________________
२१२
शिशुपालवधे
अशोषयदिति यावत् । वयतेय॑न्ताल्लङ् । 'अतिहीं-' इत्यादिना पुगागमः । किल खलु । पुनस्तद्वपुरभिमतं प्रियमन्तिकेऽभिवीक्ष्य स्वेदाम्बुनो द्वम् । दवशब्दः शुक्लादिवद्गुणे पुंसि, गुणिनि भेद्यलिङ्गः ! 'आपो द्रवाः सर्वाणि द्रवाणि तृदङ्मु. खेन जुहोति' इत्यादिप्रयोगात् । अभवत्तराम् । अतिशयेनाभवदित्यर्थः। 'तिङश्व' इति तरप् 'किमेत्तिक-' इत्यादिना तिडास्तादामुप्रत्ययः । 'तद्धितश्चासर्ववि. भक्तिः' इत्यव्ययत्वम् ! नाजानात् । वाक्यार्थः कर्म । तद्रवभवनं नाज्ञासीदित्यर्थः । अविरतस्नेहातामजानती स्नानाद्रमेवेति मन्यमाना पुनः पुनर्वपुरुद्वापयन्त्येवास्तेति तात्पर्यार्थः । अत्र वपुष्मत्कर्तृकस्य वीक्षणस्य वपुष्युपचारात् द्रवण. क्रियायाः समानकर्तृकत्वात्पूर्वकालतानिर्वाहः । एषा च गात्सुक्यादिसंचारिसंकीर्णस्वेदोदरोमाञ्चादिसात्विकसंपन्ना स्मिताद्यनुभाववती चेत्य नुसंधेयम् । अत्रो. द्वापनरूपकारणे सति द्रवत्वनिवृत्तिरूपकार्यानुत्पत्तेस्तद्विरुद्धद्वत्प्रतिपादनमुखे. नाभिधानाद्विशेषोक्तिरलंकारः । 'तत्सामग्र्यामनुत्पत्तिविशेपोक्तिर्निगद्यते' इति लक्षणात् ॥
सीमन्तं निजमनुबध्नती कराभ्या
मालश्य स्तनतटबाहुमूलभागा। भान्या मुहुरभिलायना निदध्ये
नैवाहो विरमनि कौतुकं प्रियेभ्यः । ६९ ।। सीमन्तमिति ॥ निजमात्मीयं सीमन्तं मूर्धजमध्यपद्धतिम् । “सीमन्तम. स्त्रियां स्त्रीणां केशमध्ये तु पद्धतिः' इति वैजयन्ती । कराभ्यामनुबन्नती गृह्णन्ती। विभजन्तीत्यर्थः । अत एव आ समन्तात् लक्ष्या विभाव्याः स्तनतटे बाहुमूले च तेषां भागाः प्रदेशा यस्याः सा अन्या स्त्री अभिलष्यताभिलषता । 'वा भ्राश-' इत्यादिना वैकल्पिकः श्यन्प्रत्ययः । भर्ना मुहुर्निदध्ये ध्याता । तां निरीक्ष्येत्यर्थः । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अहो आश्चर्य । कौतुकमभिलाषः प्रीणन्तीति प्रिया विषयाः । 'इगुपधज्ञाप्रीकिरः कः' इति कः । तेभ्यो न दिरमति उपभोगेऽपि न निवर्तत इत्याश्चर्यम् । 'न जातु कामः कामानामुपभोगेन शाम्यति' इति भावः । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् इति पञ्चमी 'व्यापरिभ्यो रमः' इति परस्मैपदम् । अर्थान्तरन्यासः ॥
स्वच्छाम्भःस्वपन विधौतमङ्गमोष्ठ
स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीया
नाकल्पो यदि कुसुमेपुणा न शून्यः ॥ ७० ॥ स्वच्छेति ॥ स्वच्छेनाम्भसा नपनेनाभिषेकेण विधीतं विगलितमङ्गं वपुः । ताम्बूलद्युत्या ताम्बूलरागेण विशद उज्ज्वल ओष्ठोऽधरः। प्रतनु सूक्ष्म विविनं विमलं वासश्च, अथवा विविक्तमेकान्तस्थानं च । 'विविक्तौ पूतविजनौ' इत्यमरः।