________________
१४२
शिशुपालवधे
षष्ठः सर्गः। अथ ऋतुवर्णनं प्रस्तौतिअथ रिम्सुममुं युगपद्रौि कृतयथावतरुप्रसवश्रिया । ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सताम् ॥१॥ अथेति ॥ तथ सेनानिवेशानन्तरं गिरौ रैवतके रिरंसु रन्तुमिच्छुम् । रभेः समन्तादुप्रत्ययः । एतेन ऋतुवर्णनप्रवृत्तेः प्रभुचित्तवृत्तिज्ञानपूर्वकत्वमुक्तम् । सतां साधूनां विपदामन्तं करोतीति विपदन्तकृत् । विप् । तं विपदन्तकृतम् । सेव्य. मिति भावः । अमुं हरिं निषेवितुं स्वतरून्स्वस्वनियतवृक्षाननतिक्रम्य यथास्वतरु। यथार्थेऽव्ययीभावः । यथा स्वतरुस्थिता प्रसवश्रीः पुष्पफलसंपत्तिः यथास्वतरुप्रसवश्रीः । 'प्रसवस्तु फले पुष्पे' इत्यमरः । शाकपार्थिवादिषु द्रष्टव्यः । सा कृता येन तेन कृतयथास्वतस्पसवश्रिया । यथास्वतस्कृतप्रसवश्रियेत्यर्थः। ऋतुगणेन युगपद्भुवि पदमादधे आहितम् । युगपतुगणः प्रादुरभूदित्यर्थः। नाक्सरं सेवकाः क्षिपन्तीति भावः । अत्र सर्गे सर्वत्र यमकं शब्दालंकारः । तल्लक्षणं तूक्तं चतुर्थे । अर्थालंकारस्तु यथासंभवमूह्यः । अस्मिन्सगै द्रुतविलम्बितं वृत्तम् । 'दुतविलम्बि. तमाह नभौ भरौ' इति लक्षणात् ॥
अथ लोकवेदयोः प्राथम्येन व्यवहाराद्वसन्तमादौ वर्णयतिनवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥२॥ नवेति ॥ स हरिः पुरोऽग्रे प्रथमं वा नवपलाशानि नूतनपर्णानि पलाशवनानि किंशुककाननानि यस्मिंस्तं नवपलाशपलाशवनम् । बहुव्रीहिपूर्वपदो बहुव्रीहिः। 'पलाशः किंशुके पत्रे पलाशम्' इति विश्वः । स्फुटानि विकचानि परागैः रजोभिः परागतानि व्याप्तानि च पङ्कजानि यस्मिंस्तं स्फुटपरागपरागतपङ्कजं । मृदुलाः कोमला अतएव तान्ताः आतपसमये किंचिन्मालां लतान्ताः पल्लवा यस्मिंस्तं मृदुलतान्तलतान्तं सुमनोभरैः पुष्पसमृद्धिभिः सुरभि सुगन्धि सुरभि वसन्तमलोकयदपश्यत् । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । सुगन्धौ च मनोज्ञे च वाच्यवत्' इति विश्वः। इह प्रतिपादं प्रथमाक्षरद्वयात्पर. तोऽक्षरत्रयावृत्तिरूपयमकप्रक्रमाच्चतुर्थपादेऽपि तदेव यमकम् । एकस्मादप्यपरमिति सजातीयसंसृष्टिः॥ विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥३॥ विलुलितेति ॥ विलुलितालकसंहतिर्विधुतचिकुरनिकुरः सन्मृगदृशां ललाटजं श्रमवारि स्वेदमामृशन्परिमृजन् । मन्द इति भावः । सरसां तनुतरङ्गततिं