________________
१४०
शिशुपालवधे मंणि तद्यथा तथा निःसपत्नमप्रतिपक्षं सुरभीरनु गवां पृष्ठतः । 'कर्मप्रवचनीययुक्त द्वितीया' । जग्मे गतम् । भावे लिट् ॥
बिभ्राणमायतिमतीमवृथा शिरोधिं
प्रत्यग्रतामतिरसामधिकं दधन्ति । लोलोष्ठमौष्ट्रकमुदग्रमुखं तरूणा
__म_लिहानि लिलिहे नवपल्लवानि ॥६५॥ बिभ्राणमिति ॥ आयतिमती दैर्ध्यवतीम् । न च वृथा दै_मित्याह-अवृ. थेति । उच्चैस्तरपल्लवग्रहणात्सफलामित्यर्थः । शिरो धीयतेऽस्यामिति शिरोधि श्रीवाम् । 'शिरोधिः कंधरेत्यपि' इत्यमरः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । बिभ्राणं दधानम् । उदग्रमुखं पल्लवग्रहणार्थमूवॉक्षिप्ततुण्डमौष्ट्रकमुष्ट्रसमूहः । 'गोत्रोक्ष-' इत्यादिना वुन् । अधिकमतिशयितो रसः स्वादो यस्यां तामतिरसां प्रत्यग्रतामभिनवत्वं दधन्ति दधति । 'वा नपुंसकस्य-' इति वैकल्पिको नुमागमः । अभ्रं लिहन्तीत्यभ्रंलिहान्युच्चतराणि । 'वहाभ्रे लिहः' इति खश्प्रत्ययः । 'अरुर्द्विषत्-' इत्यादिना मुमागमः । तरूणां नवपल्लवानि । 'पल्लवोऽस्त्री किसल. यम्' इत्यमरः । लोलोष्टं यथा तथा । 'ओत्वोष्ठयोः समासे वा' इति पररूपं वक्तव्यम् । लिलिहे आस्वादयामास । जघासेत्यर्थः ॥
सार्धं कथंचिदुचितैः पिचुमर्दपत्र
रास्यान्तरालगतमाम्रदलं म्रदीयः। दासेरकः सपदि संवलितं निषादै
विगं पुरा पतगराडिव निर्जगार ॥६६॥ सार्धमिति ॥ उचितैरभ्यस्तैः । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । पिचुमर्दपत्रैर्निम्बदलैः सार्धम् । 'पिचुमर्दश्च निम्बेऽथ' इत्यमरः । कथंचित्प्रमादादास्यान्तरालगतं मुखान्तर्गतं म्रदीयो मृदुतरमाम्रदलं चूतपल्लवं दासेरक उष्ट्रः पुरा निषादैर्लेच्छैः संवलितं युक्तं विप्रं पतगराद गरुत्मानिव निर्जगार उद्गीर्णवान् । पुरा किल कुतश्चित्कारणान्म्लेच्छभक्षणे तैः सहान्तः प्रविश्य गलं दहन्तं विप्रं गरुड उज्जगारेति पौराणिकी कथात्रानुसंधेया ॥
स्पष्टं बहिः स्थितवतेऽपि निवेदयन्त
श्चेष्टाविशेषमनुजीविजनाय राज्ञाम् । वैतालिकाः स्फुटपदप्रकटार्थमुच्चै
भॊगावलीः कलगिरोऽवसरेषु पेठुः ॥ ६७ ॥ स्पष्टमिति ॥ बहिः स्थितवतेऽप्यनुजीविजनाय । राज्ञोऽवसरकाङ्किण इति भावः । राज्ञां चेष्टाविशेषं तत्कालोचितचरित्र विशेष स्पष्टं निवेदयन्तः। तब्यञ्जक प्रबन्धपाठैरिति भावः । कलगिरो मधुरवाचो वैतालिका मङ्गलपाठकाः अवसरेषु