________________
१४४
शिशुपालवधे
प्रियसखीसदृशं प्रतबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्णरुमत्सरच्छिदुरयाऽदुरनाचितमङ्गनाः॥८॥ प्रियसखीति ॥ गुरोर्महतो मत्सरस्य द्वेषस्य छिदुरया छत्र्या । 'विदिभिदिच्छिदेः कुरच्' । काम्यगिरा ग्राह्यवाचा परपुष्टया कोकिलया प्रियसख्या सदृशं यथा तथा किमपि परैर्दुबौधं रहस्यं हितं प्रतिबोधिता उपदिष्टा अङ्गनाः प्रियत. माय अयाचितमप्रार्थितमेव वपुर्निजाङ्गमदुरर्पयामासुः । ददातेलुंङि 'गातिस्था-' इत्यादिना सिचो लुक् । कोकिलाकूजितश्रवणानन्तरमेवाङ्गार्पणादौत्सुक्यहेतुकाछनन्तरन्यायेन तथा किमपि बोधिता इत्युत्प्रेक्षा ॥
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वरजिता रजिता वशमाययुः॥९॥ मधुकरैति ॥ मधुकरैः कर्तृभिः। अपवादं मृगवञ्चनाय घण्टादिकुत्सितवाद्यं कुर्वन्तीत्यपवादकरा व्याधास्तैरिव पथिका हरिणा इव परिवादिनीस्वर. जिता वीणाविशेषध्वनिजयिन्या । 'सप्तभिः परिवादिनी' इत्यमरः । जेः क्विपि नुक् । वचसो गीतस्य कलतया माधुर्येण करणेन रजिताः। आकृष्टाः सन्त इत्यर्थः । रञ्जय॑न्तात्कर्मणि क्तः । 'रओौँ मृगरमणे-' इति उपधानकारलोपः। इहोपमानमृगसादृश्यादौपचारिकं मृगत्वम् उपमेयेषु पथिकेष्वस्तीत्यविरोधः । स्मृतिभुवः स्मरस्य मृगपातचिन्ताविषयत्वान्मृगग्रहणगर्त देशस्य च वशमाययुः । यथा व्याधगानासत्या गर्ते मृगाः पतन्ति तद्वन्मधुकरहुंकाराकृष्टाः पान्थाः स्मरपारवश्यं भेजुरित्यर्थः । अनेकवेयमुपमा ॥ समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीपया । अविनमन्न रराज वृथोचकैरनृतया नृतया वनपादपः ॥१०॥ समभिसृत्येति ॥ प्रमदया का कुसुमानामवचिचीषयावचेतुमिच्छया । रिरंसयेति भावः । चिनोतेः सन्नन्तात् 'अप्रत्ययात्' इति स्त्रियामकारप्रत्ययः । 'विभाषा चेः' इति विकल्पात्कुत्वाभावः। रसादागात्समभिसृस्य समागत्यावलम्बितो हस्तेन गृहीतस्तथाप्यविनमन्वशमगच्छन् अत एव वृथोच्चकैर्व्यर्थमुन्नतो बनपादपः । न तु नागरिक इति भावः । न तेत्यनृता असत्या तया अनृतया नुभोवो नृता तया नृतया पुंस्त्वेन रराज । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । यः कान्ताकरगृहीतोऽपि न द्रवति स नपुंसक एव, लौकिकस्तु पुंस्त्वव्यपदेशो मिथ्यैवेति भावः ॥ अथ कश्चित्स्वयंग्रहाश्लेषसुखार्थं प्रियामलिपातेन भीषयंत्रिभिः कुलकेनाहइदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः। स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥ ११ ॥
इदमित्यादि ॥ स्तनभरेण साधनेन जिताभ्यां स्तबकाभ्यामानमन्ती नवलता यथा सा तथोक्ता तस्याः संबुद्धिर्जितस्तबकानमन्नवलते स्तबकानमन्नवलतोपमे