________________
पञ्चमः सर्गः ।
१३३
I
विश्वः । सरस आद्रोऽग्रहस्तः पुष्करं, पाणिश्च यस्य स सन् दानं मदं, दीयत इति दानं धनं चातितरामतिमात्रम् । अव्ययादामुप्रत्ययः । ददौ । ववर्षेत्यर्थः । परितो बद्ध पराणि बद्धपश्चिमपादानि बद्धान्यानि च । 'अपरः पश्चिमः पादः' इति गजप्रकरणे वैजयन्ती । निगडानि शृङ्खलानि । 'अथ शृङ्खले । अन्दुको निगsisar स्यात्' इत्यमरः । अलावीत् लुनाति स्म । 'लूज् छेदने' लुङ् 'अस्ति सिचोऽपृक्ते' इतीट् 'ईट ईटि' इति सलोपः । अत्र करेणुराजपदसाधर्म्यध्वनिः । विशेष्यस्यापि श्लिष्टत्वान्न श्लेष इत्युक्तम् ॥
जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरचोदनाभिः । गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोsपि नाम न महानवगृह्य साध्यः ॥ ४९ ॥
जज्ञ इति ॥ गम्भीरं मन्दं वेतीति गम्भीरवेदी । 'स्वग्भेदाच्छोणितस्रावामांसस्य च्यवनादपि । आत्मानं यो न जानाति तस्य गम्भीरवेदिता ॥' इति राजपुत्रीये । 'चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः ॥' इति मृगचर्मीये । तस्मिन्गम्भीरवेदिनि करीन्द्रे संरब्धः कुपितः हस्तिनं पातीति हस्तिपः स एव हस्तिपको निषादी । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः' इत्यमरः । तस्य निष्ठुराभिश्चोदनाभिस्तर्जनाभिरपि मुकुलिताक्षं निमीलितनेत्रं यथा तथा पुरः कवलं ग्रासं अनाददाने सति । मन्दो मूढोऽपि । 'मूढाल्पापटुनिर्भाग्या' इत्यमरः । गजभेदोऽपि । 'भद्रो मन्दो मृगचैव विज्ञेयास्त्रिविधा गजाः' इति । महान् बलाधिकोऽवगृह्य निगृह्य साध्यो न नाम न खल्विति जनैर्जज्ञे ज्ञातम् । जानातेः कर्मणि लिट् । मन्दोऽपीत्यादिवाक्यार्थः कर्म ॥
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् । सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम् ॥ ५० ॥
क्षिप्तमिति ॥ वारणपतिः करिवरो मुहुः पुरः क्षिप्तमग्रे न्यस्तमिक्षुकाण्ड - दण्डं न जगृहे न स्वीचकार । निकटोपगतां समीपस्थां करेणुं करिणीं च नापेक्षते स्म नेच्छति स्म । 'लट् स्मे' इति भूतार्थे लट् । किंतु परिमीलिताक्षं यथा तथेति स्मृत्यनुभावः । इच्छया विहारा येषु ते वनवासा एव महोत्सवास्तेषां सस्मार । तानेव चिन्तयामासेत्यर्थः । ' अधीगर्थदयेशां कर्मणि' इति शेषत्वविवक्षायां षष्ठी । न स्वच्छन्दचारिणां निर्बन्धे भोगेषु मनः प्रवर्तत इति भावः । वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥
शिशु० १२