________________
३१०
शिशुपालवधे रुपलक्षितैः । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । उन्मुखैरूर्ध्वमुखैस्तथा उत्क
मुन्नमितकणं यथा तथा उद्वाहिता ऊर्ध्व प्रसारिता धीरा निश्चलाः कंधरा ग्रीवा येषां तैरने पुरः तटे दत्तदृष्टिभिस्तुरंगमैरायताः प्रसारिताः कीर्णा विक्षिप्ता वालधयो यस्मिन्कर्मणि तद्यथा तथातीर्यत अतारि । सरिदिति शेषः । कर्मणि लङि यक् । स्वभावोक्तिः॥ तीा जवेनैव नितान्तदुस्तरां नदी प्रतिज्ञामिव तां गरीयसीम् । शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैनंदितं ककुमताम् ॥ ७४ ॥
तीर्वेति ॥ नितान्तदुस्तरामतिहत्तयात्यन्ताशक्यतरणां तां नदी गरीयसीमतिदुस्तरां प्रतिज्ञामिव जवेन वेगेनैव तीर्वा शृङ्गैर्विषाणैरपस्कीर्णा आलेखिता महत्यस्तटीभुवस्तीरप्रदेशास्तेषाम् । 'अपाच्चतुष्पाच्छकुनिष्वालेखने' इति किरतेः कात्पूर्वतः सुडागमः। ककुद्मतामुच्चैस्तरं नदितं नादः अशोभत । उपमासंकीर्णा स्वभावोक्तिः ॥ सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरद्भिर्गवलासितद्युतिः । सिन्दुरितानेकपकंकणाङ्किता तरङ्गिणीवेणिरिवायता भुवः ॥७॥
सीमन्त्यमानेति ॥ तरद्भिर्यदुभूभृतां यादवभूपानां बलैः सैन्यैः सीमन्त्यमाना सीमन्तवतीक्रियमाणा । सीमन्तवच्छब्दात् 'तत्करोति-' इति ण्यन्तात्कमणि लटः शानजादेशः । णाविष्ठवद्भावाद्विन्मतोलृक् । गवलासितद्युतिः माहिषविषाणमेचकप्रभा। 'गवलं माहिषं शृङ्गम्' इत्यमरः । सिन्दूरिताः सिन्दू. रवस्कृताः । सिन्दूरशब्दात् 'तत्करोति-' इति ण्यन्तास्कर्मणि क्तः । णाविष्ठव. झावाद्विन्मतोलृक् । तैरनेकपैर्द्विपैः कंकणैः शेखरैरङ्किता चिह्निता। 'कंकणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तरङ्गिणी यमुना नदी आयता दीर्घा भुवो वेणिरिव बभौ इत्युत्प्रेक्षा ॥ अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्राधिमभिर्गरीयसः। नाव्यं पयः केचिदतारिषुर्भुजैः क्षिपद्भिर्मीनपरैरिवोर्मिभिः॥७६॥
अव्याहतेति ॥ अनोर्मीणां भुजानां विशेषणान्युभयविपरिणामेन योज्यानि । केचिजनाः नावा तायं नाव्यम् । 'नाव्यं त्रिलिङ्गं नौतार्ये' इत्यमरः । नौवयोधर्म-' इत्यादिना यत्प्रत्ययः । पयो जलं अव्याहतक्षिप्रगतैरप्रतिहतशीघ्रगमनैरनुज्झितो दाधिमा दैर्ध्य यस्तैः । अतिदीर्धरित्यर्थः । समुच्छ्रितानुन्नतान्ग. रीयसो गुरुतरानूर्मीन्क्षिपद्भिरत एवापरैरूमिभिरिव स्थितरित्युत्प्रेक्षा । भुजैर्बाहुभिरतारिषुस्तरन्ति स्म । तरेलुंङि सिचि वृद्धिरिडागमः ॥ विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै
रलघुचरणाकृष्टग्राहां विषाणिभिरुन्मदैः।