________________
पञ्चमः सर्गः। ग्रीवाग्रलोलकलकिङ्किणिकानिनाद
मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ ५८॥ अश्रावीति ॥ पुरोऽग्रे हरितकं हरिततृणमश्नन् अत एव ग्रीवाग्रे लोलाश्रलाः कला अव्यक्तमधुराः किङ्किणिकाः क्षुद्रघण्टिकास्तासां निनादेन मिश्रं दशनानां दन्तानां चचुरशब्दं चर्चुरध्वनि दधत् अत एव मुदमादधान उत्पादयन्नश्वः । जातावेकवचनम् । क्षणेन वीतनिद्रैः । 'अल्पनिद्रोऽल्पभुग्वामी मितभाष्यनसूयकः' इति सौभाग्यलक्षणादिति भावः । भूमिपतिभिरश्रावि श्रुतः । अश्वस्य शब्दोऽश्रावीत्यर्थः। वीणाः श्रूयन्ते भेर्यः श्रूयन्त इत्यादिवच्छब्दधर्मः शब्दिखूपचर्यते । स्वभावोक्तिरलंकारः ॥
उत्खाय दर्पचलितेन सहैव रज्या
कीलं प्रयत्नपरमानवदुर्ग्रहेण । आकुल्यकारि कटकस्तुरगेण तूर्ण
__मश्वेति विद्रुतमनुद्रवताश्वमन्यम् ॥ ५९॥ उत्खायेति ॥ दर्पाञ्चलितेनोच्चलितेन अत एव रज्वा पाशेन सह कोलं शङ्कम् । 'शङ्कावपि द्वयोः कीलः' इत्यमरः । उत्खाय उत्पाट्य तूर्ण विद्रुतं धावन्तम् । अन्यमश्वम् अश्वेत्यनुगवता वडवेति भ्रान्त्यानुधावता प्रयत्नपरैग्रहीतुं प्रयतमानैरपि मानवैर्मनुष्यैर्दुग्रहेण तुरंगेण कटकः शिबिरमाकुल्यकारि आकुली. कृतः । आकुलशब्दादभूततद्भावे चिः 'अस्य च्वौ' इतीकारः। करोतेः कर्मणि लुङि चिणो लुक् ॥
अव्याकुलं प्रकृतमुत्तरधेयकर्म
धाराः प्रसाधयितुमव्यतिकीर्णरूपाः। सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं
वल्गाविभागकुशलो गमयांवभूव ॥६॥ अव्याकुलमिति ॥ वलगा मुखरज्जुः सा चोरिक्षप्तादिभेदेन चतुर्दशविधा । तदुक्तं हयलीलावत्याम्-'उत्क्षिप्ता शिथिला तथोत्तरवती मन्दा च वैहायसी विक्षिप्तैककरार्धकंधरसमाकीर्णा विभक्ता तथा । अत्युत्क्षिप्ततलोद्भुते खलु तथा व्यागूढगोकर्णिके वाहानां कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी ॥' इति । तल्लक्षणानि तु तत्रैव द्रष्टव्यानि विस्तरभयान लिख्यन्ते । तस्या विभागो विविच्य प्रयोगः तत्र कुशलो वल्गाविभागकुशल इति । षड्विधप्रेरणाभिज्ञ इत्यर्थः । वलगा. ग्रहणस्य रागाद्युपलक्षणत्वात् । यथाह भोजः-'वाहनं प्रतिवाहानां षड्विधं प्रेरणं विदुः । रागावल्गाकशापार्णिप्रतोदरवभेदतः ॥' इति । कश्चित् कश्चन वाहकः अव्याकुलं अव्यग्रम् । अनस्तमिति यावत् । प्रकर्षेण कृतं प्रकृतम् । सजितमित्यर्थः । मुखे मुखकर्मणि सिद्धं सिद्धिमन्तमश्वं चतुष्काख्ये गतिविशेषे मुखे । संस्थानविशे