________________
त्रयोदशः सर्गः। सदसि सरितं सा श्रीभर्तुव॒हद्रथमण्डलैः स्खलितसलिलामुल्लङ्घयैनां जगाम वरूथिनी ॥ ७७ ॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके
___ प्रयाणवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥ विदलितेति ॥ सा प्रकृता श्रीभर्तुः कृष्णस्य वरूथिनी सेना उक्ष्णामनदुहां विषाणविघटनैः शृङ्गाघातैर्विदलितानि महाकूलानि यस्यास्तां उन्मदैरुद्भूतमदैविषाणिभिरलघुभिरुभिश्चरणैः पादैराकृष्टा बहिनीता ग्राहा जलग्राहा यस्यास्तां बृहद्भी रथमण्डलै रथसमूहः स्खलितानि व्याकुलीकृतानि सलिलानि यस्यास्ता. मेनां सरितं यमुनां सपदि उल्लङ्घय जित्वा । तीवेत्यर्थः। भुक्त्वेवेति गम्यते । विशेषणसामर्थ्यात् । जगाम । अत्र जयस्य विशेषणगत्या कूलदलनादिहेतुकस्वात्काव्यलिङ्गभेदः । हरिणी वृत्तम् । 'भवति हरिणी न्सौ म्रौ स्लौ गो रसाम्बुधिविष्टपैः' इति लक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध
काव्यव्याख्यायां सर्वंकषाख्यायां द्वादशः सर्गः ॥ १२ ॥
त्रयोदशः सर्गः। यमुनामतीतमथ शुश्रुवानमुं तपसस्तनूज इति नाधुनोच्यते । स यदाचलनिजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥१॥
यमुनामिति ॥ अथ यमुनातरणानन्तरं तपसस्तनूजो धर्मनन्दनः अधुना यमुनामतीतममुं हरिं शुश्रुवान् । 'भाषायां सदवसश्रुवः' इति वसुप्रत्ययः। इति नोच्यते किंतु स हरिर्यदा निजपुरादचलत्तच्चलनमादिर्यस्मिन्कर्मणि तत्तदादि तत्प्रभृति । अहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावे अत्यन्तसंयोगे द्वितीया । नृपतेधर्मराजस्य वार्तया इह निविष्ट इतो निर्गत इति वृत्तान्तेन समचारि संचरितम् । आगतामिति यावत् । भावे लुङ् । संनिहितयमुनातरणवृत्तान्तवद्ध्यवहितसकलदैनंदिनवृत्तान्तो निजनगरप्रस्थानात्प्रभृति प्रतिक्षणमागत एवेत्यर्थः। अस्मिन्सर्गे मनुभाषिणी वृत्तम्। 'सजसा जगौ भवति मञ्जुभाषिणी' इति लक्षणात्॥ यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि । सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्य निर्ययौ २
यदुभर्तुरिति ॥ ततो हरेर्यमुनोत्तरणश्रवणानन्तरं स वसुधाधिपो धर्मराजः यदुभर्तुर्हरेरागमनेन लब्धजन्मनो लब्धोदयात् । जातादित्यर्थः । प्रमदाद्धर्षात् । 'प्रमदसंमदौ हर्षे' इत्यप्प्रत्ययान्तो निपातः । महीयस्यतिविपुलेऽपि पुरे अमान्