________________
पञ्चमः सर्गः।
१४१ तद्वेलासु स्फुटैः प्रसिद्धैः पदैः प्रकटः प्रकाशोऽर्थोऽभिधेयं यस्मिन्कर्मणि तद्यथा तथा उच्चैर्भोगावलीः प्रबन्धान्पेठुः पठन्ति स्म । 'अत एकहल्मध्येऽनादेशादेलिटि' इत्येत्वाभ्यासलोपौ ॥
उन्नम्रताम्रपटमण्डपमण्डितं त
दानीलनागकुलसंकुलमावभासे । संध्यांशुभिन्नघनकर्बुरितान्तरीक्ष
लक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ॥ ६८॥ उन्नमेति ॥ उन्ननैरुन्नतैस्तानैर्धातुरक्तैः पटमण्डपैर्दूष्यैर्मण्डितं भासमन्तानीलैर्नागकुलैर्गजसबैः संकुलं अत एव संध्यांशुभिन्नैः संध्यारागसंभिन्नैर्घनैर्मेधैः कर्बुरितस्य चित्रीकृतस्यान्तरीक्षस्य लक्ष्मी विडम्बयत्यनुकरोतीति तत्तथोक्तं शिवकीर्तनस्य मङ्गलकीर्तेः कृष्णस्य तच्छिबिरं कटकमावभासे । मनोहरमभूदित्यर्थः । उपमालंकारः॥
धरस्योद्धर्ताऽसि त्वमिति ननु सर्वत्र जगति
प्रतीतस्तत्कि मामतिभरमधः प्रापिपयिषुः । उपालब्धेवोचर्गिरिपतिरिति श्रीपतिमसौ
बलाक्रान्तः क्रीडद्विरदमथितोर्वीरुहरवैः ॥ ६९ ।। इति श्रीमाधकृतौ शिशुपालवधे महाकाव्ये यङ्के
पञ्चमः सर्गः ॥५॥ धरस्येति ॥ बलैः सैन्यैराक्रान्तो गिरिपती रैवतकः क्रीडद्भिर्विहरमाणैर्द्विरदैर्मथितानां भग्नानामुर्वीरुहाणां वृक्षाणां रवैः शब्दैनिमित्तेन श्रीपति हरिम् । नन्वङ्ग त्वं धरस्य पर्वतस्योद्धर्ता उद्धारकोऽसीति सर्वत्र जगति प्रतीतः प्रसिद्धः १ गोवर्धनोद्धारणादिति भावः । तत्तर्हि किं किमर्थमतिभरमतिभारवन्तं मामधः प्रापिपयिषुः प्रापयितुमिच्छुरसि । प्रापयतेः सन्नन्तादुप्रत्ययः । इत्युच्चैरुपालब्धेव आक्रुक्षदिवेत्युत्प्रेक्षा । उपापर्वाल्लभेर्लुङ् 'एकाच उपदेशे-' इति नेट् । 'झेषस्त. थो?ऽधः' इति तकारस्य धकारः । 'धि च' इति सिचः सकारलोपः । शिखरिणक वृत्तम् । 'रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध
काव्यव्याख्याने सर्वकषाख्ये पञ्चमः सर्गः ॥ ५॥
का
१ अत्र मल्लिनाथोऽप्युपालम्भयोग्य एव । सिचः सत्वे 'झषस्तथोः-' इत्यस्याप्राप्तेः । तस्मात् 'झलो झलि' इति सलोपे 'झषस्तथोः-' इति धः॥