________________
पञ्चमः सर्गः।
१३५ भुवि वेल्लनायाङ्गपरिवर्तनाय वैरं मन्दं समाचकृषिरे समाकृष्टाः। अध्वश्रमाप. नोदनार्थमिति भावः। वर्धते दृढबन्धनाद्दी/भवतीति वर्धम् । 'वृधिवपिभ्यां रन्' इत्यौणादिके रन्प्रत्यये लघूपधगुणो रपरः । 'वधं त्रपुवरत्रयोः' इति विश्वः । अमरस्तु 'नधी वर्धी वरना स्यात्' इत्याह । तदा 'ष्ट्रन्' इत्यौणादिके ष्ट्रन्प्रत्यये पूर्व वद्गुणो रपरः प्रत्ययतकारस्य 'झपस्तथो|ऽथः' इति धत्वे वित्त्वात्स्त्रीलिङ्गे ङीष् ॥
आजिघ्रति प्रणतमूर्धनि बाह्निजेऽश्वे
तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः। नासाविरोकपवनोल्लसितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्याः॥ ५४॥ आजिघ्रतीति ॥ बाहिरश्वयोनिर्देशविशेषः तजे बाहिजेऽश्वे । 'बाह्निदेश्ये' इति पाठे विशेष्याप्रयोगो गम्यमानत्वादित्युक्तम् । 'दिगादिभ्यो यत्' इति भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः । प्रणतमूर्धनि नम्रशिरसि कृतप्रणामे च आजिघ्रति गन्धं गृह्णति चुम्बति च सति । स्वभावात्कामाच्चेति भावः । नासाविरोकं नासारन्धं तस्य पवनो निःश्वासस्तेनोल्लसितमुद्धृतं तनीयस्तनुतरं रजस्तस्याश्वस्याङ्गसङ्गमेन वेल्लनप्रयुक्तेन यत्सुखं तस्यानुभवे उत्सुकाया उत्कण्ठितायाः पृथिव्या रोमाञ्चतां जगामेवेत्युत्प्रेक्षा । सा च भूतुरङ्गमयोः प्रतीयमानचेतननायकाद्यभेदाध्यवसायादित्यवधेयम् । विरोचतेऽनेनेति विरोकम् । घञ्प्रत्ययः। 'चजोः कु घिण्यतोः' इति कुत्वम् । 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति नपुंसकत्वाविरोधः । अत एव 'छिद्रं निय॑थनं रोकम्' इत्यमरः । 'रोको रश्मौ बिले न पुम्' इति वैजयन्ती । 'रोको दीप्तौ बिले रोकम्' इति विश्वः । ये तु केनाप्यभिप्रायेण 'विरेकपवन' इति पठन्ति तेषां परोत्सगैंकजीविनामितिवधपानीयपवनप्रतीतेरश्ली. लाख्यो दोषः । 'अश्लीलं तदमङ्गल्यजुगुप्सानीडधीरकम्' इति लक्षणात् ॥
हेम्नः स्थलीषु परितः परिवृत्त्य वाजी
धुन्वन्वपुः प्रविततायतकेशपतिः। ज्वालाकणारुणरुचा निकरेण रेणोः
शेषेण तेजस इवोल्लसता रराज ॥ ५५ ॥ हेम्न इति ॥ हेम्नः स्थलीषु स्वर्णभूमिषु । 'जानपद-' इत्यादिनाकृत्रिमार्थ ङीष्प्रत्ययः । परितः परिवृत्त्य परिवृत्तिं कृत्वा वपुर्धन्वन् धूलि निर्गमाय कम्पयन अत एव प्रवितता विश्लिष्टा आयता च केशपङ्की रोमसंघातो यस्य स वाजी ज्वालाकणाः स्फुलिङ्गास्तद्वदरुणरुचा रक्तवर्णन रेणोनिकरेणोल्लसता अत्युत्कटतया बहिरुद्वच्छता तेजसोऽन्तःसारस्य दर्पस्य शेषेणातिरेकेणेव रराज । उत्प्रेक्षालंकारः ॥
१ 'बाह्निदेश्ये' इति पाठः. २ 'प्रकरण' इति पाठः.