________________
अष्टमः सर्गः।
२११ मुरू पीवरावूरू एव कर्तारौ समुल्लसन्त्या भासा स्फुरन्त्या निजकान्त्यान्तर्दधतु. श्छादितवन्तौ । तदेतद्भूषणमिति भावः । अत्र दुकूलस्योरूच्छादकत्वेऽपि तदभावोक्तेरसंबन्धेऽपि संबन्धरूपातिशयोक्तिः । तदपेक्षया चोवोर्दुकुलानाच्छादकयोराच्छादकत्वोक्तरसंबन्धे संबन्धरूपातिशयोक्त्यनुप्राणितेति सजातीयसंकरः, तदनुप्राणितश्च विषमालंकार इति विजातीयसंकरः । तेन चोर्वोलोकोत्तरं लावण्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥
वासांसि न्यवसत यानि योषितस्ताः
शुभ्राभ्रद्युतिभिरहासि तैमुदेव । अत्याक्षुः स्नपनगलजलानि यानि
स्थूलाश्रुतिभिररोदि तैः शुचेव ॥६६॥ वासांसीति ॥ ताः योषितो यानि वासांसि न्यवसत निवसितवत्यः । 'वस आच्छादने' इति धातोः कर्तरि लङ् । शुभ्राभ्राणां द्युतिरिव द्युतिर्येषां तैासोभिर्मुदा नारीनिवसनानन्देनाहासीव हसितमिव । भावे लुङ् । स्नपनेन गल. जलानि स्रवत्तोयानि यानि वासांसि अत्याक्षुस्त्यक्तवत्यः तैः शुचा स्थूला अश्रुस्रुतिर्येषां तैररोदीव रोदनं कृतमिव । भावे लुङ् । अत्र धावल्यगुणजलगलनक्रियानिमित्तयोर्हासरोदनक्रिययोः सजातीयोत्प्रेक्षयोः संकरः ॥
आर्द्रत्वादतिशयिनीमुपेयिवद्भिः
संसक्तिं भृशममि भूरिशोऽवधूतैः । अङ्गेभ्यः कथमपि वामलोचनानां
विश्लेषो बत नवरक्तकैः प्रपेदे ॥ ६७॥ आर्द्रत्वादिति ॥ आर्द्रत्वाजलेन प्रेम्णा च सरसत्वादतिशयिनीमतिशयवतीं संसक्तिं संश्लेषं, परिचयं चोपेयिवद्भिः प्राप्तवद्भिः अत एव भृशं भूरिशो बहुशोऽवधूतैर्निरस्तैरपि, अन्यत्र निष्कासितैरपि नवरक्तरेव नवरक्तकैः नूतनरक्तवस्त्रैः, नवानुरागिभिश्च वामलोचनानां सुदृशामङ्गेभ्यो विश्लेषः बत खेदे कथमपि प्रपेदे प्राप्तः । एकत्रातिश्लेषादन्यत्रातिपरिचयाचेति भावः । अत्यासक्ताः कामिनो धनपरायणाभिर्वेश्याभिरवधूताः कथंचिन्मुञ्चन्तीत्यर्थान्तरप्रतीतिः । इह विशेष्यस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो ध्वनिरेव ॥
प्रत्यंसं विलुलितमूर्धजा चिराय __ स्नानार्द्र वपुरुदवापयत्किलैका । नाजानादभिमतमन्तिकेभिवीक्ष्य
खेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ ६८ ॥ प्रत्यंसमिति ॥ एका स्त्री प्रत्यंसमंसयोः । विभक्त्यर्थेऽव्ययीभावः । विलुलितमूर्धजा विकीर्णकेशा सती स्नानाद्रं वपुः चिराय चिरमुदवापयन्निरवापयत् ।