________________
त्रयोदशः सर्गः 1
३१३
णश्च ननृतुर्नृत्यन्ति स्म । अत्रोपमयोः संसृष्टिः । वारिधरोपमया कलापिनां गजबृंहितेषु घनगर्जिताद्रान्तिमन्तरेण नृत्यासंभवाद्रान्तिमदलंकारो व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥
व्रजतोरपि प्रणयपूर्वमेकतां कुकुराधिनाथकुरुनाथसैन्ययोः । रुरुपे विपाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ॥ ६ ॥
व्रजतोरिति ॥ तदा तस्मिन्समये कुकुराधिनाथकुरुनाथसैन्ययोः हरिपार्थसैन्ययोः प्रणयपूर्वं स्नेहपूर्वक मेकता मैक्यं व्रजतोर्गच्छतोः सतोरपि विषाणिभिरुभयसेनावर्तिभिः गजैरनुक्षणं प्रतिक्षणं मिथः परस्परं रुरुषे चुकुधे । भावे लिट् । तथाहि मदेन मूढबुद्धिषु विपरीतप्रज्ञेषु विवेकिता कार्याकार्यविचारिता कुतः । नास्त्येवेत्यर्थः । अथ तेषां स्वामिसौहार्देऽपि स्वयं विरोधिता न दोषायेति । भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
अवलोक एव नृपतिः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः । अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति संभ्रमेण सः ॥७॥
. अवलोक इति ॥ दूरतो दूरादवलोके हरेर्दर्शन एवं रभसाद्धर्षाद्रथादवत तुमवरोम् | 'वृतो वा' इति विकल्पाद्दीर्घः । इच्छतो नृपतेर्धर्मराजात्प्रथमम् । तदवतरणात्पूर्वमेवेत्यर्थः । आत्मना स्वयमेव । प्रकृत्यादित्वात्तृतीया । अवतीर्णवान्रथादवरूढः सन् । 'निष्ठा' इति तरतेः क्तवतुप्रत्ययः 'ऋत इद्धातोः' इतीत्वं 'रुपधाया दीर्घ-' इति दीर्घे ' रदाभ्याम् -' इति निष्ठानत्वे 'रपाभ्याम् -' इति त्वम् । स हरिः संभ्रमेण त्वराविशेषेण विनयं मानौद्धत्यं विशेषयति स्मातिशाययति स्म । एतेन हरेः पूज्यविषयो रत्याख्यो भावो ध्वन्यते ॥ वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना । भुवनैर्नतोऽपि विहितात्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ८
वपुपेति ॥ पुराणपुरुषो हरिः । सर्वलोकज्येष्ठोऽपीति भावः । तथा भुवनैतो नमस्कृतोऽपि विहितं संपादितमात्मनो गौरवमुत्कर्षो येन स सन् । पूज्ये पु नमस्या नहेतुत्वादिति भावः । अत एवात्र विचित्रालंकारः । 'विचित्रं स्वविरुद्धस्य फलस्य स्यात्समुद्यमे' इति लक्षगात् । पुरः क्षितावग्रभूमौ परिपुञ्जयमाना परितः पुञ्जीक्रियमाणा पृथुः स्थूलो हारो मुक्तावलिर्यष्टिरिव यस्य तेन वपुषा शरीरेण । नत्वञ्जलिमात्रेण । तथास्य पूज्यत्वादिति भावः । पूज्यत्वे हेतुमाहपितृष्वसु स्तनयमिति पितृभगिनीपुत्रम् | धर्मराजमित्यर्थः । ' विभाषा स्वसृपत्योः ' इत्यस्य वैकल्पिकत्वेन पयालुक् । 'मातृपितृभ्यां स्वसा' इति षत्वम् । प्रकाशं प्रणनाम । प्रणामं कृतवानित्यर्थः । प्रपूर्वान्नमेर्लिट् । ' उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । अत्रापि पूर्ववद्भावध्वनिः । भुवनैर्नतोऽपि हरिर्लोकयानुवर्ती स्वयमेनं नतवानिति विरोधाभासोऽलंकारो विचित्रेणोक्तेन संकीर्णः नामनामेति वृत्त्यनुप्रासभेदश्च संसृष्ट इत्याद्यूह्यम् ॥
नाम
शिशु० २७