________________
षष्ठः सर्गः।
१४७. लिङ्गता । ब्राह्मणादित्वाद्रस्वः । ततो नसमासः । अवितथाः सत्यः मा वितथा मा कृथाः । वृथातिशोकेन मा मृथा इत्यर्थः । विपूर्वोत्तनोते ङि थास् 'तनादिभ्यस्तथासोः' इति विभाषा सिचो लुक् 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः 'न माङयोगे' इत्यडागमप्रतिषेधः ॥
न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः । प्रणयिनो निशमय्य वधूर्वहिः स्वरमृतैरमृतैरिव निर्ववौ ॥१९॥
नेति ॥ किं चासौ ते प्रणयी दूरगतो दूरस्थोऽपि महं वसन्तोत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । नातिवर्तते नातिकामति खलु इति बन्धुतया बन्धुसमूहेन । 'ग्रामजनबन्धुसहायेभ्यस्तल्' इति तत्प्रत्ययः । उदितैरुक्कैः । वदेः कर्मणि क्तः । ऋतैः सत्यवचनैः । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । बहिः प्रणयिनस्तदैव दैवादागतस्य प्रियस्य स्वरं कण्ठगतं शब्दं निशमय्य श्रुत्वा । 'शमु अदर्शने' इति चौरादिकाट्यप्' 'मित्त्वाद्रस्वः' 'ल्यपि लघुपूर्वात्' इत्ययादेशः । वधूरमृतैः सुधाभिरिव निर्ववौ निर्ववार । वातेर्लिट् । 'निर्वाणं निर्वृतिः सुखम्' इति ॥
॥ विशेषकम् ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुजगे ॥२०॥ मधुरयेति ॥ मधुरया मनोहरया मधुना वसन्तेन बोधिताः विकासिताश्च ता माधव्यश्च । पुष्पधर्मः पुष्पितासूपचर्यते । तासां माधवीनामतिमुक्तलतानाम् । 'अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता' इत्यमरः। मधुसमृद्ध्या मकरन्दसंपदा समेधितमेधया संवर्धितप्रतिभया अत एवोन्मदयतीत्युन्मदो मदकरः। पचाद्यच् । तं ध्वनि बिभर्तीत्युन्मदध्वनिभृत् तया मधुकराङ्गनया मुहुर्निभृताक्षरम् । लक्षणयास्थिरनादं यथा तथेत्यर्थः । अथवा सर्वः शब्दो वर्णात्मक एव व्यञ्जकविशेषाभावादस्फुट इति मतमाश्रित्योक्तं सर्वपथीनाः कवय इति । उज्जगे उच्चैर्गीतम् । गायतेरविवक्षितकर्मकाद्भावे लिट् । 'बन्धवैपम्यराहित्यं समता पदगुम्फने' इति लक्षणात्समताख्यो गुणः ॥
अरुणिताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः। विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २१॥
अरुणितेति ॥ अरुणितान्यरुणीकृतान्यखिलानि शैलवनानि यया सा मुहुः पथिकानध्वगान् , विरहिणश्च परितापिनः संतापवतो विदधती उच्चैरेवोच्चकैरुबता । 'अव्ययसर्वनाम्नामकच्याक्टेः' इत्यकच् प्रत्ययः। विकचा विकसिता या किंशुकसंहतिः पलाशकुसुमराशिः सा दवहव्यवहश्रियं दवाग्निशोभामुदवहत् । निदर्शनालंकारः ॥ इति वसन्तवर्णनम् ॥
१ व्याख्यासुधायां तु 'अजिति योगविभागेन समासान्तेऽचि जाते 'यस्येति च' इति आकारलोपः इत्युक्तम् ।