपि साधीयो गा(बा)ढतरम् । गा(बा)ढादीयसुनि 'अन्तिकबाढयोनॆदसाधौ' इति साधादेशः । रणाय रणं कर्तुमाद्रियन्ते । उत्सेहिर इत्यर्थः । कर्तरि लट् श्यन्प्र. त्ययः । कथंचिदुज्जीवितानां पुनर्मुत्युप्राप्तिः श्रेयोदर्शनहेतुकेति भावः ॥ Page #474 -------------------------------------------------------------------------- ________________ शिशुपालवधे कश्चिच्छस्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय । व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः६४ कश्चिदिति ॥ शस्त्रापातमूढः प्रहारमूर्च्छितः कश्चिद्वीरश्चेतना संज्ञां लब्ध्वा अपवोदुर्मू समये युद्धभूमेरपनेतुः सख्युमित्रस्योञ्चैः क्रोशतः आगच्छागच्छे. त्याक्रोशति सति । 'षष्ठी चानादरे' इति षष्ठी । कोशन्तमनादृत्येत्यर्थः । भूयः पुनरपि आहवाय रणाय व्यावर्तिष्ट, आत्मा देहस्त्यक्तश्च । तथाहि । लोकानुवृत्तिश्च का । नैवेत्यर्थः । सुहृजनानुरोधस्तु हितानर्थिनः परिच्छेत्तुं वृथेत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव । अन्योन्यावष्टम्भसामर्थ्ययोगादूर्वावेव स्वर्गतावप्यभूताम् ॥६५॥ भिन्नोरस्काविति ॥ शत्रुणा दूरादाकृष्य आसन्नत्वात्तयोरित्यर्थः । संनिकृष्टस्वादेकेषुणैव भिन्नोरस्कौ विदारितवक्षसौ कौचिद्वीरावन्योन्यावष्टम्भ एव सामध्यं तस्य योगात्स्वभावादूर्वावेव ऊर्ध्व तिष्ठन्तावेव स्वर्गतावपि मृतावभूताम् । अपिश्चार्थः । तत्र मृतयोरूर्वावस्थानासंबन्धेऽपि संबन्धोक्तरतिशयोक्तिः ॥ भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् । जीवनाहं ग्राहयामासुरन्ये योग्येनार्थः कस्य न स्याजनेन ॥६६॥ भिन्नानिति ॥ अन्ये वीरा अभिन्नान्विदारितान् अत एव मोहभाजो मूर्छाभाजो मूर्छागतानभिजातान्कुलीनान् । 'अभिजातः स्थितौ न्याये कुलीनप्राप्तयोरपि' इति विश्वः । हन्तुं लोकमुत्सुकं स्ववर्ग वारयन्तः जीवं गृहीत्वा जीवग्राहं ग्राहयामासुः । जीवमेव ग्राहयामासुरित्यर्थः । 'समूलाकृतजीवेषु हन्ग्र हः' इति णमुलप्रत्ययः । कषादित्वादनुप्रयोगः । जीवग्रहणप्रयोजनमर्थान्तरन्यासेनाह-तथाहि । योग्येन जनेन हेतुना कस्य पुंसोऽर्थः कीर्त्यादिप्रयोजनं न स्यात् । स्यादेव सर्वस्यापीत्यर्थः । अतो वीराणां रणेष्वप्यतिपरिक्षतरक्षणमेव श्रेयः । 'नातं नातिपरिक्षतम्' इति हनननिषेधादिति भावः ॥ भग्नर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि म भान्ति ६७ भग्नैरिति ॥ भग्नैर्दण्डैहेतुना। भग्नदण्डस्वादिति भावः । भूमौ पर्यस्तान्युत्तानपतितानि । प्रौढचन्द्रधुतीनि पूर्णेन्दुप्रभाण्यातपत्राणि । श्वेतच्छन्त्राणीत्यर्थः । प्रेतराजस्यान्तकस्याहाराय भोजनाय स्थापितानि विहितानि रौप्यस्थालानि राजतभाजनानीव भान्ति स्मेत्युत्प्रेक्षा ॥ रेजुभ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य।।६८॥ Page #475 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः । ४६३ रेजुरिति ॥ व्यसूनां मृतानां पार्थिवानां वक्षसो भ्रष्टाः पतिताः कुङ्कुमाङ्काः । कुङ्कुमारुणिता इत्यर्थः । मुक्ताहाराः पूर्णकामस्य सकलराजक संहारात्स फलमनोरथस्य अत एव पीतं रक्तमेवासवं येन तस्य मृत्योः हासादट्टहासाल्लक्ष्या दृश्या दन्ता रेजुरिति मन्ये इत्युत्प्रेक्षा ॥ निम्नेष्वोघीभूतमस्त्रक्षतानामत्रं भूमौ यवकासांचकार । रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ६९ निम्नेष्विति ॥ भूमौ निम्नेषु निम्न्नस्थलेष्वोघीभूतं राशीभूतमस्त्रक्षतानां संबन्धि यदस्रं रक्तं चकासांचकार दिदीपे । 'चकासृ दीप्तौ' इति धातोर्लिट् । 'कास्यनेकाच आम्वक्तव्यः' इत्याम्प्रत्यये कृञोऽनुप्रयोगः । तदस्रमन्तकान्तःपुरस्य कृतान्तावरोधस्य संख्यानानामुत्तरीयाणां रागार्थ रञ्जनार्थं कुसुम्भस्येदं कौसुम्भं अम्भः किं नु कुसुम्भद्रवो नु वेत्युत्प्रेक्षा ॥ रामेण त्रिःसप्तकृत्वो हदानां चित्रं चक्रे पञ्चकं क्षत्रियासैः । रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्संख्येऽसंख्या: प्रावहन्द्वीपवत्यः ७० रामेणेति ॥ रामेण भार्गवेण सामर्थ्यात्रीन्वारान् त्रिः । 'द्वित्रिचतुर्भ्यः सुच्' इति सुच्प्रत्ययः । त्रिरावृत्ताः सप्त त्रिःसप्तकृत्वः । एकविंशतिवारानित्यर्थः । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसुच् प्रत्ययः । क्षत्रियात्रै राजन्यरक्तैः चित्रमद्भुतं हृदानां पञ्च परिमाणमस्य पञ्चकम् | 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति सङ्घार्थे कन्प्रत्ययः । चक्रे कृतम् । तस्मिन्संख्ये युद्धे । 'मृधमास्कन्दनं संख्यम्' इत्यमरः । क्षणादेव रक्तैरेवाम्भोभिः असंख्या द्वीप - वत्यो नद्यः प्रावहन्प्रासरन् । रामेण बहुकालेन च स्यमन्तपञ्चकाख्यं इदपञ्चकमेव कथंचित्कृतम् । अत्र तु क्षणमात्रेणा संख्या नद्यः प्रवृत्ता इत्युपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालंकारः ॥ संदानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः । कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नमयोऽसृङ्मयीनाम् ॥ ७१ ॥ संदानान्तादिति ॥ शिक्षितास्त्रैरभ्यस्तास्त्रविधैरस्त्रिभिरायुधीयैः अधः रथानामधस्तादाविश्य प्रविश्य संदानान्ताद्बन्धनप्रदेशात् । गुल्फप्रदेशमधिकृत्येत्यर्थः । 'संदानं पशूनां पादबन्धनम्' इति विश्वः । शातं शितम् । 'शाच्छोरन्यतरस्याम्' इति विकल्पादीत्वाभावः । तेन शस्त्रेणावलूनाच्छिन्नाः । इभानामिमे ऐभाः अङ्गयश्चरणाः असृङ्मयीनां रक्तविकाराणां नदीनामन्तरभ्यन्तरे व्यक्तं कुमौपम्यं कमठोपमाम् । स्वार्थे ष्यञ्प्रत्ययः । अत एवौपम्यादयः चातुर्वर्ण्यवदिति वामनः । I प्रापन्प्राप्ताः । आपो लुङि 'पुषादि -' इति चलेरङादेशः । उपमा ॥ पद्माकारैर्योधवत्रैरिभानां कर्ण भ्रष्टैश्वामरैरेव हंसैः । सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषूच्चैस्तरद्भिः॥७२॥ Page #476 -------------------------------------------------------------------------- ________________ शिशुपालवधे पद्माकारैरिति ॥ उच्चैर्वी चिषु तरद्भिः प्लवमानैः पद्माकारैः कमलकरुपैर्योध. वर्भटमुखैरिभानां कर्णेभ्यो भ्रष्टैश्वामरैहँसैः सोपस्काराः सपरिकराः । 'संपर्युपेभ्यः करोती भूषणे' इति सुडागमः । अत्रतोया रक्तजलाः स्रोतस्विन्यो नद्यः प्रावहन् । अत्र रूपकोपमयोः संकरः सुगमः ॥ उत्क्रान्तानामामिपायोपरिष्टादध्याकाशं बभ्रमुः पत्रवाहाः । मूर्ताः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः ७३ उत्क्रान्तानामिति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणः । आमिषाय आमिषमत्तुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । उत्क्रान्तानां मृतानामुपरिष्टादध्याकाशमाकाशे। विभक्त्यर्थेऽव्ययीभावः । बभ्रमुःभ्रेमुः। 'वा भ्रमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । अत्रोत्प्रेक्ष्यते । दारुणास्त्रै?रास्त्रैः कायं त्याजिता विसर्जिताः । त्यजेय॑न्ताद्द्विकर्मकात्कर्मणि क्तः । ‘ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । मूर्ता मूर्तिमन्तः प्राणा अद्येदानीमपि कायमवेक्षामासुः पूर्वाभिमानात्पुनः कायप्रवेशापेक्षिणो मूर्ताः प्राणा एव नूनमारान्द्रमन्ती. त्युत्प्रेक्षार्थः । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः 'आम्प्रत्ययवत्-' इत्यत्र कृञ एवेति नियमादस्ते त्मनेपदम् ॥ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः । आदौ रक्तं सैनिकानामजीवै वैः पश्चात्पत्रिपूगैरपायि ॥ ७४ ॥ आतन्वद्भिरिति ॥ दिक्षु पत्राननादं पक्षान्तघोषमातन्वद्भिर्विस्तृणद्भिर्दूरादाशु प्राप्तैरागतैरजीवरचेतनैः । पचाद्यजन्तेन नन्समासः । पत्रिपूगैः । बाणवातैरित्यर्थः । तीक्ष्णैर्मुखाग्रैः करणैः सैनिकानां रक्तमपायि पीतम् । पिबतेः कर्मणि लुङ् । 'अतो युक्किण्कृतोः' इति युगागमः । पश्चाजीवैश्चेतनैः पत्रिपूगैः पक्षिसङ्घः कर्तृभिस्तीक्ष्णैर्मुखात्रैश्च पुटैः करणैरपायि । अनोभयेषां पत्रिणां प्रकृतत्वात्केवलप्रकृतविषयः श्लेषः ॥ ओजोभाजां यद्रणे संस्थितानामादत्तीनं सार्धमङ्केन नूनम् । ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥५॥ ओजोभाजामिति ॥ दीप्ता ज्वलन्ती जिह्वा यस्याः सा दीप्तजिह्वा शिवा । रणे संस्थितानां मृतानामोजोभाजामोजस्विनामङ्गेन गात्रेण साधं यत्तीनं तिग्म तेज आददभक्षयत् । अदेर्लङ् 'अदः सर्वेषाम्' इत्यडागमेऽपृक्तस्य 'आडजादीनाम्' इत्याडागमोऽङ्गस्य 'आटश्च' इति वृद्धिः । तदन्तरन्तरेऽन्तरितं तेजो ज्वालाव्याजान्मुखोल्काच्छलादुद्वमन्ती तारमुच्चैर्ववाशे रौति स्म । 'तिरश्चां वाशितं रुतम्' इत्यमरः । नूनमित्युत्प्रेक्षायाम् । अत्र व्याजशब्देन ज्वालात्वापह्नवेन तेजस्त्वोत्प्रेक्षणे सापह्नवोत्प्रेक्षेति सर्वस्वकारः ॥ Page #477 -------------------------------------------------------------------------- ________________ अष्टादशः सर्गः। नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन । योद्धर्बाणप्रीतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥७६॥ नैरन्तर्येति ॥ नैरन्तर्येणाविच्छेदेन छिन्नं देहस्यान्तरालं यस्मिन्कर्मणि तद्यथा तथा बाणैः प्रोतं स्यूतम् अत एव दुर्भक्षस्य भक्षितुमशक्यस्य । कृच्छ्रार्थे खलप्रत्ययः। योद्धर्योधस्य संबन्धि मांसं ज्वालिना ज्वालावता वाशितेन रुतेन । शिवानां वाशने जिह्वा ज्वलतीति प्रसिद्धिः । आदीप्य प्रज्वाल्य । बाणदाहाय मांसपाकाय चेति भावः । अत एव पाकेनापूर्वोऽभिनवः स्वादो रुचियस्य तत्तथा शिवाभिर्गोमायुभिः। 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । आदे जघसे। भक्षितमित्यर्थः। 'लिट्यन्यतरस्याम्' इति विकल्पाददेन घस्लादेशः। वाशितोत्थया जिहाज्वालया दग्धेषुप्रतिबन्धेन पाकरुचिरं जघस इत्यर्थः। अत्र पाकपूर्वस्वादाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः॥ ग्लानिच्छेदी क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्यस्खनच्च ॥७७॥ ग्लानीति ॥ कोष्टा जम्बुकः क्षुत्प्रबोधाय ग्लानिच्छेदी खेदहारी शोषितो जारितः अजीर्णशेषो येन तद्रक्तमेवारिष्टं पानविशेष इति रूपकम् । तत्पीत्वा स्वादुंकारं स्वादूकृत्य । 'स्वादुमि-' इति णमुल । कालखण्डेन यकृता उपदंशम् । कालखण्डमुपदंशं कृत्वेत्यर्थः। 'कालखण्डयकृती तु समे' इत्यमरः। 'उपदंशस्तृतीयायाम्' इति णमुल । कालखण्डस्य दशनक्रियाकर्मत्वेऽपि भुजिक्रियाकरणत्वात्तृतीयोपपदतया 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति विकल्पेनोपपदसमासः। डिम्बं कलेवरं व्यष्वणत् । भुक्तवानित्यर्थः। 'वेश्च स्वनो भोजने' इति पत्वम् । व्यस्वनदवादयच्चेति समुच्चयः। अभोजनार्थत्वात्पत्वं न॥ क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि। आभीलानि प्राणिनःप्रत्यवस्सन्कालो नूनं व्याददावाननानि।।७८॥ क्रव्यादिति ॥ क्रव्यमदन्तीति ऋव्यादो मांसभक्षकाः कङ्कगृध्रादयः। 'क्रव्ये च' इति विट् प्रत्ययः। तेषां पूगैः कर्तृभिः मेदसो वसायाः। 'मेदस्तु वपा बसा' इत्यमरः। प्रत्याशाभिस्तृष्णाभिर्दारितानि मेदस्वित्वभ्रान्त्या पाटितान्यानकानां तूर्याणां पुष्कराणि मुखानि । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले' इत्यमरः । प्राणिनः करितुरगादीन्प्रत्यवस्यन्नभ्यवहरन् । 'अभ्यवहारः प्रत्यकसनं भोजनं जग्धिः' इति हलायुधः। कालोऽन्तकः आभीलानि भयंकराणि । 'आभीलं भीमकृच्छ्रयोः' इति विश्वः। आननानि व्याददौ विददार। 'आङो दोऽनास्यविहरणे' इत्यस्य प्रत्युदाहरणमेतत्। यानि विदारितानि पुष्कराणि तान्येवाननानि । नूनमित्युत्प्रेक्षायाम् ॥ Page #478 -------------------------------------------------------------------------- ________________ शिशुपालवधे कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः । बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ ७९ ॥ कीर्णेति ॥ अप्राणद्भिरजीवद्भिः। भिन्नत्वान्निष्प्राणरित्यर्थः । 'अन प्राणने' इति धातोर्लटः शनादेशः। प्राणभाजां प्राणिनां प्रतीकैरवयवैः। 'अङ्गं प्रती. कोऽवयवः' इत्यमरः। समन्तात्कीर्णा सा आजिभूमिः ईषदसमाप्तारम्भैरिति बरारम्भैः। किंचिदूनसृष्टैरित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु' इति बहु प्रत्ययः। तथासंयोजितैरर्धसृष्टैश्च रूपैराकारैः । 'रूपं स्वरूपे सौन्दर्य आकारश्लेषयोरपि' इति विश्वः। कीर्णा स्रष्टुः धातुः सृष्टिकर्मान्तशाला वा। सृष्टि. कर्मणो नियतागारमिव रेज इत्युत्प्रेक्षा ॥ आयन्तीनामविरतरयं राजकानीकिनीना मित्थं सैन्यैः सममलघुभिः श्रीपतेरूमिमद्भिः। आसीदोधैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ ८० ।। इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके संकुलयुद्ध वर्णनो नामाष्टादशः सर्गः ॥ १८॥ आयन्तीनामिति ॥ इत्थमुक्तरीत्या अविरतरयमविच्छिन्नवेगं यथा तथा आयन्तीनामभिधावन्तीनामौद्धत्यभाजां प्रागल्भ्यभाजां राज्ञां समूहा राजकानि । 'गोत्रोक्ष-' इत्यादिना वुञ् प्रत्ययः। तेषामनीकिन्यः सेनास्तासां राज. कानीकिनीनां अलघुभिर्महद्भिरूमिमद्भिस्तरङ्गवद्भिः श्रीपतेः कृष्णस्य सैन्यैः समं सेनाभिः सह अपां समूह आपम् । 'भिक्षादिभ्योऽण् । आपेन गच्छ. न्तीति आपगानामुक्तविशेषणविशिष्टानां वारिधेरोघैः प्रवाहैरिव कृतो गुरुतरध्वनिमहाध्वनियस्मिंस्तन्महद्दोलायुद्धं अनियतजयपराजययुद्धं मुहुरासीत् । उपमा । मन्दाक्रान्ता वृत्तमेतत् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध काव्यव्याख्यायां सर्वंकषाख्यायामष्टादशः सर्गः ॥ १८ ॥ Page #479 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः । एकोनविंशः सर्गः । Trates तदेवमष्टादशसर्गे तुमुलं युद्धमभिधायेदानीमे कोनविंशतिसगँ द्वन्द्वयुद्धमानुटुभेन छन्दसा चित्रबन्धेन वर्णयितुमारभते — अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा । नृपाङ्घिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ १ ॥ ४६७ अथेत्यादि ॥ अथैवं तुमुलयुद्धानन्तरं। रणोऽटवीवेत्युपमितसमासः । अभिबदिति तद्धितैौपम्यलिङ्गात् । एवमुत्तरत्रापि द्रष्टव्यम् । तस्यां रणाटव्यामसुहृदः शत्रवो वेणवे वंशा इव । 'वेणुमस्करतेजनाः' इति वंशपर्यायेध्वमरः । तान्दारयति यस्तेनासुहृद्वेणुदारिणा वेणुदारिणा बाणात्मजेन नृपा अङ्घ्रिपाः पादपा इव तेषामोघाः सङ्घास्तेषां संघर्षान्मत्सराच्छेषाच्च अग्निवदग्नितुल्यम् । 'तेन तुल्यम् -' इति तुल्यार्थे वतिप्रत्ययः । उत्तस्थे उत्थितम् । भावे लिट् । अत्राग्निचदिति तुल्यार्थेन वतिना धर्मव्यवधाने सादृश्यप्रतिपादिना उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकानां चतुर्णां चोपादानाश्चेयमार्थी तद्धितगता पूर्णोपमा । सा च रणाटव्यादिसमासगतोपमासापेक्षेति संकरः । सर्गेऽस्मिन्नानुष्टुभं वृत्तम् । 'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छुोकस्य लक्षगम् ॥' इति तलक्षणात् । अत्रैकान्तरक्रमेण यमकाद्यन्यतमशब्दालंकारनियमः सर्वत्र यथासंभवमर्थालंकारश्च । तंत्र यमकलक्षणमुक्तं दण्डिना - 'अव्यपेतव्यपेतारमा व्यावृत्तिर्वर्ण संहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादैर्यमकानां विकल्पना । आदिमध्यान्तमध्यान्तमाध्याद्याद्यान्त सर्वतः ॥ इति । अत्रेदं समपादान्तं यमकं द्विपादयमकभेदः ॥ आपतन्तममुं दूरादूरीकृतपराक्रमः । arotsaahयामास मातङ्गमिव केसरी ॥ २ ॥ आपतन्तमिति ॥ आपतन्तमाधावन्तमसुं वेणुदारिणं दूरात् ऊरीकृतपराऋनोऽङ्गीकृतपौरुषस्तेन । सहानुगतसंप्रहार इत्यर्थः । बलो बलभद्रः केसरी सिंहो मातङ्कं गजमिवावलोकयामास । अनयोरिव तदन्तरमिति भावः । अतोऽलंकारेण वस्तुध्वनिः ॥ जजौजोजाजिजिज्जाती तं ततोऽतिततातितुत् । भाभोsभीभाभिभूभाभूरारारिररिरीररः ॥ ३ ॥ ॥ एकाक्षरपादः ॥ जाविति ॥ ततोऽवलोकनानन्तरं जजन्तीति जजा योधाः । 'जज युद्धे' पचाद्यच् । जजानामोजसा जाता जजोजोजा तामाजिं जयतीति नजौजोजा जि Page #480 -------------------------------------------------------------------------- ________________ शिशुपालवधे जित् । जयतेः विप् । जजतीति जाजी योधी। ताच्छील्ये णिनिः। भतिततानत्युद्धतानतितुदति अतिव्यथयतीत्यतितुत् । तुदतेः क्विप् । भस्याभेवाभा यस्य स भाभो नक्षत्रकान्तिः। 'नक्षत्रमृक्षं भं तारा' इत्यमरः। नास्ति भीर्येषां तेऽभियो निर्भीकाः तानिभान्गजानभिभवतीति अभीभाभिभूः। क्विप् । तस्याः भासस्तेजसो भूः स्थानम् अभीभाभिभूभाभूः। अराः सन्त्येषामित्यरीणि चक्राणि तैः रिणन्ति गच्छन्तीति अरिरयो रथाः। ‘री गतिश्लेषणयोः' इति धातोः विप् । तेषां ईरं प्रेरणं राति अरिरीररो रथिकः । 'आतोऽनुपसर्गे कः' । अरिः शत्रुर्बलभद्रः तं वेणुदारिगं आर। यो माससारेत्यर्थः। 'ऋ गतो' इति धातोलिट् द्विर्भावे कृते णलि वृद्धिः अभ्यासस्योरदत्वे 'अत आदेः' इति दीर्धे पुनः सवर्णदीर्घः । भिन्नैकाक्षरपादाख्योऽनुप्रासभेदः। भाभ इत्युपमानुप्रासयोरेकवाचकानुप्रवेशलक्षणसंकरः ॥ भवन्भयाय लोकानामाकम्पितमहीतलः। निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ ४ ॥ भवन्निति ॥ लोकानां जनानां, जगतां, च 'लोकस्तु भुवने जने' इत्यमरः । भयाय भवनसंपद्यमानः । भयं जनयन्नित्यर्थः । 'क्लपि संपद्यमाने च' इति क्लुपेरर्थनिर्देशाच्चतुर्थी । आकम्पितमहीतलः । भूकम्पं कुर्वन्नित्यर्थः । निर्घोषेण भीमो भयंकरः तस्य बलभद्रस्य रथो निर्घात इवापतदधावत् । श्रौती पूर्णोपमा॥ रामे रिपुः शरानाजिमहेष्वास विचक्षणे । कोपादथैनं शितया महेष्वा स विचक्षणे ॥५॥ राम इति ॥ रिपुर्वेणुदारी आजिमहेषु रणोत्सवेष्विति रूपकम् । 'मह उद्धव उत्सवः' इत्यमरः। विचक्षणे प्रगल्भे । विचष्ट इति कर्तरि ल्युडिति न्यासकारः 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिङः ख्याजादेशाभावः । रामे वलभद्रे शरान् आस चिक्षेप । अस्यतेर्लिट् 'अत आदेः' इत्यभ्यासदीधै सवर्णदीर्घः । कोपात्स राम एनं वेणुदारिणं शितया शातया। 'शाच्छोरन्यतरस्याम्' इतीत्वम् । महेष्वा महेषुणा । 'पत्री रोप इपुर्द्वयोः' इत्यमरः । विचक्षणे जघान। 'क्षणु हिंसायाम्' इति धातोः कर्तरि लिट् । अभिन्नसमपादो नाम पादाभ्यासयमकभेदः। एवमुत्तरत्रापि द्रष्टव्यम् ॥ दिशमर्कमिवावाची मागतमपाहरत् । मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः॥६॥ दिशमिति ॥ मूर्छागतं रामेषुपातान्मोहमुपगतम् । अत एव मन्दप्रतापमल्पप्रकाशं तं वेणुदारिणमवाची दक्षिणां दिशं प्राप्तम् । अत एव मन्दप्रतापमर्कमिव सूतः सारथिरनूरुश्च आजेविहायसः आकाशादिवाजिविहायस इत्युपमितसमासः । शीघ्रमपाहरदपसारितवान् । उपमालंकारः ॥ Page #481 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४६९ कृत्वा शिनेः शाल्वचमं सप्रभावा चमूर्जिताम् । ससर्ज वक्रैः फुल्लाजसप्रभा वाचमूर्जिताम् ॥ ७॥ कृत्वेति ॥ प्रभावेण सह वर्तत इति सप्रभावा महानुभावा शिनेः सात्यकिपितामहस्य चमूः सेना। शाल्वो नाम चैद्यपक्षो राजा तस्य चमू सेनां जितां कृत्वा । जित्वेत्यर्थः । अत एव वर्मुखैः । 'येनाङ्गविकारः' इति तृतीया । विकासस्यापि विकारत्वात् । फुल्लाजस्य प्रफुल्लारविन्दस्य सप्रभा समानप्रभा । हर्षेण विकासितवत्रा सतीत्यर्थः । ऊर्जितामुदारां वाचं ससर्ज के यूयमसदन इत्याधुच्चैर्जगर्ज । जगादेत्यर्थः । उपमायमकयोः संसृष्टिः ॥ उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंचयम् । तेजःप्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८॥ उल्मुकेनेति ॥ दिक्षु तेजः प्रभावं प्रकाशं च प्रकिरता विक्षिपता उल्मुकेन भागवतेन राज्ञा, अलातेन च संकुचन्ती पत्रसंपद्वाहनसंपत्पर्णसमृद्धिश्च यस्य तम् । सप्रतापं सपराक्रम, प्रकटतापसंहितं च । दुमं द्रुमाख्यं राजानं, वृक्षं च प्राप्यादीप्यत प्रजज्वले । भावे लङ् । अत्राभिधायाः प्रकृतार्थे नियत्रणादप्रकृतार्थप्रतीतिर्ध्वनिरेव न श्लेषः ॥ पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः। तयैव वाचापगमं ययाचापमुदा युधः॥९॥ पृथोरिति ॥ रुक्मी भीष्मकात्मजो रुक्मिणीभ्राता उदायुध उद्यतायुधः सन् यया वाचा पृथो राज्ञश्चापमध्यक्षिपत् धिगिदं वृथा कष्टमिति निनिन्द । अपगता मुद्यस्यास्तयापमुदा निरुत्साहया तयैव वाचा युधो युद्धादपगममपसरणं ययाच । मां त्राहि पलायमानं शरणागतोऽस्मीति प्रार्थयामासेत्यर्थः । याचिरुभयपदी ॥ समं समन्ततो राज्ञामापतन्तीरनीकिनीः । काणिः प्रत्यग्रहीदेकः सरस्वानिव निम्नगाः ॥१०॥ सममिति ॥ समं युगपत्समन्तत आपतन्तीरागच्छन्ती राज्ञां चैद्यपक्षाणामनीकिनीः सेनाः । कृष्णस्यापत्यं पुमान्काणिः प्रद्युम्नः 'अत इञ्' । निम्नगा नदी सरस्वान्समुद्र इवैकोऽसहायः प्रत्यग्रहीत्प्रत्यवरुरोध ॥ दधानैर्घनसादृश्यं लसदायसदंशनैः। तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः॥ ११ ॥ दधानैरिति ॥ लसन्ति आयसान्ययोमयानि दंशनानि वर्माणि येषां तैः । "तनुत्रं वर्म दंशनम्' इत्यमरः । अत एव घनसादृश्यं कायान्मेघसाम्यं दधा. नैस्तैः सैनिकैः तत्र काष्णो काञ्चनसच्छाया सुवर्णवर्णा शर एवाशनिः विद्युत्स ४० शिशु Page #482 -------------------------------------------------------------------------- ________________ शिशुपालवधे सृजे उत्सृष्टा । उपमारूपकयोः संसृष्टिः । ओध्यवर्णविरहान्निरौष्ट्यं चित्रभेदः शब्दालंकारः ॥ नखांशुमञ्जरीकीर्णामसौ तरुरिवोचकैः। बभौ विभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १२ ॥ नखेति ॥ नखांशवो मार्य इव ताभिः कीर्णा व्याप्ताम् । अधिरूढाः शिलीमुखा बाणाः, अलयश्च यस्यां ताम् । 'अलिबाणौ शिलीमुखौ' इत्यमरः । धनु:शाखेव तां बिभ्रदसौ कार्णिरुच्चकैरुन्नतस्तरुरिव बभौ । तरुरिवेति लिङ्गात्सर्वत्रोपमितसमासः । शिलीमुखेति श्लिष्टविशेषणेयमुपमा ॥ प्राप्य भीममसौ जन्यं सौजन्यं दधदानते । विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १३॥ प्राप्येति ॥ अरिपूगानां शत्रुसङ्घानामन्तकः अरिपूगान्तकोऽसौ काणि: भीम भयंकरं जन्यं युद्धं प्राप्य । 'युद्धमायोधनं जन्यम्' इत्यमरः । आनते नने सौजन्य सौहार्द दधत् न तु विध्यन् । 'न क्लीबं न कृताञ्जलिम्' इति निषेधादिति भावः। रिपून्प्रतिपक्षान्शरैविध्यन्प्रहरन् न मुमोच । न ररक्षेत्यर्थः। संदंशयमकभेदः ॥ कृतस्य सर्वक्षितिपैविजयाशंसया पुरः। अनेकस्य चकारासौ बाणैर्वाणस खण्डनम् ॥ १४ ॥ कृतस्येति ॥ असौ काणिः सर्वक्षितिपैर्विजयाशंसया विजयाकाङ्क्षया पुरोऽग्रे कृतस्य नियुक्तस्य प्रयुक्तस्य वा अनेकस्यानेकाकिनः। ससहायस्येत्यर्थः। अन्यत्रानेकस्य बहुसंख्यस्य बाणस्य बाणासुरस्य शरजातस्य च बाणैः खण्डनं छेद चकार । अत्र बाणयोर्द्वयोरपि प्रकृतत्वात्केवलप्रकृतयोः श्लेषः ॥ या बभार कृतानेकमाया सेना ससारताम् । धनुः स कर्षरहितमायासेनाससार ताम् ॥ १५ ॥ येति ॥ या सेना कृतानेकमाया कृतबहुकपटा सती ससारतां सारवत्तां बभार तां सेनां स काणिः धनुः कर्षन् । धनुषा विध्यन्नित्यर्थः। आयालेन रहितमनायासं यथा तथा अससार । अभियुक्तवानित्यर्थः । बाणं भक्त्वा तत्सेनां बभ त्यर्थः ॥ ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः । कुर्वन्नाजावमुख्यत्वमनयन्नाम मुख्यताम् ॥ १६ ॥ ओज इति ॥ महौजाः महाबलः प्रद्युम्न उत्तमौजसो नाम राज्ञः ओजस्तरक्षणादेवाधः कृत्वाभिभूय आजौ युद्धे अमुख्यत्वमप्रधानत्वं कुर्वन् , अथवा अमुख्यत्वममुख्यार्थत्वं तन्नाम्नः कुर्वन् नाम निजं प्रद्युम्ननामधेयं मुख्यतां प्रधानता प्रसिद्धार्थतां चानयत् । प्रकृष्टं घुम्नं बलं यस्येति प्रद्युम्न इति स्वामी ॥ Page #483 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४७१ दूरादेव चमूभल्लैः कुमारो हन्ति स स याः। । न पुनः सांयुगीं ताः स कुमारो हन्ति समयाः ॥१७॥ दूरादिति ॥ स कुमारः प्रद्युम्नः सस्मयाः सगर्वाः याश्चमूरादेव भल्लैबीणविशेषैर्हन्ति स्म जघान ताश्चम्बः पुनर्भूयः संयुगस्येमां सांयुगी कुं पृथ्वीं । रणभुवमित्यर्थः । 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः । न आरोहन्ति स नारूढाः ॥ निपीड्य तरसा तेन मुक्ताः काममनास्थया । उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥१८॥ निपीड्येति ॥ तेन प्रद्युम्नेन तरसा बलेन कामं निपीड्य अनास्थयानादरेण मुक्ताः । 'आर्ता न परिहन्तव्याः' इति निषेधेनावध्या इति जीवन्तो मुक्ता इत्यर्थः । अन्यत्र क्षिप्ताः विद्विषो विलक्षत्वं सत्रपत्वमाययुः । 'विलक्षस्तु पा. न्विते' इत्यमरः। शिलीमुखा बाणास्तु विलक्षत्वं लक्षभ्रष्टत्वं नाययुः । अत्र द्वयोरपि विलक्षणत्वयोरभेदाध्यवसायादयं व्यतिरेको विद्विषां शिलीमुखानां च प्रकृतत्वात्तुल्ययोगितौपम्याश्रित इति संकरः ॥ तस्यावदानैः समरे सहसा रोमहर्षिभिः। सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः॥ १९ ॥ तस्येति ॥ समरे तस्य प्रद्युम्नस्यावदानरत्युग्रकर्मभिः करणैः सहसा सद्यः रोमहर्षिभिः रोमाञ्चवद्भिः व्योमस्थैः सुरैः महर्षिभिः सह साधं सारो बलमशंसि शंसितम् ॥ सुगन्धयदिशः शुभ्रमम्लानि कुसुमं दिवः। - भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥ २० ॥ सुगन्धयदिति ॥ दिशः सुगन्धयत् सुगन्धाः कुर्वत्। सुगन्धात् 'तत्करोति-' इति ण्यन्ताल्लटः शत्रादेशः । शुभ्र धवलं अम्लानि म्लानिरहितं भूरि प्रभूतं 'कुसुमं दिवोऽन्तरिक्षात्तत्र प्रद्युम्ने अपतत् । तस्मात्प्रद्युम्नाद्यशः पूर्वोक्तगुणयुक्तं दिवमन्तरिक्षं प्रति उत्पपात । अत्र द्युप्रद्युम्नयोः कुसुमयशोभ्यामन्योन्योपस्कारजननादन्योन्यालंकारः । 'परस्परं क्रियाजननेऽन्योन्यम्' इति लक्षणात् ॥ सोढुं तस्य द्विषो नालमपयोधरवा रणम् । ऊणुनाव यशश्च द्यामपयोधरवारणम् ॥ २१॥ सोदुमिति ॥ अपगता भयानिवृत्ता योधानां रवाः सिंहनादा येषां ते अपयोधरवाः द्विषः शत्रवः तस्य काणेः रणं सोढुं नालमशक्ताः अतएव यशश्च अविद्यमानं पयोधराणां वारणं मेघप्रतिघातो यस्य तत् अपयोधरवारणं सत् द्यामू. णुनाव । मेघमण्डलं व्यतिलय स्वर्गमाच्छादयामासेत्यर्थः । ऊर्णोतेर्लिद । 'अजा. Page #484 -------------------------------------------------------------------------- ________________ ४७२ शिशुपालवधे 'देर्द्वितीयस्य' इति द्वितीयस्याचो द्विर्भावः । नुवद्भावादाम्प्रतिषेधः । यमकवा क्यार्थहेतुककाव्यलिङ्गयोः संसृष्टिः ॥ केशप्रचुरलोकस्य पर्यस्कारि विकासिना । शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ।। २२ ।। केशेति ॥ विकासिना विविधमार्गचारिणा, विकस्वरेण च कुसुमलक्ष्मणा पुष्पकेतुना प्रद्युम्नेन, अन्यत्र कुसुमचिह्वेन । तन्मयेनेत्यर्थः । केशवत्प्रचुराः प्रभूता लोका जना यस्मिंस्तस्य युद्धस्य शिरोऽग्रभूमिः, अन्यत्र केशैः प्रचुरस्य केशाढ्यस्य लोकस्य जनस्य शिरः मूर्धा शेखरेणापीडेनेव । शिखामाल्येनेवेत्यर्थः । ‘शिखास्वापीडशेखरौ' इत्यमरः । पर्यस्कारि परिष्कृतम् । भूषितमित्यर्थः । परिपूर्वात्करोतेः कर्मणि लिट् ‘संपर्युपेभ्यः करोतौ भूषणे' इति सुडागमः 'अडभ्यासव्यवायेऽपीति नियमात् 'परिनिविभ्यः - ' इत्यादिना पत्वे 'सिवादीनां वाङ्व्यवायेऽपि' इति विकल्पः । उपमालंकारः ॥ सादरं युध्यमानापि तेनान्यनरसादरम् । सादरं पृतना निन्ये हीयमाना रसादरम् || २३ || सादरमिति ॥ सादरं साभिनिवेशं युध्यमानापि संप्रहरन्त्यपि अरं द्रुतम् । हठादिति यावत् । रसाणे रागात् हीयमानापकृष्यमाणा । प्रद्युम्नमहिम्नेति भावः । अत एवात्र विरोधाभासोऽलंकारः । जहातेः कर्मणि लिटः शानजादेशः । सा पृतना वैद्यसेना तेन प्रद्युम्नन अन्येषां तटस्थानामपि नराणां सादं निश्चेष्टतां राति ददातीति अन्यनरसादरम् | 'आतोऽनुपसर्गे कः' इति प्रत्ययः । दरं भयम् । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । निन्ये नीता । नयतेः प्रधानेकर्मणि लिट् ' प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् विरोधाभासयमकयोः संसृष्टिः ॥ इत्यालिङ्गितमालोक्य जयालक्ष्म्या झषध्वजम् । क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ।। २४ ।। इतीति ॥ इतीत्थं जलक्ष्म्या आलिङ्गितं झषध्वजं मत्स्यकेतुं प्रद्युम्नम् । 'पृथुरोमा झषो मत्स्यः' इत्यमरः । आलोक्य सद्यः क्रुद्धया सपल्यागमात्कोपितयेवेत्युत्प्रेक्षा । कुधा प्रधुम्नाश्रितया रुषा कर्त्या चेदिभूपतिः प्रपेदे प्राप्तः । तं विहायेति शेषः । कामिन्यः प्रायेण साहसिक्यः सपत्नीगन्धमसहमानाः सद्यः पुरुषान्तरमाश्रयन्त इति भावः। विजयिनं प्रद्युम्नं दृष्ट्वा सद्यश्चैद्यश्व कोपेत्यर्थः ॥ अहितानभि वाहिन्या स मानी चतुरङ्गया । चचाल वल्गत्कलभसमानीचतुरङ्गया ।। २५ ।। अहितानिति ॥ मानी अभिमानवान्स क्रुद्धश्चैद्यः वल्गन्तः प्लवमानाः कलभसमाः कलभप्रमाणाः अत एवानीचा उच्चास्तुरङ्गा यस्यां तया वल्गत्कलभसमा Page #485 -------------------------------------------------------------------------- ________________ - - - ॥ मिः शिशुपालवधस्य१९सर्गेधृतानां चित्रवन्धानामुद्धारः। सर्वतोभद्रः। (२७ श्लोकः) पा दि मिः णि - - पा स का र नाना र का स - - म दि ब Fher प्य र साह वाद दवा वा | द द वा वा ह मा - ध पसा गोमूत्रिकाबन्धः। (४६ श्लोकः ) वा नं सा च ने पनि - - । मुरजबन्धः (२९श्लोकः) ॥ R - - - m - eas - Page #486 -------------------------------------------------------------------------- ________________ (3) NT:1(0. :) 「可 」 「 不 研一一一 所」可一河一和 兵一一前一日 一四一可一市 一对一 一对一而一 f一市一片 | | (920 :) 四到到到 144444] 后座IESSIP Page #487 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४७३ नीचतुरङ्गया चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तया चतुरङ्गया वाहिन्या करणेन अहितानभि शत्रून्प्रति चचाल । कलभसमेत्युपमा यमकेन संसृज्यते ॥ अथ कलापकेन सेनां वर्णयति ततस्ततधनुरु-विस्फारस्फारनिःस्वनैः। तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ २६ ॥ ततस्ततेत्यादि ॥ ततश्चैद्यचलनानन्तरं ततानामाकृष्टानां धनुमौंर्वीणां विस्फारैः स्फाराः प्रभूता निःस्वना येषां तैस्तूयः युगक्षये कल्पान्ते क्षुभ्यन्तमुद्वेल्लन्तमकूपारं समुद्रमनुकरोतीति तदनुकारिणी सा सेनेत्युत्तरेणान्वयः । उपमा ॥ सर्वतोभद्रः॥ स का र ना ना र का स का य सा द द सा य का। . र सा ह वा वा ह सा र ना द वा द द वा द ना ॥२७॥ सकारेति ॥ पुनः कीदृशी । 'कारो वधे निश्चये च बले यत्ने रतावपि' इति विश्वः । सकाराः सयत्नाः सोत्साहाः नाना नानाविधाश्च ये आरा अरीणां समूहाः । 'भिक्षादिभ्योऽण् । तेषां कासा गतिभेदाः काया विग्रहाश्च तेषां सादं ददतीति साददाः नाशकारकाः सायका यस्यां सा तथोक्ता । रसेन रागेणाहवो यस्याः सा रसाहवा । रणरागिणीत्यर्थः । वाहसाराणां वाहश्रेष्ठानां ये नादा हेषादिघोषास्तेषां वादं कलहं ददतीति वाददानि तैः सह कलहायमानानि वादनानि वाद्यानि यस्याः सा वाहसारनादवाददवादना । तूर्यतुल्यवाहघोषेत्यर्थः । अत एव तेषां तुल्यतोक्तेरतिशयोक्तिः । सर्वतो भ्रमणात्सर्वतोभद्रायश्चित्रबन्धः । अत एव दण्डी-'तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुःषष्टिकोष्ठे चतुरङ्गबन्धे क्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्कं विलिख्यानन्तरं पतिचतुष्टयेऽप्यधःक्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु प्रथमपादः सर्वतो वाच्यते । एवं द्वितीयादिषु द्वितीय इत्यादि ॥ . लोलासिकालियकुला यमस्येव स्वसा स्वयम् । चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ २८॥ लोलेति ॥ लोलान्यसीनामेव कालियानां कृष्णसर्पविशेषाणां कुलानि यस्यां सा उल्लसद्भिर्लोहवर्मभिरयःक कैः श्यामा अत एव यमस्यान्तकस्य सहायतां भ्रातृस्नेहादस्मिन्सेनासंहारे साहाय्यं चिकीर्षुः स्वयं साक्षात्स्वसा तस्येव भगिनी यमुनैव स्थितेत्युत्प्रेक्षा ॥ Page #488 -------------------------------------------------------------------------- ________________ ४७४ शिशुपालवधे ॥ मुरजबन्धः ॥ सा से ना ग म ना र म्भे र से ना सी द ना र ता। ता र ना द ज ना म त धी र ना ग म ना म या ॥ २९ ॥ ‘सा सेनेति ॥ तारोऽत्युञ्चर्नादः सिंहनादो येषां ते जना यस्यां सा तारनादजना अनामया अव्यथा सा पूर्वोक्ता सेना मत्ता धीरा अदुष्टाश्च नागा गजा यस्मिन्कर्मणि तत्तथा गमनारम्भे रसेन रागेण अनारता अविरता आसीत् । अविच्छिन्नरणरागाभूदित्यर्थः । मुरजबन्धः। तस्योद्धारस्तु-'तिर्यग्रेखा लिखेत्पञ्च नवोस्तित्र पतयः । अष्टकोष्टाश्चतस्रः स्युस्तासु श्लोकं लिखेत्क्रमात् ॥ तत्राद्यद्विवितुर्यासु तुर्यत्रियाद्यपशिषु । आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्ठगः। दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि । चतुर्थपतिप्राथम्यात्प्रथमावधिवीक्षणात् । द्वितीयादावाद्यद्वियोतुिये वितुरीयके । तुर्यत्रियोस्तृतीयाये द्रष्टव्योऽनिर्द्वितीयकः ॥ तृतीयोऽतिर्द्वितीयान्ये आद्यसप्तमषष्ठयोः। द्वित्रिपञ्चमयोस्तुर्यषष्टसप्तमयोः क्रमात् । तृतीयान्त्ये च लक्ष्योऽयमथान्यःक्रम उच्यते॥ आद्यन्त्ययुग्मयोः पतयोश्चिन्त्यो गोमूनिकाक्रमः । कृत्वैकं द्वितयं द्वे च द्वयमेकमिति क्रमात् ॥ यद्वा द्वितयमेकं च द्वयमेकं द्वयं पुनः। स्वपङ्गिप्रक्रमादेव विन्यासद्वितयं भवेत् । यद्वा प्रथमतुर्याशी स्वपतयोस्तादनुक्रमात्। द्वितीयोऽशिद्वितीयस्यां क्रमादाद्यचतुष्टये ॥ व्युत्क्रमाच्च तृतीयस्थामाद्यमेव चतुष्टये । व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च ॥ द्रष्टव्यो हि तृतीयोऽड्रिन्त्यकोष्टचतुष्टये । विन्यासभेदास्त्वन्येऽपि सन्त्येव बहवोऽत्र हि ॥ विस्तरात्तु न लिख्यन्ते स्वयमूह्या विचक्षणैः ॥' इति कलापकम् ॥ धूतधौतासयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् । शौर्यानुरागनिकषः सा हि वेलानुजीविनाम् ॥ ३० ॥ धूतेति ॥ क्षमाभृतां राज्ञां प्रतिष्टन्त इति प्रष्टा अग्रेसराः । 'सुपि स्थः' इति कप्रत्ययः । 'प्रष्टोऽग्रगामिनि' इति षत्वे ष्टुत्वम् । धूताः कम्पिताः धौता उत्तेजिता असयो यैस्ते धूतधौतासयः सन्तः प्रातिष्ठन्त प्रस्थिताः। 'समवप्रविभ्यः स्थः' इति तङ् । सा वेला अनुजीविनां शस्त्र जीविनां शौर्यानुरागयोः पुरुषकारस्वामिभक्त्योर्निकषः परीक्षास्थानं हि । अतोऽग्रे स्थातव्यम् । अन्यथा भीरुत्वं स्वामिद्रोहश्च स्यातामिति भावः । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ दिवमिच्छन्युधा गन्तुं कोमलामलसंपदम् । दधौ दधानोऽसिलतां कोऽमलामलसं पदम् ॥ ३१॥ दिवमिति ॥ युधा युद्धेन कोमलाश्चारवः अमलाः शीतोष्णादिदोषरहिताः संपदो यस्यां तां कोमलामलसंपदं दिवं स्वर्ग गन्तुमिच्छन्कः पुमान् अमलां Page #489 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४७६ धौतामसिलतां दधानः अलसं पदं दधौ । सर्वोऽपि निःशङ्कमाक्रमतेत्यर्थः । अत्र स्वर्गेच्छया विशेषणगत्या निःशङ्कप्रस्थानहेतुत्वात्काव्यलिङ्गं तद्यमकेन संसृज्यते ॥ कृतोरुवेगं युगपद्यजिगीषन्त सैनिकाः। विपक्षं बाहुपरिधैर्जङ्घाभिरितरेतरम् ॥ ३२ ॥ कृतेति ॥ सेनायां समवेताः सैनिकाः सैन्याः । सेनायाः पाक्षिकष्ठक् । बाहुभिः परिधैरिव बाहुपरिघैः बाहुदण्डैः विपक्षं शत्रु जङ्घाभिः प्रसृताभिः । 'जङ्घा तु प्रसृता' इत्यमरः । इतरेतरमन्योन्यं सयूथीयमेव कृत उरुर्महानूर्वाश्च वेगो यस्मिन्कर्मणि तद्यथा तथा युगपद्ध्यजिगीषन्त विजेतुमैच्छन् । अहमहमिकया योद्धमधावन्नित्यर्थः । विपूर्वाजयतेः सन्नन्ताल्लङि 'पूर्ववत्सनः' इत्यात्मनेपदम् । अत्र विपक्षसयूथयोर्बाहुजङ्घयोश्च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ वाहनाजनि मानासे साराजावनमा ततः। मत्तसारगराजेभे भारीहावजनध्वनि ॥ ३३ ॥ वाहनेति ॥ ततोऽनन्तरं मानमभिमानं अस्यति क्षिपतीति तस्मिन्मानासे पराहकारहारिणि । कर्मण्यण् । मत्ताः सारगा बलभाजश्च राजेभा नृपगजा यस्मिन्मत्तसारगराजेभे साराजी श्रेष्टयुद्धे । आजेः पुंलिङ्गता ज्ञेया। भारी भार• वान् पूर्ण ईहावतामुत्साहवतां जनानां ध्वनियस्मिंस्तत् भारीहावजनध्वनि यथा तथा न नमतीत्यनमा अभङ्गुरा । पचाद्यजन्तेन नसमासः । वाहना निर्वाहयितृत्वम् । ‘ण्यासश्रन्थो युच्' । अजनि जाता। सैनिकानामित्यर्थात्सिद्धम् । जनेः कर्तरि लुङि 'दीपजन-' इत्यादिना चिण् ॥ एतत्प्रातिलोम्येन श्लोकान्तरमाह ॥श्लोकप्रतिलोमयमकम् ॥ निध्वनञ्जवहारीभा भेजे रागरसात्तमः । ततमानवजारासा सेना मानिजनाहवा ॥३४॥ निध्वनदिति ॥ निध्वनन्तो बृहन्तो जवा जवनाः हारिणो मनोहराश्चेभा यस्यां सा निध्वनजयहारीभा। ततो विस्तृतो मानवजो मनुष्यजातः आरासः कलकलो यस्यां सा ततमानवजारासा मानिनां मानवतां जनानामाहवो यस्यां सा मानिजनाहवा सेना रज्यतेऽनेनेति रागः क्रोधः स एव रसस्तस्मादागरसात् तमो मोहं भेजे । क्रोधान्धाजनीत्यर्थः । अत्र प्रातिलोम्येन पूर्वश्लोकावृत्तेः श्लोकप्रतिलोमयमकम् । तदुक्तं दण्डिना-'आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा । यमकं प्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥' इति ॥ अभनवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः । चक्रन्दुरुच्चकैसृष्टिग्राह्यमध्या धनुर्लताः ॥ ३५ ॥ Page #490 -------------------------------------------------------------------------- ________________ ४७६ शिशुपालवधे अभग्नेति ॥ अभग्ना अभङ्गुरा वृत्ता वर्तुलाग्राश्च यास्ता अभनवृत्ताः । विशेपणसमासः । अन्यत्राचलितचरित्राः । बहुव्रीहिः। मुष्टिग्राह्यं मुष्टिधार्य मध्यं यासां ताः धनुर्लताः अन्यत्र मुष्टिमेयमध्याः यौवनेनोद्धतैपष्टैप्तैश्च प्रसभावलादाकृष्टाः सत्यः । एकत्र गुणेष्वन्यत्र कचेषु चेति भावः । उच्चैस्तरां चक्रन्दुष्टं कारध्वनिं चक्रुर्धनुर्लताः, अन्यत्र चुक्रुशुश्च । अत्र प्रस्तुतधनुर्लताविशेषणादप्र. स्तुतधूर्तास्कन्दितपतिव्रताप्रतीतेः समासोक्तिः । तथा च आकर्षणस्य विशेषणगत्या क्रन्दनहेतुत्वात्काव्यलिङ्गाङ्गिभावेन संकीर्यते ॥ करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः । करेऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ ३६ ॥ करेणुरिति ॥ अनेको बहु करेणुः करेणवः । प्रस्थितः । जातावेकवचनम् । असंख्याताः करिणो योद्धं ययुरित्यर्थः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । सहस्रशो घण्टाः करिकण्ठस्था रेणुर्दध्वनुः । 'अत एकहल्मध्येऽनादेशादेर्लिटि' इत्येत्वाभ्यासलोपौ । करे पुष्करे अणुरल्पः शीकरोऽम्बुकणो जज्ञे । जातावेकवचनम् । करेप्वणवः शीकरा जाता इत्यर्थः । जनेः कर्तरि लिट् । तेनाणुना शीकरण रेणू रजः शमं ययौ । एतेन करिणां बाहुल्यं व्यज्यते । धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः।। सरोषसंभ्रमैर्बभ्रे रौद्र एव रणे रसः ॥ ३७॥ धृतेति ॥ धृतः प्रत्यग्रः शृङ्गाररस एव रागो यैस्तैरपीति विरोधः । रौद्रशृगारयोर्विरोधित्वाद्धृतसिन्दूररञ्जनैरित्यविरोधः । अत एव विरोधाभासोऽलं. कारः। 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमेऽपि च ॥' इति विश्वः । सरोषसंभ्रमैः द्विपः रणे रौद्रस एव क्रोधरस एव बभ्रे भृतः। कर्मणि लिट् ॥ न तस्थौ भर्तृतः प्राप्तमानसंप्रतिपत्तिषु । रणैकसर्गेषु भयं मानसं प्रतिपत्तिषु ॥ ३८ ॥ नेति ॥ भर्तृतः स्वामिनः प्राप्ते मानसंप्रतिपत्ती पूजासौमनस्ये यैस्तेषु प्राप्तमानसंप्रतिपत्तिषु रणे एकसर्गेषु नियतोत्साहेपु नियतनिश्चयेषु वा । 'सर्गास्तु सजनाध्यायस्वभावोत्साहनिश्चयाः' इति वैजयन्ती । पत्तिषु पदातिषु । मानसं प्रति । पत्तीनां मानसेष्वित्यर्थः । 'कर्मप्रवचनीययुक्ते द्वितीया' । भयं न तस्थौ पूर्वोपकारस्मारिणो रणाय निर्भीकाः प्रातिष्टन्तेत्यर्थः। अन्यथा 'यस्तु भीतिपरावृत्तः संग्रामे हन्यते परैः । भर्तुर्यदृष्कृतं किंचित्तत्सर्व प्रतिपद्यते ॥ यदस्य सुकृतं किंचिदमुत्रार्थमुपार्जितम्। भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥' इति निषेधस्मरणादिति भावः । अत्र मानसंप्रतिपत्त्योर्विशेषणगत्या भयानवस्थानहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते ॥ Page #491 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। बाणाहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः। गोधाश्लिष्टभुजाशाखैरभूद्धीमा रणाटवी ॥ ३९ ॥ बाणेति ॥ रणमेवाटवी रणाटवी बाणैरिवाहिभिः पूर्णा तूणीरा निषङ्गा एव कोटराः कुहरा येषां तैः गोधास्तलानि, निहाकाश्च । 'गोधा तले निहाकायाम्' इति विश्वः । तलं ज्याघातवारणम् । ततो गोधा एव गोधा इति श्लिष्टरूपकम् । ताभिराश्लिष्टा भुजा एव शाखा येषां तैर्धन्विभिर्धानुष्कैरेव शाखिभिवृक्षीमा भयंकरा अभूत् । समस्तवस्तुवर्णनात्सावयवरूपकम् ॥ ॥प्रतिलोमानुलोमपादः ॥ नानाजाववजानाना सा जनौषधनौजसा । परानिहाऽहानिराप तान्वियाततयाऽन्विता ॥ ४० ॥ नानेति ॥ इहास्यां नानाविधायामाजी चित्रयुद्धे ओजसा तेजसा अवजानाना अवज्ञां कुर्वती । 'अकर्मकाच्च' इत्यात्मनेपदम् । जनौधैर्घना सान्द्रा जनौ. घघना । बहुजनेत्यर्थः । अहानिरभया वियाततया वैयात्येन धाट्यनान्विता । सृष्टेत्यर्थः । 'सृष्टो पृष्णुर्वियातश्च' इत्यमरः । सा चैद्यसेना तान्परानरीनाप प्राप। अत्र प्रतिपादं पादास्यैवावृत्तेरर्धपादप्रतिलोमयमकम् ॥ विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः । श्लोकैरिव महाकाव्यं व्यूहैस्तदभवलम् ॥४१॥ विषममिति ॥ तद्बलं चैद्यसेना सर्वतोभद्रचक्रगोमूनिकादिभिः । आदिग्रहणान्मुरजवन्धादिसंग्रहः । श्लोकैर्महाकाव्यं शिशुपालवधादिकमिव व्यूहैः सर्वतोभद्रादिभिरेव बलविन्यासैः । 'व्यूहस्तु बलविन्यासे' इत्यमरः । विषमं दुरवग्रहमभवत् । नगनगरादिवर्णनयुक्तलक्षणं महाकाव्यम् ॥ संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया। ववले यो मुत्पन्नप्रतिभा स्वरसेन या॥ ४२ ॥ संहत्येति ॥ भास्वरा तेजिष्टा सेना यस्यास्तया भास्वरसेनया सात्वतां यदूनां संहत्या सङ्गेन चैद्यं प्रति ववले प्रचेले । 'वल चलने' इति धातो वे लिट् 'न शसददवादि-' इति वकारादित्वादेत्वाभ्यासलोपयोः प्रतिषेधः । या यदूनां संहतिः स्वरसेन स्वभावेन योद्धमुत्पन्नप्रतिभा संजातप्रतिभा या स्वयं रणकण्डूला सा पराहूता कथं निवर्तत इति भावः ॥ अथ यदुसेनायाः प्रतिबलाभियोगं युग्मेनाहविस्तीर्णमायामवती लोललोकनिरन्तरा । नरेन्द्रमार्ग रथ्येव पपात द्विषतां बलम् ॥४३॥ विस्तीर्णमित्यादि ॥ आयामवती द्राधीयसी लोललोकनिरन्तर चल Page #492 -------------------------------------------------------------------------- ________________ ४७८ शिशुपालवधे जनसंकुला सा सेनेत्युत्तरश्लोकेनान्वयः । सा यदुसेना विस्तीर्ण द्विपतां बलं नरेन्द्रमार्ग राजपथं रथ्येव विशिखेव पपात संजगाम । उपमानेऽपि विशेषणं योज्यम् ॥ वारणागगभीरा सा साराऽभीगगणारया । कारितारिवधा सेना नासेधा वरितारिका ॥४४॥ ॥ युग्मम् ॥ वारणेति ॥ कीदृशी सेना वारणैरेवागैरचलैर्गभीरा दुरवगाहा वारणागगभीरा सा साराणां श्रेष्टानां न भियं गच्छन्तीत्यभीगानां निर्भीकाणां गणानां जन्तुसङ्घानामारवो यस्यां सा साराभीगगणारवा । कारितारिवधा कृतशत्रु. वधा । 'रामो राज्यमकारयत्' इतिवदन स्वार्थ णिच् । नास्त्यासेधः प्रतिषेधो यस्यां सा नासेधा । नअर्थेन नशब्देन बहुव्रीहिः । अनासेधा वा वरितारिका ईप्सितशत्रुका । अनेनाहं योत्स्य इति स्वयं वृतप्रतिभटेत्यर्थः । शैषिकः कप्प्र. त्ययः । सा सेना पपातेति पूर्वेणान्वयः। अत्र प्रातिलोम्येन अर्धावृत्तेरर्धप्रतिलोमयमकमेतत् । लक्षणं तूतं निध्वनदित्यादिश्लोकप्रतिलोमयमके ॥ अधिनागं प्रजविनो विकसत्पिच्छचारवः । पेतुर्बहिणदेशीयाः शङ्कवः प्राणहारिणः ॥ ४५ ॥ अधीति ॥ प्रजवन्तीति प्रजविनोऽतिजवनाः । 'प्रजोरिनिः' इति इनिन. त्ययः । विकसद्भिः पिच्छैः कलापैश्चारवः अत एव ईषदसमाप्तबर्हिणः बहिणदेशीया मयूरकल्पाः । 'ईषदसमाप्तौ-' इत्यादिना देशीयप्रत्ययः । प्राणहा. रिणः शङ्कवः शल्यायुधानि । 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरः । नागेवधिनागम् । विभक्त्यर्थेऽव्ययीभावः । गजेषु, सर्पेषु च निपेतुः । सपु बहिण इवे. त्यर्थः । अत एवोपमालंकारः । ‘ग्रहो ग्राहि गजा नागाः' इति वैजयन्ती ॥ ॥ गोमूत्रिकाबन्धः॥ प्रवृ त्ते वि क स द्धा नं सा ध ने प्य वि षा दि मिः। व वृषे वि क न द्दा नं यु ध मा प्य वि षा णि भिः॥ प्रवृत्ते इति ॥ विकसजृम्भमाणो ध्वानो ध्वनिर्यस्मिंस्तद्यथातथा साधने संप्रहारे प्रवृत्तेऽप्यविषादिभिर्विषादरहितैर्विषाणिभिर्दन्तिभिर्युधमाप्य प्राप्य विकसत्प्रभूतं दानं मदो ववृषे । युद्धारम्भे धनदानं च ध्वन्यते सत्त्वसंपन्नत्वात् । साधनेऽप्यविषादस्याविरोधाद्विरोधाभासः । गोमूत्रिकाचित्रबन्धोऽयम् । 'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ॥' इति लक्षणात् । षोडशकोष्टद्वये पङ्किद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥ Page #493 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४७९ पुरः प्रयुक्तैयुद्धं तच्चलितैलब्धशुद्धिभिः। आलापैरिव गान्धर्वमदीप्यत पदातिभिः॥४७॥ पुर इति ॥ तद्युद्धं पुरः प्रयुक्तैः गजादिभ्यः प्राक् प्रवर्तितैः । अन्यत्र गानात्पूर्वमुच्चारितैः चलितैः मण्डलचारिभिः। अन्यत्र मुहुरावर्तितैरित्यर्थः । लब्धशुद्धिभिः । कातर्यकपटादिदोषरहितैरित्यर्थः । अन्यत्रावृत्तैः । रागानुगुणैरित्यर्थः। पदातिभिः पत्तिभिः करणैः गान्धर्व गानमालापैरालापिभिरिवाक्षरविशेषैरि. वादीप्यताशोभत ॥ केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता। प्रापे कीर्तिप्लुतमहीमण्डलामाऽनवद्यता ॥४८॥ केनचिदिति ॥ स्वासिना स्वखड्नेन अन्येषां मण्डलामानवद्यता खण्डयता । द्यतेर्लटः शत्रादेशः । केनचिद्वीरेण कीर्तिप्लुतं यशोव्याप्तं महीमण्डलाग्रं भूपृष्टं यस्याः सा कीर्तिप्लुतमहीमण्डलामा अनवद्यता अनिन्द्यता प्रापे प्राप्ता॥ विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः। परिवारात्पृथक्के खड्गश्चात्मा च केनचित् ॥ ४९ ॥ विहन्तुमिति ॥ केनचिद्वीरेण विद्विषो विहन्तुं तीक्ष्णो निशितः परिच्छेत्ता च खड्गः सुसंहतेः सुघटितात्सुष्टु सङ्घीभूताच्च । परिवारात्कोशात् , परिजनाच्च । 'परिवारः परिजने खगकोशे परिच्छदे' इति विश्वः । सममेव पृथक चक्रे उद्धृतः। आत्मा च पृथक् चक्रे विभक्तः । खड्गमुत्कृष्य स्वसैन्यान्निर्गत्या. रिमध्ये पपातेत्यर्थः । अत्र खगात्मनोः प्रकृतयोः समानक्रियायोगात्केवलप्रकृ. तास्पदा तुल्ययोगिता ॥ अन्येन विदधेरीणामतिमात्रा विलासिना । उद्गुणेन चमूस्तूर्णमतिमात्राविलासिना ॥ ५० ॥ अन्येनेति ॥ अन्येन वीरेण विलासिना विलसनशीलेन उद्गुणेनोद्यतेन असिना खङ्गेन मात्रं मानमतिकान्तातिमात्रा अपरिमिता अरीणां चमूः सेना तूर्ण शीघ्रमतिमात्रमत्यन्तमाविला कलुषा अतिमात्राविला अत्याविला विदधे कृता ॥ सहस्रपूरणः कश्चिल्लूनमूर्धाऽसिना द्विषः । ततोर्ध्व एव काबन्धीमभजनर्तनक्रियाम् ॥५१॥ सहस्रेति ॥ पृणातीति पूरणः । 'पृ पालनपूरणयोः' कर्तरि ल्युट् । सहस्राणां १ अस्माद्धातोल्युटि 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' इति वार्तिकाद्गुणस्यैव न्याय्यत्वात् क्युन्युल्वेऽपि दीर्घस्याप्राप्तेश्चिन्त्यमिदम् । तस्मात् 'पूरी आप्यायने' इति धातुर्बोध्यः । अत एव :'पूरणी' इति पदव्याख्यायाम् 'पूरयति' इति स्वामिनोक्तम् । अत एव वल्लभेनापि 'पूर्यन्ते आप्यायन्ते' इति विवरणं कृतम् । Page #494 -------------------------------------------------------------------------- ________________ ४८० शिशुपालवधे पूरणः पालयिता पूरयिता सहस्रपूरणः सहस्ररक्षी सहस्रहन्ता वा कश्चिभटः । कबन्धस्तु सहस्रपूरणः सहस्रसंख्यापूरकः । सहस्रादेकः कबन्धो नृत्यतीति प्रसिद्धिः । असिना स्वामिना द्विषो लूनमूर्धा लूनशत्रुमूर्धा । सापे. क्षत्वेऽपि गमकत्वात्समासः । कबन्धस्तु द्विषोऽसिना लूनमूर्धा तथा कबन्धव. देवोर्ध्व एव तिष्ठति । कबन्धस्येमां काबन्धी नर्तनक्रियामभजत् । विजयहर्षास्वयमपि कबन्धवन्ननतेत्यर्थः । अत एव सादृश्याक्षेपादसंभवद्वस्तुसंबन्धाख्यो निदर्शनाभेदः । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः॥ शस्त्रत्रणमयश्रीमदलंकरणभूषितः । ददृशेऽन्यो रावणवदलङ्करणभूषितः ॥ ५२ ॥ शस्त्रेति ॥ शस्त्रवणमयानि तद्रूपाणि । स्वार्थे मयट् । तैरेव श्रीमद्भिः शोभावद्भिरलंकरणैरलंकारैर्भूषितोऽलंकृतः। शस्त्रव्रणालंकृत इत्यर्थः । अन्यः कश्चित् , अविद्यमाना लङ्का यस्याः सा अलङ्केति बहुव्रीहिः । अत एव 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः । सा रणभूश्च तस्यामुषितः स्थितोऽलङ्करणभूषितः । वसेर्निवासार्थात्कर्तरि क्तः 'वचिस्वपि' इत्यादिना संप्रसारणम् । रावणवद्ददृशे दृष्टः । सर्वाङ्गीणव्रणभूषणत्वेन रावण एवायं लङ्कासंबन्धविरहात्तु व्यतिरेक इत्यर्थः । उपमाव्यतिरेकयमकानां संकरः ॥ द्विपद्विशसनच्छेदनिरस्तोरुयुगोपरः। सिक्तश्चात्रैरुभयथा बभूवारुणविग्रहः ॥ ५३ ।। द्विषदिति ॥ द्विषद्विशसनम् । 'निर्वापणं विशसनं मारणं प्रतिघातनम्' इत्यमरः । तस्मिंश्छेदेनारिशस्त्रप्रहारेण निरस्तमूरुयुगं यस्य सः अत एवात्रैरसृ. भिश्च सिक्तोऽपरो वीरः उभयथा उभाभ्यां प्रकाराभ्याम् । 'प्रकारे गुणवच. नस्य' इति थाल । अरुणस्यानूरोरिव अरुणोऽरुणवर्णश्च विग्रहो यस्य सोऽरुण. विग्रहो बभूव । 'अरुणोऽर्कार्कसारथ्योररुणो लोहितेऽन्यवत्' इति विश्वः । अत्रोरुच्छेदास्रसिक्तयोविशेषणगत्योभयथारुणविग्रहभावहेतुत्वाकाव्यलिङ्गमुपमा. श्लेषाभ्यां संकीर्यते ॥ भीमतामपरोऽम्भोधिसमेधित महाहवे । दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ ५४॥ भीमेति ॥ अम्भोधिसमे सागरसदृशे महानाहवस्तस्मिन्महाहवे सम्यगेधितमहाः संवर्धिततेजाः अपरो वीरः दक्षप्रजापतेरयं दाक्षस्तस्मिन्दाक्षे हवे यज्ञे । 'हवो यज्ञे तथाबाने' इति विश्वः । समेधितमहाः संदीपिततेजाः शिवस्य कोप इव । वीरभद्र इवेत्यर्थः । भीमतां भयंकरतामधित धृतवान् । बिभ्यत्यस्मादिति भीमः । 'भियः पुग्वा' इत्यौणादिके मप्रत्यये भीमो भीष्मश्च ‘भीमादयोअपादाने' इति निपातनादपादानार्थता । उपमायमकयोः संसृष्टिः ॥ Page #495 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४८१ दन्तैश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव । परनिस्त्रिंशनिळूनकरवालाः पदातयः ॥ ५५ ॥ दन्तैरिति ॥ परेषां निस्त्रिंशः खङ्गैनिलूनकरवालाः छिन्नखगाः पादाभ्यामतन्तीति पदातयः पत्तयः । 'अज्यतिभ्यां पादे च' इत्यौणादिक इण् । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । कोपात् गजा इव प्रतिपक्षं शत्रु दन्तैर्दशनैर्विषाणैश्च चिच्छिदिरे चिच्छिदुः॥ रणे रभसनिर्भिनद्विपपाटविकासिनि । न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥५६॥ रण इति ॥ रभसेन वेगेन 'रभसो वेगहर्षयोः' इति विश्वः । निर्भिन्नद्विपाः पाटितगजाः पाटविकानां पाटववतामसयो यस्मिन् । पाटवशब्दान्मत्वर्थीयष्ठक्प्रत्ययः । विकासिनि प्रवृद्ध तत्र तस्मिन्रणे गतभीनिर्भीकः । अत एव कश्चिकोऽपि न विपपाट न पाटयामास न पलायत । अत्र गतभीकत्वस्य विशेषणगत्या अपलायनहेतुत्वात्काव्यलिङ्गम् । द्विपदलनेऽपि रणे निर्भीक इति विरोधश्च यमकेन संसृज्यते ॥ यावन्न सत्कृतैर्भर्तुः स्नेहसानृण्यमिच्छभिः । अमर्यादितरैस्तावत्तत्यजे युधि जीवितम् ॥ ५७॥ यावदिति ॥ सत्कृतैः स्वस्वामिना पूर्वसंमानितैः । अत एव भर्तुः स्नेहस्य स्वामिप्रेम्ण आनृण्यमनृणत्वमिच्छुभिः । योधैरिति शेषः । युधि जीवितं यावन्न तत्यजे त्यक्तं तावदितरैरसत्कृतैरमर्षादसत्कारक्रोधाजीवितं तत्यजे । अथ वास्मान्पश्येति स्वामिनमुपालभ्य स्वयमेव प्राक्प्राणान्प्रजहुरित्यर्थः । सस्कारा. दिविशेषणोत्थकाव्यलिङ्गं सुगमम् ॥ ॥समुद्यमकम् ॥ अथैवंविधानां मरणस्यैव कर्तव्यतामुपपादयति अयशोभिदुरालोके कोपधाम-रणादृते । अयशोभिदुरा लोके कोपधा मरणाहते ॥ ५८ ॥ अयश इति ॥'अयः शुभावहो विधिः' इति अयशोभी भाग्यवान्स चासौ दुरालोकस्तेजस्वित्वा दर्शश्चेति विशेषणसमासः । तस्मिन्नयशोभिदुरालोके कोपधाम कोपाश्रयः । कुपित इत्यर्थः । अथाप्यकोपे भीरुत्वापातात् । अत एव रणमाहतः रणादृतः । रणार्थीत्यर्थः । कर्तरि तः। कोपधाम चासौ रणाहतश्च तस्मिकोपधामरणाहते लोके एवं विधे वीरलोके । अयशोभिदुरा स्वाम्यनादरनिमित्तापकीर्तिनिवर्तिका । 'विदिभिदिच्छिदेः कुरच्' । उपधा उपायो भरणाहते। प्राणत्यागं विनेत्यर्थः। का । न कापीत्यर्थः । 'अन्यारादितरते-' इति पञ्चमी । अत्रायशोभित्त्वादीनां लोकविशेषणद्वारा तद्वर्तिनामुपजीविनामवसरे जीवत्यागहेतु ४१ शिशु० Page #496 -------------------------------------------------------------------------- ________________ ४८२ शिशुपालवधे त्वाकाव्यलिङ्गं यमकेन संकीर्यते । समुद्गयमकभेदोऽयम् । 'अर्धाभ्यासः समुद्गः स्थादस्य भेदास्त्रयो मताः' इति लक्षणात् ॥ स्खलन्ती न कचित्तैपण्यादभ्यग्रफलशालिनी । अमोचि शक्तिः शाक्तीकैलॊहजा न शरीरजा ॥ ५९॥ स्खलन्तीति ॥ शक्तिः प्रहरणं येषां तैः शाक्तीकैः । 'शाक्तीकः शक्तिहे. तिकः' इत्यमरः । 'शक्तियष्ट्योरीकक्' इति प्रहरणार्थे ईकक् प्रत्ययः । तैपण्यानैशित्यात्वचिदपि न स्खलन्ती प्रतिहतिं न प्राप्नुवती । अभ्यग्रं समग्रं यत्फलं शल्यं तेन शालते । अन्यत्र अभ्यग्रेणासन्नेन फलेन श्रेयसा शालत इत्यभ्यग्रफलशालिनी । लोहजा अयोमयी शक्तिरायुधविशेषः अमोचि शत्रुषु मुक्ता । शरीरजा शक्तिः सामर्थ्याख्या तु नामोचि । अतिव्यायामेऽप्यक्षीणशक्तिका एवायुध्यन्तेत्यर्थः । अत्र द्वयोरपि प्रकृतत्वात्केवलप्रकृतश्लेषः ॥ आपदि व्यापृतनयास्तथा युयुधिरे नृपाः। आप दिव्या पृतनया विस्मयं जनता यथा ॥ ६०॥ आपदीति ॥ नृपा राजानः । आपदि व्यसनेऽपि व्यापृतनयाः प्रवृत्तनीतिका एव सन्तः । न तु श्वापदवृत्त्येति भावः । पृतनया सेनया साधनेन । वाक्यान्तरस्थस्यापि पृतनाशब्दस्यानान्वयः चित्रे सोढव्यः । तथा तेन प्रकारेण युयुधिरे संप्रजहुः । यथा दिव्या जनता अन्तरिक्षवर्तिसिद्ध विद्याधरसङ्घो विस्मयमाप । अमानुषं युद्धं चक्रुरित्यर्थः । अयं च पादाभ्यासयमकभेदः ॥ स्वगुणैराफलप्राप्तेराकृष्य गणिका इव । कामुकानिव नालीकांत्रिणताः सहसामुचन् ॥ ६१ ॥ स्वगुणैरिति ॥ त्रिषु स्थानेषु मध्येषु नताः त्रिणताः शामणि । 'पूर्वपदासंज्ञायाम्' इति णत्वम् । गणिका वेश्या इव । ता अपि त्रिणताः मध्ये भ्रवोश्च नतत्वात् । नालीकानिषुविशेषान् । 'नालीकः शरशल्ययोः' इति विश्वः । कामुकानिव । स्वगुणैाभिः रूपलावण्यादिभिश्च । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । आफलप्राप्तेराशल्यस्पर्शादाधनलाभाच्च आकृप्य कर्णान्तिकं नीत्वा, वशीकृत्य च सहसा अमुचन्नत्याक्षुः । मुचे डि 'पुषादि-' इति च्लेरडादेशः । अनेकैवोपमा ॥ वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः । वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥ ६२ ॥ १ (१२९९) शकलिखितपुस्तके तु 'तृणताः' इति पाठ उपलभ्यते । अत एव 'तृणता तृणत्वे कार्मुकेऽपि च' इति हैमकोषव्याख्यावसरे कार्मुकाथें इममेव श्लोकमुदाहृत्य वल्लभस्तु 'धनुषि त्रिषु नतास्त्रिणताः' इत्याह । 'तत्र गणिकापक्षे गत्वं चिन्त्यम्' इत्यनेकार्थकैरवाकर कौमुदी। Page #497 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४८३ वाजिन इति ॥ द्रुतं वजन्तीति द्रुतवाजिनः शीघ्रगामिनः । 'वज गतौ' इति धातोर्णिनिः । वाजिनोऽश्वाः, वाजिनः पक्षवन्तः शराश्च। 'पक्षो वाजस्त्रीघूत्तरे' इत्यमरः। समारब्धा नवा अपूर्वा आजियुद्धं येन तस्य समारब्धनवा. जिनः शत्रुसैन्यस्य मध्यमविशन् । अत्र वाजिनां शराणां च प्रवेशाख्यतुल्ययोगिताभेदो यमकेन संसृज्यते ॥ पुरस्कृत्य फलं प्राप्तः सत्पक्षाश्रयशालिभिः । कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ ६३ ॥ पुरस्कृत्येति ॥ फलं शल्यं पुरस्कृत्य पुरोधाय, अन्यत्र फलं लाभं पुरस्कृत्य । संभाव्येत्यर्थः । प्राप्तैरागतैः सत्पक्षाश्रयेण साधुकङ्कादिपत्रग्रन्थनेन, अन्यत्र साधुसहायावलम्बनेन शालन्ते इति तथोक्तैः मार्गणैः सायकैरर्थिभिश्च । 'मार्गणौ सायकार्थिनौ' इत्यमरः । कृतपुखतया सुबद्धकर्तरीकतया । 'मुखस्थकर्तरी पुल' इति यादवः । अन्यत्र कुशलतयेत्यर्थः । लक्षं शरव्यं, अन्यत्र लक्षसंख्यमपि धनं लेभे । शतादिकं किमु वक्तव्यमिति भावः । 'लक्षं शरव्ये संख्यायाम्' इति विश्वः । अत्राभिधायाः प्राकृतार्थ नियन्त्रणादर्थान्तरप्रतीतेलनिरेव ॥ रक्तस्रुतिं जपासूनसमरागामिषुव्यधात् । कश्चित्पुरः सपत्नेषु समरागामिषु व्यधात् ॥ ६४॥ रक्तेति ॥ कश्चिद्वीरः पुरोऽग्रे समरागामिषु समरमागतेषु सपनेषु इषुव्यधाद्वाणप्रहारात् । 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । जपासूनसमरागां रक्तस्रुति रक्तस्त्रावं व्यधाद्विहितवान् । दधातेलुंङि 'गातिस्था-' इत्यादिना सिचो लुक् । उपमायमकयोः संसृष्टिः ॥ रयेण रणकाम्यन्तौ दूरादुपगताविभौ । गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥६५॥ रयेणेति ॥ रणमात्मन इच्छन्तौ रणकाम्यन्तौ । 'काम्यञ्च' इति रणशब्दा. काम्यच्प्रत्यये सनाद्यन्तधातुत्वाल्लटि शत्रादेशः । रयेण दूरादुपगतौ इभावन्तरा इभयोर्मध्ये । 'अन्तरान्तरेण युक्ते' इति द्वितीया । गतासुम॒तो दन्ती दैवान्मध्यवर्ती हस्तिकुणप इत्यर्थः । वरण्डकोऽन्तरावेदिरिवाभवत् । 'वरण्डको. ऽन्तरावेदौ संदोहमुखरागयोः' इति विश्वः । अभ्यासकाले काञ्चनवेदिमन्तर्धाय दन्तिनौ योधयत इति प्रसिद्धम् । उपमा ॥ ॥यक्षरः॥ भूरिभि रिभिर्भीरैर्भूभारैरभिरेभिरे । भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः॥ ६६ ॥ - भूरिभिरिति ॥ भूरिभिः भूयोभिः भारिभिः पताकास्तरणादिभारवद्भिः । मत्वर्थीय इनिप्रत्ययः । भियं रान्तीति भीरास्तैीरैः भयदैः। ‘रा दाने' 'आतो. Page #498 -------------------------------------------------------------------------- ________________ ४८४ शिशुपालवधे. ऽनुपसर्गे कः' । भूभारैः महाकायस्वा वो भारायमाणैः। भेर्य इव रेभन्ते ध्वनन्तीति भेरीरेभिभिः। 'रेभृ शब्दे' ताच्छील्ये णिनिः। अभ्राभैर्मचकैरिति चोपमाद्वयम् । अभीरुभिर्निर्भीकैरिभैर्गजैः । इभाः प्रतिगजास्तादृशा एव अभि. रेभिरे अभियुक्ताः । उपमानुप्रासयोः संकरः । यक्षरानुप्रासः ॥ निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः। युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्तताम् ॥ ६७ ॥ निशितेति ॥ युध्यमानाः संप्रहरन्तः हस्ता येषां सन्तीति हस्तिनः । 'हस्ता. जातौ' इति निप्रत्ययः । यथा भग्नैर्दन्तैः विषाणैः विहस्ततां हस्तहीनत्वमितिकर्तव्यतामूढत्वं चापुः । 'विहस्तव्याकुलौ समौ' इत्यमरः । तथा निशिताभिरसिलताभिर्लेनैश्छिन्नैर्हस्तैः शुण्डादण्डैर्विहस्ततां नापुः । हस्तेभ्योऽपि दन्तानां प्रहारसाधनत्वादिति भावः । अत्र हस्तस्याच्छेदे वहस्त्यं न हस्तच्छेदे इति विरोधः प्रतिपत्तिमूढतया समाहित इति विरोधाभासोऽलंकारः ॥ ॥ असंयोगः॥ निपीडनादिव मिथो दानतोयमनारतम् । वपुषामदयापातादिभानामभितोऽगलत् ॥ ६८॥ निपीडनादिति ॥ इभानां वपुषां अदयापातानिर्दयाभियोगाद्धेतोः मिथो निपीडनादिव वस्त्रादिनिपीडनादिवेत्युत्प्रेक्षा। अनारतमश्रान्तं दानतोयमभितो. ऽगलत् । वस्त्रवनिर्दयापातेऽपि मदातिरेक इति गजानामुत्साहातिशयोक्तिः । अन संयोगाभावादसंयोगश्चित्रभेदः । ‘हलोऽनन्तराः संयोगः ॥ रणाङ्गणं सर इव प्लावितं मदवारिभिः । गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ ६९ ॥ रणेति ॥ गजो मदवारिणा प्लावितमुक्षितं रणाङ्गणं सर इव पृथुना करेणाकृष्टानि शतपत्राणि अमितवाहनानि, अन्यत्र कुशेशयानि च यस्मिन्कर्मणि तत्तथा रणाङ्गणमलोडयदुपाक्षोभयत् । श्लेषविशेषणेयमुपमा ॥ शरक्षते गजे भृङ्गः सविषादिविषादिनि ।। रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ ७० ॥ शरक्षते इति ॥ गजे शरेण क्षते प्रहते अत एव विषादिना विषादवता विषादिना यन्त्रा सह वर्तते इति तसिन्सविषादिविषादिनि तत्र रणे अतिसी. दति अतिसन्ने सति । मृते सतीत्यर्थः । सदेर्लटः शत्रादेशः । भृङ्गैः कर्तृभिः । 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । रुतव्याजेन रुतच्छलेन रुदितं रोदन. मासीत् । स्वाश्रयनाशदुःखागोदनं कृतमिवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । सा च रुतव्याजेनेत्यपह्नवपूर्वकत्वात्सापह्नवेति सर्वस्वकारः ॥ Page #499 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः । अन्तकस्य पृथौ तत्र शयनींय इवाहवे । दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ ७१ ॥ अन्तकस्येति ॥ अन्तकस्य मृत्योः संबन्धिनि शेतेऽस्मिन्निति शयनीये । तल्प इव स्थिते इत्यर्थः । ‘कृत्यल्युटो बहुलम्' इत्यधिकरणेऽनीयर् । पृथौ विशाले तत्राहवे मतङ्गजा दन्तव्यसनाद्विषाणभङ्गाद्धेतोः मत्कुणत्वमीयुः । मत्कुणा इव दृष्टा इत्यर्थः । सुप्तरक्तपायिनः खट्टाश्रयाः कीटविशेषा मत्कुणाः । 'कालेऽप्यजातदन्ते च शय्याजन्तौ च मत्कुणः' । तत्सादृश्याददन्तेषु दन्तिषु तथात्वरूपकं अन्तकस्य शयनीय इवेत्युत्प्रेक्षासापेक्षमपि संकरः ॥ अथ युग्मेनाह ॥ अर्धभ्रमकः ॥ म ति के अ भी क भी ता क न त्स का म से न न्द स्य ना ने श ना द्धे ने । के ४८५ म स्य ति ॥ ७२ ॥ I म न्द का म क अभीकेत्यादि ॥ अभीका निर्भीका मतिर्यस्य तेनाभीकमतिकेन निर्भयचित्तेन । शैषिकः कप्प्रत्ययः । इद्धे दीप्ते । भीतानामानन्दस्य नाशने । नशेर्ण्यन्तारकतरि ल्युट् । कनन्ती दीप्यमाना सकामा विजयित्वात्पूर्णकामा सेना यत्र तस्मि - कनरसकामसेनाके । पूर्ववत्कप् । मन्दकामकं मन्दोत्साहम् । पूर्ववदेव कपू । अस्यति निराकुर्वाणे रण इत्युत्तरेण संबन्धः । अत्र सर्वतोभद्भवत्सर्वपादभ्रमणाभावात्पदार्थानामेव भ्रमणादर्धभ्रमकम् । उद्धारस्तु सर्वतोभद्रवत्स्यादेव ॥ दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् । हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ ७३ ॥ दधत इति ॥ रणे पूर्वोक्तप्रकारे अभीक्ष्णमत्यन्तं भीमं भयंकरं आसुरम् सुरसंबन्धिनं भावं पुरुषकारलक्षणम् । 'भावो लीलाक्रियाचेष्टा भूत्यभिप्रायजन्तुषु' इति वैजयन्ती । असुरत्वं च बुधतः दधाना अपि परैः शत्रुभिः अभिमुखा एव स्थिताः । हता वीरा इति शेषः । अत एव सुराणां भावं सुरभूयं सुरत्वं देवत्वमुपाययुः । 'स्वर्गं यान्त्यपराङ्मुखाः' इति स्मरणादिति भावः । 'भुवो भावे' इति क्यप् । अन्नासुरभावेऽपि सुरभूयमुपाययुरिति विरोधस्य भावशब्दस्यार्थान्तरत्वेन परिहाराद्विरोधाभासः ॥ इति युग्मम् ॥ येनाङ्गमूहे व्रणवत्सरुचा परतोमरैः । समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ॥ ७४ ॥ येनाङ्गमिति ॥ रुचा सह वर्तते यस्तेन सरुचा तेजस्विना येन वीरेण परतो Page #500 -------------------------------------------------------------------------- ________________ ४८६ शिशुपालवधे ऽमरैः शत्रुशस्त्रैः व्रणवत्सवणमङ्गमूहे ऊढम् । वहेः कर्मणि लिट् संप्रसारणम् । खड्गत्सरौ खड्गमुष्टौ चापे च रतः खड्गत्सरुचापरतः । खङ्गेषुप्रहारेण युद्धं कुर्वनित्यर्थः । 'त्सरुः खगादिमुष्टौ स्यात्' इत्यमरः । स वीरोऽमरैः समत्वं ययौ । पौरुषेणेति भावः । उपमायमकयोः संसृष्टिः ॥ निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् । पाणिनीयमिवालोकि धीरस्तत्समराजिरम् ।। ७५ ॥ निपातितेति ॥ निपातिता वीरशय्यां गमिताः सुहृदादयो यत्र तत्तथोक्तम् । अभिमुखबन्धोरपि रणे वध्यत्वादिति भावः । अन्यत्र निपातिताः लक्षणाभावे शब्दसाधुत्वाय सूत्रकृता सूत्रस्वरूपेणोच्चारिताः सुहृदादिशब्दा यत्र तदित्यर्थः । अत एव तत्समराजिरं रणाङ्गणम् । पाणिनिना प्रोक्तं पाणिनीयमष्टाध्यायीव्याकरणमिव । 'तेन प्रोक्तम्' इति छप्रत्ययः । धीरैष्टैरेवालोकि दृष्टम् । उभयत्रापि धीरैर्दुरवगाहत्वादिति भावः । शोभनं हृदयं यस्य स सुहृत् । 'सुहृदुहृदौ मित्रामित्रयोः' इति हृदयशब्दस्य हृद्भावो निपातितः। स्वमस्यास्तीति स्वामी ईश्वरः । 'स्वामिन्नैश्वर्ये' इति मत्वर्थीयनिपातः । 'पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः' इत्यमरः । 'पितृव्यमातुलमातामहपितामहाः' इति व्यडुलजन्तनिपाताः । बिभर्तीति भ्राता । नप्तृनेष्ट्रादिसूत्रादौणादिको निपातः ॥ अभावि सिन्ध्वा संध्याभ्रसग्रुधिरतोयया । हृते योद्धं जनः पांशौ स युधि रतो यया ॥ ७६ ॥ अभावीति ॥ संध्याभ्रसदृक् संध्यामेघसदृशं रुधिरमेव तोयं यस्यास्तया सिन्ध्वा रक्तनद्या अभावि भूतम् । भावे लुङि चिण् । यया सिन्ध्वा दृशो रुणद्वीति दृधि दृष्टिरोधके । रुधेः क्विप् । पांशो रजसि हृते सति स जनो वीरलोको योद्धं रत उत्सुकः । अभूदिति शेषः । उपमायमकयोः संसृष्टिः ॥ विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः । तरत्पत्ररथा नद्यः प्रासर्परक्तवारिजाः ॥ ७७ ॥ विदलदिति ॥ विदलद्भिर्विदीर्यमाणैः पुष्करैः करिहस्ताङ्गः, अन्यत्र विकसद्भिः पद्मराकीर्णा व्याप्ताः । पतद्भिः शङ्खकुलैः ललाटास्थिसङ्घः कम्बुसङ्घश्चाकुलाः । तरन्ति प्लवमानानि पत्राणि वाहनानि रथाश्व, अन्यत्र पत्ररथा अण्डजा यासु ताः रक्तवारिजा रुधिरतोयजन्याः, अन्यत्र रक्तानि वारिजानि यासु ताः दद्यः प्रासर्पन्प्रावहन् । अत्र नदीनां रक्तनदीनां च श्लेषः ॥ असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् । रक्षःपिशाचं मुमुदे नवमजवसादनम् ॥ ७८ ॥ असृगिति ॥ अस्त्रक्षतिमानस्त्रप्रहारवान् जनो वीरजनोऽसृरक्तं जवसादनं जवस्य चेष्टावेगस्य सादनं सादकं यथा स्यात्तथा अवमत् । नवयोर्मजवसयोमंदोर Page #501 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। सयोरदनं भक्षकम् । कर्तरि ल्युट् । रक्षांसि च पिशाचाश्च रक्षःपिशाचम् । समाहारे द्वन्द्वैकवद्भावः । मुमुदे जहर्ष। अत्र मोदस्य वमनवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गं तच्च यमकेन संसृज्यते ॥ चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहदम् । पयोदजालमिव तद्वीराशंसनमावभौ ॥ ७९ ॥ चित्रमिति ॥ अपेतज्यैरपगतमौर्वीकैः । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । चापैश्चित्रं विचित्रम् । स्फुरन्ति रक्तान्येव शतहदाः शम्पा यस्मिंस्तत् । 'शम्पा शतहदा हादिनी' इत्यमरः । तत्प्रकृतं वीर आशंस्यतेऽत्रेति वीराशं. सनं भयंकरा युद्धभूमिः । 'सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा' इत्यमरः । पयोदजालमिवाबभौ ॥ बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके। अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ ८० ॥ वन्धाविति ॥ इह सैन्ये बन्धौ विपन्ने मृते सति अनेकेन नरेण । अनेकैनरैरित्यर्थः । जातावेकवचनम् । तदन्तिके तस्य मृतस्य बन्धोरन्तिके अशोचि। किंच हता दन्तिनो यत्र तस्मिन् हतदन्तिके सैन्ये घण्टाभिन रेणे न दध्वने । रणतेर्भावे लिट् । अत्र हतदन्तिके इति विशेषणगत्या घण्टानामरणनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते ॥ कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् । क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ ८१ ॥ कृत्तैरिति ॥ कृत्तैः छिन्नैः दन्तिनां दन्तैर्गात्रैश्च कीर्णा मही रणभूमिः क्षुण्णाः पिष्टा लोकासवो जनप्राणा यैस्तैः मृत्योर्मुसलोलूखलैः कीर्णेव रेजे । 'अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्' इत्यमरः । अत्र मुसलोलूखलैरिति राजदन्तादिपाठेऽपि 'सर्वकूलाभ्र-' इत्यादिसूत्रादेव व्यभिचारज्ञाएकात्परनिपातव्यत्ययः ॥ युद्धमित्थं विधूतान्यमानवानभियो गतः । चैद्यः परान्पराजिग्ये मानवानभियोगतः॥ ८२॥ युद्धमिति ॥ मानवानभिमानवान् वैद्यो युद्धं गतः प्राप्तः सन् इत्थं विधूता अभिभूता अन्ये चैद्यातिरिक्ता मानवा यैस्तान् । विधूतान्यमानवान् अभियः निर्भीकान्परानरीन् अभियोगतोऽभियोगादभ्यवरोधात्पराजिग्ये । जिगायेत्यर्थः । 'विपराभ्यां जेः' इत्यात्मनेपदम् । 'सल्लिटोर्जेः' इति कुत्वम् । अथ भगवदभियोगं पञ्चभिः कुलकेनाह अथ वक्षोमणिच्छायाच्छुरितापीतवाससा । स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥८३॥ Page #502 -------------------------------------------------------------------------- ________________ ४८८ शिशुपालवधे. __ अथेति ॥ अथ चैद्यजयानन्तरं वपुषा राजन्परः पुमानदृश्यतेति पञ्चमेन संबन्धः। तद्वपुस्तावत्रिभिर्विशिनष्टि । वक्षोमणेः कौस्तुभस्य छायया छुरितानि व्याप्तान्यापीतवासांसि पीताम्बराणि यस्य तेन । अत एव स्फुरता इन्द्रधनुषा भिन्नाः संगतास्तडितो यस्य तेन तडित्त्वता मेघेनेव स्थितेनेत्यर्थः ॥ ॥यक्षरः॥ नीलेनानालनलिननिलीनोल्ललनालिना । ललनालालनेनालं लीलालोलेन लालिना ॥ ८४ ॥ नीलेनेति ॥ पुनः कीदृशेन वपुषा । नीलेन श्यामलेन तथाऽनालं नालरहितं यन्नलिनं तत्र निलीना आसन्नाः उल्ललन्तीत्युल्ललनाश्चलाश्चालयो यस्य तेन अनालनलिननिलीनोल्ललनालिना । मुखसौरभलोभपरिभ्रमझमरेणेत्यर्थः । ललनानां विलासिनीनां स्त्रीणां लालनेन उपलालनेन । वशीकरणेनेत्यर्थः । अलमत्यन्तं लीलालोलेन क्रीडालोलुपेन । 'लीलालानेन' इति पाठे लीलानां विलासानामालानेन । आलयेनेत्यर्थः । ललयति भक्तानिति लालिना । भक्तानुकम्पिनेत्यर्थः । ब्यक्षरानुप्रासोऽलंकारः ॥ अपूर्वयेव तत्कालसमागमसकामया । दृष्टेन राजन्वपुषा कटाक्षर्विजयश्रिया ॥ ८५॥ अपूर्वयेति ॥ किंच अपूर्वयेव अपूर्वसमागमयेव तत्कालसमागमे सकामया साभिलाषया विजयश्रिया। वैद्यविरक्तयेति भावः । कटाक्षरपाइँदृष्टेनालोकितेन वपुषा राजन्दीप्यमानः । अत्र प्रस्तुतजयश्रीविशेषणसाम्यादप्रस्तुतानुरकमानिनीप्रतीतेः समासोक्तिः प्रतीयमानाभेदाध्यवसायादपाङ्गदर्शनोत्प्रेक्षा च ॥ ॥यक्षरः॥ विभावि विभवी भाभो विभाभावी विवो विभीः। भवाभिभावी भावावो भवाभावो भुवो विभुः ॥८६॥ विभावीति ॥ विभावोऽस्यास्तीति विभावी प्रभावसंपन्नः विभवोऽस्यास्तीति विभवी ऐश्वर्यवान् भस्याभेवाभा यस्य स भाभः । नक्षत्रवदुज्वल इत्यर्थः । विभां विशिष्टाभां भावयति संपादयति विश्वस्येति विभाभावी। 'तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । भुवो ण्यन्ताणिनिः । विना पक्षिणा वाति गच्छतीति विवः । पक्षिवाहन इत्यर्थः । 'आतोऽनुपसर्गे कः' । विभीनिर्भीकः । भवं संसा. रमभिभवतीति भवाभिभावी । भक्तानां संसारनिवर्तक इत्यर्थः। भुवो णिनिः । भावाअन्तूनवतीति भावावः विश्वत्राता। 'भावो लीलाक्रियाचेष्टाभूत्यभिप्राय जन्तुषु' इति वैजयन्ती। अवतः कर्मण्यण् । भवाभावोऽस्यास्तीति । संसारदुःखैरस्पृष्ट इत्यर्थः । अर्शआदित्वादच्प्रत्ययः । भुवो भूमेर्विभुर्भर्ता ॥ Page #503 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४८९ उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः। देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७॥ उपैत्विति ॥ एवंभूतः परः पुमान्परमपुरुषो हरिः । तत्पारं तस्य हरेः पारं अन्तमुपैतुकामैस्तं जिगीषुभिः । अन्यत्र दिक्षुभिरित्यर्थः । 'तुं काममनसोरपि' इति मकारलोपः । निश्चितैः । योद्धं कृतनिश्वयैरित्यर्थः । अन्यत्र निश्चिततत्वैः । सकर्मकादप्यविवक्षिते कर्मणि क्तः । यद्वा पीता गावः, विभक्ता भ्रातर इत्यादिवदूहयितव्यम् । स्फुटीकृतं चैतद्धण्टापथे ‘स वर्णिलिङ्गी विदितः' इत्यत्र । देहत्यागकृतोद्योगैमरणोद्यतैः । अन्यत्र मुमुक्षुभिरित्यर्थः । योगिभिः संनाहवनिरुपायवद्भिर्वा, अन्यत्र ध्यानवद्भिः । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । परैः शत्रुभिः, अन्यत्र परमयोगिभिः अदृश्यत । परेषामग्रेऽतिष्ठदित्यर्थः । अन्यत्र साक्षात्कृतः 'तमेव विदित्वातिमृत्युमेति' इति श्रुतेः। अर्थान्तरप्रतीतिर्ध्वनिरेव न श्लेषः । अभिधायाः प्रकृतार्थे नियन्त्रणात् ॥ ॥गतप्रत्यागतम् ॥ युग्मेनाह तं श्रिया घनयाऽनस्तरुचा सारतया तया । यातया तरसा चारुस्तनयाऽनघया श्रितम् ॥ ८८॥ तमिति ॥ घनया आनन्दसान्द्रया । अनस्तरुचा अक्षीणकान्त्या । सारतया सारस्वेन सर्वोत्कर्षगुणेन यातया व्याप्तया । चारुस्तनया रम्यकुचया। 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' इति विकल्पादनीकारः। अनघया निर्दोषया तया प्रसिद्वया श्रिया रमया तरसा त्वरया श्रितमालिङ्गितं तं हरिमुवीक्ष्येत्युत्तरेण संबन्धः। अनापि प्रातिलोम्येनार्धावृत्तेरर्धप्रतिलोमयमकम् । एतल्लक्षणं तु प्रागेवोक्तम् ॥ विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्यासनिरेनसः। अरुच्यमपि रोगनं निसर्गादेव भेषजम् ॥ ८९ ॥ ॥ युग्मम्॥ विद्विष इति ॥ तं पूर्वोक्तं हरिमुवीक्ष्य विद्विषः शत्रवोऽद्विषुः द्विषन्ति स्म । लङि 'द्विषश्च' इति विकल्पेन झेर्जुसादेशः। तथापि द्विषन्तोऽपि निरेनसो निष्पापा आसन् । द्वेषवीक्षणस्याप्येनोनिवर्तकत्वं दृष्टान्तेनाह-अरुच्यमिति । रोचत इति रुच्यम् । 'राजसूय-' इत्यादिना क्यबन्तो निपातितः । अरुच्यमानमपि भेषजमौषधम् । 'भेषजौषधभेषज्यानि' इत्यमरः । निसर्गात्स्वभावशक्तेरेव रोगं हन्तीति रोगनमारोग्यकारि । ‘हरिहरति पापानि' इति वचनादिति भावः । 'अमनुष्यकर्तृके च' इति टप्रत्ययः॥ Page #504 -------------------------------------------------------------------------- ________________ ४९० । शिशुपालवधे विदितं दिवि केऽनीके तं यातं निजिताजिनि । विगदं गवि रोद्धारो योद्धा यो नतिमेति नः॥९०॥ ॥प्रतिलोमेनायमेवार्थः॥ विदितमिति ॥ किंच योद्धा वीरो यो हरिः नतिं परेषां नम्रतां नैति नापैति । नितरां जिता आजयो येन तस्मिन्निजिताजिनि अनेकाजिविजयिन्यपि अनीके सैन्ये । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । यातं योद्धमागतम् । दिवि स्वर्गेऽपि विदितं प्रख्यातं विगदं निरामयं तं हरिं गवि भुवि । रोद्धारो जेतारः के। न केऽपीत्यर्थः । प्रातिलोम्येऽप्येत एव पदार्थवाक्यार्थाः । एतदपि श्लोकप्रतिलोमयमकमेव । पदपदार्थादिसंवादस्तु वैचित्रीविशेपः । लक्षणं तु निध्वनदित्यत्रैवोक्तमनुसंधेयम् ॥ नियुज्यमानेन पुरः कर्मण्यतिगरीयसि । आरोप्यमाणोरुगणं भर्चा कार्मुकमानमत् ॥ ९१॥ नियुज्यमानेनेति ॥ पुरोऽने अतिगरीयसि कर्मणि रणकर्मणि, अन्यत्र दुष्करे क्वचित्कृत्यवस्तुनि नियुज्यमानेन व्यापारयिष्यता, आज्ञापयिष्यता च भर्ना स्वामिना आरोग्यमाणोऽधिक्रियमाण उरुर्महान् गुणो ज्या यस्मिंस्तत् । अन्यत्र वर्ण्यमानसौन्दर्यादिकः । कर्मणे प्रभवतीति कार्मुकं धनुः 'कर्मण उक'। आनमत् गुणाकर्षणादाकुञ्चितकोटिकमभूत् । अन्यत्र प्रणत इत्यर्थः । अत्र प्रकृतकार्मुकविशेषणसाम्यादप्रस्तुतनियोज्यपुरुषप्रतीतेः समासोक्तिः ॥ तत्र बाणाः सुपरुषः समधीयन्त चारवः। द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ ९२ ॥ तत्रेति ॥ तत्र कार्मुके शोभनानि परूंषि येषां ते सुपरुषः सुपर्वाणः । अत एव चारवोऽतिरम्या बाणाः समधीयन्त निहिताः । आकृष्टस्य तस्य कार्मुकस्यारवश्व द्विषां सुष्टु परुषः सुपरुषोऽतिकर्कशोऽभूत् । यमकविशेषालंकारः ॥ पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् । यो यो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ ९३ ॥ पश्चादिति ॥ नराणां पुंसामिव पश्चात्कृतानां निषङ्गसङ्गितया पृष्ठस्थापितानामपि, अन्यत्रावधीरितानामपि । पत्रिणामिषूणां मध्य इत्यर्थः । यो यः पत्री, नरश्च गुणेन ज्यया दाक्षिण्यादिना च संयुक्तः संबद्धः स स पत्री नरश्चास्य हरेः कर्णान्तं कर्णसमीपमाययौ आगतः । गुणयोगादाकर्णमाकृष्टः, अन्यत्रान्तिक. मागत इत्यर्थः । श्लेषसंकीर्णोपमा ॥ ॥यक्षरः॥ प्रापे रूपी पराऽरेपाः परिपूरी परः परैः। Page #505 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। रोपैरपारैरुपरि पुपूरेऽपि परोपरैः॥ ९४ ॥ ... , प्राप इति ॥ पुरा पूर्व रूपी मत्स्यकूर्माद्यनेकरूपवान् अरेपाः निष्पापः परिपूरयति कामैर्भक्तानिति परिपूरी भक्तवरदः । पूरयतेर्णिनिः । परः परमपुरुषो हरिः परैः शत्रुभिः प्रापे प्राप्तः । अवरुद्ध इत्यर्थः । अपरैरन्यैः शत्रुभिः कर्तृभिः अपारैरनन्तै रोपैरिषुभिः । 'पत्री रोप इषुर्द्वयोः' इत्यमरः । पुरोऽग्रे उपरि च पुपूरे पूरितः । घृणातेः कर्मणि लिद । यक्षरानुप्रासोऽलंकारः ॥ दिसुखव्यापिनस्तीक्ष्णान्हादिनो मर्मभेदिनः। चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥ ९५ ॥ दिगिति ॥ स हरिर्दिङ्मुखव्यापिनो दिगन्तव्यापकान् । अतितीक्ष्णानिशितान्फ्रांश्च द्वादन्ते इति हादिनः पक्षनादवतः, सिंहनादवतश्च । मर्मभेदिनो मर्मस्थानविदारकान्सायकानिषून् , अहितानरीश्च एकक्षणेनैव चिक्षेप निरास । अत्र सायकानामहितानां च प्रकृतानामेव तुल्यधर्मयोगादौपम्योपगमात्तुल्ययोगिताभेदः ॥ . ॥ गूढचतुर्थः॥ शरवर्षी महानादः स्फुरत्कार्मुककेतनः। नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥९६ ॥ शरेति ॥ शरवर्षी बाणवर्षी नीरवर्षी च । 'शरं नीरे शरो बाणे' इति विश्वः । महानादः सिंहनादो, गर्जितं च यस्य स महानादः । स्फुरन्ती कार्मुककेतने धनुर्ध्वजौ यस्य सः । अन्यत्रेन्द्रचापचिह्न इत्यर्थः । नीलच्छविः श्यामकान्तिः । अस्य केशवस्य छलं कपटं यस्य सः नीरदः केशवच्छलनीरदो हरिमेघोऽसौ रेजे । रणरङ्गे सर्वोत्कर्षेण दिदीपे इत्यर्थः । अत्र छलशब्देन हरित्वापह्नवेन मेघत्वारोपणाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः। त्रिपाद्यन्तर्गतचतुर्थपादाक्षरत्वाद्ढचतुर्थाख्यश्चित्रविशेषः, शब्दालंकारश्चेति संकरः ॥ न केवलं जनैस्तस्य लघुसंधायिनो धनुः । मण्डलीकृतमेकान्ताद्वलमैक्षि द्विषामपि ॥ ९७ ॥ नेति ॥ लघु शीघ्रं संधत्ते यस्तस्य लघुसंधायिनस्तस्य हरेः धनुरेव केवलं एकान्तात् मण्डलीकृतं शीघ्राकर्षणानियमेन वलयीकृतं जनै क्षि । कर्मणि लुङ् । किंतु द्विषां बलमपि मण्डलीकृतं त्रासादेकत्र पुञ्जीकृतमैक्षि। अत्र धनुर्बलयोः प्रकृतयोरेव तुल्यधर्मयोगात्केवलप्रकृतास्पदा तुल्ययोगिता ॥ १ अस्माद्धातोलिट्येशि 'ऋच्छत्य॒ताम्' इति गुणस्य दुरित्वात् 'पुपूरे' इति रूपासिद्धिः । तस्मात् 'पूरी आप्यायने' इति धातुर्बोध्यः । Page #506 -------------------------------------------------------------------------- ________________ शिशुपालवधे युग्मेनाह ___ ॥ यक्षरः॥ लोकालोकी कलोऽकल्ककलिलो लिकुलालकः । कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ॥९८॥ लोकेति ॥ लोकानालोकते इति लोकालोकी त्रैलोक्यदर्शी। कलो मधुरभाषी कल्केन पापेन दम्भेन वा कलिलो न भवतीत्यकल्ककलिलः। 'कल्कः पापाशये पापे दम्भे' इति विश्वः । अलिकुलालकः । अलिकुलनीलमूर्धज इत्यर्थः । कालो नीलवर्णः कालात्मको वा । नास्ति कला यस्य सोऽकलः । निरंश इत्यर्थः । अकलिरकलहः । स्वयमकलहशील इत्यर्थः । काले प्रलयकाले कोलकेल्या वराहलीलया किलति क्रीडति कोलकेलिकिलः । किलशब्दस्तु खल्वर्थे । विव्याधेत्युत्तरेण संबन्धः । ब्यक्षरानुप्रासः ॥ अक्षितारासु विव्याध द्विषतः स तनुत्रिणः । दानेषु स्थूललक्ष्यत्वं नहि तस्य शरासने ॥ ९९ ॥ ॥ युग्मम् ॥ अक्षीति ॥ स पूर्वोक्तगुणविशिष्टो हरिः तनुत्राणि येषां सन्तीति तनुत्रिणो वर्मिणः । 'तनुत्रं वर्म दंशनम्' इत्यमरः । तान् द्विषतः शत्रून् अक्षितारासु नेत्रकनीनिकासु विव्याध प्रजहार । तथाहि तस्य हरेः दानेषु वितरणेष्वेव स्थूललक्ष्यत्वं विपुलविषयत्वम् । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे' इत्यमरः । शरासने शरक्षेपे तु न, किं तु सूक्ष्मलक्ष्यस्वमेव । अतोऽक्षितारावे. धित्वमस्य युक्तमित्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ॥ यक्षरः॥ वररोऽविवरो वैरिविवारी वारिरारवः । विववार वरो वैरं वीरो रविरिवौर्वरः ॥१०॥ वरर इति ॥ वरान्रातीति वररो वरप्रदः। 'रा दाने' 'आतोऽनुपसर्गे कः'। अविवरो निर्विवरो नीरन्ध्रः । वैरिणः शत्रून् विवारयति वैरिविवारी । वारीणि रातीति वारिरः पूर्ववत्कः । तस्येवारवो यस्य स वारिरारवः । वरः श्रेष्ठो वीरः शूरः स कृष्णः । 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इत्यमरः । तस्यां भव और्वरः पृथ्वीभवः रविरिव वैरं वैरिणां वृन्दं विववार विवारयामास । जघानेत्यर्थः । ब्यक्षरानुप्रासः ॥ मुक्तानेकशरं प्राणानहरभूयसां द्विषाम् । - तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १०१॥ मुक्तेति ॥ मुक्तानेकशरं क्षिप्तबहुबाणं तस्य हरेरिदं तदीयं धनुः भूयसां Page #507 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४९३ द्विषां प्राणानहरत् । तथा हि अन्यस्य परस्य सजीवतां न सेहे । अथ वा अन्यस्य धनुषः सजीवतां सज्याकस्वं न सेहे । 'त्रिषु जीवति जीवः स्यान्मौव्या स्वी' इति वैजयन्ती । वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ॥ यक्षरः॥ राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः। रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः॥ १०२ ।। राजेति ॥ न जायत इत्यजोऽनादिः । 'अन्येष्वपि दृश्यते' इति जनेर्डप्रत्ययः । न जीर्यते इत्यजरोऽनन्तः । पचाद्यच् । नास्ति रजो यस्येत्यरजा रजोगुणरहितः । रेजन्तीति रेजास्तेजिष्ठाः । 'रेज दीप्तौ' पचाद्यच् । ते च ते अरयश्च तेषां जूरो हिंसनं तेन जातं रजारिजूरजम् तदूर्ज बलं अर्जयतीति रेजारिजूरजोर्जार्जी । अर्जेणिनिः । ऋजुराजववान् । जर्जरो न भवतीत्यजर्जरो दृढः स हरिः आजेरजिरे रणाङ्गणे राजराजी राजश्रेणी: रुरोज बमक्ष । 'रुजो भङ्गे' लिट् । अत एव रराज दिदीपे। यक्षरानुप्रासः ॥ उद्धतान्द्विषतस्तस्य निघ्नतो द्वितयं ययुः। पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः॥१०३ ॥ उद्धतानिति ॥ उद्धतान्हप्तान् द्विषतः शत्रून्निनतो हिंसतः । 'जासिनिप्रहण-' इति सूत्रे निप्रेतिसंघातविपर्यस्तव्यस्तग्रहणोपदेशानिहन्तेरशेषकर्मणि द्वितीयैव । तस्य हरेः शराः । पानार्थे धातौ 'पा पाने' इति धातौ सति रुधिरं, रक्षार्थे धातौ 'पा रक्षणे' इति भुवनं जगचेति द्वितयं ययुः । रुधिरमपिबन् भुवनमरक्षश्चेति श्लेषार्थः । अत्र पानयोरभेदाध्यवसायेन रुधिरभुवनयोस्तुल्ययोगितालंकारः । तत्र पानार्थ इत्यादिवाक्यस्य शत्रुवधेन भुवनमरक्षन्निति सूक्ष्मार्थगर्भत्वात्सौक्ष्म्यं नाम गुणः । 'अतः संकल्पत्वं (?) शब्दानां सौक्ष्यमु. च्यते' इति लक्षणात् ॥ अथ युग्मेनाह ॥ यक्षरः॥ क्रूरारिकारी कोरेककारकः कारिकाकरः। कोरकाकारकरकः करीरः कर्करोऽर्करुक ॥१०४॥ . ऋरेति ॥ क्रूरानरीन् किरति विक्षिपति इति क्रूरारिकारी । किरतेर्णिनिप्र. त्ययः । को मेरेककारकः एककर्ता। करोतेवुल । कारिका यातनाः करोति दुष्टानामिति कारिकाकरः । 'कारिका यातनावृत्योः' इत्यमरः । 'कृञो हेतु-' इत्यादिना ताच्छील्ये टप्रत्ययः। कारिकाः क्रियाः । धात्वर्थनिर्देशे ण्वुल । तत्कर इति केचित् । कोरकाकारौ करौ यस्य स कोरकाकारकरकः । कमलमुकुलरमणीयपाणिरित्यर्थः । शैषिकः कप्प्रत्ययः । करिणो गजानीरयति क्षिपतीति करीरः। ४२ शिशु Page #508 -------------------------------------------------------------------------- ________________ ४९४ शिशुपालवधे कर्मण्यण् । कर्करो रणकर्कश इत्यर्थः । 'कर्करो दर्पणे दृढे' इति शाश्वतः । अर्कस्येव रुग्यस्य सोऽगित्युपमा । यक्षरानुप्रासः॥ विधातुमवतीर्णोऽपि लघिमानमसौ भुवः। अनेकमरिसंघातमकरोभूमिवर्धनम् ॥ १०५ ॥ विधातुमिति ॥ भुवो भूमेलधिमानं लघुत्वं भारावतरणं विधातुमवतीोऽपि भुवि जातोऽप्यसौ पूर्वोक्तगुणो भगवान् हरिः भनेकं बहुमरिसंघातं भूमिवर्धनं भूभारमकरोदिति विरोधः । मृतमकरोदित्यविरोधः । अत एव विरोधाभासोऽलंकारः॥ ॥ यक्षरः॥ दारी दरदरिद्रोरिदारूदारोऽद्रिदूरदः । दूरादरौद्रोऽददरद्रोदोरुदारुरादरी ॥ १०६ ॥ दारीति ॥ दारी बहुदारवान् । भूमार्थे मत्वर्थीयः । दरेण भयेन दरिद्रो निर्भीकः । 'दरोऽस्त्रियां भये श्वः' इत्यमरः । उदारो महान् , दाता वा । 'उदारो दातृमहतोः' इत्यमरः । अद्विवत् दुःखेन रद्यते दूरदो दुर्भेदोऽद्विदूरदः । 'रद विलेखने' खल प्रत्ययः । अरौद्ः साधूनां सौम्यः । रोदसी रुणद्धीति रोदोरुत् विश्वव्यापी । रुधेः विप् । ददातीति दारुर्दाता । ददातेरोणादिको रुप्रत्ययः । भादरोऽस्यास्तीत्यादरी सन्मार्गादरवान् स हरिः अरिरेव दारु काष्ठमरिदार दूरादेव अददरत् दारयति स्म । दारयतेो चङि 'अस्मृदृत्वरप्रथम्रदस्तृस्पशाम्' इत्यभ्यासस्यास्वम् । अरिदार्विति रूपकमर्थालंकारो ब्यक्षरानुप्रासश्च ॥ एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव । स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १०७ ॥ एकेषुणेति ॥ स हरिरेकेषुणा एकेनैव शरेण सङ्घानां पूरणान्सङ्घतिथान् । सङ्घशः स्थितानित्यर्थः । 'बहुपूगगणसङ्घस्य तिथुक्' इति तिथुगागमादेव ज्ञापकादसंख्यात्वेऽपि सङ्घाडुट् प्रत्ययः । द्विषः शत्रून्दुमानिवेत्युपमा । भिन्दन्वि. दारयन् । जन्मान्तरे रामस्य दाशरथेरात्मनः सदृशं चके। एकशरेणानेकारिदुमभेदस्तु जन्मान्तरभावनाय जात इति भावः। 'बिभेद च पुनस्तालान्सप्तैकेन महेषुणा' इति रामायणे ॥ ॥ यक्षरः॥ शूरः शौरिरशिशिरैराशाशैराशु राशिशः । शरारुः श्रीशरीरेशः शुशूरेऽरिशिरः शरैः ॥ १०८ ॥ शूर इति ॥ शृणातीति शरारुः दुष्टघातुकः । 'शरारुर्घातुको हिंस्रः' इत्य. मरः । 'शुवन्द्योरारुः' इत्यारुप्रत्ययः। श्रीशरीरस्येशः श्रीशरीरेशः लक्ष्मीप्राणनाथः शूरो वीरः शौरिः कृष्णः अशिशिरैस्तीक्ष्णैः आशा दिशोऽनुवत इत्याशा Page #509 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। ४९५ शैदिगन्तव्यापकैः । अश्नोतेः कर्मण्यण् । शरैर्बाणैः अरिशिरः शत्रुशिरांसि । जातावेकवचनम् । राशिशः सङ्घशः आशु शीघ्र शुशूरे जघान । 'शूर हिंसास्तम्भनयोः' इति धातोलिट् । यक्षरानुप्रासः ॥ व्यक्तासीदरितारीणां यत्तदीयास्तदा मुहुः। मनोहतोऽपि हृदये लेगुरेषां न पत्रिणः॥१०९॥ व्यक्तेति ॥ तदा तस्मिन्समये एषां अरीणामरिता शत्रुता मुहुर्यता आसीत् । यद्यस्मात्तस्य हरेरिमे तदीयाः पत्रिणो बाणाः मनो हरन्ति कायादुद्धरन्तीति मनोहृतः । मारका इत्यर्थः । हरतेः क्विप् । मनोज्ञाः प्रतीयन्ते । अत एव मनोहृतोऽपि हृदये मनसि न लेगुर्न लग्ना इति विरोधः । वक्षो निर्भिद्य निर्जग्मुरित्यर्थः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । विरोधाभासोऽलंकारः ॥ ॥अतालव्यः ॥ नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् । अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ॥११० ॥ नामेति ॥ भर्तुः स्वामिनो नामाक्षराणां फलेषु लिखितानां मलना मालिन्यं तिरोधानं मा भूदिति बुद्ध्येत्यर्थः । अतः मार्गणाः हरिशराः पराङ्गानां अरिशरीराणामसून्प्राणानगृह्णत । गृहेर्लङ् । न अस्त्रं रक्तम् । रक्ताविलेपस्य आशुभावनिमित्तस्य स्वामिनामाक्षरमालिन्यपरिहारार्थत्वमुन्प्रेक्ष्यते-स्फुटमिति । अत्र तालव्यवर्णाभावादतालव्य इति चित्रभेदः । (इचुयशानां ताल्विति इवर्णस्य तालुस्वेऽपि व्यञ्जनापेक्ष एवायं नियम इति न दोषः॥) आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः। ऐकागारिकवद्भूमौ दूराजग्मुरदर्शनम् ॥ १११ ॥ आच्छिद्येति ॥ आशुगा बाणाः योधसार्थस्य वीरवर्गस्य प्राणसर्वस्वं आच्छिद्य ऐकागारिकाश्वौराः । 'चौरैकागारिकस्तेनः' इत्यमरः । 'ऐकागारिकट चौरे इत्यर्थे निपात्यत इत्येके । इकट् प्रत्यये वृद्धिश्च निपात्यते इत्यपरे । तैस्तुल्यमैकागारिकवत् । तुल्यार्थे वतिः। दूराद्भूमावदर्शनमदृश्यतां जग्मुः ॥ भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः। कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२॥ भीमेति ॥ जिनो हरिः अवतारान्तरनाम्ना व्यपदेशः । भीमा अस्त्रराजयो यस्य तस्य भीमास्त्रराजिनः । 'इकोऽचि विभक्तौ' इति नुमागमः। ध्वजै राजते यस्तस्य ध्वजराजिनः । ताच्छील्ये णिनिः । कृता घोरा आजियुद्धं येन तस्य कृतघोराजिनः । पूर्ववनुमागमः। तस्य बलस्य सैन्यस्य संबन्धिनी वस्तगणभूमीः सरुधिराः सास्राश्चके । चतुष्पादयमकम् ॥ - १ इयं पलिष्टीकाकृताऽनवहितचेतसा व्यलेखि । अन्येन वा केनचित्प्रमत्तेन प्रक्षिप्ता । Page #510 -------------------------------------------------------------------------- ________________ ४९६ शिशुपालवधे मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् । शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥ ११३ ॥ मांसेति ॥ मांसव्यधो मांसखण्डनम् । 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । तत्रोचितानि परिचितानि मुखानि चञ्चवः शल्यानि च येषां तैः शकुन्तिभिः कर्तृभिः शून्यतामचेतनत्वं, अन्यत्र तुच्छत्वममूर्तत्वं वा दधत् अन एव अक्रियमस्पन्दं शत्रुबलं व्यापि व्याप्तम् । आप्नोतेः कर्मणि लुङ् । तस्य हरेरिषुभिः नमो व्यापि । अत्रेषुपक्षिणां नभोबलयोाप्तितुल्यधर्मयोगित्वात्तुल्ययोगिताभेदः ॥ ॥ एकाक्षरः॥ दाददो दुद्ददुद्दादी दादादो दुददीददोः। दुद्दादं दददे दुद्दे ददाददददोऽददः ॥ ११४ ॥ दादद इति ॥ दद्यते इति दादः दानम् । 'दद दाने' इति कर्मणि घन्। दादं ददातीति दाददो दानप्रदः । 'भातोऽनुपसर्गे कः' । दुद्ददुद्दादी दुत् उपतापः 'टुदु उपतापे' विप् । दुतमुपतापं ददति साधूनामिति दुद्दाः खलाः । पूर्ववत्कः । तेषां दुतमुपतापं ददत इति दुद्ददुद्दादी । 'दद दाने' इति धातो. णिनिः । दादादः । दाः शुद्धिः 'दैप शोधने' क्विप् । तां ददत इति दादादः। 'दद दाने' कर्मण्यण् । दूददीददोः । दूः परितापः । 'दूङ् परितापे' विप् । तां ददतीति दूदा दुष्टाः । दीः क्षयः । 'दीङ क्षये' विप् । तां दत्त इति दीदौ . नाशदी। उभयत्रातोऽनुपसर्गे कः । दूदानां दीदौ दुष्टमर्दको दोषौ भुजौ यस्य सः दूददीददोः। दुष्टभाकभुज इत्यर्थः । ददाददददः । ददन्ते इति ददाः दातारः न ददन्ते इति अददा अदातारः तेषां द्वयानामपि ददो दाता ददाददददः । सर्वत्र 'दद दाने' पचाद्यच् । अदन्तीत्यदा बकासुरपूतनाप्रभृतयः । अदः पचाद्यच् । तान् द्यति खण्डयतीति अददः । 'दोऽवखण्डने' 'आतोऽनुपसर्गे कः' एवंभूतो हरिः । दुतं ददातीति दुद्दः दुःखदः तस्मिन् दुद्दे शत्रौ । दुतं ददत इति दुद्दादं शस्त्रम् । 'दद दाने' कर्मण्यण् । दददे ददौ । प्रयुक्तवानित्यर्थः । 'दद दाने' कर्तरि लिट् । एकाक्षरानुप्रासोऽलंकारः ॥ प्लुतेभकुम्भोरसिजैहृदयक्षतिजन्मभिः। प्रावर्तयन्नदीरर्द्विषां तद्योषितां च सः ॥ ११५ ॥ फ्लुतेति ॥ स हरिः प्लुताः उक्षिताः इभकुम्भाः उरसि जाता उरसिजा इभकुम्भा इवोरसिजाश्च यस्तैः हृदयक्षतिभिर्वक्ष प्रहारैः मनोभङ्गैश्च विषादापादकः जन्म येषां तैः । 'हृदयं वक्षसि स्वान्ते' इति विश्वः । द्विषां तद्योषितां चारैः शोणितैरश्रुभिश्च । 'अस्रमश्रुणि शोणिते' इति विश्वः । नदीः प्रावर्तयत्प्रावाहयत् । अरिवधेन तन्नारीररोदयदित्यर्थः । अत्र द्वयानामप्यस्राणां प्रकृतत्वात्प्रकृत. श्लेषः । तेरौर्द्विषां तद्योषितां यथासंख्यबन्धाद्यथासंख्यालंकारः। तदुपजीवनेन Page #511 -------------------------------------------------------------------------- ________________ एकोनविंशः सर्गः। द्विषां तद्योषितां चात्रैः शोणितैः श्लेषमूलाभेदातिशयोक्तिमहिना अत्ररूपतुल्यधर्मयोगित्वात्तुल्ययोगितेत्यङ्गाङ्गिभावेनैषां संकरः ॥ ॥ अर्थत्रयवाची ॥ सदामदबलप्रायः समुद्धृतरसो बभौ । प्रतीतविक्रमः श्रीमान्हरिहरिरिवापरः ॥ ११६ ॥ सदेति ॥ सदा मदो यस्य स सदामदः नित्यमत्तस्तं बलं बलभद्रं प्रीणानीति सदामदबलप्रायः । परत्वात्कर्मण्यणप्रत्ययः । समुद्धृता रसा भूर्येन स समुद्धृतरसः । प्रतीताः प्रसिद्धा विक्रमाः पादन्यासा यस्य सः । त्रिविक्रम इत्यर्थः । श्रीमान् रमापतिः हरिः कृष्णोऽपरोऽन्यो हरिरिन्द्र इव बभौ । सोऽपि सतामामदो दुःखदो यो बलासुरस्तस्य प्रायो नाशस्तं करोतीति सदामदबल. प्रायः । 'तत्करोति-' इति ण्यन्तात्पचाद्यच् । समुद्धृतरसः अमृतपानेन सम्यगपहृतविषः। 'शृङ्गारादौ विषे वीर्ये द्रवे रागे गुणे रसः' इत्यमरः । प्रतीतविक्रमः प्रसिद्धपराक्रमः श्रीमान्स्वाराज्यलक्ष्मीयुक्तः । तथा परोऽन्यो हरिः सूर्य इव बभौ । सोऽपि आमं रोगं द्यति खण्डयतीत्यामदः । बलं पृणातीति बलप्रः । मूलविभुजादित्वात्कः । सतां भक्तानामामदो बलप्रश्च अय उदयो यस्य स सदा मदबलप्रायः। स्वोदयेन सतामारोग्यबलकारीत्यर्थः। 'उद्यन्नद्य-' इत्यादिश्रुते. रिति भावः । समुद्धृतरसः धर्मकालसंशोषितसलिलः। प्रतीतविक्रमः प्रसिद्धः खगगतिः । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिना कपिले त्रिषु ॥' इत्यमरः। तदेवमुपमानयोरुपमेये चार्थत्रयवचनादर्थत्रय वाच्येषु चित्रभेदः । एतावदेव कवेर्विवक्षितमतोऽन्यत्सुवाच्यं चोपेक्ष्यमेव । अत्रापरो हरिरिवेत्यपरशब्दप्रयोगादुत्प्रेक्षेयं नोपमा।अपरस्येन्द्रस्यार्कस्य वाऽप्रसिद्ध प्रसिद्धसादृश्यवर्णनमुपमा । प्रसिद्धताद्रप्यारोपे रूपकम् । प्रसिद्धताद्रूप्यभावनमुत्प्रेक्षा । अत एव लक्षयन्ति । अप्रकृतगुणक्रियाविसंधानादप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षेति । तस्मादपरशब्देन प्रकृतस्याप्रकृतत्वाध्यवसायप्रतीतेरिवशब्देन तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेति सर्वस्वकारः । तस्मादिवशब्दमात्रप्रयोग एवोपमा । अपरशब्दमात्रप्रयोगेऽतिशयोक्तिः । उभयोः प्रयोगे तूत्प्रेक्षैवेति विवेकः । अत एवात्रानेकार्थवर्णनव्यवसायिभिरपरशब्दस्यान्यार्थताव्यतिरेकेणार्थान्तरकल्पनापि नालंकारिकाणां पन्थाः । श्लेषश्चात्रोत्प्रेक्षाबीजभूतसाधर्म्यनिर्वाहमात्रोपक्षीणतया तदङ्गमिति संकर इत्यलमतिप्रसक्त्या ॥ द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः । पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥ ११७ ॥ द्विधेति ॥ शत्रवः एकमपि तं हरिं द्विधा द्वित्वेन त्रिधा त्रित्वेन चतुर्धा चतुष्वेन पश्यन्तः भयात्तथा भ्राम्यन्त इत्यर्थः । स्पर्धया मत्सरेण सद्यः स्वयं पञ्चत्वं पञ्चधाभावं मरणं चाययुः । मत्सरिणस्तदधिकमाचरन्तीति भावः । 'स्था Page #512 -------------------------------------------------------------------------- ________________ ४९८ शिशुपालवधे पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मृत्युमरणं निधनोऽस्त्रियाम् ॥' इत्यमरः । पाञ्चभौतिकस्य शरीरस्य पञ्चधाभावः पञ्चता । अत्र स्पर्धेति हेतोरुत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या। स्पर्धयेवेत्यर्थः ॥ ॥समुद्गः॥ सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु । महो दधे स्तारिमहानितान्तं महोदधेऽस्तारिमहा नितान्तम् ११८ सदेति ॥ सदैव सर्वदैव संपन्नं सर्वलक्षणसमग्रं वपुर्यस्य स संपन्नवपुः । नित्यपरिपूर्णमूर्तिः । संहितायां 'ढलोपे पूर्वस्य दीर्घोऽणः' । अस्तं निरस्तमरीणां महस्तेजो येनासौ अस्तारिमहाः महानधिकः स हरिः दैवसंपत् भाग्यसंपत्तिः सैव नवं पूरणं प्रत्ययसाधनं येषां तेषु दैवसंपन्नवपूरणेषु देवसहायेषु रणेषु महोदधेर्महार्णवस्य इतान्तं प्राप्तपारं समुद्रपारगामि नितान्तं स्तारि विस्तीर्ण महस्तेजो दधे धारयामास । अर्धाभ्यासलक्षणसमुद्यमकभेदः 'अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः' इत्युक्तं दण्डिना । उपेन्द्रवज्रा वृत्तम् ॥ इष्टं कृत्वार्थ पत्रिणः शापाणे रेत्याधोमुख्यं प्राविशन्भूमिमाशु । शुद्धायुक्तानां वैरिवर्गस्य मध्ये ___ भर्ता क्षिप्तानामेतदेवानुरूपम् ॥ ११९ ॥ इष्टमिति ॥ शाङ्ग पाणौ यस्य शाङ्गपाणेः कृष्णस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । पत्रिणो बाणाः इष्टमर्थ शत्रुवधात्मकं कृत्वा आधोमुख्यमधोमुखत्वमेत्य प्राप्य आशु भूमिमाविशन् शुद्ध्या लोहशुद्ध्या पवित्रतया च युक्तानां तथापि भ; स्वामिना वैरिवर्गस्य मध्ये क्षिप्तानां पातितानाम् , एतदेव अधोमुख्येन क्वचिन्निलयनमेव वानुरूपमुचितम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । जागतं वैश्वदेवीवृत्तम् । 'पञ्चा. श्वैश्छिन्ना वैश्वदेवी ममौ यौ' इति लक्षणात् ॥ ॥चक्रवन्धः ॥ सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिच्दा । मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १२० ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के एकोनविंशतितमः सर्गः ॥ ५९॥ Page #513 -------------------------------------------------------------------------- ________________ विंशः सर्गः । ४९९. सत्त्वमिति ॥ भव्यः कल्याणमूर्तिः लब्धोऽघक्षयः शुद्धिश्च येन स लब्धाक्षयशुद्धिः श्रीवत्सस्य लाञ्छन विशेषस्य भूमिर्वक्षः सा उद्धुरतरा उन्नततरा यस्य स उद्धुरतर श्रीवत्सभूमिः काममपास्तभीः निर्भीकः परे शत्रवस्त एव मृगास्तेषां व्याधः मृगयुरित्यश्लिष्टरूपकम् । व्याधो मृगवधाजीवो मृगयुलुंडधकोsपि च' इत्यमरः । उदयी नित्याभ्युदयवान् । नित्ययोगे मत्वर्थीयः । स्त्र हरिः पुरः पूर्व आजिरभसाद्रणरागात् मानविशिष्टमहंकारोद्धुरं सत्वं बलमालब्यास्थाय मुदा उत्साहेन हरेः सिंहस्य नादं मुक्त्वा । सिंहनादं कृत्वेत्यर्थः । समकालमेककालम् । अत्यन्तसंयोगे द्वितीया । एक ओघो येषां तैरेकोधः एकप्रहारै रोपैरिषुभिरभ्रमाकाशं तदा तस्मिन्काले आतस्तरे आच्छादयामास । 'ऋच्छत्यृताम्' इति गुणः । चक्रबन्धाख्यश्चित्रविशेषोऽलंकारः पूर्वोक्तरूपकेण संसृज्यते । चक्रबन्धोद्धारस्तु - दशमण्डलरे खात्मके नवमखण्डान्तरालवति चक्रे नाभिस्थानेन सहैकोनविंशतिकोष्ठं प्रत्येकं यक्षगतं पक्तित्रयं समरेखया लिखित्वा तत्रैकस्यां पङ्कौ वामपार्श्वप्रक्रमेण आद्यपादमालिख्य तथा प्रादक्षिण्येन द्वितीय * तृतीययोर्द्वतीयतृतीय लिखित्वा नेमिस्थाने बाह्यवलये साक्षरकोष्टषट्ङ्केन सहाटादशकोष्ठवति तृतीयपादान्तकोष्ठवर्तिवर्णमारभ्य प्रादक्षिण्येन चतुर्थपाद लिखित्वा तत्रैव समापयेत् । तत्र तत्राद्यन्तवर्णैः सह चतुर्थपादोद्धारः । तत्र नाभिस्थाने आद्यपादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे चतुर्थाद्यन्तवर्णयोः संवादः । तृतीयवलये 'माघकाव्यमिदं' षष्ठे 'शिशुपालवधः' इति कविकाव्यनामोद्धारः । शार्दूलविक्रीडितं वृत्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवधकाव्यव्याख्यायां सर्वकषाख्यायां एकोनविंशतितमः सर्गः ॥ १९ ॥ विंशः सर्गः । अथ हरिशिशुपालयोर्युद्धं वर्णयितुमुपोद्वातं करोतिमुखमुल्लसितत्रिरेखमुच्चैर्भिदुर श्रूयुगभीषणं दधानः । समिताविति विक्रमानमृष्यन्गतभीराह्वत चेदिराम्मुरारिम् ॥ १ ॥ मुखमिति ॥ इतीरथं समितावाजी । 'समित्या जिसमिथुधः' इत्यमरः । विक्रमान्मुरारेः पराक्रमान् अमृष्यन्नसहमान: अत एव तिस्रो रेखात्रिरेखाः । 'दिक्संख्ये संज्ञायाम्' इति समासः । ता उल्लसिताः क्रोधादुद्भूता यस्मिंस्तदुलसि - तत्रिलेखम् । क्वचित् 'त्रिलोकम्' इत्यपि पाठः । तथा भिदुरेण ग्रन्थिलेन भ्रूयुगेन भीषणं भयंकरं उच्चैरुन्नतं मुखं दधानः चेदिषु राजत इति चेदिराट् । संपदादि Page #514 -------------------------------------------------------------------------- ________________ ५०० शिशुपालवधे २ त ।। भ्यः क्विए । यद्वा चेदीनां राद चेदिराट् । 'अन्येभ्योऽपि दृश्यते' इति क्विम् । 'राजा राट् पार्थिवः क्ष्माभृत्' इत्यमरः । गतभीनिर्भीकः सन् मुरारि हरि आह्वत । अयमहं क्वासि मामभ्युपैहि इति स्पर्धया 'अमर्षादाकारयामासेत्यर्थः । विनाशकाले विपरीतबुद्धेर्दारत्वादिति भावः। स्पर्धायामाङः' इति द्वयतेलुङि तङ्, 'आत्मनेपदेष्वन्यतरस्याम्' इति च्लेरङादेशः । अत्रामर्षस्य विशेषणगत्या आह्वानहेतुत्वाकाव्यलिङ्गम् । सर्गेऽस्मिन्नौपच्छन्दसिकं वृत्तम् । वैतालीये गुर्वाधिक्यात् । तदुक्तं 'वैतालीयं द्विः स्वरा अयुपादे युग्वसवोऽन्ते गः', 'औपच्छन्दसिकम्' इति ॥ शितचक्रनिपातसंप्रतीक्षं वहतः स्कन्धगतं च तस्य मृत्युम् । अभिशौरि रथोऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या २ शितेति ॥ अथ आह्वानानन्तरं शितचक्रनिपातं शितसुदर्शनप्रहारं संप्रतीक्षत इति शितचक्रनिपातसंप्रतीक्षम् । ईक्षतेः कर्मण्यण् । स्कन्धगतं मृत्युं वहतः तस्य चैद्यस्य रथः सारथिरूपया नियत्या विधिनेति रूपकम् । 'भाग्यं स्त्री निय. तिविधिः' इत्यमरः । नोदिताश्वः प्रेरिताश्वः सन् अभिशौरि शौरिमभि । आभिमुख्येऽव्ययीभावः । 'अव्ययादाप्सुपः' इति सुपो लुक् । प्रययौ प्रतस्थे । अभिचैद्यमगाद्रथोऽपि शौरेवनिं जागुडकुङ्कुमाभितानैः। गुरुनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥३॥ अभीति ॥ अथ शौरेः कृष्णस्य रथोऽपि जागुडो देशविशेषः, तत्र यत्कुङ्कुम तद्वदभिताररुणैरित्युपमा । यावकेति पाठे यावकश्च कुङ्कुमं च ताभ्यामभिताम्ररित्यर्थः । गुरूणां नेमीनां चक्रधाराणां निपीडनेन नोदनेनावदीर्णेभ्यो व्यसूनां विगतप्राणानां देहेभ्यः उतैः शोणितैरसृम्भिरवनि विलिम्पन्नुपदिहानः सन् अभिचैद्यं चैद्यमभि । समासो व्यासो वा विकल्पात् । अगात् । 'इणो गा लुङि' इति गादेशः ॥ स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः । विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥४॥ स इति ॥ निरायतोऽतिदीर्घः केतनांशुकान्तः ध्वजपटाञ्चलो यस्य सः कलनिकाणैः मधुरस्वरैः करालाः कुशलाः प्रगल्भाः किङ्किण्यः क्षुद्रघण्टिका यस्य स तथोक्तः । 'नवृतश्च' इति कप् । 'किङ्किणी क्षुद्रघण्टिका' इत्यमरः । स कृष्णस्य रथः रिपुक्षयस्य शिशुपालवधस्य प्रतिज्ञया मुखरो वाचालः अत एव मुक्तशिखो मुक्तकेशः विरराज । नाहमेनमहत्वा शिखाबन्धं करिष्यामीत्युद्धोषयन्नित्यर्थः । स्वयं साक्षान्नु मृत्युरन्तकः किमि युत्प्रेक्षा ॥ सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य । प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयांबभूवे ॥ ५ ॥ Page #515 -------------------------------------------------------------------------- ________________ विंशः सर्गः। सजलेति ॥ सजलोऽम्बुधरः तस्यारवं गर्जितमनुकरोतीति तथोक्तः । तद्वद्गम्भीर इत्यर्थः । उपमालंकारः । आपूरितदिङ्मुखो व्याप्तदिगन्तो रथस्य कृष्णरथस्य ध्वनिः । ऊर्ध्वाः कण्ठा येषां तैरूद्धकण्ठैः । आकस्मिकघनरवलोभाद्विस्मयहर्षोन्नमितकंघरैरित्यर्थः । शितिकण्ठैर्नीलकण्ठैः प्रगुणीकृता अतितारीकृताः केका यस्मिन्कर्मणि तद्यथा तथा। 'केका वाणी मयूरस्य' इत्यमरः । उपकर्णयांबभूवे । मेघारवभ्रान्त्या दत्तकर्णरित्यर्थः । एतेन भ्रान्तिमदलंकारो व्यज्यत इति वस्तुनालंकारध्वनिः ॥ अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः । चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥६॥ अभीति ॥ चेदिराजः शिशुपालः । 'राजाहःसखिभ्यष्टच्' । विदर्भराजपुत्र्या रुक्मिण्याः कुचयोर्यकाश्मीरजं कुङ्कुमं तच्चिद्रं यस्य तदच्युतोरः कृष्णवक्षः अभिवीक्ष्य चिरसेवितया चिरोपयुजापि । रुक्मिणीहरणात्प्रभृति संभृतयापीत्यर्थः । रुषा रोषेण तदैव तदानीमिवेत्युत्प्रेक्षा । सहसा योगं संबन्धमवाप। यथा कामी काम्यन्तरभोगचिह्नदर्शनोद्दीप्तः कान्तया संयुज्यते तद्वदित्यर्थः । परमार्थ. स्वरूप एव कोपो वैदर्भी कुचकुङ्कुमदर्शनादुद्दीपित इत्यर्थः । अत्र प्रकृतरुड्किशेषणसाम्यादप्रकृतकान्ताप्रतीतेः समासोक्तिः, उक्तोत्प्रेक्षा त्वङ्गमस्याः ॥ जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण । चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्यम् ७ जनितेति ॥ नृपेण चेदिपेन आस्फालितं संघट्टितं अत एव चपलानिलेन तीवानिलेन चोद्यमानस्य संवय॑मानस्य कल्पक्षयकालाग्नेर्या शिखा ज्वाला तया समाना तन्निभा । इति नित्यसमासः। सा स्फुरन्ती दोधूयमाना ज्या मौर्वी यस्य तत्तथोक्तं धनुः जनिता उत्पादिता अशनिशब्दशङ्का यस्मिन्कर्मणि तत्तथोक्तं उच्चैस्तरामध्वनत् । अत्राग्निशिखानिभेत्युपमाया अशनिशब्दशङ्केति भ्रान्तिमतः आस्फालितमध्वनदिति पदार्थहेतुककाव्यलिङ्गस्य च सापेक्षस्वात्संकरः ॥ समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवगैः। अथ साभिसरं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमभ्यवर्षत् ॥८॥ समेति ॥ अथ धनुरास्फालनानन्तरं तरस्त्री बलवान्स चैद्यः समकालमिवेत्युत्प्रेक्षा । अत्यन्तसंयोगे द्वितीया । अभिलक्षणीया दृश्या ग्रहो ग्रहणं संधानं मौर्या योजनं विकर्षणमाकर्षणमपवर्गो मोक्षश्च येषां तैः शरैः साभिसरं सानुचरमुपेन्द्रं हरिं तिरस्कर्तुमाच्छादयितुमभ्यवर्षत् ॥ ऋजुताफलशुद्धियोगभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् । गुणिना नतिमागतेन संधिः सह चापेन समञ्जसो बभूव ॥९॥ १ 'चिरसंचितया' इति पाठः. Page #516 -------------------------------------------------------------------------- ________________ ५०२ शिशुपालवधे ऋजुतेति ॥ ऋजुता अवक्रत्वं अकुटिलबुद्धिवं च फलं शल्यं, श्रेयश्च तेन योगः शुद्धि लोहशुद्धिनिर्विषत्वं च, अन्यत्र बाह्याभ्यन्तरशुद्धिस्तां भजनीति तद्भाजां गुरोर्महतः पक्षस्य कङ्कादिपत्रस्य, सहायस्य चाश्रयः आश्रयणमेषाम. स्तीति गुरुपक्षाश्रयिणां शिलीमुखानां शराणाम् । गुणिना ज्यावता नतिमागतेन आकर्षणाकुञ्चितकोटित्वं, विधेयत्वं च प्राप्तेन चापेन सह संधिः संबन्धः समअसः साधीयान्बभूव । अबलवतां बलिनाननेण संधिरेवोचित इति भावः । अत्र प्रस्तुतचापशिलीमुखयोर्विशेषणसाम्यादप्रस्तुतारिविजिगीषुवस्तुप्रतीतेः समासो. क्तिः। तच्च साम्यं वाच्यप्रतीयमानयोरभेदाध्यवसायात्सिद्धम् । न चात्र समानालंकारशङ्का कार्या । 'समानालंकृतिर्योगे वस्तुनोरनुरूपयोः' इत्यनुरूपयोरेव वस्तुनोोंगेन तस्योपस्थानादित्यनुसंधेयम् । जिगीषुगुणयोगिनोरिह भेदात् ॥ अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन । . अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ १० ॥ अविषह्येति ॥ वशिना स्वतन्त्रेण चेदिपार्थिवेन अविषह्यतमे दुष्करे कर्मण्यरिजयव्यापारे कृताधिकारं कृतनियोगम् । नियुज्यमानमित्यर्थः । अत एव दृढचोरोः धनुष्कोट्योः प्रसभाकर्षणेन वेपमाना दोधूयमाना जीवा ज्या यस्य तत् , अन्यत्र दृढया- ताडनेन प्रसभाकर्षणेन च वेपमानः कम्पमानो जीवः प्राणो यस्येत्यर्थः । 'अतिः पीडाधनुष्कोव्योः' इत्यमरः । 'जीवः प्राणेऽस्त्रियां ना तु जन्तावात्मनि गीपतौ । त्रिषु जीवति मौव्या स्त्री इति वैजयन्ती । धनुरुच्चकैररसत् अध्वनदाक्रन्दत् । यथा राज्ञा नियुक्तः पराधीनः बलादाकृप्यमाणः कोशति तद्वदित्यर्थः । अत्रापि प्रकृतविशेषणसाम्यादप्रकृतापराध्यधिकृतपुरुष. प्रतीतेः समासोक्तिः ॥ अनुसंततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः । वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्नुः ११ अन्विति ॥ अथाकर्षणानन्तरं क्षितिभर्तुश्चैद्यस्य धनुषः सकाशात् अनुसंतत्या पतन्तीत्यनुसंततिपातिनोऽविच्छेदवर्तिनः पटुत्वं लक्ष्यभेदपाटवं, वाचकत्वशक्तिं च दधतः शुद्धिभृतः लोहशुद्धिभृतः निर्विषा वा, अन्यत्र साधव इत्यर्थः । गृहीतपक्षाः स्वीकृतककादिपत्राः, अन्यत्र गृहीतनित्यत्वादिसाध्यार्थाः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । शराः वादिनः कथकस्य वदनाच्छब्दाः प्रतिज्ञाहेत्वादय इव प्रसञनिर्जग्मुः। श्लिष्टविशेषणेयमुपनति केचित् । श्लेष एव प्रकृताप्रकृतविषय इत्यन्ये ॥ गवलासितकान्ति तस मध्यस्थितघोरायतबाहुदण्डनासम् । ददृशे कुपितान्तकोन्नमद्भूयुगभीमाकृति कार्मुकं जनेन ॥ १२ ॥ गवलेति ॥ 'गवलं माहिषं शृङ्गम्' इत्यमरः । तद्वदसितकान्ति कृष्णवर्ण Page #517 -------------------------------------------------------------------------- ________________ विंशः सर्गः। ५०३ मध्ये स्थिता घोरा भीमा, आयता च बाहुदण्डो नासा नासिकेव यस्मिंस्तत्तथोक्तम् । कुपितस्यान्तकस्य मृत्योरुन्नतं ययुगं तद्वदीमा आकृतिर्यस्य तत्तस्यः चैद्यस्य कार्मुकं जनेन ददृशे दृष्टम् । सभयविस्मयमिति भावः । उपमालंकारः ।। तडिदुज्ज्वलजातरूपपुढेः खमय श्याममुखैरभिध्वनद्भिः। जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः॥१३॥ तडिदिति ॥ तडिद्वदुज्वला दीप्ता जातरूपस्य हेम्नः पुङ्खाः कर्तों येषां तैः । अयोवत् श्याममुखैः श्यामाग्रैरभिध्वनद्भिर्ध्वनिभिः स्वनस्पक्षैर्गद्भिश्च रंहसा वेगेन पतनिर्धावद्भिः संहतिशालिभिः सङ्घवाहिभिः शरौधैर्जलदैरिव खमाकाशं पिदधे पिहितम् । कर्मणि लिट् । 'वष्टि भागुरिरल्लोपमवाप्योरुपसगयोः' इत्यपेरकारलोपः । उपमालंकारः ॥ शितशल्यमुखावदीर्णमेघक्षरदम्भःस्फुटतीव्रवेदनानाम् । स्रवदमुततीव चक्रवालं ककुभामौर्ण विषुः सुवर्णपुङ्खाः ॥१४॥ शितेति ॥ सुवर्णपुङ्खाः सुवर्णकर्तरिकाः शराः शितैर्निशितैः शल्यमुखैः फलाप्रैः अवदीर्णा अवभिन्ना ये मेघास्तेभ्यः क्षरता स्रवता अम्भसा स्फुटा व्यक्ता तीवा वेदना यासां तासां ककुभां संबन्धि स्रवन्ती अस्रुततिरस्रुसंततिर्यस्य तदिव शरप्रहारवेदनया रुददिव स्थितमित्युप्रेक्षा। चक्रवालं मण्डलमौर्ण विषुः राच्छादयामासुः । अर्णोतेलुंडीडागमे तस्य 'विभाषोर्णोः' इति डिवाभावपक्षे 'ऊोंतेर्विभाषा' इति वृद्धि विकल्पात्पक्षे गुणः अजादित्वात् 'आटश्च' इति वृद्धिः॥ अमनोरमतां यती जनस्य क्षणमालोकपथानमःसदां वा । रुरुधे पिहिताहिमद्युतियोविशिखैरन्तरिता च्युता धरित्री॥१५।। अमन इति ॥ विशिखैश्चैद्यबाणैः कर्तृभिः पिहिताहिमधुति स्तिरोहितार्का । अत एवामनोरमतां यती प्रामुवती । इणः शतरि 'उगितश्च' इति ङीप् । धौराकाशं जनस्य भौमलोकस्य आलोकपथादृष्टिमार्गारक्षणं रुरुधे रुद्धा । रुधेः कर्मणि लिट् । अत्र पथो रोधापायत्वात् 'ध्रुवमपाये-' इति अपादानत्वे पञ्चमी । तथान्तरिता च्युता तिरोहिता नष्टा अत एवामनोरमतां यती धरित्री नमः सदां वा आलोकपथागुरुधे । वाकारो जनसमुच्चयार्थः। अत्र धुधरियोः प्रकृ. तयोरेव रोधाख्यतुल्यधर्मयोगात्तुल्ययोगिताभेदौ ताभ्यामेव जनस्य नभःसदा यथासंख्यान्वयाद्यथासंख्यालंकारः सापेक्षतया संकीर्यते ॥ विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य । शरजालमयं समं समन्तादुरु स व नराधिपेन तेने ॥ १६ ॥ विनिवारितेति ॥ नराधिपेन सकलस्यापि मुरद्विषो हरेबलस्य सैन्यस्य विनिवारितो भानुतापो येन तदेकमद्वितीयं शरजालमयं बाणवृन्दात्मकं उरु Page #518 -------------------------------------------------------------------------- ________________ ५०४ शिशुपालवधे महत्स व सदनमिवेत्युत्प्रेक्षा । समं युगपत्समन्तात्तेने । कृतमित्यर्थः । तनोतेः कर्मणि लिट् ॥ इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुमृदनस्य । वयसामिव चक्रमक्रियाकं परितोऽरोधि विपाटपञ्जरेण ॥१७॥ इतीति ॥ इतीत्थं चेदिमहीभृता चैयेन तदानीं तत्काले दनुसूनुसूदनस्य दानवान्तकस्य हरेस्तदनीकं बलम् । 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रि. याम्' इत्यमरः । वयसां चक्रं पक्षिसङ्घ इव अक्रियाकं निश्चेष्टं यथा तथा विपाटयन्तीति विपाटाः शराः । पचाद्यच् । तैरेव पारेण परितः सर्वतः अरोधि रुद्धम् । रुधेः कर्मणि लुङ् । उपमा ॥ इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषकैः । अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः १८ इष्विति ॥ अथानीकरोधनानन्तरं एकवीरो महाशूरोऽच्युतो हरिररिप्रच्युतं शत्रुगलितं तदनेकमपरिमितमिषुवर्ष पृषकैबाणैः वादिकृतं वादिना प्रयुक्तं प्रमा. गमनुमानं अन्यैः प्रमाणैः प्रत्यनुमानैः प्रतिवादीव निराकरोत् । 'इवेन सह समासो विभक्त्यलोपश्च' इति समासात्समासगता श्रौती पूर्णोपमा ॥ प्रतिकुञ्चितकूपरेण तेन श्रवणोपान्तिकनीयमानगव्यम् । ध्वनति स धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥ १९ ।। प्रतीति ॥ प्रतिकुञ्चितकूपरेण कुञ्चितकफोणिना । 'स्यात्कफोणिस्तु कूपरः' इत्यमरः । तेन हरिणा श्रवणोपान्तिकं नीयमाना आकृष्यमाणा गव्या ज्या यस्य तत् । 'गव्यं गवां हिते गव्या ज्यायां क्षीरादिके त्रिषु' इति विश्वः । धनुः शाङ्ग घनान्ते शरदि ये मत्ताः प्रचुरा भूरयः क्रौञ्चास्तषां रवमनुकरोतीति तदनुकारम् । क्रौञ्चकूजितसदृशं यथा तथेत्यर्थः । 'कर्मण्यण् । उच्चैस्तारं ध्वनति स्म दध्वान 'लद स्मे' इति भूते लट् । स्वभावोक्त्युपमयोः संकरः ॥ उरसा विततेन पातितांसः स मयूराश्चितमस्तकस्तदानीम् । क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा॥२०॥ उरसेति ॥ तदानीं धनुष्कर्षणसमये विततेन विस्तारितेनोरसा उपलक्षितः पातितांसो नमितस्कन्धः मयूरवदञ्चितं मनोहरं मस्तकं यस्य सः। उन्नमितमूर्धेत्यर्थः । स्थिरौ दृढौ पूर्वापरौ अग्रिमचरमौ मुष्टी गृहीतलस्तलकमौर्वीकौ पाणी यस्य स हरिः । सुष्टु भावः सौष्ठवं तेन सौष्ठवेन स्थानकपाटवेन हेतुना क्षणमालिखितो नु लिखित इव आबभौ आ बभासे किम् । नुशब्दो वितर्कार्थे । 'नु पृच्छायां वितर्के च' इत्यमरः । वाशब्दोऽपि तादृश इत्युत्प्रेक्षालंकारोऽयम् ॥ ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः । Page #519 -------------------------------------------------------------------------- ________________ विंशः सर्गः। ५०५ इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधाराः॥२१॥ ध्वनत इति ॥ ध्वनतो गर्जतः तडित इवाकारो यस्य स तडिदाकारः चलनात्तेजोमयत्वाच्चाचिरप्रभाकारश्चलन् गुणो मौर्वी यस्य तस्मात् । 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । धनुषः शाात् गुयॊ महत्यः असंख्या अपरिमिता इषवोऽम्बुधरान्मेघात् अम्बुधारा इवाशु सशब्दं न्यपतन् । अत्रोपमानोपमेययोरेकलिङ्गतान्वयादिषुशब्दो द्विलिङ्गोऽपि स्त्रीलिङ्ग एव प्रयुक्त इति ज्ञापनाय गुर्व्य इति विशेषणम् ॥ शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः । निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभर्तेव चमूभिरेकबाहुः॥२२॥ शिखरेति ॥ शिखरं शृङ्गमिवोन्नतं निष्ठुरं चांसपीठं यस्य स एकदिगन्तं एकदिग्भागं स्थगयन् आयतान्तो द्वाधिष्ठस्वरूपः । 'अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके' इति वैजयन्ती । सकृत्प्रसारितः न तु पुनःपुनरिति स्थैर्योक्तिः । अस्य हरेरेकबाहुः । चापरोपितो वामबाहुरित्यर्थः । चमूभिः क्षितिभर्तेव भूधर इव निरवर्णि । साधु निरीक्षित इत्यर्थः । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥ तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण । विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ २३ ॥ तमिति ॥ अकुण्ठमुखाः निशितायाः प्रगल्भगिरश्च सुपर्णकेतोर्गरुडध्वजस्य हरेरिषवः परेणारिणा क्षिप्तं मुक्तमिषुव्रजं अयथार्थवर्णा असत्याक्षराः कपटवचनाः । उभयवेतना इत्यर्थः । 'कृत्यज्ञेयो यथावर्णश्चारः प्रणिधिरेव च' इत्युत्पलमाला । नेतुर्नायकस्य जिगीषोर्नृपतेः । कृत्यपक्षममात्यादिभेद्यवर्गमिव । 'कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः' इत्यमरः । विभिदां भेदम् । षिद्भिदादिभ्योऽङ्' । अनयन्त । 'स्वरितजितः-' इत्यात्मनेपदम् ॥ दयितैरिव खण्डिता मुरारेविशिखैः संमुखमुज्वलाङ्गलेखैः। लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥२४॥ दयितैरिति ॥ उज्वलाः स्फुटा अङ्गेषु लेखाचित्रलेखा नखरेखाश्च येषां तैः मुरारेविशिखैर्दयितैः प्रियैरिव संमुखं समक्षमेव खण्डिता नुन्ना, अन्यत्राघमानिता अत एव विफला विशल्या अलब्धकामा च । अत एव लघिमानमगुरुत्वं अल्पता चोपेयुषी शत्रुशरावलिः पृथिव्यां पपात । अत्र प्रकृतशरावलिविशेपणसाम्यादप्रकृतखण्डितानायिकाप्रतीतेः समासोक्तिः । दयितैरिवेत्युपमा खण्डिताविशेषणान्तःपातित्वादङ्गमेव । अत एव तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनोपम्यगर्भत्वेन च भवतीत्युक्तं सर्वस्वकारैः 'ज्ञातेऽन्यासङ्गविकृते खण्डितेाकपायिता' इति । साप्येवं पृथिव्यां पततीति भावः ॥ ४३ शिशु० Page #520 -------------------------------------------------------------------------- ________________ • शिशुपालवधे प्रमुखेऽभिहताच पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः । परिपूर्णतरं भुवो गतायाः परितः कातरवत्प्रतीपमीयुः ॥ २५ ॥ प्रमुख इति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणश्चैद्यशराः । 'कर्मण्यण्' । माधवमुक्तवत्सदन्तैः शौरिक्षिप्तशरैः प्रसभं बलात्प्रमुखे शल्या वदने चाभिहृताः खण्डिताः सन्तः अत एव कातरैस्तैस्तुल्यं कातरवत् । तुल्यार्थे वतिप्रत्ययः । परिपूर्णतरं गतायाः । यावद्गन्तव्यं गताया इत्यर्थः । भुवोऽन्तरालभूमेः परितः प्रतीपं प्रतिकूलमीयुः प्रापुः प्रत्यागताश्च । माधवान्तिकात्परावृत्य जग्मुरित्यर्थः । चकारः पूर्वश्लोकोक्त पतनसमुच्चयार्थः । केचित्खण्डितास्तन्नैव पेतुः । केचिन्मुखेषु प्रतिहताः । प्रतिनिवृत्ता इत्यर्थः । कातरवदिति तद्धितगता श्रौती पूर्णोपमा ॥ ५०६ इतरेतरसंनिकर्षजन्मा फलसंघट्ट विकीर्ण विस्फुलिङ्गः । पटलानि लिहन्बलाहकानामपरेषु क्षणमज्वलत्कृशानुः ॥ २६ ॥ इतरेतरेति ॥ इतरेतरसंनिकर्षजन्मा शराणां मिथःसंश्लेषोत्थः । जन्मोत्तपदत्वाद्व्यधिकरणोऽपि बहुव्रीहिरिष्यते । फलसंघट्टनेन शल्यसंघट्टनेन विकीर्णा विस्फुलिङ्गा यस्य सः कृशानुरग्निर्बलाहकानाम् । वारि वहन्तीति बलाहकाः । पृषोदरादित्वात्साधुः । पटलानि लिहन्नास्वादयन् अपरेषु शत्रुषु ‘समरेषु' इति पाठे समरेषु युद्धेषु क्षणमज्वलददीप्यत । अत्र शत्रु वलाहकानामग्निदाहास्वादासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ शरदीव शरश्रिया विभिन्ने विभुना शत्रु शिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभ्रुराशा इव यादवध्वजिन्यः २७ शरदीव इति ॥ विभुना देवेन कर्त्रा शरश्रिया शरसंपदा करणेन शरदीव शत्रु शिलीमुखा अभ्राणीव तेषां जाले विभिन्ने सति विकसन्ति मुखानि वारिजानीव यासां ताः यादवध्वजिन्यः यदुसेनाः आशा दिश इव प्रकामं बभुः । अनेकैवेयमुपमा ॥ स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः । ददृशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनैः सकृद्विसृष्टा ॥ २८ ॥ स इति ॥ कृतस्तिग्मद्युतिमण्डलस्यापलापो निह्नवो यैस्तैः । आच्छादितार्कमण्डलैरित्यर्थः । शरौघैर्दिवमाकाशं स हरिः समचिच्छदच्छादयति स्म । छादेः 'णौ चङयुपधाया ह्रस्वः' 'सन्यतः' इत्यभ्यासस्येत्वम् । युक्तं चैतत् । लघुहस्तवादस्येत्याशयेनोत्प्रेक्ष्यते । अथास्मिन्नवसरे तस्य हरेश्वापयष्ट्या मिपुः सकृदेकदा विसृष्टा मुक्ता एकैव जनैर्ददृशे दृष्टा च । इपूणां पुङ्खानुपुङ्खगमनाद्रावाने - पुरेदैव गच्छतीत्युप्रेक्षा । ईटालहत्याकाशसंछादनं युक्तमिति भावः ॥ Page #521 -------------------------------------------------------------------------- ________________ विंशः सर्गः । ५०७ भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता । शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥ २९ ॥ भवतीति ॥ विपक्षाच्छत्रुकुलादागतः सपक्षः कङ्कादिपत्रवान्, सुहञ्च निर्वृतेर्विधाता सुखकरो न भवति । हि यतः स्फुटम् । तेन कारणेन कृष्णमुक्तस्तोमरौघः शिशुपालबलानि सुतरां तताप ददाह । अतः शत्रुकुलादागतः स्वजनोऽपि न विश्वसनीय इत्यर्थः । सपक्षोऽप्यनिर्वर्तक इति विरोधेऽपिशब्दः । विपक्षादागत इत्यविरोधाद्विरोधाभासः ॥ गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलाङ्गभासः । विनतासुतवत्तलं भुवः स्म व्यथित भ्रान्तभुजंगमं विशन्ति ॥ ३० ॥ गुर्विति ॥ गुरुवेगविराविभिः गुरुणा वेगेन विरुवन्ति ध्वनन्तीति तथोक्तैः । रौतेर्णिनिः । शीघ्रवेगविराववद्भिः पतन्त्रैः पक्षैरुपलक्षिताः काञ्चनेन पुङ्खलिप्तेन पिङ्गलाङ्गभासः, अन्यत्र काञ्चनवदिति विग्रहः । इषवः शौरिशराः विनतासुतबद्वैनतेयैस्तुल्यं व्यथिता भीषिता अत एव भ्रान्ता मूढा भुजंगमा यस्मिंस्ततथा भुवस्तलं पातालं विशन्ति स्म । तद्धितगता श्रौती पूर्णोपमा पातालप्र• वेशासंबन्धातिशयोक्त्या संकीर्यते ॥ शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः । परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ||३१|| शतश इति ॥ शिशुपालेन पुरोऽग्रे विशङ्कं निःशङ्कं शतशः प्रयुक्ताः क्षिप्ताः उच्चारिताश्च परुषा निष्ठुराः परमर्मभिदोऽपि शिलीमुखाः शराः । शतशः अपराधाः पञ्चदशसर्गोक्ताः अभिशापा इव दानवारेर्हरेर्व्यथां दुःखं न वितेनुः । खलापकारा महतामकिंचित्करा इति भावः । समासगतोपमा ॥ विहिताद्भुतलोकसृष्टिमाये जयमिच्छन्किल मायया मुरारौ । भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ ३२ ॥ विहितेति ॥ नृपतिश्चैद्यो विहिता अद्भुता लोकसृष्टिरेव माया यस्मिंस्तस्मिन् भुवनक्षयकाले प्रलयकाले । न त्विदानीमिति भावः । उचिता योगनिद्रा यस्य तस्मिन्मुरारौ मायया जयमिच्छन् किल । न तु जेष्यतीति भावः । स्वापयतीति स्वापनमस्त्रमाजहार । प्रयुक्तवानित्यर्थः । अनादिमायाधारे सकलभुवनसृष्टिसंहारमहानाटकसूत्रधारे सर्वाद्भुतनिधाने सकलकलुषकषणपटुतराभिधाने पुरा गैन्द्रजालिके भगवति हरावपि मायया जिगीषेत्यहो महानस्य व्यामोह इति भावः । अत्र हरिविशेषणैस्तस्य दुर्जयत्वसिद्धेः काव्यलिङ्गम् ॥ सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् । प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः ॥ ३३ ॥ Page #522 -------------------------------------------------------------------------- ________________ ५०८ शिशुपालवधे सलिलेति ॥ सलिलेनागों यो वराहदेहस्तद्वन्नीलः भासं प्रकाशं करोतीति भास्करः । 'दिवाविभा-' इत्यादिना टप्रत्ययः । तमर्थशून्या भास्करत्वरूपप्रकृ. त्तिनिमित्तशून्या संज्ञा भास्कराख्या यस्य तं विदधत् । सौरालोकमभिभवन्नित्यर्थः। अन्धं करोतीत्यन्धकारः स्वापनास्त्रप्रभवतमः । कर्मण्यण् । प्रचलानि निद्राघूर्णितानि आयतलोचनान्येवारविन्दानि यस्मिन्कर्मणि तत्तथा सूर्यतिरोधा. नेऽरविन्दमुकुलीभावस्यावश्यंभावादिति भावः । तद्वलं हरिसैन्यमन्धमपश्यं विदधे । निद्रां प्राविशदित्यर्थः । अत्रान्धमन्धेति सकृद्ध्यञ्जनयुग्मपौनरुत्याद्वृत्त्या नुप्रासभेदः । तस्य वराहदेहनीललोचनारविन्देत्युपमारूपकयोः संसृष्टिः ॥ गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि मापतयो न वाच्यमेतत् । क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि तेऽभवन्निषण्णाः ३४ गुरव इति ॥ गुरवो धीराः मापतयोऽपि धनुषि निषद्य शयित्वा निदद्रुः सुषुपुरिति यत् एतत् धनुषि निद्राणं वाच्यं निन्द्यं न भवति । कुतः । हि यस्माते क्षमापतयो जाग्रतोऽपि प्रबुद्धा अपि । जागर्तेः शतरि अस्य 'जक्षित्यादयः पट्' इत्यभ्यस्तसंज्ञा 'नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः। क्षयितापदि । सर्वापनिवारक इत्यर्थः । तत्रैव धनुषि नित्यं निषण्णाः संश्रिता अभवन्ननु । जागरेऽपि धनुरेकशरणानां स्वापे तदाश्रये न दोष इत्यर्थः । अत्र सदा धनुराश्रयवाक्यार्थस्यावाच्यताहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ श्लथतां व्रजतस्तथा परेषामगलद्धारणशक्तिमुज्झतः स्वाम् । सुगृहीतमपि प्रमादभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः ॥३५॥ श्लथतामिति ॥ तथेति पूर्वोक्तधनुराश्रयणसमुच्चये यथा तेषां धनुराश्रयणं तथान्येषां धनुर्गलनं चाभूदित्यर्थः । श्लथतां प्रयत्नशैथिल्यं व्रजतः भजतः स्वां निजां धारणशक्ति वाहनसामर्थ्य उज्झतः त्यजतः परेषां राज्ञाम् । 'अग्रं चासो पाणिश्चेति' समानाधिकरणसमासः। हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदा. दिति वामनवचनात् । तस्मादग्रपाणेः सुगृहीतं सुष्टु तमपि अन्यत्र स्वभ्यस्तमपि प्रमादभाजां गुणनिकाद्यवधानरहितानां मनसश्चित्तात् शास्त्रं विद्येव अस्त्रमगलदभ्रश्यत् । निद्रापारवश्यादित्यर्थः । इवेन सह समासात्समासगता श्रौती पूर्णोपमा ॥ उचितस्वपनोऽपि नीरराशौ स्ववलाम्भोनिधिमध्यगस्तदानीम् । भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ ३६ ।। उचितेति ॥ नीरराशौ समुद्रे उचितस्वपनोऽपि परिचितनिद्रोऽपि तदानीं सर्वनिद्रावसरे स्वबलाम्भोनिधिमध्यगः स्वसेनासागरमध्यगतः। 'बलपाथोनिधिं' इत्यपि पाठः । भुवनत्रयकार्ये त्रैलोक्यरक्षाविधौ जागरूकः प्रबुद्धः । 'जागरूकः' इत्यूकप्रत्ययः । परः पुमान्परमपुरुषः परं केवलं हरिरेवेत्यर्थः । 'परमव्ययमि Page #523 -------------------------------------------------------------------------- ________________ विंशः सर्गः । ५०९ च्छन्ति केवले' इति विश्वः । तत्र निद्राणलोके अजागः जागर्ति स्म । सर्वान्धकारहारिणो नित्यप्रकाशचिदात्मनः तत्रापि कार्यग्रस्तस्य कुतो निद्वेति भावः । जागर्तेर्लुङि तिप् । अदादित्वाच्छपो लुकि सार्वधातुकगुणे रपरे 'हल्ड्याप्-' इति तिलोपे च रेफस्य विसर्जनीयः । अत्र समुद्रनिद्रालोस्तत्रैव जागरे विरोधपरिहारमुखेन कार्यजागरूकत्वपरमपुरुषत्वयोर्विशेषणगत्या तात्त्विकजागरणहेतुकत्वाद्विरोधाभाससंकीर्ण काव्यलिङ्गम् ॥ अथ सूर्यरुचीव तस्य दृष्टावुदभूत्कौस्तुभदर्पणं गतायाम् । पटु धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ३७ 1 अथेति ॥ अथान्धकारव्यात्यनन्तरं तस्य हरेर्दृष्टौ चक्षुषि । तेजसीत्यर्थः । सूर्यरुचीव सूर्यतेजसीव । कौस्तुभो दर्पणमिवेत्युपमितसमासः । सूर्यरुचीवेति लिङ्गात्। तं कौस्तुभदर्पणं गतायां प्रविष्टायां सत्यां ततः कौस्तुभात्पटु सर्वान्धकारद्रावणे समर्थं धाम तेज उदभूदुदगात् । तद्धामोद्भवनं न चाद्भुतं, कुतः । असौ विभुर्भगवान् कर्केन्दु विलोचने यस्य सः किल खलु । अतस्तच्चक्षुषोः सूर्या`त्मकत्वात्तदभिहतात्कौस्तुभाद्दर्पणादेरिव धामप्रादुर्भावो व्यज्यत इत्यर्थः । अतो वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुम्मुखेषु । व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः॥३८॥ महत इति ॥ स पूर्वोक्तो मणेः कौस्तुभस्यांशुचयः विकसन्ति उन्मीलन्ति विलोचनानि येषां तेभ्यो बलेभ्योऽनाविलं प्रसन्नमालोकं दर्शनं, तत्वज्ञानं च ददत्प्रतियच्छन् । महतो महात्मनः प्रसादोऽनुग्रहः प्रणतेषु भक्तेष्विव ककुम्मुखेषु ककुभामप्रेषु व्यकसदमूर्च्छत् । पूर्णोपमा ॥ प्रकृतिं प्रतिपादुकैश्च पादैश्चक्कृपे भानुमतः पुनः प्रसर्तुम् । तमसोऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥ ३९ ॥ प्रकृतिमिति ॥ प्रकृति स्वभावं प्रतिपादुकैः प्रतिपद्यमानैः । 'लषपतपद - ' इत्यादिना उकञ्प्रत्ययः । 'न लोक - ' इत्यादिना षष्ठीप्रतिषेधः । भानुमतोंऽशुमतः पादै रश्मिभिश्च पुनर्भूयः प्रसतुं चक्लृपे शेके । 'क्लृपू सामर्थ्ये' ‘भावे लिट्’ 'कृपो रो ल:' इति ऋकारस्थस्यापि रेफस्य लकारः । जीवलोकः प्राणिवर्गश्च तमसोऽन्धकारस्याभिभवात् । अभिभूतत्वादित्यर्थः । ' कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । सहसैव मूर्च्छामपास्य उदजीवदुदश्वसीत् । अत्रोज्जीवनस्यार्ककरप्रसारहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ 1 घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः । ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ||४०|| घनेति ॥ घनं सान्द्रं संतमसमन्धकारो येषु । ' अवसमन्धेभ्यस्तमसः' इति 1 Page #524 -------------------------------------------------------------------------- ________________ ५१० शिशुपालवधे समासान्तोऽच् प्रत्ययः । 'गत' इति पाठे गतं संतमसं येषां तैः यदुयोधैर्याद वभटैर्भूयः पुनरपि जवेन युधि द्विषन्तो रेधिरे जिहिंसिरे। हता इत्यर्थः । राध्य. तेः कर्मणि लिट् । 'राधो हिंसायाम्' इत्येत्वाभ्यासलोपौ । तथाहि वारिधरोपरो. धान्मेघापवरणान्मुक्तः प्रभाणां धुतीनां पतिरकः सुतरामुत्तपत एव ननु प्रकाशत एव खलु । 'उद्विभ्यां तपः' इत्यात्मनेपदम् । अत्र यदुयोधानां द्युतिपतेश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । न चोपमानोपमेययोभिन्नवचनत्वदोषः । लोके चन्द्रार्कादीनामुपमानानामबहुत्वेऽपि चन्द्रानना इतिवत्प्रत्येकमौपम्यात् ॥ व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे । रिपुरुल्बणभीमभोगभाजां भुजगानां जननी जजाप विद्याम् ४१ व्यवहार इति ॥ व्यवहारे न्यायवादे अनृताभियोगं मिथ्याभिशंसनमिव प्रकाशे कौस्तुभतेजसि तिमिरं प्रस्थापनान्धकारं निर्जितवति निरस्तवति सति अथैतन्निरसनानन्तरं रिपुश्चैद्य उल्बणान्महतो भीमांश्च भोगान् फणान् , कायांश्च भजन्तीति तद्भाजः । 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इत्यमरः । भुजगानां जननीमुत्पादिकां विद्यां मन्त्रं जजाप जपति स्म। भुजगास्त्रमाजहारेत्यर्थः । उल्बणेत्यत्र क्वचिदुत्फणेति पाठः । उपमालंकारः॥ पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः। अभवन्युगपद्विलोलजिह्वा युगलीढोभयसृकभागमाविः॥४२॥ पृथ्विति ॥ ततो भुजगास्त्रप्रयोगानन्तरं पृथुदर्विभृतः । महाफणाधारिण इत्यर्थः । अत एव 'दर्वीकरो दीर्घपृष्ठ' इत्यत्र दर्वीरूपः फण एव करो हस्तो यस्य प्रहारादाविति व्याख्यातम् । आशीभिदंष्ट्राभिः । 'आशी उरगदंष्ट्रायाम्' इति वैजयन्ती । अनारतमश्रान्तं विषं वमन्त उनिरन्तः फणीन्द्रा महासर्पाः विलोलेश्वञ्चलैर्जिह्वायुगैर्लीढावास्वादितावुभौ सृक्कभागावोष्टप्रान्तदेशौ यस्मिन्कर्मणि तत्त. था । 'प्रान्तावोष्टस्य सृक्कणी' इत्यमरः । आविरभवन् । अत्र 'उभादुदात्तो नित्यम्' इति नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगः उभयपुत्र इत्यादि प्रयोगसिद्धेरिति कव्युक्तमस्माभिः प्रकटितं बहुधा संजीविन्यां घण्टापथे सर्वकषायां च तत्र तत्र । स्वभावोक्तिरलंकारः ॥ कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छं वडवाभर्तुरवारि काद्रवेयैः ॥ ४३ ॥ कृतेति ॥ कृतकेशविडम्बनैः काया॑द्विहितकेशानुकारैः छलेन कपटेन विजयमिच्छुभिरभिलाषुकैः । 'विन्दुरिच्छुः' इति उप्रत्ययान्तो निपातितः : 'न लोक-' इत्यादिना षष्टीप्रतिषेधः । विहाय आकाशं तत्क्षणं कावेयैः कद्रुपुत्रैः फणीन्द्रैः। 'स्त्रीभ्यो ढक्' इति ढक् । पुरा पूर्वमिव अमृताग्रभुवोऽमृताग्रस्य वडवाभर्तुः उच्चैःश्रवसः पुच्छं अवारि आवृतम्। वृतेः कर्मणि लुङ् । पुरा किल कद्रुविनतयोः कश्यपभार्ययोरुचैःश्रवसः पुच्छस्य कार्ण्यश्चैत्यविवादे दास्यपणे कागवेयैः स्वमा Page #525 -------------------------------------------------------------------------- ________________ विंशः सर्गः। तुर्विजयाय गृहीतबालाकारैरुच्चैःश्रवसः पुच्छाच्छादनं चक्रे इति कथा पुराणादनुसंधेया । उपमा ॥ दधतस्तनिमानमानुपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः। भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः॥४४॥ दधत इति ॥ मुखे मुखभागे मुखसंधौ च विशालाः विस्तृता आनुपूर्या अनुक्रमेण तनिमानं तनुत्वं मुखादन्यत्र शरीरे उत्तरोत्तरं तनुत्वं दधतः, अन्यत्र प्रतिमुखादिसंधिषु गोपुच्छवत्संक्षिप्तत्वं दधानाः अक्षिश्रवसः सर्पाः भरतज्ञो नाटकशास्त्रज्ञः । 'भरतो नाट्यशास्त्रेऽपि' इति विश्वः । तेन कविना प्रणीतं प्रकल्पितं यत्काव्यं कविकर्म लक्षणया काव्यार्थः कथावस्तु । ब्राह्मणादित्वात्प्यञ् प्रत्ययः । तेन ग्रथिता गुम्फिता अङ्काः परिच्छेदरूपा अवान्तरसंदर्भविशेषा येषु ते तथोक्ता नाटकप्रपञ्चा नाटकविस्तारा इव बभुरित्युपमा । 'प्रबन्धा' इति क्वचित्पाठः । 'प्रत्यक्षनेतृचरितो बिन्दुबीजपुरस्कृतः। अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥' इति अङ्कलक्षणम् । 'मुखं प्रतिमुखं गर्भोऽवमर्श उपसंहतिः' इति संधयः॥ सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् । . उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ ४५ ॥ सेति ॥ तिग्मभासा सूर्येण उपरागवता राहुग्रासवतेव । राहुग्रस्तेनेवेत्यर्थः । 'उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च'. इत्यमरवचनं ग्रासस्याप्युपलक्षणम् । पन्नगानां सविषैः श्वसनैः फूत्कारैरुद्धतेनोरुधूमेन यो व्यवधिस्तिरोधानं तेन म्लाना निष्प्रभा मरीचयो यस्य तत् । अत एवौदुम्बरमण्डलाभं ताम्रपिण्डसच्छायम् । 'अथ ताम्रकम् । शुल्बं म्लेच्छमुखब्यष्टवरिष्ठोदुम्बराणि च' इत्यमरः । वपुरूहे ऊढम् । वहेः कर्मणि लिद । यजादित्वात्संप्रसारणम् ॥ . शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः। यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः॥४६॥ शिखीति ॥ पुनःपुनर्लेहनशीला लेलिहानाः सर्पाः । लिहेर्यङ्लुगन्तात्ताच्छील्ये चानश्प्रत्यये 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणः । 'लिहेर्लिंटः कानजिति वल्लभः । तदानीमभ्यासगुणानुपपत्तिः भूतार्थासंगतिश्च शिखिपिच्छैमयूरबहः कृतेभ्यो ध्वजानामवचूडेभ्यः प्रकीर्णेभ्यः क्षणं साशङ्काः जीवन्मयूरभ्रान्त्या सभयाः अत एव विवर्तमानकायाः व्यावृतदेहाः सन्तः आशु वृष्णिगणेषु यादवसद्धेषु बन्धनाय यमपाशैस्तुल्यं यमपाशवत् कालपाशवदित्युपमा । न्यपतन् । निपत्य बबन्धुरित्यर्थः॥ पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि । दधति स्म. भुजंगमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥४७॥ Page #526 -------------------------------------------------------------------------- ________________ ५१२ शिशुपालवधे पृथ्विति ॥ भुजंगमाङ्गमध्ये पृथोर्वारिधिवीचिमण्डलस्यान्तर्मध्ये विलसन्तः केना इव वितानपाण्डुरद्युतीनि शुभ्रवर्णानीत्युपमा । ध्वजांशुकानि नवनिर्मोकरुचिं नवकञ्जुकशोभां दधति स्म । 'समौ कञ्चकनिर्मोको' इत्यमरः । निर्मोकरुचिमित्यत्रान्यधर्मस्यान्यत्रासंबन्धेन निर्मोकस्येवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धनिदर्शना फेनपाण्डुरोपमयाङ्गेन संकीर्यते ॥ कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः। व्यरुचजनता भुजंगभोगैदलितेन्दीवरमालभारिणीव ॥४८॥ कृतेति ॥ जनता जनसमूहः । 'ग्रामजन-' इत्यादिना सामूहिकस्तल्प्रत्ययः। शिरसि कृतो मण्डलबन्धो वलयीभावो यस्मिन्कर्मणि तत्तथा उल्लसद्भिः प्रत्यु. रसं उरसि उरसि । 'प्रतेरुरसः सप्तमीस्थात्' इति समासान्तोऽच्प्रत्ययः । विलम्बमानैर्विशेषेण लम्बमानैः भुजंगभोगैरहिकायैः दलितेन्दीवरमालभारिणीव विकसितनीलोत्पलमालभारिणीवेत्प्रेयुत्क्षा । व्यरुचब्यरोचिष्ट । 'द्युन्यो लुङि' इति विकल्पात्परस्मैपदम् ॥ परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः । दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥ परिवेष्टितेति ॥ किंचेति चार्थः । मूलात् । पादमारभ्येत्यर्थः । ल्यब्लोपे पञ्चमी । आशिरसः शिरोन्तम् । अभिविधावाङिति विकल्पादसमासः । रनरेव पुष्पैः सह वर्तन्ते इति सरत्नपुष्पैः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । उरगैः परिवेष्टितमूर्तयो वेष्टिताङ्गाः मनुजा आयताभिर्वल्लीभिलताभिर्वेष्टितानां महीरुहाणामुपमानं सादृश्यं दधुरित्युपमा ॥ बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रयन्तः । दधिरे फणिनस्तुरंगमेषु स्फुटपल्याणनिबद्धवर्धलीलाम् ॥५०॥ बहुलेति ॥ बहुलाञ्जनस्य सान्द्रकजलस्य पङ्कपट्टः पङ्कघनस्तद्वन्नीलद्युतयः श्यामभासः । देहं शरीरमितस्ततः पुच्छपा दिस्थानेषु श्रयन्तो भजन्तः फणिनस्तुरंगमेषु स्फुटान्युज्वलानि यानि पल्याणेषु पल्ययनेषु निबद्धानि वर्धाणि वरत्राः । 'वधं त्रपुवरत्रयोः' इति विश्वः । तेषां लीलां शोभा दधिरे दधुः । वर्धलीलामित्यत्रासंभवद्वस्तुसंबन्धा निदर्शनोक्तलक्षणा ॥ प्रसृतं रभसादयोऽभिनीला प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ ५१ ॥ प्रसृतमिति ॥ अयसा अयोवत् अभिनीला पादेषु प्रतिपादम् । विभक्त्यर्थेऽव्ययीभावः । अभिवेष्टयन्ती आयत्या आयतेन दीर्पण शालते या सा आयतिशालिनी महाहेर्महोरगस्य तनुर्वपुरन्दूः शृङ्खलेव। 'अन्दूस्तु शृङ्खलायां स्त्री' इति वैजयन्ती। रभसात्प्रसृतं प्रचरन्तं गजं निश्चलं चकार । उपमा ॥ Page #527 -------------------------------------------------------------------------- ________________ विंशः सर्गः। अथ ससितवीक्षितादवज्ञाचलितैकोनमितश्रु माधवेन । निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥५२॥ अथेति ॥ अथ नागपाशबन्धनानन्तरं माधवेन कृष्णेनावज्ञया अकिंचिकरत्वादनादरेण चलिता प्रेरिता एका उन्नमिता उत्क्षिप्ता च भूर्यस्मिन्कर्मणि तत्तथा । 'गोखियोरुपसर्जनस्य' इति ह्रस्वत्वम् । सस्मितं चैद्यचापल्यदर्शनात्समन्दहासं वीक्षितात् निजकेतुशिरःश्रितः निजध्वजाग्रस्थितान् । श्रयतेः विप् । सुपर्णात्पक्षिणां राजाः राजानः तेषां पक्षिराजां गरुत्मताम् । 'राजा राट् पार्थिवः' इत्यमरः । 'अन्येभ्योऽपि दृश्यते' इति क्विप् । अयुतानि अयुतसंख्या उदपप्तनुत्पेतुः । 'पुषादि-' इति लुङि च्लेरङादेशः । 'पतः पुम्' इति पुमागमः । 'उदभूवन्' इति पाठे 'भुवो वुक्' इति वुगागमः । माधवस्य सुपर्णवीक्षणावस्थोचितभ्रूविक्षेपादिचेष्टाविवरणात्स्वभावोक्तिः । तदुक्तं दण्डिना-नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्च' इति 'जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम्' इति च ॥ द्रुतहेमरुचः खगाः खगेन्द्रादलघुदीरितनादमुत्पतन्तः । क्षणमैक्षिषतोचकैश्चमूभिर्बलतः सप्तरुचेरिव स्फुलिङ्गाः॥५३॥ द्रुतेति ॥ द्रुतहेमरुचः प्रतप्तकाञ्चनभास इत्युपमा। अलघूच्चैरुदीरितनादं उच्चरितघोषं यथा तथा खगेन्द्राद्गरुत्मतः उत्पतन्तः उद्भवन्तः खगाः सुपर्णा ज्वलतः प्रज्वलतः सप्तरुचेः सप्तार्चिषोऽनेरुच्चकैरूवं प्रसृताः स्फुलिङ्गा इव चमूभिः क्षणमैक्षिषत ईक्षिताः । ईक्षतेः कर्मणि लुङ् । अत्रोपमयोः संकरः ॥ उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः । गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥५४॥ उपमानमिति ॥ गगनमर्णव इव गगनार्णवस्तमन्तरा । तस्य मध्ये इत्यर्थः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । अवार्णवस्यैकत्वेऽपि तदेकदेशापेक्षया भेदत्वेन मध्यमप्रतियोगित्वसंभवाग्न द्वितीयानुपपत्तिः । लोलैः पक्षैः क्षणाद्विक्षिप्ता महाम्बुवाहा मत्स्या इव यैस्तैर्गरुडैर्गरुत्मभिः सुमेरोः कुलजानां हेमाद्रिवं. श्यानां अन्येषामहिरण्मयतया गरुडसाम्यासंभवादित्यर्थः । इलाधराणां भूधराणाम् । अर्णवान्तश्चराणामित्यर्थः । 'गौरिला कुम्भिनी क्षमा' इति कोषः। उपमानं सादृश्यमलाभि अलम्भि । लभेः कर्मणि लुङि 'विभाषा चिण्णमुलोः' इति विकल्पानुमभावः । अत्रेलाधराणामुपमानमिति व्यस्तोपमाया अन्याभ्यां समासगताभ्यामङ्गाङ्गिभावेन संकरः ॥ पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिसुखमयूखैः । सुतरामभवदुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः॥५५॥ Page #528 -------------------------------------------------------------------------- ________________ ५१४ शिशुपालवधे पततामिति ॥ परिस्फुरद्भिः स्वविषयसंक्रमात्समन्तादुल्लसद्भिः अत एव परिपिङ्गीकृतानि सौवर्णत्वात्पिशङ्गीकृतानि दिङ्मुखानि यस्तैः पततां पक्षिणां मयूखैः तपनः सूर्यस्तत्किरणैस्तपनकिरणैः संक्रान्तैरिति भावः । आत्मा स्वरूपं दृश्यतेऽत्र इत्यात्मदर्शो दर्पण इव सुतरां दुरीक्ष्यविम्बोऽभवत् । स्वत एव दुर्दर्श इदानीमतिदुर्दर्शोऽभूदित्यर्थः। अत्र तपनस्य दुरीक्ष्यत्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः। दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् । रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥५६॥ ' दधुरिति ॥ उल्लसमानाभिर्दीप्यमानाभिर्वैनतेयानां द्युतिभिर्भिन्नाः संवलिताः फणभारिणः फणाभृतः अम्बुधिमन्थने समुद्रमन्थने अद्रेर्मन्दराद्वेरेव मन्थस्य मन्थनदण्डस्य भ्रमणेनायस्तस्य निष्पीडितस्य फणीन्द्रस्य वासुकेः पित्तात्पित्तधातोर्जातास्तजास्तेषाम् । वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । मौवादिकस्येदित्त्वात्सर्वत्र नुमागमः। तेषां मणीनां मरकतानां रुचं दधुः । वैनतेयपीतिमसंभेदात्कृष्णोरगा मरकतच्छायामार्छन्नित्यर्थः । अत्रान्यस्यान्यधर्मायोगेन रुचमिवेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धान्निदर्शनालंकारः ॥ अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौधः । जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ ५७ ॥ अभीति ॥ अभितः उभयतः क्षुभितो योऽम्बुराशिः उद्वेलाम्बुराशिस्तद्व. द्धीरध्वनिर्गम्भीरध्वनिरित्युपमा । आकृष्टाः पाटिताः समूलाः पादपाघास्तरुसमूहा येन सः । अत्र पादपोन्मूलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । युगान्तशङ्कां जनयन्कल्पक्षयोत्प्रेक्षां जनयन्नित्यपि सैवातिशयोक्तिः। नागविपक्षपक्षजन्मा गरुडपक्षोद्भवोऽनिलोऽभवत् । उदभवदित्यर्थः ॥ प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गः। भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ ५८ । · प्रचलदिति ॥ प्रचलतां पतगेन्द्राणां ये पत्रवातास्तैः प्रसभं उन्मूलितैराकृष्टैरुत्पाटितैः शैलैर्दत्तो मार्गो रन्ध्र येभ्यस्तैः विवशैः परवशैः । निश्चेष्टेरित्यर्थः । गर्हितं दशन्ति भृशमिति दन्दशूकैः सः । 'दन्दशूको विलेशयः' इत्यमरः । 'लुपसदचर-' इत्यादिना दंशेर्भावगर्हायां यङ् । 'जपजभदहदशभञ्जपशां च' इत्यभ्यासस्य नुमागमः । 'यजजपदशांयङ' इति दंशेर्यङन्तादुकञ्प्रत्ययः । भयेन विह्वलं विक्षिप्तं विचित्रं यथा तथा स्वमेव धाम पातालमेव विविशे तार्थ्यपत्रपवनोन्मूलितशैलरन्ध्रवर्मनैव पातालं प्रविष्टमित्यर्थः । विशेः कर्मणि लिद : दन्दशूकानां रन्ध्रप्रवेशासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते । अयुगार्जिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मत्रम् ॥५९। Page #529 -------------------------------------------------------------------------- ________________ विंशः सर्गः। खचरैरिति ॥ खे चरन्तीति खचरैवैनतेयैः । चरेष्टः 'तत्पुरुषे कृति बहुलम्' इति लुग्विकल्पः । अक्षये अनन्ते अहिसैन्ये सर्पसङ्घ सुकृतैः हरिस्मरणा. दिपुण्यैर्दुष्कृतवद्ब्रह्महत्यायेनोवत् । 'तत्र तस्येव' इति तत्रार्थे वतिप्रत्ययः । क्षयमुपनीते नाशं गमिते सति तदा तत्काले रुषा पौरुषवैफल्यरोषेण अयुगार्चिः सप्तार्चिरिव ज्वलन्दीप्यमानः असौ रिपुश्चैद्यः । उदर्चिष इममौदर्चिषमाग्नेयं मन्त्रमाजुहाव आहूतवान् । जजापेत्यर्थः । यतेर्लिट् । 'अभ्यस्तस्य च' इति द्विर्वचनात्प्रागेव संप्रसारणम् । दुष्कृतवदिति तद्धितगता श्रौती पूर्णोपमा ॥ सहसा दधदुद्धताट्टहासश्रियमुत्रासितजन्तुना वनेन । विततायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥६०॥: सहसेति ॥ अथाग्नेयास्त्राबानानन्तरम् उत्रासितजन्तुना भीषितप्राणिकेन स्वनेन ध्वनिना उद्धताट्टहासश्रियं महाट्टहाससंपदं दधत् तेनैवाट्टहासवान् । तत्तुल्यनादवा नित्यर्थः । वितताः प्रसारिताः आयता दीर्घाः हेतयो ज्वाला बाहव इव हेतिबाहवो यस्य स वह्नितालो भूतविशेषः स इव सहसा झटिति उच्चैरूर्ध्वमुत्पपात उत्तस्थौ । उपमा ॥ चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः। द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल॥६१॥ चलितेति ॥ चलितश्चलंश्च उद्धत उन्नतश्च धूम एव केतनं केतुर्यस्य स रभसाद्वेगादम्बररोहिणो रोहिता वाहनमृगा अश्वा इव यस्य सः द्रुतमारुताः शीघ्र. वाता एव सारथिर्यस्य सः कनकस्यन्दनसुन्दरः कनकद्ववद्गम्य इत्युपमा । असौ शिखा ज्वाला अस्य सन्तीति शिखावानाशुशुक्षणिश्चचाल ॥ ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ ६२॥ ज्वलदिति ॥ जातं वेदो धनं यस्माजातवेदास्तनूनपात् । अम्बरं कोटरमिव तस्यान्तरालमभ्यन्तरं ज्वलद्यस्य तत् । बहुलाः सान्द्रा आम्बुदाः पत्राणीव तेषु बद्धधूमम् । परिदीपिताः प्रज्वलिताः काष्ठा दिशः काष्ठानीव यस्य तदुच्चरुन्नतं विश्वं जगत् । तरुणा तुल्यं तरुवत् । तरुमिवेत्यर्थः । तुल्यार्थे वतिप्रत्ययः। उवोष ददाह । 'उष दाहे' लिद । लघूपधगुणे पश्चाविर्भावः । 'अभ्यासस्यासवर्णे' इत्युवङादेशः अनादिष्टादच इति गुणस्य स्थानिवत्त्वाभावात् । तरुवदिति स्पष्टोपमालिङ्गात् सर्वत्रोपमितसमासः ॥ गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः। स्वमसारतया मपीभवन्तः पुनराकारमवापुरम्बुवाहाः ॥ ६३ ॥ गुर्विति ॥ गुरुतापेनातिदाहेन विशुप्यदम्बवः क्षीयमाणोदकाः अत एव शुभाश्वेति विशेषणसमासः। ततः क्षणमालग्नेन कृशानुना ताम्रभासो लोहितवर्णाः Page #530 -------------------------------------------------------------------------- ________________ शिशुपालवधे अथासारतया जलशोषानिःसारतया मषीभवन्तः अम्बुवाहाः पुनः स्वमाकारं नीलरूपमवापुः । अत्र मेघानां मषीभावाद्यसंबन्धेऽपि संबन्धोक्तरतिशयोक्तिः ॥ ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः । क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः॥६४॥ ज्वलितेति ॥ ज्वलितेन प्रज्वलता अनलेन अनलतापेन लोलाः पल्लवान्ता अञ्चलायाणि यासां ताः स्फुरद्भिर्दीप्यमानैरष्टापदपत्रैः कनकरचनाभिः पीत. भासः पिङ्गलवर्णाः पताका वैजयन्त्यः अभावकाले विनाशकाले क्षणमात्रभवां क्षणमात्रभाविनीम् । क्षणमात्रस्थायिनीमित्यर्थः । आयतिं दैर्घ्यं सुतरामापुरि. त्यर्थः । प्रदीपवदिति भावः । अष्टसु लोहेषु पदमस्येत्यष्टापदम्। 'अष्टनः संज्ञायाम्' इति दीर्घः । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इत्यमरः ॥ निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्नेरथ मेघंकरमसरन्मुरारिः॥६५॥ निखिलामिति ॥ अथानन्तरं मुरारिः इतीत्थं निखिला द्यामाकाशं द्रुतचामीकरचारुतां प्रतप्तहेमकर्बुरामिवेत्युत्प्रेक्षा चारुतामित्यत्र । चिराय कुर्व. तोऽग्नेः प्रतिघातसमर्थ प्रशमनक्षमं मेघान्करोतीति मेघंकर मेघजननम् । 'मेघतिभयेषु कृजः' इति खलप्रत्ययः । 'अरुर्दिषदजन्तस्य मुम्' इति मुमागमः । अस्त्रं वारुणास्त्रमस्सरद्दध्यौ आजहार ॥ चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः संधिषु लीनसर्वसिन्धोः। उदगुः सलिलात्मनस्त्रिधानो जलवाहावलयः शिरोरुहेभ्यः॥६६॥ चतुरिति ॥ चत्वारोऽम्बुधय एव गर्भास्ते धीरो गम्भीरः कुक्षियस्य तस्य वपुषः संधिषु लीनाः सर्वाः सिन्धवो नद्यो यस्य तस्य सलिलात्मनस्तोयात्मकस्य त्रीणि धामानि स्थानानि भूरादीनि सत्वादीनि वा यस्य तस्य विधाम्नो हरेः शिरोरुहेभ्यो जलवाहावलयः मेघपरम्परा उदगुरुद्धभूवुः । 'इणो गा लुङि' इति गादेशे 'गातिस्था-' इत्यादिना सिचो लुक् । 'यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥' इत्यागमोक्तं प्रमाणमिति भावः ॥ ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासाम् । उदनंसिपुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥६७॥ ककुभ इति ॥ कृतनादं कृतगर्जारावं यथा तथा ककुभ आस्तृणन्त आच्छादयन्तः । स्तृणातेर्लटः शत्रादेशः 'श्नाभ्यस्तयोः-' इत्यकारलोपः । भानुभासामकांशूनां पटलानि तिरयन्तस्तिरस्कुर्वन्तः । तिरःशब्दात् 'तत्करोति' इति ण्यन्तालटः शत्रादेशः । णाविष्ठबद्भावाहिलोपः। अश्रमाकाशं ग्रामलिसानमानयन्तः श्यामलत्वं प्रापयन्तः अभ्रसङ्घा मेघौघाः सपदि सद्य उदनंसिपुरुत्पेतुः । उत्पूर्वान्न Page #531 -------------------------------------------------------------------------- ________________ विंशः सर्गः। ५१७ मतेलुङि 'यमरमनमातां सक्च' इति सगिडागमौ 'नेटि' इति वृद्धिप्रतिषेधः । स्वभावोक्तिः ॥ तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् । अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ ६८ ॥ तपनीयेति ॥ तपनीयस्य हेम्नो निकर्षराजयः कर्षणलेखा इव गौर्यः पीताः । 'गौरोऽरुणे सिते पीते' इत्यमरः । स्फुरन्त्य उत्ताला उद्धतास्तडिच्छटा विद्युल्लता एवाट्टहासा यस्य तत्तथोक्तं अनुबद्धोऽनुस्यूतः समुद्धतस्तारोऽम्बुवाहानां ध्वनिताडम्बरो गर्जिताडम्बरो यस्य तदम्बरं बभूव । तदाम्बुवाहैर्विद्युत्प्रभाभिर्गर्जिताडम्बरै श्वाट्टहासं कुर्वद्भिरिवाम्बरं बभावित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा ॥ सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः । जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥ ६९ ॥ सवितुरिति ॥ सवितुर्मरीचीन्मयूखान्परिभावुकैस्तिरस्कुर्वद्भिः । 'लषपत-' इत्यादिना उकञ्प्रत्यये 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । अचिराभ्यक्तस्य सद्यःकृताभ्यङ्गस्य मतङ्गजाङ्गस्य नागदेहस्येव भासो येषां तैस्तथोक्तैः । 'भोभगो-' इत्यादिना रोर्यकारस्य 'हलि सर्वेषाम्' इति लोपः । अभितः स्फुरद्भिर्जुम्भमाणेरुच्चैरुन्नतैर्जलदैर्धूमकेतोरनेः केतनता केतुत्वं विदधे इव विहितेव । धूमकेतोः केतुत्वं प्राप्तमित्यर्थः । उत्प्रेक्षालंकारः ॥ ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः । ववृषुवृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥७॥ ज्वलत इति ॥ ज्वलतश्चित्रभानोरग्नेः शमनाय प्रलये कल्पान्ते य आप्लावो महापूरस्तमभिदर्शयन्त इवेत्युत्प्रेक्षा । वृषवद्वृषभवन्नदन्ति गर्जन्तीति वृषनादिनः। 'कर्तर्युपमाने' इति णिनिः । अत एवोपमा । वारि वहन्तीति वारिवाहा मेघाः । 'कर्मण्यण्' । नदीनां प्रतटेषु प्रतीरेषु आरोपितानि भावितानि वारीणि यस्मिन्कर्मणि तद्यथा तथा ववृषुः । प्रलयकालमेघवदवर्षन्नित्यर्थः ॥ मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे। पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः॥७१॥ मधुरैरिति ॥ इतीत्थं पवत इति पवमानो वायुः । 'पूङ्यजोः शानन्' । तस्य सखा पवमानसखः अग्निः । 'राजाहःसखिभ्यष्टच् । मैत्रीमात्रविवक्षायामयं निर्देशः। सहकारिणी मैत्रीति नियमात्सहकारित्वाविवक्षायां वैपरीत्यावहुव्रीहौ तु न समासान्तः । स्वामी तु 'रोहिताश्वो वायुसखः' इत्यसमासान्तपाठेन बहुव्रीहिमाह । अत्रापि तथा पाठे न कश्चिदुपद्रवः । सोऽग्निः । मधुरैः प्रियैरपि विवादैविविधवाक्यैः प्रणयक्रोधः प्रणयप्रयुक्तकोप इव मधुरैः स्वादुभिः । अनुद्दीपकै ४४ शिशु० Page #532 -------------------------------------------------------------------------- ________________ ५१८ शिशुपालवधे रित्यर्थः । मेध्यमेघभवैः । 'दिगादिभ्यो यत्' । वारिभिः प्रथमं वैपरीत्येनापि 'प्रत्युतेति वैपरीत्ये' इति गणव्याख्याने । भूयसात्यन्तम् । भृशमित्यर्थः । दिदीपे प्रजज्वाल । ततः क्रमेणाशमच्छान्तोऽभूत् । शाम्यतेलुङि पुषादित्वाळलेरडादेशः । जलाहतोऽग्निज्वलितो नश्यति, प्रणयकोपोऽपि प्रियैः भृशायित्वा शाम्यतीति प्रसिद्धम् । उपमा ॥ परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः । प्रबलेषु कृती चकार विद्युद्यपदेशेन घनेष्वनुप्रवेशम् ॥ ७२ ॥ परित इति ॥ परितः प्रसभेन बलात्कारेण शरवर्नीरसेकैः । 'शरं नीरे शरो बाणे' इति विश्वः । अवसायमवसादं नीयमानः। कृती कुशलः । आश्रयमनातीत्याश्रयाशोऽग्निः । 'कर्मण्यण् । प्रबलेषु धनेषु मेघेषु विद्युद्व्यपदेशेन तडिच्छलेनानुप्रवेशं चकार । अस्याग्निर्विधुद्रूपेण मेघेष्वेव प्रविष्टः । बलवता. भिभूतस्य विदेशगमनं तदनुप्रवेशो वेति नीतेरिति भावः। अत्र विशेषणसाम्यादग्नावकृतदुर्बलत्वप्रतीतेः समासोक्तिः ॥ प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः । वलभित्प्रहितायुधाभिघातात्रुटितं पत्रिपतेरिवैकपत्रम् ।। ७३ ॥ प्रयत इति ॥ प्रशमं नाशं प्रयतः गच्छतः प्रैतीति प्रयन् तस्य प्रयतः । इणः शतरि यणादेशः। हुताशनस्याग्नेः संबन्धि मुक्तमूलं त्यक्तमूलं त्यक्ताश्रयमार्च ोला । 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः । बलभिदा शक्रेण प्रहितस्य प्रयुक्त स्यायुधस्य वज्रस्याभिघातात्प्रहाराचुटितं छिन्नं पत्रिपतेः पत्रिराजस्य गरुत्मत एक पत्रं पक्षमिव क्वचिदालक्ष्यत अदृश्यत इत्युपमा । पुरा मातृदास्यविमोका. यामृतमाहरता गरुडेनेन्द्रप्रयुक्तवज्रगौरवादेकं पत्रं त्यक्तमित्यागमः ॥ व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनं घनाघनौघाः । उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ ७४ ॥ व्यगमन्निति ॥ घनाघनौघाः वर्षकाब्दसमूहाः । शक्रधातुकमत्तेभवर्षकाब्दा घनाघनाः' इत्यमरः । शिखिनमग्निं शमयित्वा सहसा दिशां मुखेभ्यो व्यगमन्नपसस्त्रः । गमे डि 'पुषादि-' इति च्लेरङादेशः । तथा हि महान्तो निसर्गतः स्वभावादेव परेषां उपकृत्य उपकारं कृत्वा उपरोधं न हि कुर्वते। महतां निष्फलावस्थानं परोपरोधायेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ कृतदाहमुदर्चिपः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन । विगताम्बुधरत्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥ ७५ ॥ कृतेति ॥ उदर्चिषोऽग्नेः शिखाभिः ज्वालाभिः कृतदाहं विहिततपनं ततो नवेनाम्भसा मुहुः परिषिक्तं विगता अम्बुधरा एव व्रणा दोषा यस्य तद्गगर्न Page #533 -------------------------------------------------------------------------- ________________ विंशः सर्गः। ५१९ संतापितस्तापं प्रापितः स चासौ पायितः पानं कारितः । पिबतेय॑न्तात्कर्मणि क्तः । 'शाच्छासाह्वाव्यावेपां युक्' इति युगागमः । तस्य तापितपायितस्य तप्तसिक्तस्यासेः खड्गस्य लक्ष्मी प्रपेदे प्रापे । इति निदर्शनालंकारः अम्बुधरव्रणेति रूपकसंकीर्णः ॥ इति नरपतिरस्त्रं यद्यदाविश्वकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् । भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ ७६ ॥ इतीति ॥ इतीत्थं क्षिप्रं करोतीति क्षिप्रकारी शीघ्रप्रयोक्ता अन्यत्र विकारकारी नरपतिश्चैद्यः प्रकुपितः प्रक्षुभितः सन् यद्यदस्त्रमाविश्वकार रोगो विकारमिव अथ क्रमवित्परिपाटीवेदी मुरारिर्भिषग्वैद्य इव गुरुदोषच्छेदिना गुरुदोषप्र. तिघातकेन दोषनिवर्तकेन चोपक्रमेणोपायेन । प्रत्यस्त्रप्रयोगेणेत्यर्थः । अन्यत्र महौषधप्रयोगेण तत्तदस्त्रं आशु शीघ्रम् । तद्विकारमिवेति भावः । प्रत्यहन्प्रतिजघान । हन्तेर्लङ् अदादित्वाच्छपो लुक् 'हल्याप्' इति लोपः । उपमा ॥ शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् । मर्मातिगैरनृजुभिर्नितरामशुद्धै क्सिायकैरथ तुतोद तदा विपक्षः॥ ७७॥ शुद्धिमिति ॥ तदा तस्मिन्समये विपक्षोऽरिश्चैद्यः परामुत्कृष्टां शुद्धिं लोह. शुद्धिं गतैर्ऋजुभिरप्यविघट्टितमर्मभिरस्पृष्टमर्मस्थानैः तं हरिमजय्यं जेतुमशक्यम् । 'क्षय्यजय्यौ शक्यार्थे' इति निपातः । विदित्वा । अथास्मिन्नवसरे मर्माणि अतिगच्छन्तीति मर्मातिगैर्मर्मभेदिभिरनृजुभिर्वकैः नितरामशुद्धैरपवित्रैः वाच एव सायकास्तैः वाक्सायकैरिति रूपकम् । तुतोद व्यथयामास । चक्रप्रयोगस्यायमुपोद्धात इति भावः । अत्र वाक्सायकानां प्रसिद्धसाधनव्यतिरेकोक्तेर्व्यतिरेकरूपकयोः संकरः । वसन्ततिलका वृत्तम् ॥ राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गन__व्यापारकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वथा । तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानल ज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥७॥ राद्विति ॥ येन चक्रेण सहसा झटिति अश्लथो दृढो य आलिङ्गनव्यापारः स एव एको मुख्यः । 'एके मुख्यान्यकेवलाः' इत्यमरः। विनोदस्तत्र दुर्ललितयो. र्लोलुपयो राहुस्त्रीस्तनयो राहुरमणीकुचयोः कार्कश्यलक्ष्मीः काठिन्यशोभा वृथा Page #534 -------------------------------------------------------------------------- ________________ ५२० शिशुपालवधे व्यर्था अकारि कृता । शिरोमात्रावशेषितस्य राहोरालिङ्गनसुखासंभवादिति भावः । मुरजिद् हरिः तत्काले तस्मिन्समये लोलाभिश्चञ्चलाभिरनलज्वालाभिरग्निदीप्तिभिः पल्लवितेन संजातपल्लवेन । तारकादित्वादितच् । तेन चक्रेण आक्रो. शत एव शपमानस्यैव तस्य शिशुपालस्य वपुर्मूर्धविकलं शिरोहीनं चक्रे चकार । शिरश्चिच्छेदेत्यर्थः । कर्तरि लिट् । राहोः शिरो वपुर्विकलमकारि, अस्य तु वपुः शिरोविकलं कृतमिति तात्पर्यम् । अत्र चक्रवर्णनेऽप्रस्तुतादाहुस्त्रीकुचकार्कश्यवर्णनात् 'प्रस्तुतत्वेन संबन्धस्तत्पर्यायोक्तमुच्यते' इति पर्यायोक्तम् ॥ श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षे वपुष्टश्चैद्यस्य क्षणमृपिगणैः स्तूयमानं निरीय । प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विमिता: नरेन्द्ररौपेद्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ ७९ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये ,यङ्के शिशु. पालवधो नाम विंशतितमः सर्गः ॥ २० ॥ श्रियेति ॥ अथ शिरश्छेदानन्तरं श्रिया शोभया जुष्टं सेवितं दिव्यैर्दिविभवैः सपटहरवैः सदुन्दुभिघोषैः पुष्पवरन्वितं क्षणम् । ऋषिगणैः स्तूयमानं तथा चैद्यस्य वपुष्टः शरीरतः । पञ्चम्यास्तसिल । निरीय निर्गत्य । 'इण् गतौ' इति धातोः 'समासेऽनपूर्व क्त्वो ल्यप् । प्रकाशेन आकाशे दिनकरकरानर्करश्मीन् विक्षिपत् उपेन्द्रस्येदमौपेन्द्रं वपुर्हरेविग्रहं विशत् प्रविशत् धाम शिशुपालतेजो विस्मिताक्षर्विकसितनयनैनरेन्द्र राजन्यैः वीक्षांबभूवे ईक्षितम् । ईक्षतेः कर्मणि लिट् । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम् । 'कृञ्चानुप्रयुज्यते लिटि' इति भुवोऽनुप्रयोगः 'भावकर्मणोः' इत्यात्मनेपदम् । अत्र भगवान्व्यासः-'ततश्चे. दिपतेदेहात्तेजोऽयं ददृशे नृपैः । उत्पपात यदा राजन् तदा तेजो विवेश च ॥ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥' इति । एतेन भगवद्वपुषोऽपि तदासक्तवचनसा(?)तारक इत्य. नुसंधेयम् । यदाह नारदः-'कामाद्गोप्यो भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । संबन्धाद्वृष्णयः स्नेहायूयं भक्त्या वयं प्रभो॥' इति । सूर्यसहस्राभिभाविनः शिशुपालतेजसो हरिशरीरप्रवेशवृत्तान्तस्यालौकिकस्याद्भुतस्य प्रत्यक्षलक्ष्यमा. णत्वाद्भाविकालंकारः । तदुक्तम् –'विनापराधेन कृतार्थक(?)पिना भाविकं तदुदाहृतम्' इति । मेघविस्फूर्जिता वृत्तम् । 'रसर्वश्वैयर्मो न्सररगुरुयुता मेघ. विस्फूर्जिता स्यात्' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवधकाव्यव्याख्याने सर्वकषाख्ये शिशुपालवधो नाम विंशतितमः सर्गः ॥ २० ॥ Page #535 -------------------------------------------------------------------------- ________________ ५२१ कविवंशवर्णनम् । .अथ कविवंशवर्णनम् । . प्रशस्तिश्लोकानां मल्लिनाथकृता टीका नोपलब्धेति वल्लभदेवकृतैवात्र लिख्यतेसर्वाधिकारी सुकृताधिकारः श्रीवर्मलाख्यस्य बभूव राज्ञः। असक्तदृष्टिविरजाः सदैव देवोऽपरः सुप्रभदेवनामा ॥१॥ सर्वाधिकारीति ॥ श्रीवर्मलाख्यस्य राज्ञः श्रीवर्मलाभिधानस्य नृपतेः अखिलकर्मस्थानाधिकृतो महासेनापतिः सुप्रभदेवनामा बभूव सुप्रभदेवाभिधानोऽभूत् । किंलक्षणः सुप्रभदेवनामा । सुकृताधिकारः सुकृते पुण्ये कर्मण्यधिकारो व्यापारो यस्य स तथा धर्मेऽवसक्तः । यश्च सुकृत एवाधिकृतः स कथं सर्वाधिकारी । तथा अपरो देवः द्वितीयो राजेव तत्सादृश्यात् । राजा हि सर्वाधिकारी भवति । अथवा अपरो देवो देवसदृशः । सुरा हि सुकृताधिकृताः असक्तदृष्टयोऽनिमिषाः विरजस्का निधूलयः । वृत्तमिदमुपजातिः ॥ काले मितं तथ्यमुदर्कपथ्यं तथागतस्येव जनः सचेताः । विनानुरोधात्स्वहितेच्छयैव महीपतिर्यस्य वचश्चकार ॥२॥ काले इति ॥ यस्य सुप्रभदेवस्य काले समये यद्वचनमुपदेशवाक्यं तन्महीपतिवर्मलाख्यश्चकार अकरोत् । कः कस्यैव वचश्चकारेत्याह-तथागतस्य बुद्धभट्टारकस्य वचो यथा सचेताः प्राज्ञो जनोऽन्वतिष्ठत् । कथंचिन्मन्दादरश्चकार नेत्याह-कुतः अनुरोधाद्विना उपरोधभावमृते । कथं चकारेत्याह-स्वहितेच्छयैव स्वस्यात्मनो हितेच्छयानुकूलचिकीर्षया । यतोऽसौ सचेताः प्राज्ञः। किंलक्षणं वचः हितहेतुत्वमाह-मितं स्वल्पाक्षरम् । तथा तथ्यं सत्यम् । अपरं किंलक्षणं वचः । उदर्कपथ्यमायत्यां हितम् । 'उदकः फलमुत्तरम्' इत्यमरः । तथागतस्य बुद्धभट्टारकस्य सचेताः प्राज्ञो जनो मितं तथ्यमुदर्कपथ्यं वचो यथा स्वहितेच्छयैव करोति तत्रानुरोधात्कृत्वोभयतः किलेदमुक्तमिति ॥ तस्याभवद्दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः । यं वीक्ष्य वैयासमजातशत्रोर्वचो गुणग्राहि जनैः प्रतीये ॥३॥ तस्येति ॥ तस्य सुप्रभदेवस्य दत्तक इति दत्तकाख्यस्तनूजोऽभवत् पुत्रोऽभूत् । किंलक्षणो दत्तकः । उदात्तो विपुलचित्तः । तथा क्षमी क्षमाशीलः।अपरं किंलक्षणो दत्तकः । अत एव मृदुरकठोरः। तथा धर्मपरः सुकृतैकसक्तः।यं दत्तकं जनैर्वीक्ष्य लोकैदृष्ट्वा वैयासं व्यासस्येदं कृष्णद्वैपायनोक्तमजातशत्रोर्युधिष्ठिरस्य १ कलकत्तादिमुद्रितपुस्तकेषु 'श्रीधर्मनाभस्य' इति पाठो दृश्यते. Page #536 -------------------------------------------------------------------------- ________________ ५२२ शिशुपालवधे. गुणग्राहि गुणग्राहकं वचः प्रतीये वचनं प्रतिपन्नमङ्गीकृतं भवति । सत्यं गुणिनः पुरुषस्य भगवता कृष्णद्वैपायनेन पार्थस्याधिकार्यस्य वचनं किंचिदुक्तम् । अत्र दत्तकोऽयं निखिलगुणभाजनं निदर्शनम् । अन्यथा कथमेवंगुणोऽयं स्यात् । क्षमीति शमादित्वादिनुण् । व्यासस्येदं वैयासं वचो भारतम् । वृद्धायभवादि. त्वादन्यत्र नरस्यासुलभः (?)। गुणान्गृह्णातीति गुणग्राहि । आख्यानकी वृत्तम् ॥ सर्वेण सर्वाश्रय इत्यनिन्धमानन्दभाजा जनितं जनेन । यश्च द्वितीयं स्वयमद्वितीयो मुख्यः सतां गौणमवाप नाम॥४॥ सर्वेणेति ॥ यश्च दत्तकः स्वयमात्मना सर्वाश्रय इत्येवंभूतं नाम संज्ञान्तरमवाप लेभे । किंलक्षणं द्वितीयं नाम । सर्वेणाखिलेन जनेन लोकेन आनन्दभाजा तुष्टेन सता जनितं कृतम् । अपरं किंलक्षणं नाम । गौणं गुणप्रवृत्तिनिमित्तभूत. मागतमर्थानुगम् । सर्वेषामाश्रयत्वात् । यथा हि सर्वे तत्र द्विजदीनानाथाति. थिमित्रबान्धवा विश्राम्यन्ति तथासौ सर्वाश्रयः । न तु तैलपायिकावन्नाममा. त्रेण । अत एवानवद्यमनिन्द्यं प्रशस्यं श्लाघ्यम् । किंलक्षणो यः । अद्वितीयः सर्वो. त्कृष्टः । अविद्यमानो गुणादधिको गुणो यस्य सोऽद्वितीयः इति कृत्वा । तथा सतां मुख्यः प्रधानोऽग्रणीः सर्वं त्वेतद्विरुद्धमिवावभासते। तथा हि यस्य हि द्वितीयं नाम विद्यते कथमसावद्वितीयो भवेत् । यश्च मुख्यः स कथं गौण. मप्रधानं स्यात् । यस्य च लोकैरपरं नाम जनितं स कथं तत्स्वयं लेभे । अविरो. धस्तु मुख्यः स्यादेव । इति नामस्वरूपमात्रावस्थाप्यमानस्य सर्वाश्रयस्य प्रातिपदिकार्थमात्रे सति कर्मत्वाभावाद्वितीयानुपपत्तिः । मुखमिव मुख्यः । 'शाखादिभ्यो यत्' । विरोधालंकारः । इन्द्रवज्रा वृत्तम् ॥ श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म लक्ष्मीपतेश्वरितकीर्तनमात्रचारु । तस्थात्मजः सुकविकीर्तिधुराशयादः काव्यं व्यधत्त शिशुपालवधाभिधानम् ॥५॥ श्रीशब्देति ॥ तस्य दत्तकस्यात्मजोऽपत्यमद एतत्काव्यं शिशुपालवधाभिधानं शिशुपालवधनामकं काव्यं ग्रन्थरूपं व्यधत्तारचयत्। शिशुपालवध इत्यभिधानं यस्य तत्तथा । कया हेतुना । सुकविकीर्तिदुराशया । सुकवीनां श्रेष्ठविदुषां वररुचि-सुबन्धु-सोमनाथ-भवभूति-क्रीडानन्द-कालिदास-बिलण-भारवि-बाण-मयूरा. दीनां या कीर्तिः ख्यातियशस्तत्र या दुराशा दुरभिलाषस्तया । महाकविकीतिलिप्सयेत्यर्थः । दुष्टत्वं त्वाशायाः स्वल्पबुद्धित्वेन सुकविकीर्तरप्राप्यत्वात् । तथा च कालिदासः-'मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये Page #537 -------------------------------------------------------------------------- ________________ कविवंशवर्णनम् । फले मोहादुदाहुरिव वामनः ॥' इति । किंलक्षणं काव्यम् । श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म । श्रीरित्ययं शब्दो ध्वनिर्मङ्गलवाचकत्वात् तेन रम्यं कृतं मनोहरं विहितं सर्गाणां समाप्तौ अर्थादध्यायानां समापने लक्ष्म चिह्नं यत्र तत्तथो. कम् । अपरं किंलक्षणं काव्यम् । लक्ष्मीपतेः श्रीनारायणस्य कीर्तनमात्रचारु कीर्तनमात्रेण वर्णमात्रेण चारु मनोज्ञम् । न त्वलंकारादिनेत्यनौद्धत्यकथनम् । भङ्गया तु सर्वेऽत्र काव्ये गुणाः सन्तीत्युक्तं भवति । श्रीरित्ययं शब्दः । मयूरव्यंसकादित्वात्समासः । यदि श्रीश्चासौ शब्दश्चेति कर्मधारयः केवलमेव । चरितकीर्तनमात्रमित्यस्खपदेन विग्रहः । सुप्सुपेति समासः। वसन्ततिलकावृत्तम् । उदात्तो मध्यमोऽलंकारः ॥ इति कविवंशवर्णनम् । समाप्तम्। Page #538 --------------------------------------------------------------------------  Page #539 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । अंशुकं १०४३ अकृतख १३१४७ अकृत्वा २०५२ अक्षितारा १९९३ अखिद्यता ४।१२ अग्रे गतेन ५।१५ अङ्काधिरोपित ५।५३ अचिराजित १६१५८ अचिरान्मया १५।६६ अजगण ६।१५ अजस्त्रमा ११९ अज्ञात २।११३ अतनु ७१६६ अतिकोमल १६।१८ अतिभूयसा १५/४ (प्रक्षिप्तः) अतिरक्त १५४९ अतिविस्म १६६६ अतिशय ७५ अतिसत्त्व १५।१५ (प्रक्षिप्तः) अतिसुरभि ६।६७ अतुहिन १११४६ अत्र चैष १४५८ अथ किल ॥३६ अथ गौर १५।४५ अथ तत्र १५/१ अथ प्रय ११३ अथ रिरै ६१ अथ लक्ष्म ९।३१ अथ वक्षो १९८३ अथवाध्व १५।६४ | अथ वा ध १५।१९ । अनवद्य १३६६ अथवाभि १६६४३ अनवरत ७।३१ अथ सस्मित २०५२ अनारतं १७१३२ अथ सान्द्र ९५२ . . अनिमिष १११११ अथ सूर्य २०१३७ अनिराकृ १६।२४ अथोच्चकैर्जरठ १७१५२ अनिरूपित १६९० अथोच्चकैस्तोरण ३।२६ अनिर्लोडित २।२७ अथोत्तस्थे १९६१ अनिशान्त १५।५० तथोपपत्तिं १।६९ अनुकृत ४।६८ अदयमिव १११६२ अनुगिर ७११ अद्रीन्द्र ५।४३ अनुत्सूत्र २।११२ अधरे ९।४६ अनुदेह ७१३ अधिकमरु ७६३ अनुनय ११९ अधिकोन १३१४१ अनुययौ ६।२७ अधिगम्य १६१७३ अनुराग ९।१० अधिजानु ९।५४ अनुलेप १२४ अधिनागं १९४४५ | अनुवनं ६।४६ अधिरजनि जगाम १५२ अनुवनमसित १२२ अधिरजनि वधूभिः अनुवपु ७१२१ १११५१ अनुसंतति २०११ अधिरात्रि १३१५१ अनृतां १५/१६ अधिरुक्म १३१३५ अन्तकस्य १९/७१ अधिरुह्य १३।१० अन्तर्जलौघ ५।३८ अधिरूढ १३।३६ अन्यकाल १०७१ अधिलव ६३६ | अन्यदा ३३४४ अधिवह्नि १६५ अन्यदुच्छृ २१६२ अध्यध्व १२१३२ अन्ययान्य १०२८ अध्यासा २५ अन्यूनं ८५२ अनतिचि ४।४१ अन्यूनोन्नत १७१६९ अनन्य ११३५ अन्येन १९।५० अनपेक्ष्य १६।४४ अन्योन्यव्यति ४५३ | अनरुप २९० अन्योन्येषां १८३३२ Page #540 -------------------------------------------------------------------------- ________________ २ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । अन्वेतुकामो १२।१६ | अभीक १९७२ अपगत ७६७ अभीक्ष्ण १।६५ अपदान्त १३१४ अभीष्ट ६१७४ अपयाति १८३ | अभूदभू ११४२ अपराध १६१४८ अभ्याजतो १२।४१ अपराह्न ९।४ अभ्युद्यत १२१७० अपशङ्क ४।४७ अमनोरम २०१५ अपहाय १५।१९(प्रक्षिप्तः) | अमलात्म ९।३७ अपूर्व १९८५ अमानवं ११६७ अप्यनारभ २।९१ अमुना १५।३० अप्रभूत १०८३ (प्रक्षिप्तः) अप्रसन्न १०।१४ अमृतं नाम २।१०७ अबुधैः १६।४७ अमृतद्रवै ५।३६ अभनक १५।२४ अम्बरं २०६२ (प्रक्षिप्तः) अम्भश्चयुतः ३।३९ अभन्न १९१३५ अयमति ४।२९ अभावि १९७६ अयमुन १५१३८ अभिवैद्य २०१३ अयशो १९।५८ अभितः क्षुभि २०४७ अरमयन् ६४० अभितः सदो १३१६१ . अरातिभि १७॥३४ अभितर्ज १५।३. अरुणजल ११:४० अभिताप ९।१ अरुणिता ६।२१ अभितिग्म ९।११ अर्पितं १०२७ अभिधाय तदा १६२ अलक्ष्यत १७१३ अभिधाय रूक्ष १५।६७ अलघूप १६।७६ अभिधित्सतः १५।५१ | अलसै १३।४८ अभिमत ७२ अल्पप्रयो ५।२५ अभिमुखपति ७२९ अवचित ७६१ अभिमुखमुप ७४१ अवजित ७६० अभियाति १३१४६ अवज्ञया १७४ अभिवर्त्म १५।९२ अवतमस ११:५७ अभिवीक्ष्य विदर्भ २०१६ | अवधार्य ९।२२ अभिवीक्ष्य सामि १३१३१ | अवधीजनं १५।३५ अभिशत्रु १५।२८ अवधीर्य ९.५९ अभिषिषेण ६६४ अवनत ॥३८ अभिहन्यते १५।१४ अवनम्य ९/७४ (प्रक्षिप्तः) अवनीभृतां १५।२१ अवलोक एव १३७ अवलोकनाय १३॥३० अवसर ७३ अवसित ७६४ अवारितं १७।२७ अविचालित १६१७० अविभाविते ९।४० अविभाव्य ९।१२ अविमृश्य १५।२६ (प्रक्षिप्तः) अविरतकुसुमा ७७१ अविरतदयिता ११५५ अविरतरत ११११७ अविरल ७/१५ अविषह्य २०१० अवेक्षिता ३।३० अव्याकुलं ५।६० अव्याहत १२१७६ अशकुवन् ११५३ अशिथिल ७१६ अशेषतीर्थो ११८ अश्रावि ५।५८ असंपाद २।४७ असकल ७२६ असकृद्गृही १३।२८ असिच्यत १७॥३८ असुर १५।२३ असृग्जनो १९७८ अहितादन १६७ अहितानभि १९।३५ अह्नाय १२१७ आकम्प्राग्रे १८१३७ आकर्षते ३१५ आकृष्ट ८।२५ आक्रम्याजे १८।१४ आक्रम्यैका १८।५१ Page #541 -------------------------------------------------------------------------- ________________ ३ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । आगच्छतो १२॥३४ | आरूढः ८१५४ इति ब्रुव १।२१ आगताधव १३१४४ आर्द्रत्वा ८१६७ इति भीष्म १५:४७ आगतानग १०२० आलप्याल २१४० इति मद १०९१ आघ्राय ८।१० आलापैस्तु ८1१२ इति यस्य १६७८ आच्छादिता ४।१९ आलोकया १२१५० इति वदति सखीजने आच्छाद्य ४.५२ आलोक्य ९८४ निमील ४३ आच्छिद्य १९।१११ आलोल ५.३० इति वदति सखीजनेआजिघ्रति ५।५४ आवर्तिनः ५।४ ऽनुरागा ॥१३ आतन्वद्भि १८१७४ आवृता १०.५६ इति वाच १५॥३९ आताम्राभा १८६४२ आशु १०।६४ इति विश २१११८ आत्मनैव १४१५४ आश्लिष्ट ३।७२ इति संरम्भि २०६७ आत्मानमेव ५।३२ आश्लेष २०१७ इतीरिते १७११ आत्मोदयः २।३० आसादित ४।३४ इत्थं गिरः ५।१ आदातुं ८।२७ आसीना ८1१९ इत्थं नारी ९८७ आदिता १४।६५ आस्कन्दन् ८।१६ इत्थं रथा १२।१ आद्यकोल १४॥४३ आस्तीर्ण ५।२७ इत्थमत्र १४१५३ आधावन्तः १८१७ आस्तृते १०८९ इत्यालिङ्गि १९।२४ आननेन १४.१८ आस्थदृष्टे १८॥३० इत्युदीरि १४।१७ आननै १०॥३६ आस्माकी ८१५० इदमपास्य ६।११ आनन्दं ८३६ आहतं १०७४ इदमयुक्त ६५६ आनामे: ८।२२ इतरानपि १३।१४ इदमिद ७५० आपतन्त १९।२ इतरेतर २०१२६ इन्द्रप्रस्थ २।६३ आपदि १९६० इतस्ततो ४।२७ इभकुम्भ १३.१६ आपस्कारा १८१४६ इति कृत ११:३५ इषुवर्ष २०१८ आबद्ध ८।४५ इति गदन्त ६।१३ इष्टं कृत्वा १९।११९ आभजन्ति १४।५७ इति गदित ७५६ इह मुहु ४१६० आमूलान्ता १८०२१ इति गन्तु ९८२ ईदृशस्य १०१७ आमृशद्भि १०।२९ इति चुक्रुधे १५।११ उचित २०३६ आमृष्टा ८०६१ इति चेदि २०१७ उच्चारण ४।१८ । आयता १०१६५ इति जोष १६।१६ उच्चैर्गता १२१४५ आयस्त ५६ इति तत्तदा १५।५८ | उच्चैर्महा ४।१८ आयन्तीनां १८१८० इति धौत ८१७१ | उच्छिद्य ५/१२ आयान्त्यां ८।११ इति नर २०१७६ उत्क्रान्ता १८१७३ आयामवद्भिः १२३६५ इति निन्दि १५।३३ उत्क्षिप्तकाण्ड ५।२२ आयासाद ८१ ' (प्रक्षिप्तः) | उत्क्षिप्तगात्रः १२१५ आरक्ष ५.५ | इति निश्चि ९।४३ | उत्क्षिप्तमुच्छ्रित ४।२५ आरभन्ते २१७९ | इति पूर १६७५ उत्क्षिप्तस्फुटि ८।१४ Page #542 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । एतस्मि ४/५२ एष दाश १४।८१ ओजखि १२।३५ ओजोभाजां १८।७५ ओजो महौ १९।१६ ओमित्युक्त १।७५ ओषामा १८/३५ कंचिदुरा १८४९ ककुद्मि २२० ककुभः २०१३७ ९४२ ४ उत्क्षिप्योच्चैः वः १८।३८ उत्खाय ५।५९ उत्तरीय १०१४२ उत्ताल ३॥८० उत्तिष्ठ २।१० उत्तीर्ण ५।६२ उत्तुङ्गा ८|३१ उत्थातु १३।९ उत्पत्सवो ३।७७ उत्त्यारा १८।५३ उत्सङ्गिता ३७९ उत्सेध १२/५३ उदमजि९।३० उदयति ४।२० उदयमुदित ११।१२ उदयशिखरि ११।४७ उदयादि १३।६४ उदासिता १।३३ उदासिरे १७१३९ उदितं ९६९ उदितोरु ९७७ उदीर्ण १।३२ उदेतु २८१ उद्भूत १२६६ उद्यत्कृशा ५/९ उन्नाद १८९ उद्वी ८३७ उ८४४ उद्धता १९।१०३ उद्धतैरिव १०।३२ उद्धतैर्निभृत १०।७६ उद्धृत्य ३।७५ उन्नमन्स १४।२८ उन्नम्र ५।६८ उन्निद्र ८२८ पत्र २०३७ उपकारकस्य १५।७ ( प्रक्षिप्तः ) उपकारपरः १६।२२ उपकारिणं १५१६ ( प्रक्षिप्तः ) उपगूढ ९१३८ उपचितेषु ६।६३ उपजापः २।९९ उपजीवति ९।३२ उपताप्य ९।६५ उपनीय १३/५० उपनेतु ९७२ उपप्लुतं १३८ उपमान २०१५४ उपरिज ७१४९ उपवन ७।२७ उपसंध्य ९।५ उपायमा २/८० उपाहितै १७।५१ उपेत्य १७२८ उपेयिवांसि २।११४ उपेयुषो ३।३२ उपैतु १९८७ उभयं १६।४२ उभौ ३८ उरगेन्द्र १३।५८ उरसा २०/२० उल्मुकेन १९८ उष्णोष्ण ५।४५ ऊरुमूल १०१६७ ऋजुता २०१९ ऋज्वी १२।१८ एक एव वसु १४।४० एक एव सुखैष १४।५२ एकत्र ४।२६ एकस्या ८२ एकेषुणा १९।१०७ कटकानि १६७७ कटुनापि १५/४० कण्ठावसक्त ५।१८ कण्डूयतः ५।४६ कदली ९४५ कनकभङ्ग ६।४७ कनकाङ्गद १५/७ कपाट ३|१३ कर कुल १५।१० करजदश ११।३७ करदीकृत २९ करप्रया २८९ करयुग्म १३।३७ कररुद्ध ९/७५ करेणुः १९।३६ करोति १३९ कलया ९२३७ कला दधानः ३।६० कलासम १।५९ कश्चिच्छस्त्रा १८।६४ कश्चिन्मूर्च्छा १८।५८ कस्यचित्स १०।१० कस्याचि ८ ५६ काचित्कीर्णा १५।९६ कान्तया १०९७३ कान्ताजने ६७७ Page #543 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी। ५ कान्तानां ८१२३ | कुसुमादपि ९।६७ क्रूरारि १९।१०४ कान्तेन्दुका ३।४४ कृतः प्रजा १।२८ क्वचिजला ४।५. . ... कापिशायन १०४ कृतकृतक ७४० क्वचिल्लस १७५६ कामीनः १०६१ कृतकेश २०१४३ क्षणमतु ११६५ कामीना १०५७ कृतगुरु १११३८ क्षणमय १११४८ कालीयक १२।१४ कृतगोप १६८ क्षणमात्र १५।९१ काले मितं ०२ कृतदाह २०१७५ क्षणमाश्लि १५६ (कविवंशवर्णने) कृतधव ११।१४ क्षणमीक्षि १५७१ किं क्रमिष्य १४।७५ कृतभय ७३७ क्षणमेष १५।१३ किं तावत् ८१२९ कृतमण्डल २०१४८ (प्रक्षिप्तः) किं नु चित्र १४।३५ कृतमदं ६।५० क्षणशयित ११६ किं विधेय १४।११ कृतसंनि १५।८ क्षणेन च १७१४५ किमलम्ब ९४२० क्षितितटे ११७ कृतसकल ११६६७ किमहो १५।६३ कृतस्य १९।१४ क्षितिपीठ १५/१७ किमिवाखिल १६।३१ कृतापचारो २१८४ (प्रक्षिप्तः) किमिवात्र १५:२९ क्षितिप्रति ३.५२ कृतास्पदा ३१३४ (प्रक्षिप्तः) क्षिप्तं प्ररो ५।५० कृतोरु १९।३२ किल राव १५।२१ कृतेः १९८१ क्षीबता २०३४ (प्रक्षिप्तः) कृत्वा कृत्य २।१११ क्षुण्णं ३।५९ किसलय ७१३९ कृत्वा पुंव ४।२३ क्षुमितस्य १६१५१ कीर्ण शनैः ५।३५ कृत्वा शिनेः १९६७ क्षोभयन्ति १४१५६ किर्णा रेजे १८७९ केनचित्खामि १९४८ खचरैः २०५९ कुटजानि ६।७३ केनचिन्मधु १०.५४ गच्छतापि १४७६ कुतूहले ३।४१ केवलं १४।६६ गच्छन्ती ८७ कुन्तेनोच्चैः १८।२३ केशप्रचु १९।२२ गजकदम्ब ६।२६ कुपिताकृति १५।५२ कोपवत्य १०॥३९ गजपति ६५५ कुपितेषु १५।५५ कोशातकी १२॥३७ गजबजा १७१६५ कुमुदवन १११६४ कौबेर ३१ गण्डभित्ति १०३ कुर्वज्योत्ला १८१४४ क्रमते १५:२० गण्डूष ५।३६ कुर्वता १०१३० (प्रक्षिप्तः) गण्डोज्वला १२१८ कुर्वद्भि ८१३८ कव्यात्पूगैः १८१७८ गतं तिर १२ कुर्वन्त ६७९ कान्तं रुचा ४३ गतधृति १० कुर्वाणानां १८१८ कान्तकान्त १०३ . गतमनु ११११० कुशलं १६:४१ कामतो १४१७७ गतया निरन्तर १३।११ कुशेशयै ४३३ कामन्दन्तौ १८६४३ गतया पुरः ९।२ कुसुमकार्मु ६।१६ ... क्रियते १६।४६ गतयोर १३१२५ कुसुमयनू ६१६२ : क्रुध्यन् १८२७... गतवता ६७८. . ५ मि. Page #544 -------------------------------------------------------------------------- ________________ ६ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । गतवत्य ९८ गतस्पृहो १।३० गते मुख १७६७ गत्यून ५।५३ गत्वा नूनं १८१६३ गत्वोद्रेक ७७४ गभीरता १७॥२९ गरीयसः १७१५४ गवलासित २०१२ गाम्भीर्य ८।२६ गुणवन्त १५।१० (प्रक्षिप्तः) गुणाना २०५६ गुरवोऽपि २०३४ गुरुकोप १५।५६ गुरुतर ७१८ गुरुताप २०६३ गुरुद्वया २६ गुरुनिःश्व १५१६२ गुरुनिबिड ७६ गुरुभिः १६०४९ गुरुवेग २०३० गुरिज ४।२ गृहमागता १५।६८ गोपानसी ३।४९ गोष्ठेषु १२।३८ ग्रन्थिमुद्र १०६३ ग्राम्यभाव १४१६४ ग्लानिच्छेदि १८१७७ घनजाल १६।१० घण्टानादो १८।१० घनपत्र १६७४ घनसंतम २०१४० घूर्णयन् २०१६ चक्रुरेव १०६६ चतुरम्बु २०६६ चतुर्थोपाय २१५४ चयस्त्विषा १।३ चरणेन १५।५४ चलतैष १५।२२ (प्रक्षिप्तः) चलाङ्गुली १७१३७ चलितं ततो १५।६९ चलितानक १६।१३ चलितोद्धत २०६१ चलितोल १६।६७ चारुता १०।३३ चिकंसया ३५१ चित्रं चापै १९/७९ चित्राभि ३।४ चिरमति ११।६० चिररति ११११३ चिरादपि २।१०५ छन्नेष्वपि ३।५६ छलयन् १५।२५ छादितः १०।१९ छायां निज ४६ छायामपा ५।१४ छायाविधा ५।२१ जगति नैश ६४३ जगति श्रिया १५।२७ जगत्पवि ३।२ जगत्यप १२७ जगदन्त १५/७३ जगद्वशी ६।६९ जगाद २।२१ जघन ७२० जजौ जोजा १९१३ जज्ञे जनै ५।४९ जडीकृत १७३३ जनतां १६६ जनिताश २०१७ जलद ६३१ | जाज्वल्य २३ जातप्रीति ६१७६ जितरोष १६।२६ जेतुं जैत्राः १८।२४ ज्वलतः २०१७० ज्वलदम्बर २०१६२ ज्वलितानल २०१६४ तं जगाद १४१ तं वदन्त १४।१२ तं श्रिया १९४८८ तं स द्विपे ५।२ तडिदु २०१३ ततः सप. २।१४ ततस्तत १९।२६ तत्पूर्वमंस १२।७२ तत्प्रणीत १४।३८ तत्र नित्य १४।३० तत्र बाणा १९।९२ तत्र मन्त्र १४।२६ तत्सुराज्ञि १४:१४ तथापि २।७१ तदयं १६५३ तदयुक्त ९८० तदलक्ष्य १३।६२ तदवितथ ११।३३ तदिन्द्र ११४१ तदीय १।६४ तदीशिता २।९५ तदुपेत्य ९६० तदेनमु ११७३ तनुभि १३।२९ तनुरुहा ६।४५ तन्त्रावाप २१८८ तन्वाः पुंसो १८१५० तपनीय २०१६८ तपेन १६६ तमकुण्ठ २०१२३ तमङ्गदे ३६० Page #545 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी। ७ तमर्थ्य १।१४ | तोषमेति १४१३ | दन्तान १२।४४ . तमागत ३१७८ त्यक्तप्राणं. १८६१ दन्ताना ८।५५ " ... तव कितव ७५४ त्यजति ६।१८ दन्तालिका ५।५६... तव धन्य १५।३० त्रस्तः समस्त ५७ दन्तैश्चिच्छि १९५५ तव धर्म १५।१७ त्रस्तौ समा १२१२४ दन्तोज्वला ४।४० तव सपदि 10 त्रस्यन्ती ८।२४ दमघोष १६।१ तव सा ९६४ त्रासाकुल: ५।२६ दयिताय मान ९।५७ . तस्थे १२१३० त्वक्सार ४।६१ दयिताय सासव १५।८१. तस्य मित्रा २।१०१ त्वमशक्नु १५।३१ दयिताहृत ९/७० तस्य सांख्य १४।१९ त्वया विप्र २।३८ दयितैरिव २०१२४ तस्यातसी ३।१७ त्वयि पूज १५.३३ दर्पण ४।६७ तस्याभव ०३ (कविवंश- त्वयि भक्ति १६।४५ दर्शना १४.४८ __ वर्णने) स्वयि भौमं २।३९ दलितकोम ६।२३ तस्यावदा १९।१९ त्वरमाण १५/७२ दलितमौक्ति ६।३५ ... तस्योल ३५ त्वष्टुः सदा ३३५ दाददो १९।११४ ताः पूर्व ८1१७ दक्षिणीय १४१३३ दानं दद ५।३७ । तात नोद १४१८३ दत्तमात्त १०।२३ दारी दरद १९।१०६... तामीक्ष ३।६४ दत्तमिष्ट १०६ दिब्युख १९९५ तिरस्कृत ११६२ ददतम ६।४१ . दिदृक्ष ३३१ तिष्ठन्तं ८।२१ ददृशे ९।२३. दिवमिच्छ १९३१. तीक्ष्णा २।१०९ दधतः शशा १५५८० दिवसं भृशो ९।३४ . .. तीवा १२।७४ दधतस्तनि २०४४ । दिवसोऽनु ९।१७ तुङ्गत्व २।४८ दधति च ४५० दिव्यकेसरि १४१७३ तुरगशता ३१८२ दधति परि १११५० दिव्याना ८१६४ तुलयति ६४ दधति सुम २ दिशमर्क १९६ तुल्ये २०४९ दधति स्फुट ९१६६ दिशामधी ११४४ तुहिनांशु १६६४ दधतोऽपि १९।७३ दीपित १०॥४७ - - - तूर्ण प्रणे.१२।२९ दधतो भया १५।७५ दीप्तिनि १४१७४ तूर्ण याव १८०२९ दधतोऽसुल १६६५ दुःखेन ५।५१ : .. तूर्यारावै १८१५४ दधत्युरो ९।८६ . दुरीक्ष १७११० , तृणवाञ्छ १३१५६ दधत्संध्या २।१८... दुरुद्वहाः १७॥२२.. . तृप्तियोगः २।३१ दधदसक ११११५ दुर्दान्त १२।२२ तेजःक्षमा २१८३ दधद्भिरभि ४।६६ दूरादेव १९।१७ तेजखि २०५१ दधानमम्भो १५ दूरोक्षिप्त १८।४५ . तेजोनिरो ५।१० दधानैर्धन १९।११ दृष्टोऽपि ४।१७ तेनाम्भसा ३९ दधुरम्बुधि २०५६ दृष्ट्वैव ५।१९ : तैवैजय १२।२९ | दधौ चल १७११७ | द्योतितान्तः २१७ Page #546 -------------------------------------------------------------------------- ________________ ८ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । द्राघीयांसः १८।३३ द्रुततर ११३८ द्रुतद्रव १७१६० द्रुतपद ७।१२ द्रुतमध्व १३।५ द्रुतशात ९१९ द्रुतमी ६।२८ द्रुतम २०/५३ द्विधा त्रिधा १९।१७ द्विरददन्त ६ । ३४ द्विषद्विशसन १९५३ धन्योऽसि १४।८७ धरणी १३।३९ धरस्योद्ध ५।६९ धूतधौता १९।३० धूमाकारं ४।३० धूर्भङ्ग १२।३६ धृततुषा ६।६० धृतप्रत्य १९।३७ धृतवान्न १५।२६ धैर्यमुल्बण १०।६८ ध्येयमेक १४।६० धियते २।३५ प्रियमाण १५/८९ ध्रुवमागताः ९१४९ ध्वजांशु १७४९ ध्वजाग्र ३।३३ ध्वनतो २०।२१ ध्वनयन्स १५।१३ न केवलं जनै १९१९७ न केवलं यः ३।१९ नखपद ११।२९ नखरुचि ७४ न खलु दूर ६/१९ न खलु वय ७।५३ नखांशु १९।१२ न च तं तदे १५।४१ न च मेऽव ९।५६ न च सुतनु ७१८ नचिकीर्ष १६।६८ न तदद्भु १६।६० न तस्थौ १९।३८ न दूये २।११ न नीतम ३ । २० ननु संदि ९६१ नानाजाव १९।४० ननु सर्व १५१ (प्रक्षिप्तः) | नानाविधा १२।११ नभोनदी १७/६५ नापचार १४।३२ नाभिहदैः ५।२९ न मनोरमा ९/५० न ममौ १३ १० न महानयं १५।२ ( प्रक्षिप्तः ) न मुमोच ११।६५ नयति १६७२ न याव १।१५ नरक १६।३३ नरसिंह ११५८ ( प्रक्षिप्तः ) न लक्ष्या ३।३८ नलिनान्ति १३।४३ नलिनी १३/५९ नवकदम्ब ६।३२ नवकनक ११।४३ नवकुङ्कु ९१७ नवकुमुद ११।२२ नवगन्ध १३।४९ नवचन्द्र ९।२८ नवनख ११।३४ नवनग ४।६५ नवपयः ६ । ३६ नवपलाश ६ |२ नवहटके १३।६३ नवानधो ११४ न स्म माति १०/५० न शून्यता १७।४० नस्यां गृही १२।१० नासा १४।२३ नात्तगन्ध १४।८४ नादातु ५/३३ नानवात १४।४९ न विदध्यु १६।५५ न विभावय ९८१ नामाक्षरा १९।११० नारीभि ८।४७ नालम्बते २।८६ निःशेष १२।३६ निःश्वास ४।१ निखिला २३।६५ निजपाणि ९/५२ निजरजः ६।३७ निजसौरभ १३।४५ निजौजसो ११३७ निल्याया ८।१५ निदधिरे ६।२४ निदाघ ११२४ निध्वन १९।३४ निपपात ९।७१ निपातित १९।७५ निपीडना १९।८७ निपीड्य १९।१८ निम्नानि १२।३१ निम्नेष्वोघीभूत १८/६९ नियुज्य १९ । ९१ निरन्तर १७।३० निरन्तराले ३।६७ निराकृते १७/२० निरायता १७१९ निरीक्षितुं १७।६२ Page #547 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । पीतवत्य १०१९ पीतशीधु १०।११ पीला ३।७३ निरुद्धवीव २।६४ निरुध्यमाना ३।२९ निर्गुणोपि १४।४६ निर्जिता १४।२९ निर्धूत ५।४७ निधते ८।५१ निलयः ९।१६ निलयेषु १३।५४ निवर्त्य १११ निवेशया १।३४ निशमय्य १६।३८ निशम्य ताः २।६८ निशान्त १।६१ निशितासि १९।६७ निषेव्य ३।६२ निष्प्रहन्तु १४।८२ निसर्गचित्रो १८ निसर्गरकै ३७ निहतोन्मद १६।५९ नीतिरापदि २।६१ नीते पलाशि १२।५५ नीते मेदं १८/२० नीरन्ध्र ८।३ नीलेना १९८४ नीहार ५।११ नृपता १५।४४ नेच्छन्ती ८।२० क्षता १४/४५ नैतल्लध्व २।२३ नैरन्तर्य १८७६ नोच्चैर्यदा ५।४४ नोज्झितुं ६।६८ पटलमम्बु ६।२९ पटतां २०५५ पतत्पत १।१२ पतिते ९।१८ यत्तिः पत्ति १८/२ पन्थान ५।३४ पद्मभूरि १४ । ६१ पद्माकारै १८।७२ पद्मरन १२ ६१ पयसि ११।४५ पयोमुचा १७।४६ परस्परं परि ११1८ परस्परस्पर्धि ३।१८ परस्य मर्मा १।६३ परानमी १७।१९ परिणत ११।४९ परितः प्रमि १६।८० परितः प्रस २०७२ परितप्यत १६।२३ परितश्च १५।७८ परितोष १६।२८ परिपाटला १३।४२ परिपाति १६।५४ परिमन्थ ९।७८ परिमोहि १५।७६ परिवेष्टि २०४९ परिशिथि ११।११ परेत १५७ पर्यच्छे ८।४६ पल्लवोप १०।५३ पवनात्म १३।२२ पश्चात्कृता १९/९३ पश्यन्कृता १२।३९ पाणिरोध १०।६९ पादाहतं २।४६ पादैः पुरः १२।२१ पानधौत १०।२६ पाजलं ३ |७० पाश्चात्य ४।२२ पिधान ९७६ पिशङ्ग १।६ पीडिते १०।४६ पुरः प्रयु १९।४७ |पुर एव १५।२ पुरस्कृत्य १९।६३ पुराणि १४५ पुरा शर १७।५५ पुरीमव १५१ पूर्वमङ्ग १४।१० पूर्वमेष १४।६७ पृथिवीं १५/२९ पृथुदर्वि २०१४२ पृथुवारि २०४७ पृथोरध्य १९ । ९ पौनःपुन्या १८।५७ प्रकटं मृदु १६।१९ प्रकटतर ११।३२ प्रकटमलि ११।३० प्रकटान्यपि १६।३० प्रकुप्यतः १६।६ प्रकृतजप ११।४२ | प्रकृतिं प्रति २० । ३९ प्रचल २०।५८ प्रचोदिताः १७।३५ प्रजा इवा ३।६५ प्रजापति १७।७ प्रज्ञोत्साह २|७६ प्रणतः १६।४ प्रणयकोप ६३८ प्रणयप्रका ९।५५ प्रतनूलसि १६६१ प्रतिकामि ९ । ३५ | प्रतिकुञ्चि २०१९ प्रतिकूल ९।६ प्रतिक्षणं १७।१६ प्रतिनाद १३।२७ Page #548 -------------------------------------------------------------------------- ________________ १० शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । प्रतिघः १५।५३ प्रतिपक्ष १६॥५७ प्रतिपत्तु १५।२२ प्रतिफलति ११३५८ प्रतिभिद्य ९१५८ प्रतिमण्ड १५/७९ प्रतिवाच १६०२५ प्रतिशरण ११:४१ प्रत्यंसं ८६८ प्रत्यन्यदन्ति ५।४१ प्रत्यन्यनागं १२।१२ प्रत्यावृत्तं १८१५५ प्रत्यासन्ने १८।२८ प्रथमं कला ९।२९ प्रथमं शरीर १५।१२ प्रथममलघु ७।६९ प्रतिमाद १३।२७ प्रफुल्ल १।२२ प्रभ्रष्टैः ८१४९ प्रमुखेऽभि २०१२५ प्रयतः २०१७३ प्रलयं परस्य १५।१६ (प्रक्षिप्तः) प्रलयमखिल १११६६ प्रवसतः ६३० प्रविकसति ११।६३ प्रविदारि १५:४९ प्रविवत्सतः १५४८६ प्रवृत्त एव ११४० प्रवृत्ते १९।४६ प्रवृद्ध ३।२१ प्रसकल ७१३४ प्रसाधित ३११२ प्रसारिणी १७१४४ प्रसृतं २०५१ प्रखेद ५।२३ प्रहरक ११४४ प्रहितः १६.५२ प्रह्वानतीव १२।५६ प्राग्भागतः ४।४९ प्राणच्छिदां ३।१४ प्रातिभं १०११२ प्रापे रूपी १९९४ प्राप्य नाभि. १०६० प्राप्य भीम १९।१३ प्राप्यतां २०६६ प्राप्यते १०७८ प्राप्य मन्मथ १०८० प्रायेण १२१४६ प्रालेय ४।६४ प्राशुराशु १४॥३१ प्रासाद १२।६३ प्रियकर ७५ प्रियतमेन ६५७ प्रियमभि १३२ प्रियमिति ११ प्रियसखी ६८ प्रीतिरस्य १४॥४१ प्रीत्या १२१४० प्रीत्यै ४।६२ प्रेक्षणीय १०८२ प्रेम तस्य १४।४७ प्रेम्णोरः ८४० प्रोथैः १२।७३ प्रोल्लस २।१९ प्लुतमिव १११५३ प्लुतेभ १९।११५ फलद्भि ४।१६ फेनाना ८०५९ बद्धदर्भ १४।२२ बन्धौ १९८० बब्रूहिरे १७॥३१ बलावले १।७२ बहिरपि ११:५९ बहु जगद ११:३९ बहुलाञ्जन २०५० बह्वपि प्रिय १४।४ बह्वपि स्वेच्छ २।७३ बाणाक्षिप्ता १८१५६ बाणाहत ३१६१ बाणाहि १९।३९ बाहपीडन १०१७२ बिभ्रती १०८ बिभ्राणमायति ५।६५ बिभ्राणया ५।१३ बिम्बितं १०५ बिम्बोष्ठं ४।३८ बुद्धिशस्त्रः २।८२ बृहच्छिला १।५४ बृहत्तूलै ३५० बृहत्सहायः २।१०० ब्रुवते ९।६२ भक्तिमन्त १४।६३ भन्नद्रुमा १२।४९ भन्नेऽपीमे १८१३९ भग्नैर्दण्डै १८१६७ भग्नो निवा ४।६३ भजते ९।४८ भवति २०।२९ भवद्राि २८ भवनोदरे ९।३९ भवन्मया १९।४ भातु नाम १०८६ भारती २१६९ भास्वत्कर ५।३ भित्त्वा १८१२२ भिन्नानने १८०६६ भिन्नेषु ४।४६ भिन्नोरस्को १८६५ J भीमता १९५४ बलोमि ३२६९ Page #549 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । ११ मुहुः प्रति १७/२१ मुहुरसु ७।१७ मुहुरिति ७/६८ भीमात्र १९।११२ भीष्मोकं १४।८८. भूभृद्भि १२/२३ भूयांसः १६।८२ भूरिभि १९६६ भृङ्गश्रेणी १८।४१ मृतभूति १६।७१ -भृशमङ्ग १५।८२ -भृशमदूयत ६।५० भृशखिदः १७।६८ मेरीभि १२/२७ भ्रश्यद्भि ८६० जुष्टा १८।६८ मखविघ्ना २।१०२ मत्कुणाविव १४।६८ 'मदनरस ७।२३ मदमदन ११।३६ मदरुचि ११।१६ मदाम्भसा १७।६८ मद्यमन्द १०।१७ मधुकर ४।४८ मधुकरैरप ६।९ मधुमथ ७।२५ मधुरं बहु १६।१७ मधुरया ६।२० मधुरैरपि २०।१७ मधुरोन्नत ९७९ मध्ये समुद्रं ३।३३ मनखिना १७।४२ मनागन २।४३ मनोहरैः १७/२६ मन्त्रो योध २।२९ मन्द्रैर्गजा १२/१५ मन्यसे २।१०६ मम ताव २।१२ मम रूप ९।६३ ममौ पुरः १७४७ मरकत ४।५६ मर्त्य मात्र १४५९ मर्त्यलोक १३।६९ मलिनं १६६२ महतः कुकु १६।७९ महतः प्रण २०१३८ महतस्तर १६ । ३५ महात्मानो २।१०४ महामहा १|१६ महीयसां १७५७ मांसव्यधो १९।११३ मा जीवन्यः २ ।४५ मातङ्गानां १८।३४ मानभङ्ग १०।२५ मा पुन १०।२१ मावेदि २।९६ मिश्रीभूते १८।१८ मुकुटांशु १३१९ मुक्तं मुक्ता ४/४४ मुक्ताने १९।१०१ मुक्ताभिः ८९ मुक्तामयं ३।१० मुक्तास्तृणा ५।६१ मुखकंदरा १५/२७ ( प्रक्षिप्तः ) मुखकमल ७|४४ मुखमीक्षितुं १३।२६ मुखमुलसि २०।१ मुखसरोज ६।४८ मुग्धत्वा ८।३२ मुग्धायाः ८।१३ मुचुकुन्द १५।२४ मुदमब्द ६।७२ मुदितमधु ७।३० मुदितयुव ११।१७ मुदितैस्वदेति १३।२४ मुदे मुरारे ४११० मुहुरुप ७।५५ मृगविद्वि १५।३४ मृग्यमाणा १४१३९ मृणालसू ३।३ मृत्पिण्ड ५।६३ मृदुचरण ७।४८ मृदुव्यवहितं २८५ मृष्टचन्दन १० ८४ मेदखिनः ५।६४ मैत्र्यादि ४।५५ दीयसी २०७४ यं लघु १४।४३ यं समे १४।८५ यः कोलतां १४।८६ य इमं १५/९ ( प्रक्षिप्तः ) य इद्दात्म २।११६ यच्छाल ३१४० यजतां २६५ यतः परा ४।११ यतः स ३।२५ यत्नाद्रक्ष १८।३१ यत्प्रिय १० ।५१ यत्राधिरूढे ४।१३ यत्रोज्झिता ४।१५ यथा यथा १७|४३ यदङ्गना ३।४२ यदनर्गल १६।३७ यदपूपुजस्त्वं १५।१४ यदपूरि १६।३६ यदयुध्य १९।३२ ( प्रक्षिप्तः ) यदराज्ञि १५।१५ यदि नाङ्ग १५/३६.. Page #550 -------------------------------------------------------------------------- ________________ १२ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुमक्रणी। यदि वार्च १५।१८ यदि मयि १४ यदुत्पत १७.५ यदुतस्य १५।२८ (प्रक्षिप्तः) यदुभर्तु १३३२ यदुवाच १५।३४ (प्रक्षिप्तः) यदेतदस्या ४१३९ यद्यदेव १०७९ यद्वासुदेवे २।२२ यमुनामती १३११ यस्तवेह १४।१६ यस्य किंचि १४७८ यस्यामजिह्मा ३१५७ यस्यामति ३।४६ यस्यामहा १२।६८ यस्याश्चल ३।३७ यां चन्द्रकै ५।४० यां यां प्रियः ३।१६ या कथंचन १०१८ या धर्मभानो १२।६७ यातव्य २।९२ यातैश्चातु १८।११ या न ययौ ४।४५ यानाजनः ५।१७ यान्तीनां ८।२ यान्तोऽस्पृश १२।१७ या बभार १९११५ या बिभर्ति ४।५७ यामूढवा १६८१ यावच्चके १८।२६ यावत्स ५।२४ यावदर्थ २।१२ यावद्व्यगा १२१५८ यावन्न १९५७ यियक्षमा २११ यियासत ३।२४ यियासता १७०४१ युगपदयुग १११६१ युगपद्विकास ९८४१ युगान्तकाल ११२३ युद्धमित्थं १९८२ युधे परैः १७।२४ यूनि राग १०।४० | ये चान्ये २।९८ येनाङ्ग १९।७४ ये पक्षिणः ५३१ योग्यस्य ८.३३ यो बाह्यः ८५८ योषितः १०८५ योषितामति १०९० रक्तस्रुतिं १९३६४ रक्षितार १४१५१ रजनी ९॥३३ रणद्भि १।१० रणसंमदो १५१७७ रणाङ्गणं १९१६९ रणे रभस १९४५६ रणेषु १।५६ रतान्तरे ३५५ रतिपति ६७ रतिरभस ११२ रतौ ह्रिया ३।४५ रत्नस्तम्मे २।४ रन्तुं क्षतो १२१५९ रथचरण ॥२८ रथमास्थि १३११९ रथवाजि १३।१७ रथाङ्गपाणेः १।२१ रथाङ्गभर्ने ३१३६ रथ्याघोषै १८३ रभसप्रवृत्त १३३३ | रभसादुद १५:५९ रभसेन १३॥३२ रम्या इति ३१५३ रयेण १९६५ रराज ३।२२ रवितुरंग ६।२२ रहितं १५।३ (प्रक्षिप्तः) रागान्धी ८१३९ राजराजी १९।१०२ राजीव ४।९ रामेण १८१७० रामे रिपुः १९६५ राहुस्त्री २०१७८ रुग्णोरु १२॥६० रुचिधानि ९/१३ रुचिरचित्र ४।३२ रुरुदिषा ६।१७ रूपमप्र १०३७ रेचितं १०।५५ रेजे जनैः ५।५७ रेणुका १४।८० रोचिष्णु ५।२० रोदोरन्ध्र १८१५ रोषावेशादाभि १८।१२ रोषावेशाद्गच्छ १८१४ लक्ष्मीभृतो ३७१ लघुललित १९ लघूकरिष्यन् ११३६ लज्जते १४।२ लब्धसौर १०।२४ लब्धस्पर्श १८१४७ | लयनेषु १३५२ लवङ्ग ३२८१ लिलङ्घ २।५८ लीलयैव १०३८ लीलाचल १२१४४ लुलित ११।२० |लूनग्रीवा १८१५९ Page #551 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । १३ विरोधिनां ३|१८ विरोधि २।२५. विलङ्घित १७।१२ विलम्बि ४८ विलसित ७।४६ विलुलित ११।२८ विलुलितामनि ६।५२ विलुलितालक ६।३ विलोकनेनैव १।२९ लोकालोक १६८३ लोकालोकी १९९८ लोलहेति १४।२५ लोलासि १९।२८ लोलैररित्रै १२।७१ वक्षोभ्यो ८/५७ वचनै १६।२७ वणिक्पथे ३।३८ वदन ६।१४ वनस्पति ४।३५ वन्येभ १२।२८ वपुरन्व ९।५१ वपुरम्बु ६।७१ वपुषा १३।८ वररो १९।१०० वर्जयन्त्या ४।४२ वर्णैः कति २|७२ वर्धाबद्धा १८/५ वर्ष्म १२।६४ वलयापि १३।४४ वशिनं १३।२३ वसुधान्त ९।२५ वहति यः ४।२१ वाजिनः १९/६२ वारणागभीरा १९।४४ वारणार्थं १०।७० वारिधेरिव १४।७३ वारिपूर्व १४।३४ वासांसि ८।६६ बाहना ज १९।३३ विकचकमल ११।१९ विकचोत्पल १६।१२ विकसत्कला १३।२१ विक्रीय ३२७६ विगततिमि ११।२६ विगतराग ६।३९ विगतवारि ६।५१ विगतसस्य ६।४९ विचिन्तय १७|११ विच्छित्तिर्नव १६।८४ विजनमिति ७।५१ विजयस्त्वयि २।५८ विजितक्रुध १६।१५ विततपृथु ११।४४ विततवलि ७।३३ विदग्ध १।६० विदतुर्य १५।६५ विदल १९७७ विदलित १२|७७ विदितं १९/९० विदुरेष्य १६ |४० विदुषीव १५/९४ विद्वद्भि ४।३७ विद्विषो १९.८९. विधातु १९।१०५ विधाय तस्या १।१७ विधाय वैरं २।४२ विधृते ९।५३ विनयति ७।५७ विनिवारि २०।१६ विनिहत्य १६।८५ विनोद १४८ विपक्ष २३४ विपुलक ७७० विपुलतर ११।५ विपुलाचल १५।८४ विपुलालवाल १३।५० विपुलेन निपीड्य १६।३ विपुलेन सागर १३।४० विभावी १९।८६ विभिन्नवर्णा ४।१४ विभिन्नशङ्खः १।५५ विरलातप ९।३ विराद्ध २।४१ विवक्षिता २।१५ विवर्तय १७|१३ विविनक्ति १६।३९ विवृतोरू १५/५७ विशदप्रभा ९।२६ विशदाश्म १३।५३. विशिखान्त १५।७० विशेष २०७५ विश्रमार्थं १०।८८ विश्वद्रीची १८।२५ विषङ्गिणि १७।६३ विषङ्गिभि १७/५३ विषतां ९६८ विषमं ९।४१ विसृजन्त्य १६।३२ विस्तीर्ण १९।४३ विहंगराजा १७ विहगाः ४।३६ विहन्तुं १९।४९ विहरन्वने १५।२५ ( प्रक्षिप्तः ) विहितं मया १५/४६. विहितागसो १५।४२ विहिताञ्जलि ९।१४ विहिताद्भुत २०।३२ विहिताप १६।९ वीतविघ्न १४।८ वीर्योत्साह १८|१६ Page #552 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । १४ वृत्तं युद्धे १८/६० व्यक्तं बली १२।६९ व्यक्तासीद १९।१०९ व्यगमन् २०७४ व्यचलन् १३।३४ व्यतनो १३ | ३३ व्यवहार २०|४१ व्यवहित ७१३५ व्यसरन्न ९198 व्याप्तं लोकै १८।४० व्यावृत्त १२/२० व्यासेद्धु १२।४३ व्योमस्पृशः ४।३१ व्रजतः १५।८७ व्रजति विषय ११।२५ व्रजति १५/५ ( प्रक्षिप्तः ) व्रजतोरपि १३१६ व्रणभृता ६।५९ व्रततिवितति ७।४५ शकट १५/३७ शङ्कयान्य १०।३५ शठनाक १५८८ शतशः २०।३१ शनकै१३/२० शनैरनी ३।६८ शब्दिता १४।२० शमितताप ६।३३ शरक्षते १९/७० शरदीव २०।२७ शरवर्षी १९९६ शस्त्रत्रण १९/५२ शासने १४ । १५ शिखरोन्नत २०/२२ शिखिपिच्छ २०।४६ शितचक २०/२ शितशल्य २०१४ शितितार १५४८ शिरसि १३।१२ शिरोरुहै १७१५८ शिशिरकिरण ११।२१ शिशिरमास ६ । ६५ शिशुरेव १५।३१ ( प्रक्षिप्तः ) शीतार्ति ८/६२ शुकाङ्ग ३१४८ शुक्लांशु ५/५२ शुक्लैः स १२।४ शुद्धम १४।३७ शुद्धाः १८/१३ शुद्धि २०।७७ शूरः १९।१०८ शृङ्गाणि ८।३० शैलाधि १२/५१ शैलोप ५१८ शोचित्वा १८/५२ शौरेः १२१३३ योतद्भिः ८/६३ योतन्मदा १२।४८ श्मश्रूय १२।९४ श्यामारुणै ३।२७ श्रियः पतिः १1१ श्रिया जुष्टं २०१७९ श्रीमद्भिः ८1८ श्रीशब्द रम्य ०१५ ( कविवंशवर्णने ) श्रुतिपथ ७२४ श्रुतिसम ११।१ श्रौत मार्ग १४।६९ श्लक्ष्णं यत् ८/६५ श्लथतां २०।३५ श्लथशिरसि ७।६२ श्लिष्यद्भि ३।६६ षड्गुणाः २।२६. षाड्गुण्य २।९३ संशयाय १४।२४ संकथेच्छु १०।४१ संकीर्ण ४।४३ संक्रान्तं ८४१ संक्रीडन्ती १८/७ संक्षिप्तस्या २।२४ संक्षोभं ८1१८ संगताभि १०।८१ संजग्माते १८/१ संजहार १०/४४ 2 संदानान्ता १८।७१ संपदा २३२ संपादित २९७ संप्रत्यसां २७० संप्रत्युपे १५/९५ संप्रदाय १४।७९ संप्रवेष्टु१०।४८ संभाव्य २०१०३ संभृतोप १४।७ संमूर्च्छ १२।१३ संसर्पिभिः ५।३९ संस्पर्श ८|६ संहत्या १९।४२ स इन्द्र ३।११ सकलमपि ११।३१ सकलापि हि १६।११ सकले च १३।६७ सकलैर्वपुः १५।३ सकल्पनं १७।२३ सकाञ्चने १।१९ सकारना १९/२७ सकुङ्कुमै १७|१४ सखा गरी २।३६ सजलाम्बु २०१५ सज्जितानि १०/१ सटाछटा ११४७, Page #553 -------------------------------------------------------------------------- ________________ शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी । १५ सतत ७१९ सप्तकात १२० सत्त्वं मान १९ । १२० सत्यवृत्त १४।७० सदा मद १९।११६ स दिवं २०२८ सदेव १९।११८ सद्वंशत्वा १८।१९ निकाम १५५ निरायत २०१४ सन्तमेव १०।१५ सपदि ११।२४ सप्ततन्तु १४।६ सप्तभेद १४।२१ स बाल १७० समं सम १९।१० समकाल २०१८ समत्सरे ११४३ समदन ७।५९ समनद्ध १६।२४ समभि ६।१० सममेक ४४४ समय ६।४४ समराय १६।६३ समरेषु १६।१४ समरोन्मु १५/९३ समस्थली १७६६ समाकुले १७।१८ समीर ४५४ समुत्क्षिप १५० समुपेत्य १३।१५ समुल्लस १७।६१ समूल २।३३ सरजस ७१४२ -सरभस ११।२३ सरसनख ११।५४ सरसिज ११/५६ सरागया १७।२ सर्वकार्य २२८ सर्ववेदि १४।६२ सर्वाधिकारी - 19 ( कवि वंशवर्णने ) सर्वेण ०४ ( कविवंशवर्णने ) सललित ७।४७ सलिलाई २०१३३ सलीलयाता १।५२ सवधूकाः ४।५१ स वमन् १५/४ सव्रीहीणां १२।४२ सविको ६।४२ सविक्रमः १७।३६ सवितुः २०६९ सविशेषं २।११५ सविष २०४५ स व्याप्त १२।५७ स संचरि १४६ स संभ्रमं १७।१५ सखुः ५।२८ स स्वहस्त १४ । ३६ सह कज्ज १५१९० सहजचाप २।११७ सहजान्ध १६।२९ सहसा दध २०।६० सहसा समं १५/७४ सहस्रपूर १९/५१ सहस्रसंख्यै ४।४ सहिष्ये २।१०८ साटोप ३।७४ सादरं १९।२३ सादिता १४।१३ सान्द्रत्व १८/६ सान्द्राम्भोद १८।३६ सामवादाः २।५५ सायं ४५८ सार्धं कथं ५।६६ सामुद्रव २२ सावज्ञ १२१५२ सावर्ण्य ३०४७ सावशेष १०।९६ साविभूति १४/५ सा सेना १९।२९ सिता इवा ५।१६ सिक्ताया ८|४३ सिञ्चत्याः ८।३४ सितं सिति १।२५ सितरुचि ११।५२ सीत्कृतानि १०।७५ सीमन्तं ८६९ सीमन्त्य १२/७५ सुकुमार १६।२१ सुकृतोऽपि १५/११ ( प्रक्षिप्तः ) सुखवेदना १३।१३ सुखिनः १३।५५ सुगन्धय १९/२० सुगन्धिता ३५४ सुतरां १३।६५ सुदृशः समीक १५/८३ सुदृशः सरस ९८५ सुभ्रुवा १०।८७ सुमेखलाः १७।२५ सुरभिणी ६।१२ सुसंहतै १७५९ सेव्योऽपि ५/४२ सोढुं तस्य १९ २१ सोपचार १०/२ ds. सोपधानां २७७ सोष्मणः १०/५८ Page #554 -------------------------------------------------------------------------- ________________ 16 शिशुपालवधश्लोकानां मातृकावर्णक्रमेणानुक्रमणी। सौगन्ध्यं 8148 स्फुटमिवो 5 / 6 स्कन्धधूनन 1471 स्फुरत्तुषा 3 / 43 स्कन्धाधि 47 स्फुरदधीर 6 / 25 स्खलन्ती 19 / 59 स्फुरदुज्वला 9147 स्तनयोः 6 / 75 स्फुरमाण 15.60 स्तम्भं नहा 5 / 48 स्मरत्यदो 1 / 68 स्थगयन्त्यमी 4 / 24 स्मरराग 6170 स्थगिता 9 / 21. स्मररस 765 स्थाने शम 2 / 94 स्मरहुत 66 स्थायिनो 2187 स्मितसरो 6 / 54 स्नातक 14 / 55 स्मृतिवर्त्म 1543 स्नान्तीनां 8153 स्रंसमान 10 / 45 स्निग्धाञ्जनश्यामत 12 / 62 स्रस्ताङ्ग 12155 स्निग्धाञ्जनश्यामरुचिःखक्ष सुपत्रं 122 3163 स्वगुणे 19161 नियन्ती 8.35 खच्छाम्भः 870 स्नुवतामुना 15133 स्वजने 15.12 (प्रक्षिप्तः) (प्रक्षितः) स्नेहनिर्भर 10 / 49 स्वभुज 16.69 स्पर्शभाजि 10 // 39 स्वयं कृत 2110 स्पर्शमुष्ण 14 / 27 स्वयं प्रण 250 स्पष्टं बहिः 5 / 67 स्वयं विधा 1171 स्पृशन्ति 2178 स्वयमक्रियः 158 स्पृशन्स 158 (प्रक्षिप्तः) स्फुटतर 11 / 3 खयमेव 15 / 20 स्फुटमिदो 7 / 58 खरागा 85 स्वर्गे वासं 18 / 62 खशक्त्युन 2057 खादनेन 10 / 7 खादयन् 14150 खापतेय 14 / 9 स्वैरं कृता 1216 हते हिडिम्ब 2160 हरत्यघं 1 / 26 हरितपत्र 6 / 53 हरिमप्य 15 / 61 हरिमर्चित 16 / 20 हरिराकुमा 13 / 68 हरेरपि 17150 हसितुं 13160 हस्तस्थिता 12 / 3 हस्तेनाग्रे 18148 हावहारि 10 / 13 हितमप्रिय 16 // 56 हिमऋता 6 / 61 हिममुक्त 13 / 38 हिमलव 7173 | हृतायाः 8 / 42 हृदयमरि 1174 हेम्नः 5 / 55 हीभरा 1052 ह्रीविमोह 10 / 22 संपूर्णग्रन्थस्य वृत्तसंख्या 1645 'माघस्तुत्यः' एतन्मिताः / पञ्चदशे सगै क्षेपकाः श्लोका 34 चतुस्त्रिंशत् समाप्ती कविवंशवर्णनश्लोकाः 5 पञ्च / एवं समुदिता वृत्तसंख्या 1684 'भजतपः' एतन्मिता।