________________
षष्ठः सर्गः।
१४९ बाधैर्याच्चैति भावः । जगतीधरं रैवतकं भूधरं प्रियमिव समयात्समागच्छत् । यातेर्लङ् । पयोजगतीशब्दयोः पचाद्यजन्तेन धरशब्देन षष्ठीसमासः। अत्र विशेषणमहिम्ना जलधरावलौ नायिकात्यप्रतीतेः समासोक्तिः, सा तु प्रियमिवेत्युपमयाङ्गेन संकीर्यते ॥
गजकदम्बकमेचकमुच्चकैनभसि वीक्ष्य नवाम्बुदमम्बरे। अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥२६॥ गजेति ॥ नभसि श्रावणमासे । 'नभाः श्रावणिकश्च सः' इत्यमरः । अम्बरे व्योनि गजकदम्बकमिव मेचकं श्यामलम् । 'कालश्यामलमेचकाः' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं नवाम्बुदं वीक्ष्य अङ्गना एक एकायनो रसो रागो यस्य तमेकरसम् । तिरस्कृतरसान्तरमित्यर्थः । कं वल्लभं प्रियं रह एकान्ते न चमके न कामयते स्म, तथा नाभिससार च । सर्ववल्लभं सर्वापि तत्तदङ्गाना चमके अभिससार चेति । नवाम्बुदस्योद्दीपकत्वादतिशयोक्तिः । इह कामनापूर्वकत्वादभिसरणस्य तयोरर्थक्रमबलीयस्त्वन्यायेन यमकवशायातपाठक्रमबाधेन योजना न्याय्यैव ॥
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् । धृतधनुर्वलयस्य पयोमुचः शवलिमा बलिमानमुषो वपुः ॥२७॥
अनुययाविति ॥ धृतधनुर्वलयस्य धृतेन्द्रचापमण्डलस्य पयोमुचो मेघस्य संबन्धी शबलस्य भावः शबलिमा विचित्रता । 'पृथ्वादिभ्य इमनिज्वा' । विविधा नानावर्णा उपला मणयो ययोस्तयोः कुण्डलयोद्युतिवितानकेन कान्तिपुञ्जेन संवलिता मिलिता अंशवो निजनीलभासो यस्य तत्तथोक्तम् । 'शेषाद्विभाषा' इति कप्प्रत्ययः । बलिमानमुषो बल्यसुराहंकारापहारकस्य हरेर्वपुरनुययावनुचचार । तद्वद्वभावित्यर्थः । उपमालंकारः॥
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी । नवतमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥२८॥ द्रुतेति ॥ द्रुतसमीरेण शीघ्रमारुतेन चलैरिदैः क्षणं लक्षिता च व्यवहिता च सा क्षणलक्षितव्यवहिता। क्षणिकाविर्भावतिरोधानेत्यर्थः । स्नातानुलिप्तवत् 'पूर्वकालैक-' इत्यादिना समासः । अचिरं रोचिर्यस्याः सा अचिररोचिर्विद्युत् द्रुतसमीरचलैर्विटपैः शाखाभिः क्षणलक्षितव्यवहिता नवतमालनिभस्य नवतमालेन सदृशस्य । तद्वन्नीलस्येत्यर्थः । नित्यसमासः । नभस्तरुरिव तस्य नभस्तरोर्मञ्जरी गुच्छ इवारोचत । उपमालंकारः । अत्र नभस्तरोनभःश्रेष्ठस्येति व्याख्याने तरुशब्दस्य व्याघ्रादिवच्छ्रेष्ठार्थगोचरत्वात्तमालशब्देन विशेषवाचिना तन्नीलसामान्येन पौनरुक्त्यमिति वल्लभः। तमालशब्दस्येन्द्रनीलवन्नैल्यमानोपमानत्वात्तरशब्दस्य स्वार्थवृत्तित्वेऽपि न पौनरुक्त्यमित्यन्ये ॥ पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती । सनयनाम्बुसखीजनसंभ्रमाद्विधुरबन्धुरवन्धुरमैक्षत ॥ २९ ॥