________________
अष्टमः सर्गः।
२०९ पर्याप्तम् । समग्रमासीदित्यर्थः। कुतः । फेनानां डिण्डीराणामुरसि रहन्तीत्युरसिरहाः स्तनाः । 'सुपि' इति योगविभागात्कप्रत्ययः 'हलदन्तात्' इत्यलुक् । तेषु हारलीला मुक्तावलिश्रीः । जातेति शेषः । शैवलानां जघनतलेषु चैलश्री. वसनशोभा जाता । गण्डेपु कपोलेपु शैवला इति विभक्तिविपरिणामादनुषङ्गः । स्फुटरचना व्यक्तविन्यासाजपत्रवल्ली पमपत्रलता जातेति शेषः । अत्र फेनानां हारलीलेव लीला शैवलानां चेलश्रीरिव श्रीरिति निदर्शनाभ्यां शैवलाः पत्रव. लीति रूपकेण च वाक्याथै श्चतुर्थवाक्यार्थसमर्थनात्तैरेवाङ्गाङ्गिभावेन संकीर्णवाक्यार्थहेतुकं काव्यलिङ्गम् ॥
भ्रश्यद्भिर्जलमभि भूषणैर्वधूना___ मङ्गेभ्यो गुरुभिरमजि लजयेव । निर्माल्यैरथ ननृतेऽवधीरिताना
मप्युच्चैर्भवति लघीयसां हि धार्ध्वम् ॥६०॥ भ्रश्यद्भिरिति ॥ वधूनामङ्गेभ्यो भ्रश्यद्भिः पतद्भिर्गुरुभिः सौवाद्गुरुत्वयुक्तेभूषणैर्लजया भ्रंशप्रयुक्तया ह्रियेवेत्युत्प्रेक्षा । जलमभि अमजि जले मग्नम् । भावे लुङ् । अथानन्तरमेव न तु विलम्बेनेति भावः। निर्माल्यैर्मुक्तोज्झितमाल्यैननृते जलेऽनर्ति । भ्रंशेऽपि निर्लजैरिति भावः । तथा हि । अवधीरितानां तिरस्कृतानामपि लघीयसां तुच्छानामुच्चैर्धाष्ट्यं निर्लजत्वमेवाधिकं भवतीत्यर्थान्तरन्यासः । महान्तः पदभ्रंशे लजिताः क्वचिनिलीयन्ते, तुच्छास्तु निर्लज्जा विजृ. म्भन्त इति भावः । अप्सु गुरूणि मजन्ति लघूनि प्लवन्त इति परमार्थः ॥
आमृष्टास्तिलकरुचः स्रजो निरस्ता
नीरक्तं वसनमपाकृतोऽङ्गरागः। कामः स्त्रीरनुशयवानिव स्वपक्ष
__ व्याघातादिति सुतरां चकार चारूः॥ ६१॥ आमृष्टा इति ॥ तिलकरुचः पत्रशोभा आमृष्टाः । जो माला निरस्ताः । वसनं कौसुम्भं वासो नीरक्तमरक्तम् । निरस्तरागमित्यर्थः। कृतमिति शेषः । अङ्गरागोऽपाकृतः । सर्वत्र जलैरित्यर्थः । इतीत्थं स्वपक्षव्याघातात्स्ववर्गक्षयादनुशयवाननुतापवानिवेत्युत्प्रेक्षा । कामः स्त्रीः स्त्रियः। 'वाम्शसोः' इतीयङादेशविकल्पात्पक्षे पूर्वसवर्णदीर्घः । सुतरां चारूः पूर्वतोऽपि रमणीयाश्चकार । स्त्रीणां काम एव भूषणमन्यद्वैरूप्यमेवेति भावः ॥
शीताति बलवदुपेयुषेव नीरै
रासेकाच्छिशिरसमीरकम्पितेन । रामाणामभिनवयौवनोष्मभाजो
राश्लेषि स्तनतटयोर्नवांशुकेन ॥ ६२॥