________________
त्रयोदशः सर्गः ।
३१७
पुराभिवर्तिन इन्द्रप्रस्थाभिवर्तिनः, त्रिपुराभिवर्तिनश्च मुरद्विषो हरेस्तिसृणां पुरां रिपोखिपुरान्तकस्येव । 'न तिसृचतसृ' इति नामि दीर्घप्रतिषेधः । धर्ममूर्तिर्धर्मात्मा प्रजापतिर्जनेश्वरो धर्मराजो, ब्रह्मा च अनुरागभावितः सन् । प्रवीयते प्रेयेतेऽनेनेति प्रवयणं प्राजनम् । प्रतोद इति यावत् । अत एव 'प्रवयणो दण्डः प्राजनो दण्डः' इति काशिका । अजेः करणे ल्युट् । 'वा यौ' इति विकल्पादजेर्वीभावः 'पूर्वपदात्संज्ञायाम् -' इति णत्वम् । स्वयमादित गृहीतवान् । सारथ्यं कृतवानि - त्यर्थः । ददातेः कर्तरि लुङि तङ् । 'स्थाध्वोः -' इतीकारे सिचः कित्त्वे च 'हवादङ्गात्' इति सलोपः । अत्र त्रिपुरहरणे ब्रह्मा हरस्येव हरेरयं सारथ्यं चकारेत्युपमा । तस्याः प्रजापतिरिति राजब्रह्मणोः श्लेषमूलाभेदाध्यवसायादतिशयोक्तिनिर्व्यूढतेति । शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृतिः । पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरधुवत्प्रकीर्णकम् ॥ २० ॥
शनकैरिति ॥ किंचेति चार्थः । अथास्य हरेस्तनुषु सूक्ष्मेषु जालकान्तरेषु गवाक्षरन्ध्रेषु स्फुरितस्य प्रसृतस्य क्षपाकरकरोत्करस्य शशिकिरणपुञ्जस्याकृतिरिवाकृतिर्यस्य तत्प्रकीर्णकं चामरं निम्नगापतेः समुद्रस्य पृथु विपुलं फेनकूटं फेनपुञ्जमिव मरुतः सूनुर्भीमसेनः शनकैरधुवद्धुवति स्म । ध्रुवतिरयं तौदादिक इत्युतम् । उपमयोः संकरः ॥
विकसत्कलायकुसुमासितद्युतेरलघूडपाण्डु जगतामधीशितुः । यमुना दोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥२१॥
विकसदिति ॥ विकसत्कलायकुसुमं कालपुष्पम् । 'कलायः स्यात्काले’ इति वैजयन्ती । तद्वदुसितद्युतेर्नीलवर्णस्य जगतामधीशितुर्जगन्नाथस्य जिष्णुरर्जुन: अलघूडुपाण्डु स्थूलनक्षत्रधवलम् अत एव यमुनाह्रदस्योपरिगमुपरिगतम् । 'अन्यत्रापि दृश्यते' इति उप्रत्ययः । तस्य हंसमण्डलस्य द्युतिं शोभां जिष्णु जयनशीलम् । 'ग्लाजिस्थश्च -' इति ग्स्नुः । उष्णवारणमातपत्रमभृत भृतवान् । भृञः कर्तरि लुङ् । ‘स्वरितजित: -' इत्यात्मनेपदम् | 'उश्च' इति सिचः कित्त्वादगुणता 'हस्वादङ्गात्' इति सकारलोपः । अत्राप्युपमासंकरः ॥ पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा । दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुध राख्यमिन्दुना ||२२||
पवनेति || पवनात्मजेन्द्रसुतमध्यवर्तिना भीमार्जुनमध्यगतेन रुचिरेण चक्रिणा हरिणा उभयोरर्कादिग्रहाणामन्यतमयोरन्तरे मध्ये स्थित्या वासेन कारितं संपादितम् । वृत्तिविषये उभशब्दस्य स्थानेऽप्युभयशब्दस्यैव प्रयोगो व्याख्यातः । दुरुधरेत्याख्या यस्य तद्दुरुधराख्यं योगं दधता । अर्कान्यग्रहमध्यगतेनेत्यर्थः। इन्दुनेवेत्युपमा । नितरामतिशयेन । 'किमेत्तिङव्ययघा -' इत्यामुप्रत्ययः । अरोचि अशोभि । रोचतेर्भावे लुङ् । स्वभावरमणीयस्यानुरूपान्तर