________________
३१२
शिशुपालवधे हर्षकृतशरीरवृद्धेरिवापरिमितविकासः सन्नित्युत्प्रेक्षा । सहसा अनुजन्मभिरनुजैः सहितोऽस्य हरेरभिमुखं निर्ययौ । नगरान्निर्गत इत्यर्थः ॥ रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः। समवादि वक्तृभिरभीष्टसंकथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥३॥
रभसेति ॥ रभसो हर्षः । 'रभसो वेगहर्षयोः' इति विश्वः । तेन प्रवृत्तैः कुरुचक्रदुन्दुभिध्वनिभिः कौरवसेनार्यघोषैः, बधिरीकृतश्रुतेर्विकलीकृतश्रोत्रे. न्द्रियस्य श्रोतृजनस्य, वक्तृभिः कथकैरभीष्टसंकथास्विष्टालापेषु प्रकृतस्य वक्तुं प्रक्रान्तस्याभिधेयस्य शेषं वक्तव्यावशिष्टम् , अथ बाधिर्यानन्तरं हस्तसंज्ञया हस्तसंकोचेन समवादि संवादितम् । श्रीकृष्णस्यागमनसंतोषात्तथा दुन्दुभीनाजघ्नुः यथा कण्ठोक्तशेषं करसंज्ञया निष्पाद्यत इत्यर्थः । अत्र बधिरीकरणस्य जनवि. शेषणद्वारा हस्तसंज्ञया वदनहेतुत्वात्काव्यलिङ्गभेदः ॥ अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः। जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः॥४॥ __ अपदेति ॥ द्रुतं शीघ्रं भ्रमिताः परिवर्तिताः हेमनेमयः कनकचक्रान्ता येषां ते । 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । अत एव जविना वेगवता मारुते. नाञ्चितानि कम्पितानि परस्परमुपमान्तीति परस्परोपमान्यन्योन्यसदृशानि क्षितिरेणुकेतुवसनानि स्वोत्थापितभूरेणवः स्वारोपितध्वजपटाश्च येषां ते, क्षितिं क्षियन्तीशते इति क्षितिक्षितः क्षितीशाः । 'क्षि ऐश्वर्ये निवासे च' इति धातोस्तादादिकास्विपि तुक् । क्षितिपतिष्वेवासौ क्षितिक्षिदिति भट्टमल्लः । तेषां संब. न्धिनः पताकाः सन्तीति पताकिनो रथाः । व्रीह्यादित्वादिनिः । परितः सर्वतः नास्ति पदस्यान्तरमवकाशो यस्मिन्कर्मणि तदपदान्तरं संसक्तं यथा तथा । 'संसक्ते त्वव्यवहितमपदान्तरमित्यपि' इत्यमरः । अपतनधावन् । अत्र राष्ट्रव. र्णने रेणूनां केतूनां च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता । तथा च परस्परोपमेति विशेषणाद्रेणुवत्केतवः, केतुवच्च रेणव इत्युपमेयोपमया के रेणवः के केतव इति संशयश्च व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः । ननृतुश्च वारिधरधीरवारणध्वनिहष्टकूजितकलाः कलापिनः ॥५॥
द्रुतमिति ॥ अश्वचरणक्षतास्तुरगखुरघट्टिता भुव उपरि पृष्ठभागे पाणिवृत्तयः पाणिताडनानि येषां ते उपरिपाणिवृत्तयः पणवा वाद्यविशेषा इवेत्युपमा । द्रुतं द्रुततरमेवाध्वनन्ध्वनन्ति स्म । 'द्रुतं शीघ्रम्' इत्यमरः । वारिधरशब्देन तद्दर्जितं लक्ष्यते । तद्वद्धीरैर्गम्भीरैर्वारणध्वनिभिर्गजबृंहणैर्हृष्टा अत एव कूजितकलाः । कृजिता इत्यर्थः। ततो विशेषणसमासः । कलापा येषां सन्तीति कलापिनो बर्हि