________________
૨૨૨
शिशुपालवधे
उदमजीति ॥ अपनिद्रपाण्डुरसरोजरुचा विकसितसितपुण्डरीकश्रिया तुहिनातिना चन्द्रेण प्रथमं हरेः पूर्वमेव प्रबुद्धायाः । अन्यथा तन्मुखं न दृश्यतेति भावः । नदराजसुतायाः सिन्धुकन्यायाः श्रियो वदनेन्दुनेवेत्युत्प्रेक्षा । कैटभजितो हरेः शयनात् । समुद्रादित्यर्थः । उत्तोत्प्रेक्षामंभावनार्थमित्थं निर्देशः । उदमजि उन्मन्नम् । उत्थितमित्यर्थः ॥ अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घन्य शशिदाशरथिः । परिवारितः परित ऋक्षगणेस्तिमिरौघराक्षसकुलं विभिदे ।।३१।।
अथेति ॥ अथोदयानन्तरं लक्ष्मणा लाञ्छनेन, लक्ष्मणन सौमित्रिणा वनगतमनुसृतं कान्तं वपुर्यस्य सः । लक्ष्मणानुगतकान्तवपुरिति शब्दश्लेपः । वस्तुतः शब्दभेदेनार्थद्वयाभावेऽपि जतुकाष्टवदेकशब्दप्रतीतेः । परितः समन्तादृक्षगणैर्नक्षत्रगणैः, जाम्बवदादिभल्लूकसमूहै श्वेत्यर्थश्लेषः । एकनालावलम्बिफलद्धयवदरखण्डैकशब्दादर्थद्वयप्रतीतेः । 'नक्षत्रमृशं भं तारा' इति । 'ऋक्षाच्छमल्लभल्लका' इति चामरः। परिवारितः शश्येव दाशरथिदशरथपुत्रो रामः । अत इन। जलधिं विलङ्घय तिमिरोध एव राक्षसकुलं तत् बिभिदे विभेदयामास । भिदेः कर्तरि लिट् । पसंकीर्णसमस्तवस्नुवर्तिमावयवरूपकालंकारः ॥ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिबोइपतेः। घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ||३||
उपजीवतीति ॥ अम्भसां निधिः समुद्रो वणिगिव सततं परिमुतां सौन्दर्यम् , अन्यत्र मौढ्यम् । व्यवहारानभिज्ञतामिति यावत् । 'मुग्धः सुन्दरमूढयोः' इति विश्वः । दधतो दधानस्य घनानां वीथिर्घनवीथिरन्तरिक्षं सा वीथि: पण्यवीथिरिवेत्युपमितसमासः । तामवतीर्णवतः प्रविष्टवत उद्धपतेर्नक्षत्रनाथस्य कस्यचिद्धनिकवणिजश्च कलाः पोडशांशान्मूलधनवृद्धीश्च । 'कला स्यान्मूलरैवृद्धी शिल्पादावंशमात्रके । पोडशांशेऽपि चन्द्रस्य' इति विश्वः । उपचयारा स्वाम्बुवृद्धये समृद्धये चोपजीवति स्म सेवते स्म । अन्यत्र लभते म्मेत्यर्थः । यथा क्रियादिकुशलो ह्यकुलान्महान्तं लाभमाप्नोति तद्वदिति भावः । श्लेषसंकीणे. यमुपमा । उपमासंकीर्णः श्लेष इत्यन्ये ॥ रजनीमवाप्य रुचमाप शशी सपदि व्यभूपयदसावपि ताम् । अविलम्बितक्रममहो महतामितरेतरोपकृतिमचरितम् ।। ३३ ।।
रजनीमिति ॥ शशी रजनीमवाप्य रुचं शोभामाप । असौ शश्यपि तां रजनी सपदि व्यभूषयत् । महतां सतां चरितमविलम्बितक्रमं यथा तथा इतरे. तरोपकृतिमत् अन्योन्योपकारवत् अहो इत्यविलम्बादाश्चर्यम् । अत्र रजनीशशिनोर्मिथःशोभाकरत्वादन्योन्यालंकारः । तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्' इति लक्षणात् । तत्समर्थकश्वायमर्थान्तरन्यास इत्यङ्गाङ्गिभावेन संकरः ।।