________________
१४८
शिशुपालवधे अथ ग्रीष्मवर्णनमारभतेरवितुरंगतनूरुहतुल्यतां दधति यत्र शिरीपरजोरुचः। उपययौ विदधन्नवमल्लिकाः शुचिरसो चिरसौरभसंपदः॥२२॥ रवीत्यादि ॥ यत्र शुचौ शिरीपरजसां रुचः कान्तयो रवितुरंगतनूरुहतुल्यता सूर्याश्वरोमसावयं दधति । हरिद्वर्णा भवन्तीत्यर्थः । असौ शुचिर्गीप्मः। 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोस्तथा । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः । नवमल्लिकाः । 'पुष्पे जातीप्रभृतयः स्वलिङ्गाः' इत्यमरः । 'पुष्पमूलेषु बहुलम्' इति बहुलग्रहणाल्लुप् । लुपि युक्तवद्ध्यक्तिवचने भवतः । चिरं चिरावस्थायिनी सौरभसंपद्यासां ताः । स्थिरगन्धा इत्यर्थः । विदधत्कुर्वन्नुपययौ प्राप्तः ।।
दलितकोमलपाटलकुमले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलो मदलौल्यमुपाददे॥२३॥ दलितेति ॥ पाटलाया अवयवाः पाटलाः । लुक्प्रकरणे 'पुष्पमूलेषु बहुलम्' इति बहुलग्रहणादलुक् । ते च ते कुङालाश्च । दलिता विभिन्नाः कोमलाः पाटलकुमला येन तस्मिन् निजवधूनां श्वसितं निःश्वासमनुविधत्तेऽनुकरोतीति तथोक्ते । तादृशीत्यर्थः । उन्मदा भ्रमन्तश्चालयो यस्मिंस्तस्मिन् उन्मदभ्रमदलो मरुति ग्रीष्मानिले वाति वहति सति । वातेर्लटः शत्रादेशः। विलासिभिर्विलसनशीलैः कामिभिः । 'वो कषलसकत्थस्त्रम्भः' इति घिनुण्प्रत्ययः । मदेन लौल्यं चापल्यमुपाददे । मत्तैर्जातमित्यर्थः ॥ निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥२४॥ निदधिर इति ॥ वरोरुभिः स्त्रीभिः तत्क्षणस्नपनेन सद्यः सेकेन वारितुषारभृतः । जलशीकरधारिण इत्यर्थः। 'तुषारौ हिमशीकरौ' इति शाश्वतः। स्तना दयितोरसि निदधिरे निहिताः । तेषां संतापशान्तये स्नानार्द्राङ्गा एव आलिङ्गन्नित्यर्थः । किंच करेण पाणिना सरस आर्द्रश्चन्दनरेणुः घृष्टचन्दनपश्चानुक्षणं विचकरे विकीर्णः। किरतेः कर्मणि लिद । 'ऋच्छत्यताम्' इति गुणः । करेणुकरोरुभिरिति पाठस्तु 'ऊरूत्तरपदादौपम्ये' इत्यूप्रसङ्गाद्धेयः ॥ इति ग्रीष्मवर्णनम् ॥
अथ वर्षावतारमाहस्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितस्वसमया समयाजगतीधरम् ॥२५॥ स्फुरदिति ॥ स्फुरन्ती अधीरे चञ्चले तडितौ नयने इव तडिन्नयने यस्याः सा अगलिता अरिक्ता ऊरुपयोधरा मेघाः यस्याम् , अन्यत्र ऊरू च पयोधरौ च ऊरुपयोधरम् । प्राण्यङ्गत्वावन्द्वैकवद्भावः:। न गलितं न पतितं यस्यां सा जलधरावलिर्मेघपङ्क्तिः । अत्र जलधरावलेः पयोधराणां चावयवावयविभावात्पृथङ्गिदेशः । अप्रतिपालितस्वसमया अनपेक्षितानिजवेला सती। एकत्र योगपद्यादन्य