________________
नवमः सर्गः।
२२३ दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः। ... मुहुरामृशन्मृगधरोऽग्रकरैरुदशिश्वसत्कुमुदिनीवनिताम् ॥ ३४ ॥
दिवसमिति ॥ मृगधरश्चन्द्रो दिवसम् । दिवस इत्यर्थः । कालाध्वनोरत्यन्तसंयोगे द्वितीया । भृशमुष्णरुचेरुष्णांशोः पादेन करेण, अडिणा च । 'पादा रश्म्यडिन्तुर्यांशाः' इत्यमरः । हतां ताडिताम् । अत एवानवरतैरविच्छिन्नैरलिरुतै रुदती क्रन्दन्तीमिव स्थितां कुमुदिन्येव वनिता ताम् । अग्राणि च ते कराश्च इत्य. भेदेन समास इति वामनः । तैरग्रकरैरांशुभिरग्रहस्तैर्मुहुरामृशन्स्पृशन् उदशिश्वसदुच्छ्वासयति स्म । परावमृष्टानां पतिभिराश्वासनीयत्वादिति भावः । श्वसधातोः ‘णौ चङयुपधाया ह्रस्वः' । अत्र पाद एव पादस्तेन हतामिति हननसाधितश्लिष्टरूपकोत्थापितेयमलिरुतैरिति व्यधिकरणपरिणामगर्भा रोदनोत्प्रेक्षति विजातीयसंकरः । तथा करैरेव करैः कुमुदिनीवनितेति श्लिष्टाश्लिष्टरूपणान्मृगधरे वल्लभत्वप्रतीतेरेकदेशवर्तिरूपकं तत्सापेक्षेयमुदशिश्वसदिति गम्योत्प्रेक्षेत्यपरो विजातीयसंकरः । रोदनोत्प्रेक्षासापेक्षेयमुच्छासनोत्प्रेक्षेति सजातीयसंकरोऽपि ॥ प्रतिकामिनीति ददृशुश्चकिताः सरजन्मधर्मपयसोपचिताम् । सुदृशोऽभिभ शशिरश्मिगलज्जलविन्दुमिन्दुमणिदारुवधूम् ॥३५॥
प्रतीति ॥ सुदृशोऽङ्गनाः अभिभर्तृ भर्तारमभि । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । शशिरश्मिभिर्गलन्तः स्रवन्तो जलबिन्दवो यस्यास्तामिन्दुमणिश्चन्द्रकान्तशिला सैव दारु तस्य वधूस्तन्मयी वधूः स्त्रीप्रतिमां तां स्मराजन्म यस्य तेन स्मरजन्मना धर्मपयसा स्खेदाम्बुनोपचितां व्याप्ताम् । स्विन्नगात्रामित्यर्थः । प्रतिकूला कामिनी प्रतिकामिनी। सपत्नीति भ्रान्त्येति शेषः । चकिता भीता ददृशुः । अथ चन्द्रशिलापुत्रिकायां सादृश्यनिबन्धनया प्रतिकामिनीभ्रान्त्या भ्रान्तिमदलंकारः ॥ अमृतद्रवैर्विदधदजदृशामपमार्गमोपधिपतिः स्म करैः। परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥३६॥
अमृतेति ॥ ओषधिपतिश्चन्द्र एवौषधिपतिवैद्य इति श्लिष्टरूपकम् । अमृ. तमेवामृतमौषधविशेषः । तेन वैराः करैः किरणैरेव करैर्हस्तरजदृशामपमार्गमङ्गपरिमार्जनं विदधत् कुर्वन् परितो विसर्पि सर्वव्यापि भृशं परितापि संता. पकारि मानः कोप एव विषं तत् वपुषः शरीरादवतारयति स्म अवारोपितवान् । अत्र सावयवरूपकेणौषधलिप्तजाङ्गुलिकहस्तसंस्पर्शाद्विषमिव निशाकरकरस्पर्शादेवाङ्गनानां वपुषि रोषो न स्पृष्ट इत्युपमा व्यज्यते ॥ अमलात्मसु प्रतिफलनभितस्तरुणीकपोलफलकेषु मुहुः। विससार सान्द्रतरमिन्दुरुचामधिकाव भानसितदिशां निकरः॥३७॥
अमलेति ॥ अधिकमवभासिताः प्रकाशिता दिशो याभिस्तासामिन्दुरुचां