________________
१३८
शिशुपालवधे
षादिविशेषणविशिष्टमश्वमित्यर्थः । तदुक्तं रेवतोत्तरे- 'सृकाधरोष्ठसितफेनलवाभिरामफूत्कारवायुपदमुन्नतकंधरापम् । नीत्वोपकुञ्चितमुखं नवलोहसाम्यमश्वं चतुष्कसमये मुखसिद्धमाहुः ॥' उत्तरधेयकर्म युद्धाधुत्तरकाले धेयं विधेयं प्रयोज्यं यत्कर्म क्रिया तद्रूपा इत्यर्थः । अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गतिभेदाः । 'अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरितकं रेचितं वलिगतं प्लुतम् ॥' इति वैजयन्ती । 'गतयोऽमूः पञ्च धाराः' इत्यमरश्च । अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः । 'गतिः पुला चतुष्का च तद्वन्मध्यजवा परा । पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः ॥'एकैका त्रिविधा धारा हयशिक्षाविधौ मता। लध्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत्क्रमात् ॥' इति । तथाच पञ्चदश स्वभेदा भवन्ति । ताः पञ्च धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु संचारस्थानेषु गमयांबभूव । वीथयो नवाश्वानां सर्वत्र धारादाार्थाः परिमिताः प्रचारदेशाः । ताश्च तिस्त्र इत्येके नवेत्यन्ये । तत्रोत्तरपक्षमाश्रित्योक्तं कविना नवस्विति । यथाह भोजः-'वीथ्यस्तिस्रोऽथ धाराणां लघ्वीमध्योत्तमाः क्रमात् । तासां स्याद्धनुषां मानमशीतिर्नवतिः शतम् ॥ लध्वीमध्योत्तमानां तु वाजिनां वीथिकाः स्मृताः । नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्ये. षामपि सर्वत्र गतिदाढार्थमीरिताः ॥ समोन्नता सा विषमाम्बुकीर्णा शुद्धा नताना तृणवीरुदाढ्या । स्थाणुप्रकीर्णोपलसंप्रकीर्णा पाश्र्धोन्नताख्या नवधेति वीथ्यः ॥ सर्ववीथीषु यो वाजी दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृगयायां मुदं ब्रजेत् ॥' इति । अन्ये तु उरसाल्यादयो गतिविशेषा वीथय इत्याहुः । 'उरसाली वरवाली पृथुलो मध्मनामकः । आलीढः शोभनैरङ्गैः प्रत्यालीढस्तथापरः । उपधेनव उक्तं च पादचाली च सर्वगः । निर्दिष्टा वीथयस्त्वेताः' इति ॥
मुक्तास्तृणानि परितः कटकं चरन्त• घुट्यद्वितानतनिकाव्यतिषङ्गभाजः। सत्रुः सरोषपरिचारकवार्यमाणा
दामाञ्चलस्खलितलोलपदं तुरंगाः ॥ ६१॥ मुक्ता इति ॥ मुक्ता विहारार्थमुत्सृष्टा अत एव कटकं शिबिरं परितः । 'भ. भितःपरितः-' इत्यादिना द्वितीया । तृणानि चरन्तो भक्षयन्तः त्रुट्यन्तीषु छिनासु वितानत निकासु पटमण्डपरजषु व्यतिषङ्ग सङ्गं भजन्तीति तथोक्ताः । अत एव सरोषैः परिचारकैः किंकरैर्वार्यमाणा अपसार्यमाणास्तुरङ्गा दामाञ्चलानि पादपाशः । 'दामाञ्चलं पादपाशः' इति वैजयन्ती। दूष्यवरत्राबन्धनशङ्कव इति के. चित् । तेषु स्खलितेन लोलानि पदानि यस्मिन्कर्मणि तद्यथा तथा सस्रुरपसस्नुः॥
उत्तीर्णभारलघुनाप्यलघूलपौघ
सौहित्यनिःसहतरेण तरोरधस्तात् । रोमन्थमन्थरचलद्गुरुसास्त्रमासां
चक्रे निमीलदलसेक्षणमौक्षकेण ॥ ६२ ॥