________________
शिशुपालवधे दन्तालिकाधरणनिश्चलपाणियुग्म
मोदितो हरिरिवोदयशैलमूर्तीः । , स्तोकेन नाक्रमत वल्लभपालमुच्चैः
श्रीवृक्षकी पुरुषकोन्नमितानकायः ॥५६॥ दन्तालिकेति ॥ पुरुषकोऽश्वानां स्थानकभेदः । तदुक्तम्-'पश्चिमेनाग्रपादेन भुवि स्थित्वाप्रपादयोः । ऊर्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥' इति । पुरुष एव पुरुषकः तेन पुरुषकेण स्थानकेनोन्नमित ऊर्ध्वावस्थितोऽग्रकायः पूर्वकायो यस्य स तथोक्तः अत एवोदयशैलस्य मूर्धा मस्तकादर्धमुदितोऽोदितो हरिरिव । सूर्य इव स्थित इत्यर्थः । अर्घोदितविशेषणादुच्चैरुन्नतः श्रीवृक्ष एव श्रीवृक्षकः आवर्तविशेषस्तद्वानश्वः श्रीवृक्षकी । 'वक्षोभवावर्तचतुष्टयं च कण्ठे भवेद्यस्य च रोचमानः । श्रीवृक्षकी नाम हयः स भर्तुः श्रीपुत्रपौत्रादिविवृद्धये स्यात् ॥' इति लक्षणात् । 'श्रीवृक्षकी वक्षसि चेद्रोमावर्ती मुखेऽपि च' इति तु वैजयन्ती । दन्तालिका मुखरज्जुः । 'मुखरज्जुश्च दन्ताली राणिका रक्षणीति च' इति वैजयन्ती। तस्या धरणे ग्रहणे निश्चलं स्थिरं पाणियुग्मं यस्य तम् । पाणिभ्यां दृढं गृहीतोभयवलगमित्यर्थः । वल्लभपालमुत्तमाश्वपालम् । 'वल्लभो दयितेऽध्यक्षे कुलीनेऽश्वेऽपि वल्लभः' इति विश्वः । स्तोकेन नाक्रमत । वल्गाग्रहणदाात्स्तोकेनाप्यभिभवितुं न शक्तोऽभूदित्यर्थः । इह 'श्लथयितुं क्षणमक्षमताङ्गनाद्वन्द्वदुःखमिह किंचित्' इत्यादिवदप्यर्थस्य सामर्थ्यलभ्यत्वादपेरप्रयोगः। अन्यथा स्तोकेन नाक्रमत किंतु भूय इति व्याख्याने निश्चलपाणियुग्मत्वादिविशेषणावगतवाहकौशल्यप्रकाशनतात्पर्यभङ्गप्रसङ्गात् । 'करणे च स्तोका-' इत्यादिना विकल्पात्तृतीया, 'अनुपसर्ग' इति विकल्पादात्मनेपदम् । उपमालंकारः ॥
रेजे जनैः सपनसान्द्रतरार्द्रमूर्ति
वैरिवानिमिषदृष्टिभिरीक्ष्यमाणः । श्रीसंनिधानरमणीयतरोऽश्व उच्चै
रुच्चैःश्रवा जलनिधेरिव जातमात्रः ॥५७॥ रेज इति ॥ स्नपनेनाभिषेचनेन सान्द्रतराईमूर्तिः अनिमिषदृष्टिभिर्विस्मयादनिमिषार्जनर्देवैरिव ताग्भिरीक्ष्यमाणः श्रियः शोभायाः, देव्याश्च संनिधानेन रमणीयतरः । तत्र संनिहिता लक्ष्मीः सन्ति यत्रोत्तमा हयाः' इत्यागमादिति भावः। उच्चैरुजतोऽश्वो जलनिधेः समुद्राजात एव जातमात्रः। सद्योजात इत्यर्थः। अन्यथोक्तसाधासंभवादिति भावः। 'मानं कात्सर्येऽवधारणे' इत्यमरः। उच्चैरुबतं श्रवः कीर्तिरुनते श्रवसी कौँ वा यस्य स उच्चैःश्रवाः शक्राश्व इव रेजे। उपमालंकारः॥
अश्रावि भूमिपतिभिः क्षणवीतनिद्रै
रश्नन्पुरो हरितकं मुदमादधानः।