________________
त्रयोदशः सर्गः।
३१९
साधनायां तु दृढभक्तिर्भवत्येव' इत्याह । तदेतत्सर्वमस्माभिः कालिदासत्रयसं. जीविन्यां 'दृढभक्तिरिति ज्येष्ठः' इत्यादिषु विवेचितम् । तस्माद्विकासिभक्तिभिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वे नपुंसकत्ये च रूपसिद्धिरस्तीति स्थितम् ॥ गतयोरभेदमिति सैन्ययोस्तयोरथ भानुज तनयाम्भसोरिव । प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥२५॥
गतयोरिति ॥ इति इत्थं गतयोः सैन्ययोः भानुजगुतनये यमुनाजान्यो तयोरम्भसी प्रवाही तयोरिवाभेदमैक्यं गतयोः सतोः । 'यस्य च भावेन भावलक्षणम्' इति सप्तमी । एतेन सैन्ययोरवार्यत्वमुक्तम् । अथ सैन्यमेलनानन्तरम् । आनकैर्मङ्गलदुन्दुभिभिः परमया मुदेव हर्षेणेवेत्युत्प्रेक्षा । प्रतिनादितानि प्रतिध्वनितान्यमरविमानानि द्रष्टुमागत्याम्बरस्थितानि विमानानि देवयानानि यस्मिन्कर्मणि तद्यथा तथा नितरां दध्वने ध्वनितम् । भावे लिट् ॥ मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः। उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥ २६॥ 'मखमिति ॥ क्षितिपतेधर्मराजस्य मखं ऋतुमीक्षितुमुपेयुपां ततस्तत आगतानां भूभृतां राज्ञां वलैः सैन्यैर्बहिः परितः प्रकल्पितानि निर्मितानि निकेतनानि निवासा यस्य तदत एवोपरुध्यमानं शत्रुसेनावेष्ट्यमानमिव स्थितमित्युस्प्रेक्षा । पुटभेदनं पत्ननं मयकृतमिन्द्रप्रस्थम् । ‘पत्तनं पुटभेदनम्' इत्यमरः । दनुसुतारिर्दानवारिः पुरोऽग्रे ऐक्षतापश्यत् ॥ प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः । रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः२७
प्रतीति ॥ प्रतिनादैः प्रतिध्वानैः पूरितं व्याप्तं दिशामन्तरमन्तरालं येन सः पुरगोपुरं पुरद्वारं प्रति । 'गोपुरं तु पुरद्वारि द्वारमात्रे नपुंसकम्' इति विश्वः । एवं च न परशब्दस्य पौनरुक्त्यशङ्का। पतन्धावन्स सैन्यसागरः सेनासमुद्रः हिमाचलगुहामुखस्योन्मुखोऽभिमुखः सुरसिन्धोर्गङ्गाया अयं सौरसैन्धवः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः । पयसां प्रवाह इव रुरुचे रेजे । उपमालंकारः ॥ असकृट्टहीतबहुदेहसंभवस्तदसौ विभक्तनवगोपुरान्तरम् । पुरुषः पुरं प्रविशति स पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः २८
असदकृदिति ॥ असकृद्धहुशो गृहीतो लोकधारणाय स्वीकृतो बहुपु देहेषु मत्स्यकूर्मादिपु शरीरेपु संभवः प्रादुर्भावो येन सः, अन्यत्र स्वकर्मणा प्राक्तनयोनिसंबन्धरूपसंभव इत्यर्थः । पुरुषः पुराणपुरुषो हरिर्जीवश्च विभक्तानि नवानि प्रत्यग्राणि गोपुरान्तराणि द्वारविशेषा यस्य तत् , अन्यत्र नवसंख्याकानि गोपुरान्तराणीन्द्रियद्वारभेदा यस्मिंस्तत् पुरं पत्तनं शरीरं च । 'पुरं पुरि शरीरे च'