________________
त्रयोदशः सर्गः।
३१५ कपटवामनं तदा पार्थोपपत्तिसमये तु विनयवामनम् । विनयनम्रमित्यर्थः । तं हरिमिति शेषः । वीर्यविजितामरदुमप्रसवेन पारिजातहरणे शौर्यलब्धपारिजातकुसुमेन यशसेव पारिजातविजयप्रसूतया कीत्यैवेत्युत्प्रेक्षा । वासितशिरोरुहे सुरभितकेशे शिरसि जिघ्रति स्म । 'प्रवासादेत्य मूर्धन्यवघ्राणम्' इति स्मरणात् । पुरा किल भगवान्सत्यभामाग्रीतये बलादिन्द्रलोकादपहृत्य पारिजातं निजगृहेप्वा. रोपितवानिति कथात्रानुसंधेया ॥ सुखवेदनाहपितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि । कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥१३॥
सुखेति ॥ वसुदेवाज्जन्म यस्य तस्मिन्वसुदेवजन्मनि वासुदेवे । जन्मोत्तरपदत्वाध्यधिकरणो बहुव्रीहिर्वामनवचनादित्युक्तं प्राक् । शिथिलीकृतेऽपि विश्लेषिते सत्यपि सुखवेदनया आलिङ्गनसुखानुभवेन हृषिता उद्ता रोमकूपा रोममूलानि यस्यां तया । 'हृषेर्लोमसु' इतीडागमः । कुरुभर्तुर्धर्मराजस्याङ्गलतया विकसितः कदम्बनिकुरम्बस्य कदम्बकुसुमसमूहस्य चारुता कामनीयकं न तत्यजे न त्यक्ता । किंतु स्वीकृतेत्यर्थः । आश्लेषापगमेऽपि तजन्मसुखानुवृत्त्या तत्कार्यस्य रोमहर्षस्यानुवृत्तिरिति तात्पर्यार्थः । अत एव शिथिलीकृते हृषितरोमकूपयेत्यकारणकार्यकथनाद्विभावना तदपेक्षया चेयमुत्पन्ना कदम्बनिकुरम्बचारुतानिदर्शना तया सहाङ्गेन संकीर्यते ॥ इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः। स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ॥
इतरानिति ॥ जनसभाजनोचितः सर्वजनसंभावनाहः प्रसभेन बलादु. द्धता असुरसभासुरसङ्घो येन सः प्रमनाः हृष्टचित्तः स हरिः प्रमोदपरिफुल्लच. क्षुषो हर्षोत्फुल्लनेवानितरान्भीमादीनिक्षतिभुजो नृपस्यानु पश्चाजन्म येषां ताननुजन्मनोऽनुजान्यथोचितं यथार्हमसभाजयत्सभाजयति स्म । आलिङ्गनादिभिरानन्दयामासेत्यर्थः । 'आनन्दनसभाजने' इत्यमरः । 'समाज प्रीतिदर्शनयोः' इति धातोश्चौरादिकाल्लुङ् ॥
सममेत्य तुल्यमहसः शिलाघना
न्धनपक्षदीर्घतरबाहुशालिनः । परिशिश्लिषुः क्षितिपतीक्षितीश्वराः
कुलिशात्परेण गिरयो गिरीनिव ॥ १५ ॥ सममिति ॥ तुल्यमहसः समतेजस्कान् , शिला इव शिलाभ्यश्च घनान्दढान् घनैः परिव दीर्घतरबाहुभिः बाहुभिरेव पक्षैश्च शालन्त इति तथोक्तानेवंभूतानिक्षतिपतीनेवंभूताः क्षितीश्वराः समं युगपदेत्यागत्य । आपूर्वादिणः क्त्वो ल्यपि तुक् । कुलिशात्परेण परतः । कुलिशक्षतेः पूर्वमित्यर्थः । संप्रत्यसंभवादिति भावः ।