________________
२१०
शिशुपालवधे
शीतेति ॥ नीरैतोयैरासेकादासेचनाच्छीताति शीतव्यथां बलवत्सु उपे. युषेव प्राप्तवतेवेत्युत्प्रेक्षा । अत एव शिशिरसमीरकम्पितेन शीतवातवेपितेन नवांशुकेन का अभिनवो यो यौवनोष्मा उष्णत्वं तद्भाजोः रामाणां स्तनतटयोराधारयोराश्लेषि आश्लिष्टं संसक्तम् । भावे लुङ् । सेकहेतुकस्यांशुकश्लेषस्य शीतार्तिहेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतूत्प्रेक्षा ॥ इत्थमासां जलक्रीडामुक्त्वा जलादुत्तरणं वर्णयति
योतद्भिः समधिकमात्तमङ्गसङ्गा
लावण्यं तनुमदिवाम्बु वाससोऽन्तः । उत्तेरे तरलतरङ्गरङ्गलीला
निष्णातैरथ सरसः प्रियासमूहैः ॥ ६३ ॥ श्योतद्भिरिति ॥ अथ जलक्रीडानन्तरमङ्गसङ्गागात्रसंपर्कादात्तमुपात्तम् । संसक्तमिति यावत् । समधिकमतिरिक्तं तनुमन्मूर्तिमत् लावण्यमिव कान्तिसार. मिवेत्युत्प्रेक्षा । अम्बु श्योतद्भिः क्षरद्भिः । भौवादिकत्वाल्लघूपधगुणः । तरलाश्वप. लास्तरङ्गा एव रङ्गा नृत्यस्थानानि तेषु लीला नर्तितानि तासु निष्णातैः कुशलैः । 'निनदीभ्यां स्नातेः कौशले' इति षत्वम् । वाससोऽन्तैर्वस्त्रस्याञ्चलैरुपलक्षितः प्रि. यासमूहैः स्त्रीसङ्घः सरसो हदादुत्तेरे उत्तीर्णम् । निर्गतमित्यर्थः। तरते वे लिट् ॥
दिव्यानामपि कृतविसयां पुरस्ता
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । . उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती
मसाजिलनिधिमन्थनस्य शौरिः॥६४ ॥ दिव्यानामिति ॥ दिवि भवा दिव्यास्तेषामपि कृतविस्मयां सौन्दर्यातिरेकेण जनिताद्भुतरसां स्फुरदरविन्दाभ्यां चारू हस्तौ यस्यास्ताम् । पद्महस्तामित्यर्थः । पुरस्तादग्रतः अम्भस्तो जलात् । पञ्चम्यास्तसिल । उत्तरन्तीं निष्क्रामन्तीं कांचिस्त्रियं मथ्यमानात्समुद्रात्सद्यः प्रादुर्भवन्तीं श्रियमिव लक्ष्मी मिवोद्वीक्ष्य जलनिधिमन्थनस्य । समुद्रमन्थनमित्यर्थः । मन्थेभीवादिकरयेदित्त्वान्नुमागमः 'अधीग. र्थ-' इत्यादिना कर्मणि षष्ठी । अस्मात्स्मृितवान् । अन्न समुद्रमन्थनस्मारिकया श्रियमिवेत्युपमया सादृश्याच्छ्रीः स्मृतेति स्मरणालंकारप्रतीतेरलंकारध्वनिः ॥
श्लक्ष्णं यत्परिहितमेतयोः किलान्त___ानार्थं तदुदकसेकसक्तमूर्वोः। नारीणां विमलतरौ समुल्लसन्त्या
भासान्तर्दधतुरुरू दुकूलमेव ॥६५॥ श्लक्ष्णमिति ॥ एतयोरूवोरन्तर्धानार्थ किल छादनार्थ श्लक्ष्णं स्निग्धं यदुकूलं परिहितमाच्छादितमुदकसेकेन संसक्तं संसृष्टं तत् दुकूलं कर्म । विमलतरौ नारीणा