________________
१४६
शिशुपालवधे चतुर्थपादादावेकस्मादक्षराष्ट्राभ्यां च परतोऽक्षरत्रयावृत्तिलक्षणयोः स्थितत्वात्सजातीययोः संसृष्टिः ॥
अजगणन्गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः। सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः १५ अजगणन्निति ॥ याः कुकुरस्त्रियो यादवाङ्गनाः गणशो बहुशः। 'बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' इति शस् प्रत्ययः । अग्रतः प्रणतमपि प्रियम् । जासावेकवचनम् । प्रियानित्यर्थः । अभिमानिनीनां भावोऽभिमानिता तया । 'त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः' । नाजगणन्न गणयन्ति स्म । गणेश्चौरादिकाण्णौ चडि 'ई च गणः' इत्यभ्यासस्य पाक्षिक इत्वाभावः। ताः कुकुरस्त्रियो मधौ वसन्ते सति प्रवर्तमाने । 'मधुश्चैत्रे वसन्ते च' इति विश्वः । मदनव्यथाविधुरिता विह्वलिताः सत्यः धुरि अग्रेऽभवन्नवर्तन्त । स्वयमेव पुरः प्रवृत्ता इत्यर्थः ।।
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुमुहुर्गतभर्तकाः॥१६॥ कुसुमेति ॥ गतभर्तृका वियोगिन्यः । 'नवृतश्च' इति कप् । अपराः काश्चिदङ्गनाः कुसुमकार्मुकस्य कामस्य कार्मुके संहितैः दुतैर्जवनैः शिलीमुखैः शरैः खण्डितविग्रहाः पाटितशरीराः सत्यो मरणमपि प्रतिपेदिरे। मुहुः पुनःपुनः मुमुहुर्मुमूच्छुरिति किमु वक्तव्यमित्यर्थः ॥ अथ कस्याश्चित्प्रोषितभर्तृकाया बन्धुजनसमाश्वासनं विशेषकेणाहरुरुदिषा वदनाम्बुरुहश्रियः सुतनु सत्यमलंकरणाय ते । तदपि संप्रति संनिहिते मधावधिगमं धिगमङ्गलमश्रुणः॥१७॥ रुरुदिषेति ॥ हे सुतनु शुभाङ्गि, 'अम्बार्थनद्योर्हस्वः' इति हस्वत्वम् । दीर्घोत्तरपदो बहुव्रीहिः अन्यथा गुणः स्यात् । रुरुदिपा रोदनेच्छा । अश्रुविमोचनमित्यर्थः । रुदः सन्नन्तादप्रत्यये टाप् । ते तव वदनाम्बुरुहश्रियोऽलंकरणाय सत्यम् । 'रम्याणां विकृतिरपि श्रियं तनोति' इति न्यायादिति भावः । गम्यमानक्रियापेक्षत्वाच्चतुर्थी । तदपि तथापि संप्रति मधौ वसन्ते संनिहिते संनिहितोत्सवे सति अश्रुणोऽधिगमं प्राप्तिममङ्गलं धिक् निन्दतीत्यर्थः । 'घि निर्भर्त्सननिन्दयोः' इत्यमरः । 'धिगुपर्यादिषु त्रिपु' इति द्वितीया । अतो मा रुद इत्यर्थः ॥
त्यजति कष्टमसावचिरादमुन्विरहवेदनयेत्यघशङ्किभिः । प्रियतया गदितास्त्वयि वान्धवैरवितथा वितथाः सखि मा गिरः त्यजतीति ॥ प्रियतया इष्टतया अघशङ्किभिरनर्थोत्प्रेक्षिभिः। 'प्रेम पश्यति भयान्यपदेऽपि' इति भावः । बान्धवैस्त्वयि विषये गदिता उच्चारिताः कष्टं बत असौ बाला विरहवेदनया अचिरादसून्प्राणांस्त्यजति त्यक्ष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । इत्येवंविधा गिर उक्तीः हे सखि, विगतं तथात्वं यासां ता वितथा अनृताः । 'वितथं त्वनृतं वचः' इत्यमरः । बहुव्रीहौ विशेष्य