________________
३१६
शिशुपालवधे
परेणेति विभक्तिप्रतिरूपकमव्ययम् । गिरयो गिरीनिव परिशिलिपुरालिङ्गित
वन्तः । उपमा ॥
इभकुम्भतुङ्गघटितेतरेतरस्तनभारदूरविनिवारितोदराः । परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः || १६ ||
इति ॥ इभकुम्भा इव ये तुङ्गाः घटिताश्च इतरेतरासां स्तनभारास्तैर्दुरे विनिवारितान्यतिकार्यादस्फुटतया स्थापितान्युदराणि यासां ताः । 'स्वाङ्गाच्च - ' इति विकल्पानीकारः । परिफुल्ल गण्डफलकाः हर्षपुलकित गण्डस्थलाः कुकुरकौरव• स्त्रियो यादवपाण्डवाङ्गनाः परस्परं परिरेभिर आश्लिष्टवत्यः । 'परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम्' इत्यमरः । परिफुल्लेति फुल्लतेः पचाद्यजन्तं न तु फुलेति निष्टान्तम् । अनुपसर्गादिति कथनविरोधात् ॥ रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः । दधिरे पृथक्करण एव दूरतो
महतां हि सर्वमथवा जनातिगम् ॥ १७ ॥
रथेति ॥ रथवाजिपत्तिकरिणीभिः समाकुलं संकीर्णम् । करिणीग्रहणं पुंगजव्यावृत्त्यर्थम् । अतो युद्धानर्हतया तासामसेनाङ्गत्वान्न द्वन्द्वैकवद्भावः । तदनी - कयोः सैन्ययोः । 'वरूथिनी बलं सैन्यं चक्रं चानीकम स्त्रियाम्' इत्यमरः । द्वयं मिथश्चान्योन्यं समगत संगतम् । गमेर्लङि 'समो गम्यृच्छि-' इत्यादिनात्मने - पदं 'वा गमः' इति सिचः कित्त्वात् 'अनुदात्तोपदेश -' इत्यादिजानुनासिकलोपः 'स्वादङ्गात्' इति सकारलोपः । करिणः पुंगजाः दूरत एवं पृथग संगतं दधिरे धृताः । स्थापिता इत्यर्थः । अथ वा किमत्र चित्रमिति भावः । महतां महासत्वानां संबन्धि सर्वं चेष्टितमिति भावः । जनानतिगच्छतीति जनातिग्रमतिजनम् । सर्वलोकविलक्षणमिति भावः । सामान्येन विशेषसमर्थनरूपोऽथा
न्तरन्यासः ॥
३
अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः । अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः १०८
अधीति ॥ हरिरधिरुह्यतां रथ आरुह्यतामित्येवं महीभृता धर्मराजेनोदिन उक्तः सन् । वदेः कर्मणि क्तः । ' वचिस्वपि -' इत्यादिना संप्रसारणम् । कपिकेतु - नार्जुनेनार्पितकरो दत्तहस्तः सन् । अवलम्बितोऽवष्टब्ध ऐलविलस्य कुबेर पाणिपल्लवो हस्तो येन स मेघवाहन इन्द्रो मेघमिव रथं श्रयति स्म । हमारूढवानित्यर्थः । उपमा ॥
रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामित्र रिपोर्मुरद्विपः । अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥ १४९॥
रथमिति ॥ किंचेति चार्थः । अथ रथारोहणानन्तरं रथमास्थितयारूपस्य