________________
नवमः सर्गः। रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः । ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः॥१३॥ ___ रुचीति ॥ रुचिधाम्नि तेजोनिधौ सूर्ये भर्तरि पत्यौ परलोकं देशान्तरमभ्युपगते, मृते च सति विमलाः शुद्धास्त्विषो ज्वलनं विविशुः । 'अग्निं वावादित्यः सायमनु प्रविशति' इति श्रुतेरिति भावः । अन्यत्र 'मृते या म्रियते पत्यौ सा स्त्री ज्ञेया पतिव्रता' इति स्मरणादिति भावः । अग्निप्रवेशफलमाह-इतरथा ज्वलनप्रवेशे अन्यजन्मनि जन्मान्तरे स एव स सूर्य एव पतिः, अन्यत्र तु योऽस्मिञ्जन्मनि पतिः स एव कथं सुलभः । न कथंचिदित्यर्थः । 'उद्यन्तं वावादित्यमग्निरनु समारोहति' इति श्रुतेः । तेनैव सह मोदत इति स्मरणादिति भावः । अतोऽग्निप्रवेशो युक्त इति समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ___ अथ संध्याप्रादुर्भावमाहविहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥१४॥
विहितेति ॥ जनतया जनसमूहेन । 'ग्रामजन-' इत्यादिना समूहाथै तलप्रत्ययः । विहिताञ्जलिः । कृतप्रणामेत्यर्थः । विकसत्कुसुम्भकुसुमवदरुणतां दधती राजसत्वादिति भावः । तदुक्तं 'सर्गाय रक्तं रजसोपबृंहितम्' इति । प्रसूत इति प्रसूर्माता। 'जनयित्री प्रसूर्माता' इत्यमरः । पितॄणां प्रसूः पितृप्रसूः असावियं संध्यारूपिणी आत्मभुवो ब्रह्मणस्तनुर्मूर्तिश्विरमुज्झिता त्यक्तापि प्रकृति स्वभावम् । जगहन्धत्वादिनिजधर्ममित्यर्थः । नौज्झत् न विससर्ज । 'उज्झ विसर्गे' लङ् 'आडजादीनाम्' इत्याडागमः 'आटश्च' इति वृद्धिः। भूतपूर्वोऽपि महाजनपरिग्रहः फलतीति भावः । 'पितामहः पितॄन्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । सा प्रातः सायमागत्य संध्यारूपेण पूज्यते ॥' इत्यादि भविष्यपुराणमत्र प्रमाणम् । अन्न तनुत्यागरूपका. रणसद्भावेऽपि प्रकृतित्यागरूपकार्यानुदयाद्विशेषोक्तिरलंकारः । 'तत्सामग्यामनुपत्तिविशेपोतिर्निगद्यते' इति लक्षणात् ॥ अथ सान्द्र सांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिदलद्धृदयतासृगनुलिप्तमिव ॥१५॥
अथेति ।। अथ संध्योदयानन्तरं सान्द्रा ये सांध्याः संध्यायां भवाः। 'संधिवेलातुनक्षत्रेभ्योऽण्' इत्यण्प्रत्ययः । तैः किरणैररुणितमरुणीकृतमत एव विरहाा विरहवेदनया दलतो दीर्यमाणाद्धृदयात्नुतेन क्षरितेनासृजा रुधिरेणानुलिप्तमिव स्थितमित्युत्प्रेक्षा । हरेर्विष्णोतिरायुधम् । चक्रमित्यर्थः । 'हेतिः शचे तु नृस्त्रियोः' इति केशवः । हरिहेतेहूतिरिव इतिराह्वा यस्य तद्धरिहेतिहूति । चक्राह्वमित्यर्थः । पततोः पत्रिणोः । 'पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः' इत्यमरः । मिथुभम् । चक्रवाकद्वन्द्वमित्यर्थः । पृथक् भेदेनोत्पपात उदडीयत ॥
शिशु० १९