________________
षष्ठः सर्गः।
१४३ दलन्ति विकसन्ति कुवलयानि यस्मिन्कर्मणि तद्यथा तथा वलयंश्चालयन् । शीतल इति भावः । मरुद्वसन्तवायुराववौ आवाति स्म ॥ तुलयति स विलोचनतारकाः कुरबकस्तवकव्यतिषङ्गिणि । गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ४ तुलयतीति ॥ कुरबकस्तबके व्यतिषणिणि लग्ने अत एव गुणवतः शुक्लगु. णस्य कुरबकस्तबकस्याश्रयेणाश्रयणेन लब्धो गुणोदयो निजनीलिमगुणोत्कर्षों येन तस्मिन् । धवले नीलस्य स्फुरणादिति भावः । अलिनि भ्रमरे मलिनस्य भावो मलिनिमा कृष्णत्वं माधवयोषितां अरिवधूनां विलोचनानां तारकाः कनी. निकाः । 'तारकाक्ष्णः कनीनिका' इत्यमरः । तुलयति स्म समीचकार । तद्वद्धभावित्यर्थः । तुलाशब्दात्सदृशपर्यायात् 'तत्करोति-' इति ण्यन्तात् 'लट् स्से' इति भूते लट् । उपमालंकारः॥ स्फुटमिवोज्वलकाश्चनकान्तिभिर्युतमशोकमशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ५ स्फुटमिति ॥ उज्ज्वलकाञ्चनकान्तिभिः शुद्धसुवर्णप्रभैश्चम्पकैयुतम् । चम्पकसमूहमध्यगतमित्यर्थः । स्फुटं विकत्रमशोकपुप्पं भिदा भेदः। 'पिद्भिदादिभ्योऽङ्' । तां विभर्ति यत्तस्य भिदाभृतो भिन्नस्य विरहिणां हृदयस्य हृदयपिण्डस्य संबन्धि मदनाग्निना कपिशितं कपिशीकृतं पिशितं मांसमिवाशोभतेत्युत्प्रेक्षा ॥
स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः। निपतिताः परितः पथिकवजानुपरि ते परितेपुरतो भृशम् ॥६॥ स्मरेति ॥ आम्रवणस्य चूतवनस्य । 'भाम्रश्भूतो रसालोऽसौ' इत्यमरः । 'प्रनिरन्तःशर-' इत्यादिना वननकारस्य णत्वम् । रजःकणाः परागचूर्णाः सरहु. ताशनः कामाग्निः स एव मुर्मुरस्तुपाग्निः 'मुर्मुरस्तु तुषानलः' इति वैजयन्ती । तस्य चूर्णतां दधुरिवेत्युत्प्रेक्षा । अतो मुर्मुरचूर्णत्वादेव परित उपरि निपतितास्ते रजःकणाः पन्थानं गच्छन्तीति पथिकाः । 'पथः कन्' इति कन्प्रत्ययः । तेषां बजान्भृशं परितेपुः परितापयामासुः । अतो मुर्मुरचूर्णत्वोत्प्रेक्षणमिति भावः ॥
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका। बकुलपुष्परसासवपेशलध्वनिरगानिरगान्मधुपावलिः ॥ ७॥ रतिपतीति ॥ प्रियतमेषु विषये कृतयुधः कृतरुषः । 'प्रतिघा रुद्रुधौ स्त्रियाम्' इत्यमरः । वधूरनुनायिका कुपितस्वीरनुनेष्यन्ती । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति भविष्यदर्थे ण्वुल प्रत्ययः । 'अकेनोभविष्यदाधमर्ययोः' इति षष्टीप्रतिषेधाद्वधूरिति द्वितीया । रतिपतिना कामेन प्रहिता प्रेषितेव तद्वाणीश्रवणानन्तरमेव तासां कोपत्यागदर्शनादियमुत्प्रेक्षा । बकुलपुष्पाणां रसो मकरन्दः स एवासवस्तेन तत्पानेन पेशलध्वनिर्मधुरस्वरा मधुपावलिः की न गच्छतीत्यगादृक्षानिर्गता । 'इणो गा लुङि' इति गादेशः ॥