SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३४ शिशुपालवधे दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण । उत्क्षिप्तहस्ततलदत्तविधानपिण्ड स्नेहसुतिस्तपितवाहुरिभाधिराजम् ॥५१॥ दुःखेनेति ॥ उत्क्षिप्ते उद्यते हस्ततले दत्तो निहितो यः विधानस्य गजग्रासस्य पिण्डः । 'विधानं हस्तिकवलः' इति वैजयन्ती । तस्य स्नेहस्रुत्या घृतादिनिःस्यन्दनेन स्नपितबाहुराप्लुतभुजः । नातेय॑न्ताकर्मणि क्तः । 'अर्तिही-' इत्यादिना पुगागमः मित्वाद्रस्वः। आशयिता भोजयिता । अशेय॑न्तात्तृच् । तुङ्गाग्रकायं स्वभावत एवोन्नतोर्ध्वकायम् । अनादरेणामनन्तं कवलग्रहणाय नतिमकुर्वाणमिभाधिराजम् । 'गतिबुद्धि-' इत्यादिना अणि कर्तुझे कर्मत्वम् । दुःखेन कृच्छ्रेण भोजयितुं शशाक । स्वभावोन्नतानां तत्राप्यहङ्कारग्रस्तानां को नमयितेति भावः ।। शुक्लांशुकोपरचितानि निरन्तराभि वेश्मनि रश्मिविततानि नराधिपानाम् । चन्द्राकृतीनि गजमण्डलिकाभिरुच्चै 8लाभ्रपतिपरिवेषमिवाधिजग्मुः ॥५२॥ शुक्लेति ॥ शुक्लांशुकैः शुक्लपटैरुपरचितान्युपकल्पितानि, अन्यत्र तु अल्पा अंशवोंऽशुकाः सूक्ष्मास्तेजोऽवयवाः । अल्पे इत्यल्पार्थे कन्प्रत्ययः। शुक्लस्तैरुपरचितानि व्याप्तानि रश्मिभिः प्रग्रहैः, किरणैश्च विततानि विस्तृतानि । 'किरणप्रग्रहौ रश्मी' इत्यमरः । चन्द्रस्येवाकृतिर्येषां तानि चन्द्राकृतीनि । चन्द्रमण्डलनिभानीत्यर्थः । नराधिपानां वेश्मानि दूष्याणि निरन्तराभिर्नीरन्ध्राभिरुच्चैर्गजमण्डलिकाभिर्गजपरिधिभिः। स्वाथै कप्रत्ययः । कात्पूर्वस्येकारः । नीलाभ्रपतिभिः परिवेषं परिधिम् । परिवेष्टनमिति यावत् । 'परिवेषस्तु परिधिः' इत्यमरः । अधि. जग्मुरिवेत्युत्प्रेक्षा ॥ गत्यूनमार्गगतयोऽपि गतोरुमार्गाः खैर समाचकृषिरे भुवि वेल्लनाय । दर्पोदयोल्लसितफेनजलानुसार संलक्ष्यपल्ययनवर्धपदास्तुरङ्गाः ॥ ५३॥ गत्यूनेति ॥ गत्यूना विशिष्टगमनहीना मार्गगतयोऽध्वगमनानि येषां ते तथापि गतोरुमार्गाः प्रस्थितदूराध्वान इति विरोधः। अपिर्विरोधे । गत्यूना मार्गी मृगसंबन्धिनी गतिर्येषां त इति विरोधपरिहारः । अतएव विरोधाभासोऽलंकारः । दर्पस्य तेजसोऽन्तःसारस्योदयेनौत्कट्येनोल्लसितस्योद्धृतस्य फेनजलस्य फेनीभूतोद्धतस्वेदोदकस्यानुसारेण प्रसारण संलक्ष्याणि पल्ययनवर्धाणामासनबन्धचर्मवरत्राणां पदानि तन्नोदनानिम्नीभूतस्थलानि येषां ते तथोक्ताः । तुरङ्गा
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy