________________
षष्ठः सर्गः।
१४५ इत्यर्थः । अत एवेदं विरागि विरक्तिमदलिकदम्बकं परागिणीः घरागवतीरिति विरक्तिहेतूक्तिः । अम्बुरुहां ततीरपास्य तवाभिमुखं वलते चलति । विशिष्टलताभ्रमादिति भावः । तथा च भ्रान्तिमदलंकारो व्यज्यते ॥ अथालेस्तदभिमुखागमने कारणमाहसुरभिणि श्वसिते दधतस्तृपं नवसुधामधुरे च तवाधरे । अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥१२॥ सुरभीति ॥ तव सुरभिणि श्वसिते निश्वासमारुते नवसुधावन्मधुरे अधरे च तृपं तृष्णां दधतो दधानस्यालेभ्रमरस्य ममेवामू उपलभ्यमानौ सुमनसां पुष्पाणां संबन्धिनौ सौमनसौ गन्धरसौ सौरभमाधुर्ये मनसोऽन्तःकरणस्य मुदे नालं न पर्याप्तौ । अतस्त्वद्वदनरसगन्धलोभादागच्छतीत्यर्थः । 'नमःस्वस्ति-' इत्यादिना चतुर्थी । अत्र कान्ताकर्तृकस्वयंग्रहाश्लेषसुखार्थिनः प्रियस्य तद्भयहे. तोरलेरेवागमनहेतुत्वेनात्र दृष्टान्तेन मुखसौरभरसलोभभरकुसुमवैराग्ययोर्वर्णयितुमौचित्याद्यमकानुसारेण विप्रकृष्टेनापि ममशब्देनेवशब्दस्यान्वयः। 'वलतेऽभिमुखं तव अलिभयादिव सस्वज' इत्युपक्रमोपसंहाराभ्यामलेः प्रकृतत्वेनोपमेयत्वावगमात् । अन्यथा मध्ये तद्वैपरीत्ये तद्विरोधादित्यलमहिचलनाध्वमार्गणेन । अत्रोपमानुप्रासयमकानां तावद्विजातीयानां संसृष्टिः स्पष्टैव । तथा यमकानां त्रयाणां चतुर्थपादादावेकरमादक्षरात्, द्वाभ्यां त्रिभ्यश्च परतोऽक्षरत्रयात्तिलक्षणानां स्थितत्वात्सजातीयसंसृष्टिश्चेष्टा ॥
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोचतरस्तनी । प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सखजे ॥१३॥ इतीति ॥ इतीत्थं गदन्तं प्रणयिनं अनन्तरं भुजयुगस्योन्नमनेनोच्चतरावन्युनतौ स्तनौ यस्याः सा । 'स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' इति ङीष् । वलिभया वलयो विद्यन्ते यस्यास्तया वलिमत्या । 'तुन्दिवलिवटेर्भः' इति भप्रत्ययः । उदरश्रिया मध्यशोभया उपलक्षिता अङ्गना अलिभयादिव रभसात्सस्वजे आलिलिङ्ग । वस्तुतस्तु रागादेवेति भावः । 'प्वा परिष्वङ्गे' इति धातोः कतरि लिट् । 'लजामन्मथमध्यस्था मध्येयं नायिका मता' इति ॥ वदनसौरभलोभपरिभ्रमद्धमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया १४ वदनेति ॥ वदनस्य सौरभे सौगन्ध्ये लोभेन परिभ्रमता भ्रमरेण हेतुना यः संभ्रमस्तेन संभृतशोभया संपादितश्रिया चलितया अलिसंभ्रमात्प्रस्थितया अत एवालकैरलकपातैलॊलदृशा चञ्चलाक्ष्या अन्यया स्यन्तरेण कलो मेखलायाः कलकलः कोलाहलो विदधे विहितः । अलिभयादपसरन्त्याः काञ्चीगुणध्वनिरजनीत्यर्थः । एतेन चकितत्वमुक्तम् । चकितं भयसंभ्रमः । अनुप्रासयमकयोः सजातीयशब्दालंकारयोः संसृष्टिः स्पष्टैव तावत् । तथा यमकयोश्च द्वयोः सजातीययोः
शिशु० १३