________________
पञ्चमः सर्गः।
१३९ उत्तीर्णेति ॥ उत्तीर्णभारमवरोपितावपनम् अत एव लघु तेन तथोक्तेन तथाप्यलघुना उलपानां बल्वजतृणानामोधेन यत्सौहित्यं पूर्तिः । 'पयाप्तमुपसंपन्नं पूर्तिः सौहित्यमुच्यते' इति हलायुधः। तेन निःसहतरेणात्यन्तमसहतरेण बाह्यभारावतारेऽप्यन्तरतिभोजनाद्गुरूभवतेत्यर्थः । सहेनिःपूर्वापचाद्यजन्तात्तरप् प्रत्ययः । 'उलपा बल्वजाः प्रोक्ताः' इति विश्वः । औक्षकेण उक्ष्णां समूहेन । 'गोत्रोक्ष-' इत्यादिना वुञ् प्रत्ययः। तरोरधस्तात्तरुतले रोमन्थः पशूनां चर्वितचर्वणं तेन मन्थरं मन्दं चलन्त्यो गुव्यः साना गलकम्बलानि यस्मिन्कर्मणि तद्यथा तथा । 'रास्ना तु गलकम्बलः' इत्यमरः। किंच निमीलन्ति सुखान्मु. कुलीभवन्ति अलसानि चेक्षणानि यस्मिन्कर्मणि तद्यथा तथा आसांचक्रे आसि. तम् । 'आस उपवेशने' भावे लिट् । 'दयायासश्च' इत्याम्प्रत्ययः । 'कृञ्चानुप्रयुज्यते लिटि' इति कृजोऽनुप्रयोगः । इतःप्रभृत्याचतुष्टयात्स्वभावोक्तिः ।
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं
शृङ्गैः शिखाग्रगतलक्ष्ममलं हसद्भिः। उच्छृङ्गितान्यवृषभाः सरितां नदन्तो
रोधांसि धीरमपचस्करिरे महोक्षाः ॥ ६३ ॥ मृत्पिण्डेति ॥ मृत्पिण्डैर्वप्रक्रीडालग्नैर्मृत्खण्डैः शेखरिताः संजातशेखराः कोटयोऽग्राणि येषां तैरत एव शिखाग्रगतमुभयकोट्यन्तर्गतं लक्ष्मैव मलं यस्य स एवंभूतं श्वेतमर्धचन्द्रं हसद्भिरित्यतिशयोक्तिभेद इत्युक्तम् । अभूतोपमेति मतान्तरम् । शृङ्गैर्विषाणैरुच्छृङ्गा उत्पतितशृङ्गाः कृता उच्छृङ्गिता अन्यवृषभाः प्रतिवृषभा यैस्ते अत एव धीरं गम्भीरं नदन्तो गर्जन्तः महान्त उक्षाणो महोक्षाः । 'अचतुर-' इत्यादिना निपातात्साधुः । सरितां रोधांसि अवचस्करिरे आलिलिखुः । हर्षागुरुजुरित्यर्थः । अवपूर्वाकिरतेः कर्तरि लिट् । 'किरतेर्हर्षजी. विकाकुलायकरणेष्विति वक्तव्यम्' इत्यात्मनेपदम् । 'ऋच्छत्य॒ताम्' इति गुणः, 'अपाच्चतुष्पाच्छकुनिप्वालेखने' इति सुडागमः ॥
मेदखिनः सरभसोपगतानभीका
न्भक्त्वा पराननडुहो मुहुराहवेन । ऊर्जस्वलेन सुरभीरनु निःसपत्नं
जग्मे जयो रविशालविषाणमुक्ष्णा ॥ ६४॥ मेदस्विन इति ॥ ऊर्जी बलमस्यास्तीति तेन ऊर्जस्वलेन बलिना । 'ज्योत्स्नातमिस्रा-' इत्यादिना निपातः। उक्षणा वृषभेण मेदस्विनो मांसलान् । 'अस्मायामेधास्रजो विनिः' । अत एव सरभसं सत्वरमुपगतान् अभिकामयन्त इत्यभी. कान्कामुकान् । 'कम्रः कामयिताभीकः' इत्यमरः । 'अनुकाभिकाभीकः कमिता' इति निपातः। पराननडुहो बलीवन्मुिहुराहवेन युद्धेन भङ्क्त्वा निर्जित्य जयेनोदुरे निर्भरे । 'ऋक्पूर्-' इत्यादिना समासान्तः। विशाले च विषाणे यस्सिन्क