________________
सर्गः ।
२१९.
नोपमैवोचिता; तथापि तदुत्प्रेक्षायाः पतङ्गेऽसंभवात् सिंहे संभवाच्च रूपकमेव युक्तम् । तथा च रूपकानुप्राणितोत्प्रेक्षेयमुपमेति च संकरः । तत्रोत्प्रेक्षया भ्रान्तिमदुपमया रूपकं च व्यज्यत इत्यलंकारेणालंकारध्वनिरिति संक्षेपः ॥ व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि । दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ १९ ॥
नवमः
व्यसरदिति ॥ बहलपङ्करुचि सान्द्रकर्दमच्छवि दिवसावसाने दिनान्ते पटुनः समर्थस्य तमसः पटलं भूधरगुहानामन्तरतोऽभ्यन्तरादेत्यागत्य बहिर्गवाक्षप्रदेशे व्यसन्नु विस्तृतं वा, बहिर्बाह्यदेशादेत्य गुहा अधिकं भृशमभक्त व भजते स्म । किं प्रविष्टं वेत्यर्थः । भजतेर्लुङि तङ् 'झलो झलि' इति सकारलोपः । अत्र व्यापकत्वसादृश्यात्तमसोऽन्तर्बहिरपादानकत्व संदेहात्संदेहालंकारः ॥ किमलम्बताम्बरविलग्नवधः किमवर्धतोर्ध्वमवनीतलतः । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥२०॥ ॥ युग्मम् ॥
किमिति ॥ प्रचुभवहुलीभवत्तमः कर्तृ, किमम्बरविलग्नमाकाशस्थं सत् अधो भूतलं प्रति अलम्बतास्रंसत किमिव अवनीतलतो भूतलादूर्ध्वमुपरिष्टादवर्धत किम् । अथ दिग्भ्यस्तिर्यग्विससार विस्तृतमिति न निरधारि । अधोलम्बनादीनामन्यतमं नावधारितमित्यर्थः । धारयतेः कर्मणि लुङ् । अत्रापि पूर्ववत्संदेहालंकारः ॥ स्थगिताम्बर क्षितितले परितस्तिमिरे जनस्य दृशमन्धयति । दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ २१ ॥
अत्र
स्थगितेति ॥ स्थगिते तिरोहिते अम्बरक्षितितले येन तस्मिंस्तिमिरे परितो जनस्य दृशमन्धयति अन्धां कुर्वति सति सुदृशः स्त्रियोऽपूर्वं नूतनं रसाञ्जनं रसं रागमेवाञ्जनं सिद्धाञ्जनं च दधिरे दधुः । अतो हेतोः प्रियवेश्मवर्त्म ददृशुः । रसाञ्जनवाक्यार्थेन प्रियवेश्मदर्शनसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तेन रसः सिद्धाञ्जनमिवेत्युपमाध्वननालंकारेणालंकारध्वनिः ॥ अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसंतमसम् । सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ २२ ॥
अवधायेति ॥ सान्द्रतमं यत्संतमसं व्यापकं तमः । ' विष्वक्संतमसम् -' इत्यमरः । ‘अवसमन्धेभ्यस्तमसः' इति समासान्तोऽच् प्रत्ययः । तत्कर्तुं सुतनोः शुभाया दयितोपगमे प्रियाभिसरणे कार्यगुरुतां संभोगकार्यस्यावश्यकत्वमवधार्य निश्चित्य भयाय नाभवत् । स्तनौ कुचौ च तनुः कृशो यो रोमराजेः पन्थाः रोमराजिपथो मध्यभागस्तस्य वेपथवे कम्पाय | 'द्वितोऽथुच्' इत्यथुच् प्रत्ययः । नाभवतामिति विपरिणामेनानुषङ्गः । कार्यासक्तस्य तत्रापि कामुकस्य कुतो भयं क्लेश