________________
२२०
शिशुपालवधे
गणना चेति भावः । अत्र संतमसकुचयोः कामनिमित्ते भयकम्पानुदये कार्यगौर. वावधारणहेतुकत्वोत्प्रेक्षेयमनेन व्यज्यते ॥ ददृशेऽपि भास्कररुचाहि न यः स तमीं तमोभिरभिगम्य तताम् । द्युतिमाहीद्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ २३ ॥
ददृश इति ॥ यो ग्रहगणोऽहनि सवितुस्त्विषा न ददृशे नेक्षितः स ग्रहगणस्तमोभिस्ततां व्याप्तां ताम्यन्त्यस्यामिति तमी रात्रिम् । 'रजनी यामिनी तमी' इत्यमरः । अभिगम्य प्राप्य द्युतिमग्रहीत् । ग्रहे ङि 'ग्रहोऽलिटि' इति इटो दीर्घत्वेऽपि स्थानिवत्त्वेनेट्त्वात्सिचो लोपे सवर्णदीर्घः । तथा हि लघवोऽल्पाः । 'त्रिविष्टेऽल्पे लघुः' इत्यमरः । मलिनाश्रयतो निकृष्टाश्रयणात्प्रकटीभवन्ति ! अर्थान्तरन्यासः॥ अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः। समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ २४ ॥
अनुलेपनानीति ॥ तेन समयेन प्रदोषकालेन का, अनुलेपनानि कुङ्कुमचन्दनादीनि कुसुमानि माल्यादीनि तथा पतिषु कृतमन्यवः कृतकोपा अबलाः स्त्रियः तथा दीपशिखाः दीपज्वालाश्चेत्येतानि सर्वाणि चिरं सुप्तस्य पूर्व स्तब्धस्य मनोभवस्य कामस्य बोधनमुद्दीपनं यस्मिन्कर्मणि तद्यथा तथा । तत्पूर्वकमित्यर्थः । इतरथा अनुलेपनादिबोधकस्य वैफल्यासंभवाच्चेति भावः । समं सहैवाबोधिषत बोधितानि । बुध्यतेय॑न्तात्कर्मणि लुङ् । अत्र गन्धमाल्यसंपादनस्त्रीमनःप्रसाद दीपशिखोत्पादनानामबोधिषतेत्येकेन श्लिष्टशब्देनाभिधानाच्छेषमूलाभेदाध्यवसायरूपातिशयोक्तिरेका। तथा सुप्तमनोभवबोधनमिति क्रियाविशेषणसामर्थ्यात्सममिति यौगपद्याभिधानाञ्च मनोभवबोधनया कार्यकारणभूतयोस्तद्विपर्ययरूपापरा। तदुभयापेक्षया गन्धमाल्यादीनां प्रस्तुतानामवबोधनरूपैकधर्मसंबन्धात्तु. ल्ययोगिताभेदश्चेति संकरः ॥
अथ चन्द्रोदयवर्णनं प्रारभतेवसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥२५॥
वसुधेति ॥ अथ मनःप्रसादानन्तरं वसुधान्तेन भूप्रान्तेन निःसृतं बहिर्निर्गतमहिपतेः शेषस्य फणामणिसहस्राणां रुचां भासां पटलं स्तोम इवेत्युत्प्रेक्षा। शीतरुचश्चन्द्रस्य संबन्धि स्फुरदुल्लसदंशुजालं मघोन इमां माधवनी माहेन्द्रीम् । 'मघवा बहुलम्' इति विकल्पान्न आदेशः। ककुभं दिशं समस्कुरुताभूषयत् । प्राच्यां दिशि चन्द्रकिरणजालमलक्ष्यतेत्यर्थः । 'संपर्युपेभ्यः करोतौ भूषणे' इति संपूर्वस्य सुडागमः 'अडभ्यासव्यवायेऽपि' इति नियमात् ॥
१ दशाः' इति पाठः.