________________
२१६
शिशुपालवधे ण्डकस्यैकतरखण्डमन्यतरदलमिव रुरुचे रराज । अत्रोपमानस्य पुराणप्रसिद्धत्वादुपमालंकारः ॥
अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवमुं वियदालयादपरदिग्गणिका ॥ १०॥
अनुरागवन्तमिति ॥ अपरदिक् पश्चिमा सैव गणिका वेश्या अनुरागो लौहित्यमभिलाषश्च तद्वन्तमपि लोचनयोः सुखयतीति सुखं सुखकरं शान्तत्वा. दाभिरूप्याच्च दर्शनीयं वपुर्दधतमपीति अतापकरमनौष्ण्यादशठत्वाचासंतापकारिणं सुखस्पर्श वा तथाप्यपेतवसुं नीरश्मि निर्धनं च । 'देवभेदेऽनले रश्मौ वसू रत्ने धने वसु' इत्यमरः । रविः सूर्यो विटश्च गम्यते । तं वियदाकाशमेवालयो गृहं तस्मान्निरकासयन्निष्काशितवती । धनपरा हि वेश्या निर्गुणमपि धनिकमासर्वस्वहरणादत्यनुरक्तवदनुवर्तन्ते, गुणवन्तमपि हृतसर्वस्वं निर्वासयन्ति सद्य एवेति भावः । अस्तं गतोऽर्क इति श्लोकार्थः । अत्र वियदालयादपरदिग्गणिकेत्येकदेशरूपणाद्वेविटत्वरूपणावगमादेकदेशवर्ति रूपकं, श्लेषोऽपि तदुत्थापितत्वादनुराग एवानुरागो वसव एव च वसूनीति रूपकपर्यवसित एवेत्यङ्गम् ॥
अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया । विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदजनयनं नलिनी ॥११॥
अभीति ॥ नलिनी अभितिग्मरश्मि सूर्याभिमुखं चिरमाविरमादस्तमयादनिमेषतया अपक्ष्मपाततया । दलसंकोच एवात्र निमेपः । अवधानेनाभिमुखा. वस्थाननिर्बन्धेन खिन्नमलसम् । अत एव विगलनिःसरन्मधुव्रतकुलमेवाश्रुजलं यस्य तदन मेव नयनं न्यमिमीलत् मीलयति स्म । 'भ्राजभास-' इत्यादिना विकल्पादुपधाहस्वः । अत एव नाभ्यासदीर्घः । अनुरक्ता हि कान्ता कान्तमनिमेषं पश्यन्ती तदपाये सति निमीलिताक्षी स्यादिति भावः। अत्राप्यजनयन. मित्याद्यवयवरूपणादवयविनोनलिनीतिग्मरश्स्योर्नायिकानायकत्वरूपकसिद्धेरेकदेशविवर्ति रूपकम् ॥
अविभाव्यतारकमदृष्टहिमद्युतिविम्बमस्तमितभानु नमः । अबसन्नतापमतमिस्रमभादपदोपतैव विगुणस्य गुणः ॥ १२ ॥
अविभाव्येति ॥ अविभाव्यतारकमलक्ष्यनक्षत्रम् । अदृष्टं हिमातेरिन्दोबिम्बं यस्मिंस्तत् । अद्याप्यनुदितचन्द्रतारकमित्यर्थः । अस्तमित्यदर्शनेऽव्ययम् । अस्तमितोऽस्तं गतो भानुर्यस्मिंस्तत् । एतावता निर्गुणत्वमुक्तम् । अथ निर्दोष. त्वमाह-अवसन्नतापमास्तमयात्प्रशान्तसंतापम् । अतमिस्रमनुदितान्धकारं नभोऽन्तरिक्षमभागाति स्म । भातेलङ् । ननु विगुणस्य का शोभेति न वाच्यं, निर्दोषताया अपि गुणत्वादित्यर्थान्तरन्यासेनाह-विगुणस्य गुणहीनस्यापदोषता निर्दोषत्वमेव गुणः अतो गुणवत्वाच्छोभा युक्तेति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥
१ 'माविषय' इति पाठः.