________________
३१८
शिशुपालवधे समायोगाच्छोभातिशयो जायते। रत्नकाञ्चनयोरिवेति भावः । अत्र भगवानाचार्यमिहिरः-'हित्वार्क सुनफाऽनफा दुरुधरा स्वान्योभयस्थैर्ग्रहैः शीतांशोः' इति । एतदेव स्पष्टीकृतं कल्याणवर्मणा रविवर्ज द्वादशगैरनफा चन्द्राद्वितीयगैः सुनफा । उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञिकोऽतोऽन्यः ॥' इति ॥ वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा । विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥२३॥
वशिनमिति ॥ अथ भीमार्जुनोपवेशनानन्तरं वशिनमिन्द्रियजयवन्तम् । अव्यसनिनमिति यावत् । क्षितीश्वरं भूपतिम् । अयः शुभावहो विधिर्नीतिर्नयस्ताविव । दैवपुरुषकाराविवेत्यर्थः । नियतमाचारनिष्ठं यतिं जितेन्द्रियम् । 'यतिनो यतयश्च' इत्यमरः । नियमः शरीरातिरिक्तदेशकालादिसाधनापेक्षः संध्योपासनजपादिः । यमः शरीरमात्रसाधनापेक्षोऽहिंसादिः । 'शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः । नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ॥' स च यथा यमनियमाविवेत्यर्थः । 'इववद्वायथाशब्दाः' इति दण्डिनाभिधानात् । विजयश्रिया युतं आसन्नविजयम् । विजिगीषू रिपुमित्यर्थः । अर्कमारुताविव दत्रयोरश्विनोः सुतौ नकुलसहदेवौ । 'नासत्यावश्विनौ दस्रौ' इत्यमरः । तं हरिमनुसस्नतुरनुचेरतुः । पृष्ठोपसर्पणं चक्रतुरित्यर्थः । इह सर्वकर्तृमनोरथानुकूलव्यापारवत्त्वमनुसरणम् । इयं मालोपमा ॥ मुदितैस्तदेति दितिजन्मनां रिपावविनीयसंभ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः॥२४॥
मुदितैरिति ॥ तदा तस्मिन्समये इति मुदितैर्हृष्टैरविनीयोऽकल्कः । अकपट इति यावत् । यः संभ्रम आदरस्तेन विकासिनी स्फुटीभवन्ती भक्तिर्येषां तैः । 'विपूयविनीयजित्या मुञ्जकल्कहलिषु' इति कल्कार्थे निपातः । नपुंसकपूर्वपदः स्त्रीलिङ्गपूर्वपदो वा बहुव्रीहिः । अविनीतं शासतीत्यविनीतशासिभिः दुष्टशिक्षकैः पाण्डवैः दितिजन्मनां रिपौ कृष्णविषये उप समीपे सीदन्ति स्मेत्युपसेदिवांसोऽन्तेवासिनः । ‘भाषायां सदवसश्रुवः' इति सदेलिटः क्वसुरादेशः । तैरुपसेदिवद्भिपदेष्टरि गुराविवेत्युपमा । विनीतमनुद्धतं च ववृते वृत्तम् । भावे लिट् । ननु विकासिभक्तिरित्यत्र कथं पूर्वपदस्य पुंवद्भावः । भक्तिशब्दस्य प्रियादिपाठात् 'स्त्रियाः पुंवत्-' इति पुंवद्भावसूत्रेऽप्रियादिष्विति निषेधादिति । विकासिशब्दस्याविकासिनीवृत्तिमात्रपरतयाऽस्त्रीत्वस्य विवक्षितत्वानपुंसकपूर्वपदो बहुव्रीहिरिति केचित् । तदेतदभिप्रेत्योक्तं वृत्तिकारेण 'दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धिः' इति । एतदेव स्पष्टीकृतं गणव्याख्याने-'दृढं भक्तिर्यस्येति नपुंसकं पूर्वपदम् , धात्वर्थविशेषणमानपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितम्' इति । भोजराजस्तु 'भक्तो कर्मसाधनाया'मित्यनेन सूत्रेण भज्यते सेव्यते इति कर्मार्थत्वेन दृढभक्तिरित्यादि भवति । भाव