________________
शिशुपालवधे
पटलमिति ॥ पथिकाङ्गना काचित्प्रोषितभर्तृका अत एव सपदि जीवितसंशयं मरणमेष्यती । निश्चितमरणेत्यर्थः । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । अत एव सनयनाम्बोः सबाप्पस्य सखीजनस्य संभ्रमात्क्षोभाद्विधुरबन्धुः संभ्रमदर्शनाह्विलबन्धुजना सती अम्बुमुचां पटलमबन्धुरमशोभनम् । सदैन्यरोषमिति यावत् । ऐक्षत । ईक्षतेर्लङ् 'आटच' इति वृद्धिः । इह विरहवेदनाक्षमाया नायिकाया मरणसाधनमेघपटलावेक्षणवर्णनायां तदुद्योगलक्षणा मरणावस्थोक्ता । सा हि द्विविधा तदुद्योगस्तद्योगश्चेत्याहुः । ' दृङ्मनः सङ्गसंकल्पा जागरः कृशतारतिः । . ही या गोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ॥' इत्यवस्थासंग्रहः ॥
१५०
प्रवसतः सुतरामुदकम्पयद्विदलकन्दलकम्पनलालितः । नमयति स्म वनानि मनस्विनीजनमनो नमनो घनमारुतः ३०
प्रवसत इति ॥ कन्दली भूकन्दली । 'द्रोणपर्णी स्निग्धकन्दा कन्दली भूमिकन्दली' इति शब्दार्णवः । तस्याः पुष्पाणि कन्दलानि । 'फले लुक्' इत्यणो लुक् । विदलानां विकचानां कन्दलानां कम्पनेनावधूननेन लालित उपस्कृतो मनस्विनीजनस्य मनसां नमनो नमयिता । मानिनी मानभञ्जन इत्यर्थः । कर्तरि ल्युट् | घनमारुतो मेघवायुः वनानि नमयति स्म । प्रवसतः प्रोषितान्सुतरामुदकम्पयदुद्वेजितवान् । मनस्विनी मानमर्दनस्य वननमनं प्रोषितकम्पनं वा कियदिति भावः ॥
जलदपङ्किरनर्तयदुन्मदं कलविलापिकलापिकदम्बकम् । कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ||३१||
जलदेति ॥ निजया आत्मीयया स्वनसंपदा कृतः समार्जनस्य मार्जनाख्यसंस्कारसहितस्य मर्दलमण्डलस्य ध्वनेर्जयो यया सा तथोक्ता । मार्जनं नाम मर्द - लानां ध्वननार्थं भस्ममृदिताम्भः पुष्करलेपनम् । जलदपङ्क्तिरुन्मदमुत्कटमदं कलबिलापि मधुरालापि कलापिकदम्बकं मयूरवृन्दमनर्तयत् ॥
नवकदम्बरजोरुणिताम्बरैरधिपुरंधि शिलीन्धसुगन्धिभिः । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३२ ॥
नवेति ॥ नवकदम्बरजोभिररुणितमरुणीकृत मम्वरमाकाशं यैस्तैः शिलीभ्राणां कन्दलीकुसुमानां यः सुगन्धः स एषामस्तीति शिलीन्ध्रसुगन्धिनस्तैः गन्धस्येत्वे तदेकान्तग्रहणादिन्प्रत्ययाश्रयणम् । 'कदल्यां च शिलीन्ध्रः स्यात् ' इति शब्दार्णवे । वनवायुभिः पुरंध्रीषु स्त्रीषु विषये अधिपुरंधि । विभक्तयर्थेsव्ययीभावः । रागवतां कामिनां मनसि नवनवा नवप्रकारा । ' प्रकारे गुणवच'नस्य' इति द्विर्भावः । कर्मधारयवद्भावात्सुपो लुक् । अनुरागिता आदधे । अनुराग उत्पादित इत्यर्थः ॥