________________
नवमः सर्गः।
२२१ विशदप्रभापरिगतं विवभावुदयाचलव्यवहितेन्दुवपुः । मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः॥२६॥
विशदेति ॥ विशदप्रभापरिगतं शुभ्रकान्तिव्याप्तम् । उदय इति अचलः । उदयः पूर्वपर्वतः' इत्यमरः । तेन व्यवहितमिन्दुवपुरिन्दुमण्डलं यस्मिञ्छक्रदेशः प्राच्या मुखमग्रभागः वक्रं च प्रतीयते तदभेदेनोत्प्रेक्ष्यते । अप्रकाशदशनमलक्ष्यदन्तं सविलासहासं सविलासस्मितमिव शनकैर्मन्दं विबभौ ॥ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । अणमभ्यपद्यत जनैन मृपा गगनं गणाधिपतिमूर्तिरिति ॥ २७ ॥
कलयेति ॥ पुरः प्राच्यमग्रभागे च तुषारकिरणस्येन्दोः कलया किरणेन अन्यत्रोपलक्षितं परिमन्दमल्पं भिन्ना विदलितास्तिमिरौघा एव जटा यस्य तत् गगनं न मृषा सत्यम् । गणाधिपतेः प्रमथपतेरीश्वरस्य । 'गणाः प्रमथसंख्यौघाः' इनि वैजयन्ती। मूर्तिरिति जनैः क्षणमभ्यपद्यत । गगनमष्टानां शिवमूर्तीनामन्यतममिति यत्तत्सत्यमभिपन्नमित्यर्थः । कलामात्रोदितश्चन्द्र इति फलितोऽर्थः । रूपकालंकारः ॥ नवचन्द्रिकाकुसुमकीर्णतमःकवरीभृतो मलयजामिव ।। ददृशे ललाटतटहारि हरेहरितो मुखे तुहिनरश्मिदलम् ॥ २८ ॥
नवेति ॥ नवचन्द्रिकाभिरेव कुसुमैः कीर्णं तम एव कबरी केशपाशः । जानपद-' इत्यादिना ङीप् । तां बिभर्तीति तद्भुतः हरेः शक्रस्य हरितो दिशो मुखेऽग्रभाग एव मुखं वक्रमिति श्लिष्टरूपकम् । तस्यैव ललाटतटवद्धारि मनोहरं हिमरश्मिदलमिन्दुखण्डं मलयजेन चन्दनेनामिव ददृशे । धावल्यादिति भावः । अत्र नवचन्द्रिकाकुसुमेत्यायेकदेशविवर्तिरूपकमहिम्ना हरिवधूत्वप्रतीतौ तत्सहकृतश्लेपावगतवत्राभेदाध्यवसितमुखसंबन्धप्रसादासादितललाटतटोपमोज्जीवनेनेन्दुदलस्यानुपात्तनिजधावल्यगुणनिमित्तमलयजाईत्वगुणस्वरूपोत्प्रेक्षेति संकरः ।। प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः। दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥२९॥
प्रथममिति ॥ हिमदीधितिश्चन्द्रः प्रथमं कला कलामात्रमभवत् । 'कला नु पोडशो भागः' इत्यमरः । अथार्धमात्रमभवत् । अथो अनन्तरम् । 'अथो अथ' इत्यमरः । उदितः साकल्यादुत्थितः सन् अमहान्महान्संपद्यमानोऽभून्महदभूत् । अभूततद्भावे च्विः । हलन्तत्वान्न कार्यान्तरप्राप्तिः । तथा हि द्युतिशालिनस्तेजिष्टा अपि क्रमशः क्रमेणैवोपचयं वृद्धिं दधति, सहसा झटिति तु न दधति ध्रुवम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ उदमजि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनातिना ॥३०॥