________________
२१४
शिशुपालवधे
मरः। अधिरोढुमभ्यपतदभ्यधावत् । अत्रासहमान इवेति कालप्राप्तस्य पयसि प्रपातस्य निजतेजोऽसहनहेतुकत्वमुत्प्रेक्ष्यते । अस्मिन्सर्गे प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् । मुहुरन्तरालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥२॥ गतयेति ॥ रतेन रत्यर्थे । 'प्रसितोत्सुकाभ्यां तृतीया च' इति सप्तम्यर्थे तृतीया । भृशमुत्सुकतां कालाक्षमत्वलक्षणमौत्सुक्यं दधती योषित्पुरोऽग्ने गवा. क्षमुखं गवाक्षद्वारं प्रति गतयापसृतया दृशा अस्तगिरेः सवितुश्चान्तरालभुवं मध्याकाशदेशं मुहुरमिमीत माति स्म । हस्तमात्रमवशिष्टमरनिमात्रमवशिष्टमि. त्यादिमानकरणेनास्तमयं प्रतीक्षितवतीत्यर्थः। माङो लङि 'श्ली' इति द्विर्भावः 'भृजामित्' इत्यभ्यासस्येत्वम् । एतच्चास्तमयप्रतीक्षणभ्रमादौत्सुक्यानुभवान्तरोप. लक्षणम् । अत्रौत्सुक्यभाववचनात्प्रेयोऽलंकारः ॥
विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः। अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः॥३॥ विरलेति ॥ परिणति परिवृत्तिम् , अन्यत्र जरावस्थां च गतः अत एव विरला अल्पा आतपस्य च्छविर्यस्य सः । अन्यत्र क्षीणप्रभः । अनुष्णवपुः अन्यत्र श्लेष्मो. दयादीषदुष्णदेहः । अलवणा यवागूरितिवदल्यार्थ नञ्प्रयोगः । परितो विपाण्डु एकत्र शुभ्राभ्रपटलच्छन्नत्वादपरत्र पलितैश्च पाण्डुरमभ्रमाकाशमेव शिरो दधदु. द्वहत्परिमन्दं प्रशान्तम् , अर्थग्रहणासमर्थ च सूर्य एव नयनं यस्य स दिवसः शिथिलः शिथिलवृत्तिः, शिथिलाङ्गश्चाभवत् । अत्राभ्रशिर इत्याद्यवयवरूपणादिवस एव स्थविर इत्यवयविरूपकसिद्धेस्तदरूपणादेकदेशवृत्तिरूपकं श्लेषानुप्राणितम् ॥
अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गलये। निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः॥४॥
अपराह्नेति ॥ अपरोऽपरभागोहोऽपराह्नो दिनान्तः । 'पूर्वापराधरोत्तरमेकदेशिनकाधिकरणे' इत्येकदेशिसमासः 'राजाहःसखिभ्यष्टच्' 'अहोऽत एतेभ्यः' इत्यहादेशः 'अहोऽदन्तात्' इति णत्वम् । तस्मिन्नपराह्ने शीतलतरेणानिलेन शनैर्लोलिताश्चालिता लता एवाङ्गुलयो यस्य तस्मै, अत एव निलयाय निवासायाह्वयते अङ्गुलिसंज्ञया आह्वानं कुर्वाणायेव स्थितायेत्युत्प्रेक्षा । शाखिने वृक्षाय खगकुलानि पक्षिसङ्घा आकुलास्तुमुला गिर इदमागम्यत इति प्रत्युत्तराणि ददु. रिवेत्यनुषङ्गादुत्प्रेक्षा ॥
उपसंध्यमास्त ननु सानुमतः शिखरेषु तत्क्षणमशीतरुचः। करजालमस्तसमयेऽपि सतामुचितं खलूचतरमेव पदम् ॥५॥ उपसंध्यमिति ॥ उपसंध्यं संध्यायाः समीपे। समीपार्थेऽव्ययीभावे नपुंसक