________________
नवमः सर्गः ।
२१५
त्वाद्भस्वत्वम् | अशीतरुच उष्णांशोस्तनु करजालं तत्क्षणं तस्मिन्क्षणे । तत्कालेऽपीत्यर्थः । अत्यन्तसंयोगे द्वितीया । सानुमतोऽद्रेः शिखरेष्वास्तातिष्ठत् । आसेः कर्तरि लङ् । सतामस्तसमये नाशसमयेऽप्युच्चतरमेव पदमुन्नत स्थान मे - वोचितं खलु । अर्थान्तरन्यासः ॥
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्वना दिनभर्तुरभृन पतिप्यतः करसहस्रमपि ॥ ६ ॥ प्रतिकूलतामिति ॥ विधौ दैवे प्रतिकूलतामुपगते सति बहुसाधनता अनेकसाधनवत्ता विफलत्वमेति । महत्यपि साधनसंपत्तिर्निष्फलैवेत्यर्थः । तथा हि । पतिष्यत आसन्नपातस्य दिनभर्तुः करा अंशवो हस्ताश्च । 'बलिहस्तांशवः करा: ' इत्यमरः । तेषां सहस्रमपि अवलम्बनायावष्टम्भनाय नाभूत् । अतो दैवमेव प्रबलमिति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥
नवकुङ्कुमारुणपयोधरया स्वकरवसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ||७|| नवेति ॥ अनुपारकर उष्णांशुः नवकुङ्कुमवदरुणपयोधरया नवसंध्यारुणमेघा अन्यत्र नवकुङ्कुमारुणकुचया स्वकरावसक्तरुचिराम्बरया स्वकिरणाक्रान्तरुचिराकाशया, अन्यत्र स्वहस्तलग्न चास्वत्रया वरुणस्य दिशा । पश्चिम दिशा सहेत्यर्थः । वरुणसंबन्धात्परराङ्गनात्वं च गम्यते । 'वृद्धो यूना-' इति सूत्रादौ सहार्थाप्रयोगात्सहार्थानामप्रयोगेऽपि 'सहयुक्तेऽप्रधाने' इति सहार्थे तृतीया । अतिसक्तिमतिसंनिकर्षं, अत्यासक्तिं च एत्य प्राप्य भृशमन्वरज्यत्, लोहितो रक्तवांश्चाभवत् । रङ्गेर्दैवादिकात्कर्तरि लङ् । 'कुषिरञ्जः प्राचां श्यन् परस्मैपदं च' इति कर्मकर्तरि वा । अत्र वारुणीदिनकरादिविशेषण महिनैव तयोर्जा रभाव. प्रतीतेः समासोक्तिरलंकारः ॥
गतवत्यराजत जपाकुसुमस्तबद्युतौ दिनकरेऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिवद्धमध्यमिव दिग्वलयम् ॥ ८ ॥
गतवतीति ॥ जपाकुसुमस्तबकयुतौ लोहितवर्णे दिनकरेऽवनतिमस्तहां गतवति सति । लम्बमाने सतीत्यर्थः । दिग्वलयं दिजाण्डलं, कंकणं च ध्वन्यते । बहलानुरगैः सान्द्ररागैः कुरुविन्ददलैः पद्मरागशकलैः प्रतिबद्धः प्रत्युतो मध्यो यस्य तदिद्वाराजतेत्युत्प्रेक्षा । 'कुरुविन्दस्तु सुस्तायां कुल्मापव्रीहिभेदयोः । इङ्गुदे पद्मरागे च मुकुलेऽपि समीरितः ॥' इति विश्वः ॥ द्रुतशातकुम्भनिभमंशुमतो वपुर्धमवपुषः पयसि ।
रुरुचे विरिश्चिनखभिन्नवृहजगदण्डकैकतरखण्डमिव ॥ ९ ॥ द्रुतेति ॥ दुतं तच्छातकुम्भं तपनीयम् । 'तपनीयं शातकुम्भम्' इति सुवर्णपर्यायेध्वमरः । तेन सदृशं तन्निभमिति नित्यसमासः । पयसि समुद्रोदके अर्ध यथा तथा मनं वपुर्यस्य तस्यांशुमतोऽर्कस्य मण्डलं विरिञ्चैर्ब्रह्मणो नखेन विभिन्नस्य द्वेधाविदलितस्य बृहतो महतो जगदण्डकस्य जगदाश्रयकोशस्य ब्रह्मा