________________
३०९
द्वादशः सर्गः। गङ्गासंबन्धिना ओघेन प्रवाहेण निर्भस्मितायाः निर्भसीकृतायाः शंभुकंधराया हरकण्ठस्य सवर्ण समानवर्णम् । कृष्णवर्णमित्यर्थः । 'ज्योतिर्जनपद-' इत्यादिना समानस्य सभावः । अन्यथा गङ्गौघस्य धावल्याद्धवलमेव स्यात् । तथा च ग्रावाप्लवनवाक्यवदागमोऽप्यन्यथा नेय इति कवेराशयः ॥ अभ्युद्यतस्य ऋमितुं जवेन गां तमालनीला नितरां धृतायतिः । सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥७॥
॥कलापकम् ॥ अभीति ॥ तमालवन्नीला कृष्णा नितरां धृतायतिरत्यन्तं कृतदैर्ध्या सा महापगा महानदी यमुना । जवेन गां भुवं ऋमितुमाक्रमितुमभ्युद्यतस्योद्युक्तस्य तस्य महतो बलाम्बुराशेः सेनासमुद्रस्य पुरोग्रे क्षणं सीमेव वेलेव बभावित्युत्प्रेक्षा । क्षणमिति क्षणमात्रनिरोधिकाभवत् । अनन्तरमेव तरणादिति भावः ।। लोलेररित्रैश्चरणैरिवाभितो जवावजन्तीभिरसौ सरिजनैः। नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलछलनावलम्बितैः॥७१॥
लोलैरिति ॥ अभितः उभयतो लोलैश्चलगिररित्रैः केनिपातकदण्डैः । 'क्षेपणी स्यादरित्रं केनिपातकः' इत्यमरः। चरणैः पादैरिवेत्युत्प्रेक्षा । जवाह्रजन्तीभिर्गच्छन्तीभिौभिः साधनैरसौ सरिद्यमुना कर्म, प्लवेनोदिता नौवेगेनोत्पन्ना भ्रमी भ्रान्तिस्तस्या भयान्निमीलन्तीभिर्भयादक्षिनिमीलनं कुर्वतीभिर्ललनाभिरवलम्बितैर्जनैः कर्तृभिः परितः सर्वतः। सर्वोभयार्थे वर्तमानाभ्यां पर्यभिभ्यां तसिल्विधानात् । प्रतेरे प्रतीर्णा ॥ तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः॥ ७२ ॥
तत्पूर्वमिति ॥ द्विपाधिपा महागजाः पूर्व प्रथम अंसौ प्रमाणमस्यांसह. यसमंसप्रमाणम् । तेषां तथोन्नतत्वादिति भावः । 'प्रमाणे द्वयसज्-' इति द्वयसच्प्रत्ययः । तत्तथा गम्भीरं पयो यमुनाजलं सहेलाः सावज्ञाः परितो जगाहिरे प्रविशन्ति स्म । ततः प्रवेशानन्तरं सद्योऽविलम्बेन अनारतमविच्छिन्नं स्रुतेन स्रवता स्वदानवारिणा स्वमदोदकेन प्रचुरीकृतं बहुलीकृतं तत्पयस्तेरुः तरन्ति स्म । अनातिगम्भीरस्याप्यम्भसोंऽसदन्नत्वातिशयोक्त्या गजानामौन्नत्यं पुनस्तस्यैव तन्मदाम्बुसंभेदतात्पर्योक्त्या तेषां मदातिरेकश्च व्यज्यते ॥ प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरंगमैरायतकीर्णवालधि । उत्कर्णमुद्दाहितधीरकंधरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥७३॥ प्रोथैरिति ॥ स्फुटशब्दं स्पष्टध्वानं यथा तथा स्फुरद्भिश्चलभिः प्रोथै?णाभि