________________
२१८
शिशुपालवधे निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥१६॥
निलय इति ॥ यदेव जले जन्म यस्य तजलजन्म जलजमेतदेव सततं श्रियो निलय आलय इति प्रथितं प्रसिद्धम् । 'निकाय्यनिलयालयाः' इत्यमरः । तदपि । नित्यवासभूतमपीत्यर्थः । तया श्रिया दिवसात्यये सायंकाले मुक्तम् । अहो देवानामपि कृतघ्नत्वं यदापदि महोपकारिणस्त्याग इत्याश्चर्यम् । अथवा चपला चापलबती स्त्री, कमला च । 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति विश्वः । सैव जन. अपलाजनः । 'जातेश्व' इति 'संज्ञापूरण्योश्च' इति चोभयत्रापि ध्वद्भावप्रतिषेधः । तं प्रति। तस्मिन्नित्यर्थः । अद इदं कृतघ्नत्वं चोद्यं चोदनीयं कथमित्याक्षेप्यं न । चपलत्वान्नाश्चर्यमेतदिति भावः । श्लेपमूलातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते बत मयाबलया । रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगंमि ॥१७॥
दिवस इति ॥ दिवसो वासरः । पुमानिति भावः । मित्रं सूर्य, सुहृदं चानु । मित्रेण सहेत्यर्थः । तृतीयार्थे' इत्यनोः कर्मप्रवचनीयत्वाद्वितीया । 'मित्रं सुहृदि मित्रोऽ' इति विश्वः । विलयं नाशमगमद्गतः । गमेलङि 'पुषादि-' इति च्लेरङादेशः। अबलया स्त्रिया मया रुचिभर्तुम्लेजोनिधेः प्रेमापदपतेश्चास्य सूर्यस्य विरहाधिगमात् । ल्यब्लोपे पञ्चमी । विरहज्ञानं प्राप्येत्यर्थः । इहारिमल्लोके किमास्यते किमर्थं स्थीयते। आसे वे लिट् । बतेति खेदे । इत्थमालोच्येवेत्यर्थः । अत एव उत्प्रेक्षा। संध्ययापि सपदि व्यगमि । व्यपागामीत्यर्थः । गमेः स्वार्थण्यन्ताद्भावे लुङ्। मित्त्वाद्रस्वः । 'अण्यन्तादुपधावृद्धिर्नायं स्याद्वेतु. मण्णिचि । तस्मात्स्वार्थे णिजुत्पाद्यो मितां ह्रस्वो यतो भवेत् ॥' विगमशब्दात तत्करोति-' इति ण्यन्ताल्लुङिति केचित् ॥
अथान्धकारं वर्णयतिपतिते पतङ्गमृगराजि निजप्रतिविम्बरोपित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ।। १८ ।।
पतित इति ।। पतङ्गोऽर्क एव मृगराट् सिंह इति रूपकसमासः। तस्मिन्निजेन प्रतिबिम्बेन रोषिते कोपित इवेत्युत्प्रेक्षा । स्वप्रतिविम्बे प्रतिसिंह भ्रमादिति भावः । अत एवाम्बुनिधौ पतिते सति । तजिघांसयेति भावः । भावलक्षणसप्तमी। अशाप्सु पतनानन्तरं नागयूथानि करिकुलानीव मलिनानि श्यामानि । 'उपमानानि सामान्यवचनैः' इति समासः । तमांसि जगल्लोकं परितः परितम्तरिरे आच्छादया. मासुः । स्तृणातेः कतरि लिट् । 'ऋतश्च संयोगादेर्गुणः' । अत्र यद्यपि नागयूथमलिनानीत्युक्त्यानुशासनसिद्धोपमानुसारात्पतङ्गमृगराजीत्यत्राप्युपमितसमासाश्रयणे १ 'व्यशमि' इति पाठः.