________________
नवमः सर्गः।
२१३ इत्येवंरूप इयानेतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु किमन्यैरित्यर्थः । कुसुमेषुणा कामेन शून्यो यदि न स्यात् । अन्यथा उद्विजितानामिव कनकभूषणमपि भारायत एवेति भावः । एतेन विच्छित्याख्य आलम्बनचेष्टारूप उद्दीपनविभाव उक्तः । 'स्तोकभूषणयोगेऽपि विच्छित्तिरिति गद्यते' इति लक्षणात् । अत्र स्नानताम्बूलादिपदार्थान्वितविशेषणगत्या अौष्ठादीनामाकल्पत्वप्रतिपादनार्थ हे. तुकं काव्यलिङ्गमलंकारः ॥ अथोत्तरसर्गे सूर्यास्तमयादिवर्णनं प्रस्तौति
इति धौतपुरंधिमत्सरान्त्सरसि मजनेन
श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः। अवलोक्य तदैव यादवानपरवारिराशेः
शिशिरेतररोचिषाप्यपां ततिषु मङ्गुमीपे ॥ ७१ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके
जलविहारवर्णनं नामाष्टमः सर्गः ॥८॥ इतीति॥इतीत्थं सरसि मजने न स्नानेन धौतपुरंध्रिमत्सरान्क्षालितमानिनीमा. नान अभीक्ष्णमतिशेतेऽतिशायिनीम् । आभीक्ष्ण्ये णिनिः । श्रियमाप्तवतः अपमलागभासो विमलाङ्गकान्तीन्यादवानवलोक्य तदैव शिशिरेतररोचिषा उष्णांशुना. प्यपरवारिराशेः पश्चिमाब्धेरपां ततिषु पूरेषु मङ्घ प्रवेष्टमीषे इष्टम् । भावे लिट् । परचेष्टासाक्षात्कारो विषयिणां तादृग्विषयाभिलाषमन्तराधत्त इति भावः । अत्र भानोः कालप्राप्तमजनस्य यादवमजनावलोकनहेतुकत्वमुत्प्रेक्ष्यते । अतिशायिनीवृत्तम् । 'ससजा भजतोऽतिशायिनी भवति गौ दिगश्वैः' इति छन्दोलक्षणात् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरि विरचिते शिशुपालवध.
काव्यव्याख्याने सर्वकषाख्येऽष्टमः सर्गः ॥ ८ ॥
नवमः सर्गः। अथ सूर्यास्तमयं वर्णयतिअभितापसंपदमथोष्णरुचिनिजतेजसामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ १॥
अभितापेति ॥ अथ मिमङ्खानन्तरमुष्णरुचिः सूर्यो निजतेजसामभितापसं. पदं संतापातिरेकमसहमान इवापराम्बुनिधेः पश्चिमाब्धेः पयसि प्रपित्सुः पतितुमिच्छुः । पततेः सन्नन्तादुप्रत्ययः 'सनिमीमा-' इत्यादिना इसादेशः 'अत्र लोपो. ऽभ्यासस्य' इत्यभ्यासलोपः। अस्तगिरिमस्ताद्रिम् । 'अस्तस्तु चरमक्ष्माभृत्' इत्य१ 'मविरलाङ्ग' इति पाठः.