________________
३०८
शिशुपालवधे उद्धृतमिति ॥ ध्वजिनीभिः सेनाभिरुच्चैरुद्भूतमूर्ध्व क्षिप्तम् । अत एव अभ्य'र्णतयान्तिकतया । 'उपकण्ठान्तिकाभ्यर्णा' इत्यमरः। विवस्वतोऽशुभिः प्रतप्तम् । प्रतप्तमिवेत्यर्थः । अत एव व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । आह्लादिन आह्लादका ये कलारसमीरणाः सौगन्धिकमारुताः । 'सौगन्धिकं तु कलारम्' इत्यमरः । तैराहते कम्पिते यामुने यमुनासंबन्धिन्यम्भसि पुरोऽग्रे रजो धूलिः पपात । संतप्ता हि संतापमसहमानाः पुरो धावित्वा वचन शिशिरे पयसि पतन्तीति भावः ॥ __ अथ चतुर्भिर्यमुनां वर्णयतिया धर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धैरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी॥६७॥
येत्यादि ॥ या यमुना धर्मभानोरुष्णांशोस्तनयापि सती शीतलैरपि । अपिविरोधे । स चोष्णजातायाः शैत्यानुपपत्तेरिति भावः । यमस्यान्तकस्य स्वसापि जनस्य जीवनरुज्जीवकैः। अत्राप्येकोदराणां भिन्नक्रियानुपपत्तेर्विरोधः । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्युभयत्राप्यमरः। किंच । कृष्णा कृष्णवर्णा मलिना च तयापि शुद्धेवैमल्यस्याधिकं विधातृभिः संपादकैर्जलरंहांसि पापानि विहन्तुं पटीयसी समर्थतरा । अत्र यमुनातजलगतत्वेन निर्दिष्टयोर्गुणक्रिययोविरोधेन त्रिषु विरोधेषु संसृष्टेषु तृतीयः कृष्णेति श्लेषप्रतिभोत्थापित इति संक्षेपः॥
यस्या महानीलतटीरिव द्रुताः
प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः । तालीरपस्ताभिरिवानुरञ्जिताः
क्षणेन भिन्नाञ्जनवर्णतां धनाः ॥ ६८ ॥ यस्या इति ॥ हिमपिण्डपाण्डुरा हिमसङ्घशुभ्राः घना मेघाः द्रुता द्रवीकृता महानीलतटीरिन्द्रनीलस्थलानीव कालीः कृष्णवर्णाः । 'जानपद-' इत्यादिना ङीप् । यस्याः कालिन्द्या अपः पीत्वा ताभिः पीताभिरभिरनुरञ्जिता इव क्षणेन भिन्नाञ्जनवर्णतां स्नेहमृदितकजलवर्णतां प्रयान्ति । अत्र तटीरिवानुरञ्जिता इवेति चोत्प्रेक्षया संकीर्णेयं घनानामानोपमेति संग्रहः ॥ व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी । गागौघनिर्भसितशंभुकंधरासवर्णमर्णः कथमन्यथास्य तत् ॥६९॥
व्यक्तमिति ॥ हेतुर्युक्तिः । अनुमानमिति यावत् । आगमाद्गङ्गा सागरपूरिणीत्यागमप्रमाणात् । बलीयान्यदि प्रबलश्वेत् सा यमुना जलधिमपूरयत् । जहोरपत्यं स्त्री जाह्नवी नापूरयत् व्यक्तं सत्यमित्युत्प्रेक्षा । कुतः । अन्यथा विपर्यये अस्य जलधेः तत्प्रसिद्धमोऽम्भः । 'अम्भोऽर्णस्तोयपानीयम्' इत्यमरः । गाङ्गेन