________________
३१४
शिशुपालवधे मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् । क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥९॥
मुकुटेति ॥ स हरिर्मुकुटांशुभी रञ्जितः स्ववर्णमापादितः परागो रेणुर्यस्य तदग्रतः पुरतो महीतलं शिरसा यावन्नाप । नास्पृशदित्यर्थः । तावरिक्षतिपेन धर्मराजेनानपेक्षितक्रमं अनपेक्षितः क्रमः परिपाटी यस्मिन्कर्मणि तत्तथा । भुजा. भ्यामेव पञ्जरेणेति रूपकम् । रभसाद्वेगादगृह्यत गृहीतः। प्रणामक्रियासमाप्तेः प्रागेवोत्थाप्याश्लिक्षदित्यर्थः ॥ न ममौ कपाटतटविस्तृतं तनौ मुरवैरिवक्ष उरसि क्षमाभुजः । भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे १०
नेति ॥ कपाटतटविस्तृतं मुरवैरिणो हरेर्वक्षः, तनावल्पे क्षमाभुजो धर्मराजस्योरसि न ममौ । न परिमितमित्यर्थः । तथापि विकटीकृतेन विपुलीकृतेन दीर्घयोर्भुजयोर्युगलेन परितः समन्तादभिषस्वजे आलिङ्गितम् । वक्षसा भुजाभ्यां च कथंचित्परिच्छिन्नमभून्न तु वक्षसैवेत्यर्थः । 'सदिस्वोः परस्य लिटि' इति धातुसकारस्य षत्वनिषेधात्स्थादित्वेऽप्यभ्यासस्यैव षत्वम् । अत्र हरिवक्षसो वैपुल्यादतिशयद्योतनाय नृपवक्षःसंमानेऽप्यसंमानोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिश्च । अनयोश्च स्वतःसिद्धकविप्रौढोक्तिसिद्धयोरप्यतिशययोरभेदाध्यवसायादुत्थानमिति रहस्यम् ॥ गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरुराजनिर्दयनिपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ११
गतयेति ॥ नाभ्यां परिनाभि । विभक्त्यर्थेऽव्ययीभावः । वारिजम् । नाभिकमलमित्यर्थः । अवमुच्य विहाय अध्युर उरसि । विभक्त्यर्थेऽव्ययीभावः । निरन्तरं सततं गतया प्राप्तया श्रिया शोभया, रमया च नाभिसरोजत्यागेनात्र निवासेन तस्मादपहृतमिति ध्वनितम् । कुरुराजस्य या निर्दयनिपीडना गाढाश्लेषरूपा ततो भयान्मुरवैरिणो मुरद्विषो मुखमध्यरोहि अधिरूढम् । भीता युच्चमारोहन्तीति लोकवेदयोः प्रसिद्धमिति भावः । नूनमित्युत्प्रेक्षा । अत्र वाच्यायाः सुहृदाश्लेषप्रभवायाः शोभायाः श्रियेति श्लेषमहिम्ना प्रतीयमानया रमया सहाभेदाध्यवसायात्क्रमेण नाभिमुखकमलाधारसंबन्धाभिधानाच्छ्रेषमूलातिशयोक्त्युस्थापितः पर्यायभेदः । 'क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथ वाने पर्यायालंकृतिर्मता ॥' इति लक्षणात् । तदुपजीविता श्रीमुखारोहणस्य भयहेतुकत्वकथनादुत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ शिरसि स जिघ्रति सुरारिवन्धने छलवामनं विनयवामनं तदा । यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः॥१२॥ शिरसीति ॥ नृपो धर्मराजः सुरारिबन्धने पुरा बलिबन्धने छलवामनं